अत्र परैरुक्तं ‘‘यस्य ब्रह्मच क्षत्रं चोभे भवत ओदनः

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अत्र परैरुक्तं ‘‘यस्य ब्रह्मच क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचन’’मिति काठकवाक्ये ओदनोपसेचनपदाभ्यां सूचितोऽत्ता जीव एव । अत्तृत्वस्य भोज्यतया प्रसिद्धौदनसम्बन्धेन भोक्तृत्वरूपत्वात् । ब्रह्मणश्चाभोक्तृत्वादिति प्राप्ते सत्यमभोक्तृ ब्रह्म । तथापि तदेवात्तृ । अत्तृत्वस्य संहर्तृत्वरूपत्वात् । तस्याविक्रिये शुद्धे ब्रह्मण्यसम्भवेऽपि मायोपाधिके सम्भवात् । भक्तवाचिनश्चौदनशब्दस्य भोक्तृप्रतियोगिभोज्यत्वं न मुख्यवृत्त्याऽर्थः । अमुख्यवृत्त्या चेत्तर्ह्योदनगतं संहर्तृप्रतियोगि संहार्यत्वमेवार्थोऽस्तु । एवं च ब्रह्मक्षत्रादिपदानां न मुख्यार्थत्यागः । जीवपक्षेतु तत्त्यागः । न हि कश्चिदपि जीवः सर्वस्य ब्रह्मक्षत्रस्य मृत्योश्च भोक्ताऽस्तीति सिद्धान्त इति ।। अत्र ब्रूमः ।

भोक्तृतापि विशिष्टेऽस्तु यथा संहर्तृता तव ।

अभोक्तृत्वं निविशतां शुद्धे कौटस्थ्यवत्सुखम् ।। १ ।।

अभोक्तृत्वश्रुतेर्निर्विकारत्वश्रुतिवच्छुद्धविषयत्वसम्भवेन मायोपाधिके संहर्तृतेव भोक्तृताऽप्यस्तु । एवं च ब्रह्मक्षत्रादिशब्दानां न मुख्यार्थत्यागः । तद्भोक्तृत्वस्य ब्रह्मणि सम्भवात् । ओदनादिपदोपस्थापितस्यान्तरङ्गस्य भोज्यत्वस्यापि न त्यागः । नह्यग्निर्माणवक इत्यत्राग्निशब्दः पैङ्गल्यादिकमिव द्रव्यत्वाद्युपस्थापयति । न वा प्रोद्गातॄणामित्यत्रोद्गातृशब्दोंऽतरङ्गभूतान् प्रस्तोत्रादीनिव षोडशर्त्विजो लक्षयति । येनात्राप्योदनशब्दः संहार्यत्वमुपस्थापयेत् । अपि च ‘‘सर्वं वा अत्ती’’ति मदीयविषयवाक्य इव त्वदीये वाक्ये सूत्रे प्रतिज्ञातोऽत्ता हेतूकृतं चराचरग्रहणं च न साक्षादस्ति । यच्चोक्तं परैः ‘‘प्रकरणा’’दिति सूत्रस्य ‘‘न जायते म्रियते वा विपश्चि’’दिति परमात्मन एव प्रकृतत्वाच्च स एवात्तेत्यर्थ इति । तन्न । न जायत इत्यस्मादुत्तरवाक्ये ‘‘नहन्यते हन्यमानेऽपि देह’’ इति देहसम्बन्धस्य ‘‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीत’’ इति हन्तृत्वादिभ्रान्तेश्च जीवलिङ्गस्य दर्शनेन ‘‘नजायत’’ इत्यादेर्जीवविषयत्वात् । अत्रापि परमतेऽप्यत्तुर्जीवत्वं निषिध्य ब्रह्मत्वोक्तेस्तदैक्यप्रतिकूलता व्यक्तैव ।। टीकाक्षरार्थस्तु ।। इति योजनायामस्ति चोद्यावकाश इति । यद्यपि ‘‘स यद्यदेवे’’त्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्ये उक्तम् ।। ‘‘यद्यद्ब्रह्मासृजत्पूर्वं तत्तदत्ति जनार्दन’’ इति स्मृतेः । उत्तरत्र ‘‘सोऽकामयत भूयसा यज्ञेन भूयो यजेये’’त्यादौ चतुर्मुखपरत्वदर्शनाच्च । पूर्वत्रापि ‘‘स तया वाचा तेनात्मने’’ति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्त संवत्सरस्याव्यवधानेन प्रकृतत्वाच्च । संवत्सरसृष्टमत्तुमेव मृत्योः संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वस्योचितत्वाच्च । कर्तुरपि संवत्सरस्य भगवत्स्वातंत्र्यविवक्षया तेनेतिकरणत्वेन निर्दिष्टस्यापि स इति कर्तृत्वेन निर्देशोपपत्तेश्च । तथापि समानविभक्तिकत्वं परामर्शे तंत्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येव ।

ननु तथापि न चोद्यावकाशः । स ऐक्षतेत्यादौ पुल्लिङ्गैनैव तच्छब्देन मृत्युनेति मृत्युशब्देन च प्रस्तुततया गुरोर्दाराः समागतास्ते पूज्या इत्यादाविव पुल्लिङ्गोपपत्तेः । न च ‘‘अशनायां हि मृत्यु’’रिति स्त्रीलिङ्गेनाशनायाशब्देन प्रस्तुतत्वात्स इति पुल्लिङ्गानुपपत्तिरिति वाच्यम् । तथात्वे सिद्धान्तेऽप्येतदनुपपत्तेरिति चेदुच्यते । दारखट्वादिशब्देषु पुल्लिङ्गस्त्रीलिङ्गादेः शब्दसाधुतैव न त्वर्थसाधुता । न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम् । एवं चादितौ पुल्लिङ्गो मृत्युशब्दोऽप्ययुक्तः । परमपुरुषे तु स्त्रीलिङ्गोऽप्यदितिशब्दः प्रकृत्यधिकरणन्यायेन युक्तः । तथाचास्ति चोद्यावकाश इति भावः ।। अदितिशब्दवाच्यत्वमिति ।। अदितिशब्दप्रवृत्तिनिमित्तमित्यर्थः ।।

प्रकाशिका

अत्र परैरिति ।। मायावादिभिरित्यर्थः । विषयवाक्येऽत्तेतिपदाश्रवणात्तल्लाभमाह ।। ओदनेति ।। अद्यत्वे सत्यदनसाधनमुपसेचनम् । तयोरदनीयवाचित्वात् प्रतिसम्बन्ध्यत्ता लभ्यत इत्यर्थः । भोज्यतया प्रसिद्धो य ओदनस्तसम्बन्धेनेत्यर्थः ।। अभोक्तृत्वादिति ।। पूर्वत्र सम्भोगसूत्रेऽभोक्तृत्वोक्तेरश्नन्निति श्रुतेश्चेति भावः ।। मायेति ।। ‘‘मायोपाधेः परस्यास्ति संहर्तृत्व’’मिति कल्पतरूक्तेरिति भावः । संहर्तृत्वलाभप्रकारमाह ।। भक्तेति ।। अन्नवाचिन इत्यर्थः । को विशेष इत्यत आह ।। एवं चेति ।। मुख्यार्थत्यागमुपपादयति ।। नहीति ।। ब्रह्मणस्तु सर्वसंहर्तृत्वं युज्यत इति भावः । यदुक्तं अमुख्यत्वाविशेषाद्ब्रह्मक्षत्रादिशब्दमुख्यत्वायौदनादिपदस्य संहार्यत्वमेवार्थोऽस्त्विति तत्रामुख्यत्वाविशेषेऽप्यन्तरङ्गत्वाद्भोक्तृत्वप्रतिसम्बन्धि भोज्यत्वमेव लक्ष्यताम् । ब्रह्मक्षत्रादिशब्दस्य मुख्यत्वं च शक्यसम्पादमिति भावेन तदीयसिद्धान्तरचनां निरस्यति ।। भोक्तृतेति ।। अनशनश्रुतेर्गतिमाह ।। अभोक्तृत्वमिति ।। निविशतामिति ‘‘नेर्विश’’ इत्यात्मनेपदम् । उत्तरार्धव्यक्तिपूर्वं पूर्वार्धं व्यनक्ति ।। अभोक्तृत्वेति ।। को विशेष इत्यतोंऽतरङ्गत्वादित्याह ।। ओदनेति ।। नन्वमुख्यत्वेऽन्तरङ्गत्वं बहिरङ्गत्वं वाऽप्रयोजकमित्यत उपस्थितिवैशेष्यादन्तरङ्गमेवादर्तव्यं न बहिरङ्गमित्येतदुपपादयति ।। नहीति ।। इदं गौणवृत्तेः अन्तरङ्गस्योपस्थित्युपपादनम् । लक्षणायामाह ।। न वेति ।। यद्वा लौकिकवैदिकोदाहरणप्रदर्शनार्थं द्वयम् । उक्तमधिकरणशरीरं जन्माद्यस्येति सूत्रे । एकस्तोत्र वचनसम्बन्धादिभिरन्तरङ्गभूतान्प्रस्तोत्रादीनिव बहिरङ्गभूतान् षोडश ऋत्विजो यथोद्गातृशब्दो न लक्षयति तथौदनादिशब्दोऽपीत्यर्थः । सुधोक्तमुदाहरणानौचित्यं चाह ।। अपि चेति ।। ओदनोपसेचनशब्दाभ्यामत्तेत्यस्योपलक्षणीयत्वेनोक्तत्वान्न साक्षादत्तेति श्रुतम् । ब्रह्मक्षत्रादिपदेन लक्षणया चराचरग्रहणस्योक्तत्वात्तदपि न साक्षात् श्रुतम् । अतोऽस्मदुदाहरणमेव सूत्रानुगुण्याद्युक्तमित्यर्थः ।

ननु त्वद्वाक्येऽपि सर्वशब्दस्यैव श्रवणाच्चराचरशब्दाश्रवणान्न सूत्रानुगुण्यमिति चेन्न । तस्य सङ्कोचनिवृत्त्यर्थं सर्वशब्दव्याख्यानाय चराचरेत्युक्तत्वादिति प्रागेवोक्तत्वादिति भावः । द्वितीयसूत्रार्थमप्यनूद्य निराह ।। यच्चेति ।। उत्तरवाक्य इति ।। ‘‘अजो नित्यश्शाश्वतोयं पुराणो न हन्यते हन्यमानेऽपि देह’’ इत्यव्यवहितोत्तरवाक्ये । उपलक्षणमेतत् । पूर्वत्रापि ‘‘एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’’ इति जीवस्यैव प्रथमान्ततया प्रकृतस्यान्वयाच्च । विपश्चित्त्वविशेषणेन प्रागुक्तज्ञानिन एवान्वयप्रतीतेश्च । ‘‘भावाभावौ न विदुषो यस्माज्जीवो न कश्चन । न जायते म्रियते वापी’’त्यादिस्मृतिविरोधाच्चेति ध्येयम् । परस्येदं नारभ्यमेवेति भावेनाह ।। अत्रापीति ।। न केवलं पूर्वत्रेत्यर्थः । एतेनैतदेव वाक्यमुदाहृत्य शिवनिष्ठं संहर्तृत्वमिति वदतः कस्यचिन्मतमपि प्रत्युक्तं बोध्यम् । विषयवाक्यानानुगुण्यादेरुक्तत्वादिति ।। अत्र टीकायां पूर्वपक्षग्रन्थे सयद्यदेवेत्यत्र पुल्लिङ्गानुपपत्तिचोद्यं भाष्यकारीयमाक्षिप्य समाहितम् । तत्राक्षेपबीजप्रदर्शनपूर्वं तद्वाक्यं व्यनक्ति ।। यद्यपीति ।। तद्भाष्योक्तस्मृतिमाह ।। यद्यदिति ।। उत्तरत्रेति ।। स इत्यस्येत्यनुषज्यते । तच्छब्दस्य सन्निहितपरत्वाच्चतुर्मुखस्य च सन्निहितत्वात्तत्परत्वं युक्तमित्याह ।। पूर्वत्रापीति ।। संवत्सरसृष्टमिति ।। पूर्वत्र ‘‘स ऐक्षत यदिह वा इममभिमंस्ये कनीयोन्नं करिष्य इति । स तया वाचा तेनात्मनेदं सर्वमसृजते’’त्यनेन यदीमं संवत्सरशब्दितं भक्षयामि तर्ह्यल्पमन्नं मे भविष्यति । अत एनमभक्षयित्वा तन्मुखेन सर्वसृष्टिं कारयित्वा तत्सृष्टमेव सर्वं भक्षयामीति बुद्ध्या तन्मुखेन सर्वसर्जनाद्भक्षणान्निवृत्तिरवगम्यत इति तदन्यथानुपपत्त्या च चतुर्मुखपरत्वमित्यर्थः । ननु पूर्वं तस्य सन्निहितत्वेऽपि तृतीयया करणत्वेनैव निर्देशान्न कर्तृवाचिना परामर्शो युक्त इत्यत आह ।। कर्तुरिति ।। टीकोक्तं स्पष्टीकृत्य तदुपलक्षणमिति भावेन भाष्यं प्रकारान्तरेण स्वयमाक्षिप्य समाधत्ते ।। ननु तथापीति ।। कथं तर्हि विष्णावदितिशब्द इत्यत आह ।। परमेति ।। पुरुषेति हेतुगर्भम् । अदितेरित्यनेनैव तद्वाच्यत्व-लाभाददितित्वमिति व्यर्थमित्यत आह ।। अदितिशब्देति ।। शिष्टं सुगममिति भावः ।।

चन्द्रिकाबिन्दुः

उपसेचनं नाम चिरं लवणसिक्तामलकादिफलानि । कथमत्ता सूचित इत्याशङ्क्य भोज्योदनादिपदमहिम्नेत्याह ।। अत्तृत्वस्येति ।। संहर्तृत्वस्य कौटस्थ्यवत् निष्क्रियत्ववत् । ओदनादिपदेन भोज्यत्वत् संहार्यत्वमपि लक्ष्यमिति यदुक्तं तन्निराकर्तुमाह ।। ओदनादिपदेति ।। द्रव्यत्वादीति पदार्थान्तरसाधारणधर्मोपस्थापकत्वं नास्तीत्यर्थः । तद्वदत्र पाषाणादिसाधारणसहायत्वं नोपस्थाप्यमिति भावः । तेन स इति तच्छब्देन संवत्सरपरामर्शे तस्य कर्तृत्वं प्राप्तं पूर्वं च तस्य करणत्वेन तं स तथा वाचा तेनात्मनेत्यादावुक्तिरस्ति अतो विरोध इत्यत आह ।। कर्तुरपीति ।। अदितेरपि स्त्रियः पुंशब्देन प्रकृतत्वात् स इति परामर्श उपपद्यते । तथा च पुनरपि न चोद्यावकाश इत्याक्षिपति ।। ननु तथापीति ।। मृत्युशब्देनेति ।। यद्यपि मृत्युशब्दः स्त्रीलिङ्गोऽप्यस्ति । तथाप्यत्र मृत्युनेत्युक्तत्वात् पुंलिङ्ग एवायं मृत्युशब्द इति भावः ।। तथात्व इति ।। सिद्धान्ते अशनायाशब्देनापि विष्णोरुक्तेरिति भावः ।। एवं चेति ।। तथा पुंलिङ्गनिर्देश इति पदं भाष्ये मृत्युशब्दतच्छब्दाद्यभिप्रायेण प्रवृत्तमिति ध्येयम् ।। तथात्व इति स्वपक्षोक्तदूषणं परिहरति ।। परमपुरुषे त्विति ।।

।। इति अत्तृत्वाधिकरणम् ।। २ ।।