पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु ।। अव्यक्तजीवादिशब्दमुख्यार्थो न ब्रह्म । अव्यक्तादिशब्दानां प्रधानादौ प्रसिद्धेः । अव्यक्ते पञ्चम्युक्तेन परत्वावधित्वेनार्थादाक्षिप्तस्यावरत्वस्य जीवे श्रुतस्य दुःखित्वादेश्च ब्रह्मणि सर्वप्रमाणविरुद्धत्वात् । पूर्वाधिकरणोक्तसर्वाधिपतित्वादिविरुद्धत्वाच्च । तदुक्तं न्यायविवरणे ‘‘सर्वमानविरोध’’ इति । ‘‘अक्षरात् परतःपर’’ इत्यत्र तु न पञ्चम्यंतोऽक्षरशब्दो ब्रह्मणि । किन्तु ‘‘तदक्षरमधिगम्यत’’ इति प्रथमांतः । नन्ववधित्वादिकं प्रत्याश्रयत्वमेव न पञ्चम्यादि निमित्तम् । किन्तु तत्प्रति स्वातन्त्र्यमपि । भृत्यगतजयस्य राजाधीनत्वमात्रेण राजाजयीति प्रयोगात् । तथाच ब्रह्मण्यवधित्वादिकं प्रति स्वातन्त्र्यस्य सत्त्वादवरादिशब्दो युक्तः । एतेन यत्रावरादिशब्दोऽस्ति तत्रास्तु तस्य स्वातन्त्र्याभिप्रायत्वम् । इह तु पञ्चम्युक्तपरत्वावधित्वेनाक्षिप्तमवरत्वं न तदभिप्रायम् । न हि शब्द इवानुपपत्तिरपि व्याख्यानार्हेति निरस्तम् । परत्वावधित्वं प्रत्याश्रयत्वस्यैवार्थादवरत्वाक्षेपकत्वेन तत्प्रति स्वातन्त्र्यस्य तदनाक्षेपकत्वादिति चेन्न । भृत्यदैर्ध्येण ह्रस्वेऽपि राज्ञि दीर्घशब्दस्य राजाधीनेन शत्रुगतदुःखेन राज्ञि दुःखिशब्दस्य राजाधीनभृत्यगतबन्धादिना राज्ञि बद्धादिशब्दस्य चापातात् । तेषाममङ्गलत्वाद्राज्ञि प्रयोगो न चेद्ब्रह्मण्यपि सनस्यादिति ।

प्रकाशिका

‘‘प्रधानाद्येवाव्यक्तादिपदवाच्य’’मित्यादिटीकां विवृण्वन्नाद्यचिन्तास्थाद्यकोटिमाह ।। अव्यक्तेति ।। पञ्चम्यंताव्यक्तशब्ददुःखिपदसमानाधिकरणजीवशब्दबद्धादि शब्दमुख्यार्थ इत्यर्थः । द्वितीयचिन्तास्थाद्यकोटिं वक्तुं टीकोक्तहेतुमाह ।। अव्यक्तादीति ।। ‘‘न च तेषां विष्णावपि सावकाशतेति वाच्य’’मिति टीकास्थशङ्कां हृदि कृत्वा ‘‘तत्राव्यक्तस्य पुरुषावरत्वश्रवणा’’दित्यादिटीकां तन्निवर्तनपरां विवृण्वन् द्वितीयचिन्तास्थाद्यकोटिं हेतूक्तया व्यनक्ति ।। अव्यक्त इति ।। ‘‘न तत्समश्चाभ्यधिकश्च दृश्यत इत्यादिप्रमाणविरोधा’’दिति टीकार्थः ।। सर्वप्रमाणेति ।। टीकास्थादिपदेनैव ‘‘सर्वाधिपति’’ रित्यादिवाक्यस्यापि ग्रह इति भावेनाह ।। पूर्वेति ।। भाष्यानुक्तस्यापि टीकायामुक्तौ मूलमाह ।। तदुक्तमिति ।। अव्यक्तादिशब्दानां परमात्मविषयत्वाङ्गीकार इति न्यायविवरणपूर्वशेषः । अदृश्यत्वनयेन गतार्थत्वभ्रांतिं निराह ।। अक्षरात्परत इति ।। इत्यत्र त्वित्युक्तया ‘‘अक्षरात्सम्भवतीह विश्व’’मित्यत्र पञ्चम्यंतोऽक्षरशब्दो ब्रह्मणीति सूचयति । तथैव वाच्ये इति प्रथमांत इत्युक्तिस्तु प्राचीनं पञ्चम्यंतं परविद्या विषयत्वरूपब्रह्मलिङ्गोपेतं उत्तरं पञ्चम्यंताक्षरपदं परत्वावधित्वाख्याब्रह्मलिङ्गोपेतमिति सूचनाय । एवं यथाटीकं न्यायविवरणोक्तमुक्त्वा

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।

कारणं संशयस्य स्यादिति नैव प्रयुज्यते ।।

इति तदधीनत्वन्यायव्यभिचारनिरासपरानुव्याख्यानव्यावर्त्यरूपं तृतीयचिन्तास्थाद्यकोटौ हेतुभूतं पूर्वपक्षं वक्तुं सिद्धांतिशङ्कामाह ।। नन्वित्यादिना इति चेदित्यंतेन ।। स्यादेषा व्याख्या यत्र शब्दादवरत्वादिप्रतीतिः । यत्र पुनः ‘‘अव्यक्तात्पुरुषःपर’’ इत्यादावर्थादवरत्वादिप्राप्तिस्तत्र कथम् । न हि शब्दवदुपपत्तिर्व्याख्यानमर्हती’’ति सुधोक्तामाशङ्कामनूद्य तत्रोक्तसमाधिना निराह ।। एतेनेति ।। परत्वावधित्वमिति ।। परत्वं प्रत्यवधित्वं यन्निष्ठं तस्यावरत्वमर्थादापद्यताम् । परत्वावधित्वं प्रति परगतं यत्स्वातंत्र्यं तस्यावरत्वं प्रत्यपि तस्य स्वातन्त्र्याक्षेपकत्वमेव । नत्ववरत्वाक्षेपकत्वमित्यर्थः । अवधित्वदुःखित्वादिकं प्रत्याश्रयत्वमेव पञ्चमी दुःख्यादिशब्दप्रवृत्तिनिमित्तमित्येवंरूपमुक्तानुव्याख्यानव्यावर्त्यचोद्यमुक्तशङ्कोपमर्दकतयाह ।। भृत्येति ।।

चन्द्रिकाबिन्दुः

पूर्वाधिकरणोक्तेति ।। अनेन पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तिरिति दर्शितः । तत्प्रति पञ्चम्यर्थभूतावधित्वं प्रति । एतेन अवधित्वं प्रति स्वातन्त्र्यस्यापि पञ्चम्यर्थकथनेन । तत्प्रतीति ।। अवधित्वं प्रति स्वातन्त्र्यस्य अवरत्वनियामकत्वाक्षेपकत्वमेव न त्ववरत्वाक्षेपकत्वमिति भावः ।

पाण्डुरङ्गि

नन्वक्षराधिकरणेऽक्षरशब्दस्य ब्रह्मपरत्वेन निर्णीतत्वात्तत्रैव पञ्चम्युक्तावधित्वस्य ब्रह्मणि समर्थितत्वेन तन्न्यायेनाव्यक्तादिति पञ्चम्युक्तावधित्वमपि ब्रह्मणि सम्भवत्येवेति कथं तद्बाधकमित्यत आह ।। अक्षरादिति ।। ननु भृत्यगतदैर्ध्येण राज्ञः स्वातन्त्र्यमिति कथं तत्प्रयोगापादनमित्यतो दृष्टान्तोत्तरमाह ।। राजाधीनेनेति ।।