एवं सूचीकटाहन्यायेनाल्पमधिभूतादिविचारं ..
ज्ञाधिकरणम्
तात्पर्यचन्द्रिका
जीवस्य पराधीनविशेषावाप्तिरूपोत्पत्तिप्रतिपादनम्
ॐ ज्ञोऽत एव ॐ ।।
एवं सूचीकटाहन्यायेनाल्पमधिभूतादिविचारं कृत्वेदानीमापादसमाप्ति बहुर्जीवविचारः क्रियत इति सङ्गतिमाह ।। एवमिति ।। अत्रोक्तं ब्रह्मणस्सर्वस्रष्टृत्वं जीवानुत्पत्तिश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं ‘‘सर्व एत आत्मानो व्युच्चरन्ती’’ति जीवोत्पत्तिश्रुतिः कारणाभावादियुक्तयनुगृहीतया जीवनित्यत्वश्रुत्या बाधितोत नेति । तदर्थमुत्पत्त्यनुत्पत्तिश्रुती किमेकरूपोत्पत्तिविषये किं वोत्पत्तिश्रुतिः पराधीनविशेषावाप्तिपरा,अनुत्पत्तिश्रुतिस्तुस्वरूपोत्पत्तिनिषेधपरेति । पूर्वपक्षे जन्मादिसूत्राक्षेपाय भाष्योक्तनित्यत्वश्रुतेरनित्यत्वश्रुतितः प्राबल्यार्थं न्यायविवरणोक्तां पूर्वपक्षयुक्तिमाह ।। अनादित्वादिति ।। उत्पत्तेरेवाभावप्रसङ्गादिति ।। श्रौतप्रागभावशून्यत्वं जीवेन चेद्घटादेरप्युत्पत्तिर्न स्यात् । प्रमितत्वाविशेषादित्यर्थः । यद्वा प्रागभावशून्यत्वमनुत्पत्तितोऽन्यन्न चेत्प्रागभाव उत्पत्तितोऽन्यो न स्यात् । तथा च प्रागभावहीनस्यात्मलाभरूपोत्पत्तिरेव न स्यादित्यर्थः ।। एवं भूतानामपीति ।। स्वरूपोत्पत्तिमत्त्वेनाश्रुतानां प्रत्युतानुत्पत्तिमत्त्वेन श्रुतानामपीत्यर्थः ।। असम्प्रतिपत्तेरिति ।। उत्पत्तिमतां भूताकाशादीनां कारणशून्यत्वे कारणशून्यानां चाव्याकृताकाशादीनामुत्पत्तिमत्त्वेऽसम्प्रतिपत्तेरित्यर्थः । ननु जीवस्य पराधीनविशेषावाप्तिरूपोत्पत्तिर्वियदधिकरणन्यायसिद्धा । स्वरूपेणोत्पत्तिस्तु नेष्टेति व्यर्थमिदमिति चेन्न । उत्पत्तिश्रुतिः पराधीनविशेषावाप्तिरूपोत्पत्तिपरा चेदनुत्पत्तिश्रुतिरपि ब्रह्मणीव जीववियदादावपि तदभावपरा । अनेकार्थत्वस्यान्याय्यत्वादित्यतीतसर्वाक्षेपेण पूर्वपक्षिते ब्रह्मणि पराधीनविशेषावाप्तिरूपोत्पत्तिश्रुतिर्नास्ति । जीवादौ त्वस्तीति तदविरोधायानेकार्थत्वं न्याय्यमितीह ‘‘युक्तेश्चे’’ति सूत्र एवोक्तेः । अत एव ‘‘असम्प्रतिपत्ते’’रिति टीकायां सर्वमाक्षिप्तम् । इह जीवमात्र उक्ता देहयोगरूपोत्पत्तिः ‘‘एतेने’’त्यत्र मुख्यप्राणे विशेषयुक्तयाऽऽक्षिप्य समाहितेति न तेनास्य गतार्थता । जीवार्थं प्रकरणान्तरस्य कृतत्वादुत्पत्तिश्रुत्यविरोधोऽप्ययं लयश्रुत्यविरोधानंतरमुक्तः ।
अन्ये तु । आत्मनोज्ञानमागन्तुकम् । इन्द्रियसम्प्रयोगादिहेत्वंतरानुविधानात् । घटस्य लौहित्यवदिति प्राप्ते आत्माज्ञानरूपः । अत एव अनुत्पत्तेरेव । स्वयं ज्योतिरित्यादिश्रुतेश्च । इन्द्रियसम्प्रयोगादिस्तु विषयविशेषपरिच्छेदार्थ इति सिद्धान्त इत्याहुः । तन्न । युक्तयविरोधकीर्तनस्य पादासङ्गतेः । सौत्रेण ज्ञातृवाचिनाऽज्ञशब्देन ज्ञानत्वानुक्तेश्च । अन्तःकरणावच्छिन्नस्य ज्ञातृत्वेऽपि तस्य जन्यत्वेनानुत्पत्ति ज्ञत्वयोरैकाधिकरण्यासिद्धेः । अनुत्पत्तिमात्रेण ज्ञत्वासिद्धेश्च । ज्ञानरूपब्रह्माभेदस्य चाप्रकृतत्वेन सौत्रेणातः शब्देनानुक्तेः ।। ज्ञाधिकरणम् ।। ११ ।।
प्रकाशिका
विषयादिपरटीकां विवृण्वन् पूर्वोत्तरपक्षटीकासूचितां चिन्तापरंपरामाह ।। अत्रेति ।। उक्तं पूर्वोक्तमित्यर्थः । अत्र टीकायां सूत्राद्यनुरोधेन जीवस्य धर्मिताप्रदर्शनेऽपि फलस्य पादार्थस्याध्यायार्थस्य च द्योतनाय ‘‘ब्रह्मणस्स्रष्टृत्व’’मित्यादिकमुक्तम् । एवं पूर्वत्रोत्तरत्र च ध्येयम् । टीकाक्षरार्थमाह ।। उत्पत्तेरिति ।। प्रागभावशून्यत्वं जीवे इति पदच्छेदः ।। प्रागभावहीनस्येति ।। उत्पत्तेरेव प्रागभावत्वे घटादेरुत्पत्तितः पूर्वं प्रागभावाभावादिति भावः । ‘‘न चाकाशादीना’’मित्यादिटीकातात्पर्यं शङ्कोत्तराभ्यां व्यनक्ति ।। नन्विति ।। अनुत्पत्तिश्रुतिः नित्यो नित्यानामित्यादि श्रुतिरपीत्यर्थः । परमते ‘‘अन्तरे’’त्यत्रोक्तोदोषःस्वमतेनेत्याह ।। जीवार्थमिति ।। अन्ये त्विति ।। तन्मते ‘‘ज्ञोत एवे’’त्येकं सूत्रमेकमधिकरणम् । वैशेषिकप्रक्रियया जीवस्य जडरूपस्यागन्तुकज्ञानवत्त्वनिरासकम् । युक्तेश्चेति सूत्रं मतद्वयेऽपि नास्त्येव । तत्र व्यावर्त्यशङ्कापूर्वं सूत्रार्थमनूद्य निराह ।। आत्मन इति ।। परिच्छेदार्थ इति ।। वृत्त्युपजननार्थ इत्यर्थः ।। युक्तयविरोधेति ।। एतच्च यथा श्रुतभाष्यभामत्यभिप्रायेण । कल्पतरौ तु ‘‘आत्मैवास्य ज्योतिरित्यादिश्रुतीनां पश्यंश्चक्षुः ृण्वन् श्रोत्रमित्यादिभिर्जीवस्यागन्तुकज्ञानवादिनीभिर्विरोधः परिह्रियत’’ इत्युक्तेः । यद्वा ‘‘पश्य’’न्नित्यादिश्रुतेरागन्तुकज्ञानवत्त्वाप्रतीतेरिति भावः । तत्पक्षे दोषान्तरमाह ।। सौत्रेणेति ।। ज्ञा अवबोधन इत्यस्मात् ‘‘इगुपधज्ञाप्रीकिरः क’’ इति कर्तरि कप्रत्ययान्तत्वेनानुशिष्टत्वात्, ‘‘धीरो मनीषीज्ञः प्राज्ञ’’ इत्यमरोक्तेश्चेति भावः । ननु परभाष्ये ‘‘अत एवे’’ति सौत्रं पदमनूद्य ‘‘यस्मान्नोत्पद्यते परमेव ब्रह्मा विकृतमुपाधिसम्पर्काज्जीवभावेनावतिष्ठत’’ इत्याद्युक्तमित्यत आह ।। ज्ञानरूपेति ।। मतान्तरं त्वग्रे निरसिष्यते ।।
चन्द्रिकाविवृतिः
ॐ ज्ञोत एव ॐ ।। अल्पमधिभूतेति ।। अनेनाल्पविचारानन्तरं बहुविचारस्यावसरसङ्गतिः सूचिता भवति ।। एकरूपोत्पत्तीति ।। उत्पत्तिश्रुतेर्यादृशोत्पत्तिविषयत्वमनुत्पत्तिश्रुतेरपि तन्निषेधपरत्वे विरोधादप्रामाण्यमिति भावः ।। जन्मादिसूत्राक्षेपायेति ।। अन्यतराप्रामाण्यनिर्धारणेन पूर्वपक्षे साक्षाज्जन्मादिसूत्रोक्तसर्वस्रष्टृत्त्वाक्षेपालाभात्तल्लाभाय नित्यत्वश्रुतेः प्राबल्यं व्युत्पाद्यत इत्यर्थः ।। न च तत्र विवाद इति पूर्ववाक्यस्य प्रागभावशून्यत्वेऽपि साध्याद्भेदे विवाद इत्यर्थमङ्गीकृत्य उत्पत्तेरेवाभाव-प्रसङ्गादितिवाक्यस्यार्थान्तरमाह ।। यद्वेति ।। तथा चेति ।। घटोत्पत्तेः पूर्वं घटोत्पत्य-भावादुत्पत्यात्मकप्रागभावो नास्तीत्यागतम् । तथा चासतः सत्तासमवायरूपात्मलाभो न स्यादित्यर्थः । यत्पदेनाव्याकृताकाशभूताकाशयोरूभयोरपि ग्रहणं मत्त्वा क्वचित्साधनासम्प्रतिपत्तिः क्वचित्साध्यसम्प्रति-पत्तिरित्यर्थमभिप्रेत्याह ।। उत्पत्तिमतामिति ।। न च तत्र वियदुत्पत्तेरेवाभावप्रसङ्गादिति बाह्यस्यायमर्थः । यदि जीवस्य प्रागभावशून्यत्त्वे विवादात् प्रकृत्यादीनामनित्यत्त्वापत्या उपादानाभावात् । अथवा तत्र प्रागभावेऽपि विवादः न चोत्पत्तेरेवाभावप्रसङ्गात्कारणाभावादिति केचित् । तन्मन्दम् । पूर्वं प्रागभावशून्यत्त्वस्यैव प्रकृतत्त्वेन तत्रेत्यनेन तस्यैव परामर्शस्यौचित्यादिति ।। तदभावपरा पराधीनविशेषावाप्त्यभावपरा । युक्तेश्चेति सूत्र इति । इदं चैतत्सूत्रस्य स्वयं वर्णकान्तरमभिप्रेत्योक्तम् । यथाश्रुतभाष्यटीकाभ्यामेवार्थालाभादिति । अनुत्पत्तेरेवेति ।। यथा जीवस्य न नाशः अनुत्पत्तेः, अनुत्पत्तिमद्ब्रह्माभेदात्तथाऽनुत्पत्तेरेव हेतोः ज्ञानादिरूपब्रह्माभेदाज्जीवोऽपि ज्ञानरूप एवेत्यर्थः ।। छ ।।