अन्येतु

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु । वेदान्तेषु क्वचिदाकाशादिका सृष्टिरुच्यते ‘‘आत्मन आकाशः सम्भूत’’ इति । क्वचित्तेजआदिका ‘‘तत्तेजोसृजते’’ति । तथाच वेदान्तानां विरोध इति प्राप्ते कार्येष्वाकाशादिष्वेव सृष्टिक्रमादिद्वारकं विगानम् । कारणत्वे तु न विगानम् । कुतः । यथा व्यपदिष्टोक्तेः । यथा ह्येकस्मिन् वेदान्ते चेतनः कारणत्वेन व्यपदिष्टः ‘‘सोकामयत बहुःस्या’’मिति तथैव ‘‘तदैक्षत तत्तेजोऽसृजते’’ति वेदान्तांतरेष्वप्युक्त इति सिद्धान्तः । एवं च सूत्रे कारणत्वेनेत्येतद्विच्छिद्य सप्तम्यंतत्वेन अविच्छिद्य तृतीयांतत्वेन च व्याख्येयमित्याहुः । तन्न । सौत्रचशब्दे तुशब्दार्थत्वस्य कारणत्वेनेत्यस्य विच्छेदाविच्छेदाभ्यामुभयपरस्य च क्लिष्टत्वात् । आकाशादिष्वित्यस्यान्वयार्थं सृष्टिक्रमादिद्वारकविगानशब्दस्याप्यध्याहार्यत्वाच्च ।

अध्यायसङ्गतेः पादसङ्गतेरप्यभावतः ।

पूर्वपक्षानुत्थितेश्च सिद्धान्तस्याप्ययोगतः ।। १ ।।

विरोधनिरासोहि द्वितीय एव सङ्गतः । ननु तत्र वेदानां मानान्तराविरोधो व्युत्पाद्यः । अत्र तु परस्परमिति चेन्न । अविरोधे ह्यवान्तरभेदस्तस्मिन्नध्याये पादादिभेदे हेतुर्न तु तस्माद्बहिर्भावे । अन्यथा समन्वयादिभेदाद्वितीयादौ व्युत्पाद्याः स्युः । किं च द्वितीयेऽपि ‘‘न वियदश्रुते’’ रित्यादिपादद्वयं वेदान्तानां परस्पराविरोधपरमिति तेऽपि मतम् । ननु मानान्तराविरोध एव द्वितीये व्युत्पाद्यः । परस्पराविरोधस्तु प्रासङ्गिकः । विप्रतिषेधात्परपक्षाणामप्रामाण्य उक्ते तर्हि वेदान्तानामपि विप्रतिषेधात्तदिति शङ्कायां तन्निरासादिति चेन्न । पादद्वयव्युत्पाद्यत्वादविरोधत्वोपहितत्वाच्च साक्षात्सङ्गतिसम्भवे प्रासङ्गिकत्वायोगात् । अन्यथा वैपरीत्यापातात् । समं हि मानान्तर विरोधपरस्परविरोधयोरप्रामाण्यादिपर्यन्तत्वम् । किं चायमप्यविरोधः प्रसङ्गात्तत्रैवोच्यताम् । तस्मान्नाध्यायसङ्गतिः । नापि पादसङ्गतिः । पादार्थस्य प्रधानाशाब्दत्वस्येहाव्युत्पादनात् । किं चात्र न पूर्वपक्षस्योत्थानम् । ‘‘तत्तेजोऽसृजते’’त्यत्र ह्याकाशसृष्टिमनुक्त्वा तेजस्सृष्टिमात्रमुक्तम् । न त्वाकाशात्पूर्वं तत्सृष्टिः । येन ‘‘आत्मन आकाशः सम्भूत’’ इत्येतद्विरोधः शङ्क्येत । न हि तत्रोक्तानुक्तिमात्रेण तद्विरोधः । यद्यपि ‘‘तत्तेजोऽसृजत वायोरग्नि’’रित्यनयोर्विरोधो भाति । तथापि न तस्येह सिद्धान्ते निरासः । किन्तु वियत्पादे ‘‘तेजोतस्तथा ह्याहे’’त्यत्रैवेति त्वन्मतम् । सिद्धान्तोऽप्ययुक्तः । ‘‘सत्यं ज्ञानमनन्तं ब्रह्मे’’ति ‘‘एकमेवाद्वितीय’’मिति च प्रकृते शुद्धे ब्रह्मणि कामयितृत्वादेर्विरोधात् । ‘‘सदेव सोम्येदमग्र आसीत् असद्वा इदमग्र आसी’’दित्यादौ कारणेऽपि विगानदर्शनात् । शङ्कितस्य कार्ये विगानस्यानुद्धृतत्वाच्च । यदि च कल्पिते कार्ये श्रुतेरतात्पर्यादनुद्धारस्तर्हि वियत्पादादौ तदुद्धारोऽनुपपन्नः स्यात् । कामयितृत्वादिविशिष्टस्यापि कल्पितत्वेन तदविरोधोऽप्यत्र न व्युत्पाद्यः स्यात् । केचित्तु । ‘‘तद्धेदं तर्ह्यव्याकृतमासीत् असद्वा इदमग्र आसी’’दित्यादिवाक्यानां प्रधान परत्वे प्राप्ते ब्रह्मपरत्वेन सिद्धान्त इत्याहुः । तन्न । पूर्वपक्षानुत्थानात् । तथा हि । अव्याकृतासदादिशब्दानां न तावत्प्रधाने रूढिरस्ति । योगो गौणी वा वृत्तिस्तु प्रधान इव ब्रह्मण्यपि सम्भवति । न च निरवकाशं प्रधानलिङ्गादिकमस्ति । प्रत्युत ईक्षत्यधिकरणन्यायेन चेतनस्यैव कारणत्वनिर्णयादसदादिशब्दानां चेतनपरतैवन्याय्या । पादासङ्गतिस्तु स्फुटैव । ‘‘तध्द्येदं तर्ह्यव्याकृतमासी’’दित्यादिवाक्यस्य ‘‘महतः परमव्यक्त’’मित्यादिवत्प्रधानप्रतिपाद नच्छायानुसारित्वाभावात् । टीकायां ‘‘वाक्ययोजनानुपपत्ते’’रित्यस्यायमर्थः । ब्रह्मण एवात्मकाशादिशब्दार्थत्वे तस्यैकत्वेन क्रमाभावात् ‘‘आत्मन आकाशः आकाशाद्वायु’’रित्यादिक्रमप्रतिपादकवाक्ययोजनानुपपत्तेरिति ।।छ।। आकाशाधिकरणम् ।। ४ ।।

प्रकाशिका

मतद्वयेऽपि ‘‘कारणत्वेने’’त्यादिसूत्रद्वयमेकमधिकरणम् । तत्र कारणवाक्यानि ब्रह्मणि प्रमाणं न वेति कल्पतरूक्तदिशा सन्देहे

वाक्यानां कारणे कार्ये परस्परविरोधतः ।

समन्वयो जगद्योनौ न सिध्यति परात्मनि ।।

इति भामत्युक्तं हृदि कृत्वा प्रथमसूत्रनिरस्यं कार्यविषयवाक्यविरोधमात्र मनुवदति ।। आकाशादिकेति ।। विरोध इति ।। तथा च कर्तृत्वप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति भावः । तन्निरासकतयाऽऽद्यसूत्रार्थमनुवदति ।। कार्येष्विति ।। चशब्दस्तुशब्दार्थः कारणत्व इति सप्तम्यन्तेनान्वेतीति भावेनाह ।। कारणत्वे त्विति ।। उक्तं च भामत्यां ‘‘सर्गक्रमविवादेऽपि न स स्रष्टरिविद्यत’’ इति । कारणत्वेनेति तृतीयान्तपक्षेऽन्वयदर्शनमेतत् ।। विच्छिद्येति ।। कारणत्व इत्येकं पदम् । नेत्यपरमित्यर्थः । अध्यायसङ्गतेरभावत इत्यादेः पञ्चम्यंतस्य तन्नेत्यनेनान्वयः । अध्यायासङ्गतिं तावद्य्वनक्ति ।। विरोधेति ।। ‘‘इदानीं स्मृतिन्यायविरोधपरिहार’’ इत्यादिना त्वद्भाष्ये द्वितीयस्य विरोधनिरासकत्वाभ्युपगमादिति भावः । नन्वेतदेवाशङ्क्य भामत्यां ‘‘प्रमाणान्तरविरोधेन वाक्यार्थावगतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्राप्तप्रामाण्यस्थापनमविरोधलक्षणस्यार्थः । इह तु वाक्यानां सृष्टिप्रतिपादकानां परस्परं विरोधे ब्रह्मणि जगद्योनौ न समन्वयस्सोढुमर्हती’’त्यादिना समाहितमित्यतस्तदनुवादेन निराह ।। नन्विति ।। तेऽपि मतमिति ।। ‘‘सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यत’’ इत्यादिना वियदधिकरणे त्वया भाषितत्वादिति भावः । तथा च परस्परविरोधपरिहारपरत्वेऽपि तत्रैव निवेशस्स्यादिति भावः । नन्वेतदप्याशङ्क्योक्तं भामत्यां ‘‘प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्पराविरोधप्रतिपादनम् । न तु लक्षणार्थ’’ इति । कल्पतरौ च

‘‘परैरुद्भावितो दोष उद्धर्तव्यः स्वदर्शने ।

 इति शिक्षार्थमत्रत्यचिन्तां तत्राकरोन्मुनी’’

इत्युक्तमित्यतस्तदाशङ्क्याह ।। नन्विति ।। अविरोधत्वोपहितत्वादिति ।। अविरोधत्वरूपाध्यायोपाधिग्रस्तत्वादित्यर्थः ।। वैपरीत्येति ।। परस्पराविरोधस्तत्र साक्षात्सङ्गतः । मानान्तराविरोधस्तु प्रासङ्गिक इति स्यात् । विनिगमनाभावादित्यर्थः । तमेव व्यनक्ति ।। सममिति ।। पादसङ्गतेरप्यभावत इत्येतद्य्वनक्ति ।। नापीति ।। तृतीयपादं व्याचष्टे ।। किञ्चेति ।। न त्विति ।। अत एव भामत्यां ‘‘यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति वदेद्भवेद्विरोधः । न चैवमस्ती’’त्यादिना तथैव सिद्धान्तितमिति भावः । न च विरोधभ्रांत्या पूर्वपक्षः । तस्या निर्बीजाया अनुपपत्तेः । एवमेवोत्पत्तावतिप्रसङ्गात् । ननु ‘‘अभ्युपेत्य तु विगानमुच्यत’’ इति भामत्युक्तेः कृत्वा चिन्तेयमिति चेन्न । व्यर्थत्वात् । मदुक्तदिशा सङ्गतिसम्भवाच्चेति भावः । चतुर्थपादं व्याख्याति ।। सिद्धान्तोऽपीति ।। कामयितृत्वेति ।। ‘‘सोकामयत बहुःस्या’’मिति वाक्योक्तकामयितृत्वेत्यर्थः । यापि सूत्रार्थोक्तिः कार्येष्वेव विगानं कारणत्वे तु नेति सापि नेत्याह ।। सदेवेति ।। ननु कारणविगानं ‘‘समाकर्षा’’दिति द्वितीयसूत्रे निरसिष्यत इति चेन्न । तथापि कारणत्वे तु विगानं नेत्युक्तेरयुक्तत्वापरिहारात् । वक्ष्यमाणाभिप्रायेण तदुक्तिरिति चेन्न । वैयर्थ्यात् । न च ‘‘सृष्ट्युक्तेस्सृष्टज्ञानार्थतया तत्र च विवादाभावाद्गुणे त्वन्याय्यकल्पनेति न्यायात्तदनुगुणतया सृष्टिवाक्यं व्याख्येय’’मिति भामत्युक्तदिशा कार्यविगानपरिहारार्थत्वेन तदुक्तिरिति वाच्यम् । साक्षात्तत्परिहारसम्भवे कुसृष्टेरनादरणीयत्वात् । अत एव ‘‘शङ्कितस्य कार्ये विगानस्यानुद्धृतत्वा’’दित्युक्तम् । ‘‘समाकर्षा’’दिति सूत्रार्थस्याग्रे निरसिष्यमाणत्वाच्च । तदविरोधोऽपि कारणाविरोधोऽपि । अत्र समाकर्षसूत्र इत्यर्थः ।। केचित्त्विति ।। जगत्कारणवादीनि वेदान्तवाक्यानि प्रधानपराणि ब्रह्मपराणि वेति संशये ‘‘तद्धेदं तर्ह्यव्याकृतमासीन्नाम रूपाभ्यां व्याक्रियत’’ इत्यव्याकृतपूर्वकसृष्ट्याम्नानादव्याकृतशब्दस्य चाव्यक्तपर्यायत्वात्प्रधानमेवाव्याकृतमिति ‘‘असद्वा इदमग्र आसीत्’’ ‘‘सदेव सोम्येदमग्र आसीत्’’ ‘‘आत्मन आकाशस्सम्भूत’’ इत्यादावप्यसदादिशब्देन तस्यैव ग्रहणादात्मादिशब्दस्य व्याप्तत्वादिना प्रधानेऽप्युपपत्तेः प्रधानपराण्येव सर्वकारणवाक्यानीति प्राप्ते । आकाशादिषु आकाशादिपदचिह्नितेषु । विपरिणामेनाकाशादीनामिति वा । यथा व्यपदिष्टस्य सार्वज्ञादिमत्तया जन्माधिकरणे व्यपदिष्टस्य ब्रह्मण एव । कारणत्वेनोक्तेः ‘‘सत्यं ज्ञान’’मिति प्रागुक्तसर्वज्ञस्यैवात्मशब्देनोपादानाच्च । एवं तत्र तत्रेति सर्वाणि ब्रह्मपराणीति सिद्धान्त इत्याहुरित्यर्थः ।। प्रत्युतेति ।। अव्याकृतवाक्ये ‘‘पश्यंश्चक्षुश्शृण्वञ्श्रोत्र’’मिति दर्शनादेः ‘‘सदेवे’’ति वाक्ये ‘‘तदैक्षते’’तीक्षणस्य श्रवणात् ‘‘ईक्षतेर्नाशब्द’’मित्यधिकरणे च त्वया ‘‘सदेवे’’त्यादिवाक्ये प्रधानपरत्वमाशङ्क्येक्षणेन ब्रह्मपरत्वस्य सिद्धान्तितत्वात्तेन न्यायेनाव्याकृतादिशब्दानां चेतनपरत्वे सिद्धे सर्वशाखाप्रत्ययन्यायेनासदादिशब्दानामव्याकृतशब्दतुल्यार्थत्वाच्चेतनपरतैव न्याय्येत्यर्थः । एतेन यदुक्तं श्रुतप्रकाशे ‘‘अव्याकृतशब्देन प्रथमत एवाचेतनस्य प्रतिपन्नतया पश्चादवगतं पश्यंश्चक्षुरित्यादिवाक्योक्तं चेतयितृत्वं चक्षुराद्युत्पादनौन्मुख्याभिप्राय’’मित्यादि तन्निरस्तम् । रूढ्यादेः प्रधानप्रापकस्याभावेनाचेतनप्रतिपत्तेरेवाभावात् । दर्शनादेर्बहुत्वाच्च । बह्वनुसारेणाल्पनयनस्य त्वयैव पूर्वत्रोक्तत्वाच्च । एतेन ‘‘ईक्षत्यधिकरणाक्षेपः फलित’’ इति श्रुतप्रकाशोक्तं प्रत्युक्तम् । आक्षेपकाभावस्योक्तत्वात् । अत एव चेतनपरतयैवेत्यवधारणमुक्तम् । स्फुटैवेत्युक्तं व्यनक्ति ।। तद्धेदमिति ।। ‘‘स्पष्टजीवादिलिङ्गप्रतिपादनच्छायानुसारीणि वाक्यानि चतुर्थे विचार्यन्त’’ इति त्वया भाषितत्वात् । अत्र च तत्प्रापकस्य कस्याप्यभावादिति भावः । यत्कश्चिच्छैव आह व्यपदिष्टस्य ‘‘आत्मा वा इदमेक एवाग्र आसी’’दित्यादिविशेषवाक्यनिर्दिष्टस्यात्मशब्दितस्य ब्रह्मण एव आकाशादिषु ‘‘आत्मन आकाशस्सम्भूत’’ इति श्रुताकाशादिषु कार्येषु कारणत्वेनोक्तेर्यथा कारणवाक्येषु न तान्त्रिकाव्याकृतग्रहणं तथात्रापि वाक्यशेषरूपविशेषवाक्यनिर्दिष्टानामिन्द्रियाणामेवोक्तेर्न तान्त्रिकतत्वग्रहणं पञ्चजनशब्देनेत्याद्यर्थपरतयैतत्सूत्रं च पूर्वशेषो नाधिकरणान्तरमिति तन्न । दृष्टान्तोक्तया पूर्वशेषत्वे विशेषाभावात् । सूत्रे पञ्चम्यन्वयसिद्ध्यर्थं न तान्त्रिकप्रधानग्रहणमित्यध्याहाराच्च । यथा व्यपदिष्टोक्तिस्तथा प्राणादयो ग्राह्या इति प्रथमान्तोक्तेरेव स्वारस्याच्च । चशब्दानर्थक्याच्च । आत्मनो ब्रह्मत्वस्य साङ्ख्यं प्रत्यसिद्धेश्चेति यत्किञ्चिदेतत् । दुर्गमं टीकावाक्यं व्यनक्ति ।। वाक्येति ।। आकाशाधिकरणम् ।। ४ ।।

चन्द्रिकाबिन्दुः

अन्वयार्थमिति । अन्यथा आकाशादिष्वित्यस्यान्वय एव नास्ती ति भावः ।

अत्र त्विति । अस्मिन्नधिकरणे श्रुत्योः परस्परविरोध इत्यर्थः । किञ्च द्वितीयेऽपीति । तथा चैतदधिकरणस्य तत्र निवेशः स्यादिति भावः । उत्तरपादद्वयस्य प्रासंगिकत्वमेव व्युत्पादयति ।। विप्रतिषेधादिति ।। पादद्वयव्युत्पाद्यस्य न प्रासंगिकत्वम् । अन्यथा पूर्वपादद्वयस्यैव प्रासङ्गिकत्वं स्यादित्यभिप्रेत्य दूषणमाह ।। पादद्वयेत्यादिना । तत्रेजोऽसृजतेति वाक्ये आकाशादिसृष्ट्यनुक्तेरविरोधकत्वात् पूर्वपक्षानुत्थितिरित्याह ।। किं चात्रेति ।। तत्सृष्टिः तेजःसृष्टिः येन विरोधः स्यादिति भावः । यद्यपीति ।। वायोरग्निरिति वाक्यम् । विषयः । सूत्रे आकाशशब्दग्रहणं तु प्रतीकत्वाभिप्रायेणेति भावः । यदि चेति ।। कल्पिते विरोधस्यापरिहार्यत्वादिति ह्रदयम् । पादासंगतिरिति ।। आपाततः प्रधानप्रतिपादनछायानुगुणवाक्यविचारो हि पादे सङ्गतः । महतः परमित्यादिवाक्यं तु तादृशं न तदुदाह्रतवाक्यमिति भावः ।

पाण्डुरङ्गि

प्रासङ्गिकत्वमुपपादयति ।। विप्रतिषेधादिति ।। अन्यथेति ।। साक्षात्सङ्गतिसम्भवेऽपि प्रासङ्गिकोक्तौ ।। वैपरीत्येति ।। परस्पराविरोध एव प्रतिपाद्यः । मानांतराविरोधस्तु प्रासङ्गिक इति वैपरीत्यापातादिति भावः ।। आकाशाधिकरणम् ।। ४ ।।