सिद्धान्तमाह
ईश्वरस्य स्वतन्त्रसाधनसापेक्षता नास्तीति सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तमाह ।। सिद्धान्तयदिति ।। अयं भावः
स्वतन्त्रसाधनापेक्षा लोकेऽशक्तिनिबन्धना ।
ईश्वरस्य त्वसामर्थ्यं न कुत्रापीश्वरत्वतः ।। १ ।।
द्रव्यस्य कर्मकालादेः श्रूयते चेशतंत्रता ।
नानाशिल्पेषु निपुणः साधनं स्वयमेव हि ।। २ ।।
सम्पाद्यते न कार्याणि कुर्वंल्लोकेपि दृश्यते ।
स्वाधीनसाधनादानं त्वीशस्य न विरुध्यते ।। ३ ।।
प्रमितत्वाच्च लीलात्वादीशत्वाघातुकत्वतः ।
लीलया दण्डमालंब्य गच्छन्किं पङ्गुतां व्रजेत् ।। ४ ।।
अनादिसाधनानामपीशाधीनत्वान्नानवस्था । साधनांतरस्य च ‘‘अद्भ्यः सम्भूत’’ इत्यादिभाष्योदाहृतश्रुतिसिद्धत्वान्न तन्मात्राक्षेपः । किं तु स्वतन्त्रसाधनाक्षेप एवेति ।। बह्वित्युक्तमिति ।। ‘‘बहुसाधने’’ति भाष्ये साधनस्य बहुत्वं ज्ञानेच्छाद्यन्यदण्डादिस्थानीयसाधनबहुत्वं विवक्षितमिति भावः ।। ईश्वरोपि मुक्त उच्यत इति ।। औतिमते मुक्तेश्वरयोरभेदात् । ‘‘अजोन्य’’ इति श्रुत्यैव ब्रह्मणः संसारिभ्यो भेदोपि सिद्ध इत्यर्थः ।। श्रुतियुक्तिभ्यामिति ।। प्राक्केवला युक्तिः श्रुतिश्च शङ्किता । अत्र तु श्रुतिसहिता युक्तिरिति भेदः । साक्षिप्रत्यक्षस्य सर्वस्मात्प्रबलत्वेपि प्रत्यक्षमात्रस्य श्रुतितो दुर्बलत्वात्पूर्वत्रारुच्या दृष्टशब्दं प्रकारान्तरेण व्याचष्टे ।। दृष्टमितीति ।। भाष्ये ‘‘अनुमाद्या’’ इत्यत्राद्यशब्दोऽनुमाविशेषार्थापत्त्यादिपरः । यद्यपि ‘‘किं स्विदासी’’दिति श्रुतावधिष्ठानं प्रथममुक्तम् । तथाप्यारम्भणशब्दार्थस्य करणस्य साधनेष्वतिशयितत्वात्सूत्र आरम्भणशब्दः । अनेन च प्रतीकतया ‘‘किं स्विदासी’’दित्यारम्भणाक्षेपवाक्यस्य गृहीतत्वात्साधनांतराभावसिद्धिरिति सुधायामेवोक्तम् । ‘‘आरम्भणशब्दादिभ्य’’ इत्यत्रादिशब्देनेश्वरस्य स्वतन्त्रसाधनानपेक्षत्वे स्वातन्त्र्यादिरूपा युक्तिरुक्ता । ‘‘युक्ते’’रित्यत्र तु साधनं विना कर्तुं शक्तस्यापि स्वेच्छया लीलया स्वाधीनसाधनांतरोपादानमैश्वर्याविरोधित्वाद्युक्तमित्युक्तम् । ‘‘पटवच्चे’’त्यत्र तु साधनमात्रमस्तीत्यत्र सृष्टित्वादियुक्तिरुक्ता । ‘‘यथा प्राणादि’’रित्यत्र तु साधनं स्वतन्त्रं साधनत्वादिति पूर्वपक्षयुक्तेर्बाधाद्युक्तमिति न पुनरुक्तिः । ‘‘सत्त्वाच्चावरस्ये’’त्यत्र तु स्वतन्त्रसाधनास्तित्वे शङ्किताया ‘‘अद्भ्यः सम्भूत’’ इत्यादिश्रुतेः परतन्त्रसाधनपरत्वं ‘‘काल आसी’’दित्यादिश्रुत्यन्तरसंवादेनोक्तम् । ‘‘शब्दान्तराच्चे’’त्यत्र तु परतन्त्रमपि साधनं मास्त्विति शङ्कानिरासाय तदस्तित्वे ‘‘अद्भ्य’’ इत्यादिश्रुतिरुक्तेति भेदः । अनुव्याख्याने तु
शक्तोऽपि भगवान्विष्णुरकर्तुं कर्तुमन्यथा ।
स्वभिन्नं कारणाभिन्नं भिन्नं विश्वं करोत्यजः ।।
इति सोपपत्तिका श्रुतिरपि शब्दान्तरशब्दार्थ इत्युक्तम् । तथानुव्याख्याने न केवलं भाष्यरीत्या ‘‘तम आसी’’दिति वाक्यशेषान्यथानुपपत्त्या ‘‘नासदासी’’दित्यादेः स्वतन्त्रसाधननिषेधपरता । किन्तु ‘‘नपर’’ इति साक्षात्स्वातन्त्र्यनिषेधाच्चेति वक्तुं ‘‘तस्माद्धान्यन्नपरः किं चनासे’’ति वाक्यमपि सौत्रवाक्यशेषशब्दार्थ इत्युक्तम् ।
प्रकाशिका
‘‘युक्तिविरुद्धं चानुमान’’मित्यादिसौत्रादिपदोक्तयुक्तिविवृतिपरभाष्यटीकोक्तन्यायं सङ्गृह्णाति ।। स्वतन्त्रेति ।। एतेन स्वतन्त्रकर्तृत्वादीश्वरो नोक्तविधसाधनापेक्षः । व्यतिरेकेण कुलालादिवदित्यादियुक्तिबाधिताः प्रागुक्तहेतव इत्युक्तं भवति । ननूक्तमप्रयोजकोयं हेतुरित्यतस्तदनुग्राहिका श्रुतिरस्तीति भावेन ‘‘सत्त्वाच्चे’’ति सूत्रभाष्यटीकातात्पर्यमाह ।। द्रव्यस्येति ।। ‘‘द्रव्यं कर्मचे’’ति श्रुताविति भावः । एतेन ‘‘अद्भ्य’’ इत्यादेरप्येतच्छत्यनुरोधेन परतन्त्रसाधनपरतया तत्संवादाभावेन ‘‘किं स्विदासी’’दित्यादेराक्षेपपरतया परतन्त्रसाधनपरानेकश्रुतिसहितयुक्तिबाधिताः पूर्ववाद्युक्तकेवलहेतवः । एतद्बलादेव गुर्वप्यनीशकर्तृत्वमेवोक्तसाध्ये प्रयोजकं कल्प्यम् । तेन प्रमितत्यागायोगादिति भावस्सूचितः । नन्वीशस्य स्वतन्त्रत्वे महदादिसाधनसम्पादनेन कार्यनिर्माणमयुक्तम् । साधननिरपेक्षेणैव करणप्रसङ्गादित्यतः ‘‘युक्ते’’रिति सूत्रांशभाष्यादितात्पर्यमाह ।। नानेति ।। नन्वीशस्य शक्तत्वाल्लोकवैषम्यमित्यत आह ।। स्वाधीनेति ।। तुरीयपादोक्तं व्यनक्ति ।। लीलयेति ।।
ननु साधनानामीशायत्तत्वेऽनवस्थोक्तेति चेन्न । अन्ततोऽनादित्वोपगमात् । न चानादित्वेऽन्याधीनत्वायोगः । गायत्र्यधिकरण एवास्यार्थस्योपपादनादिति भावेनाह ।। अनादीति ।। ननु ‘‘किं स्विदासी’’दिति सौत्रश्रुतौ साधनमात्राक्षेपो भाति । अन्यथा तद्विशेषलक्षणापत्तेः कथं साधनांतरोपगमनमित्यत आह ।। साधनेति ।। आद्यसूत्रे ‘‘सिद्धसाधनतास्यादित्यतो बह्वित्युक्त’’मिति वाक्योक्तसिद्धसाधनतां व्यनक्ति ।। बह्विति ।। एवमस्पष्टानि कानिचिद्वाक्यानि व्यक्तीकृत्य सूत्रविचारमारभते ।। यद्यपीति ।। अन्यत्तु तन्त्रदीपिकायां व्यक्तीकृतमस्माभिः । ‘‘प्राचीनश्रुतिसङ्ग्रहाय शब्दान्तरादित्युक्त’’मिति टीकयैकार्थत्वप्रतीतेराह ।। प्रकारान्तरेणापि पौनरुक्तयं निराह ।। अनुव्याख्यानेत्विति ।। विरोधमाशङ्क्य वर्णकभेदेन समाधत्ते ।। तथेति ।। ‘‘तद्वशस्य भावो नपर इत्यत’’ इत्यनुव्याख्याने इत्यर्थः । शिष्टं सुगममिति भावः ।
चन्द्रिकाविवृतिः
नन्वीश्वरे तज्ज्ञानतदिच्छाद्यनेकस्वतन्त्रसाधनानां बहुत्वात् बह्वित्युक्तावपि कथं सिद्धसाधननिरास इत्यत आह ।। साधनस्य बहुत्त्वमिति ।। अनुमाद्या इति भाष्ये आदिपदेन संग्राह्यं न दृश्यते । प्रत्यक्षसाक्ष्यागमानां तज्जन्यज्ञानादीनां च पूर्वं स्वशब्देन गृहीततत्त्वादित्यत आह ।। अनुमाद्या इत्यत्रेति ।। अनेन चेति ।। अत्रायं सम्प्रदायः । करणवाचकेनारम्भणशब्देन करणाधिष्ठानादिकं लक्ष्यते तेन च करणाधिष्ठानादिकेन तेषामाक्षेपो लभ्यते एवं चारम्भणशब्दो लक्षितलक्षणया आरम्भणाधिष्ठानाद्याक्षेपपरः ।। तथा च सूत्रस्थस्यारम्भण-शब्देत्यंशस्यारम्भणाद्याक्षेपसमर्पकशब्देत्यर्थ इति ।। एवमेव सुधायामपि भाव ऊह्य इति स्वामिनः ।।
युक्तिकथनपरसूत्राणां श्रुतिकथनपरसूत्राणां च पुनरुक्तिं परिहरन्नेवानुव्याख्यानानुसारेणैव तत्रार्थविशेषोऽपि ग्राह्य इत्यभिप्रेत्याह ।। आरम्भणशब्दादिभ्य इत्यत्रादिशब्देनेत्यादिना ।।