अत्र च श्रुतावेतमित्यनेन ‘‘प्राणस्तथे’’ त्यत्र ब्रह्मत्वेन..

लौकिकरूढयपेक्षया महायोग: प्रबल:

तात्पर्यचन्द्रिका

अत्र च श्रुतावेतमित्यनेन ‘‘प्राणस्तथे’’ त्यत्र ब्रह्मत्वेन निर्णीतं ‘‘प्राणो ह्येषय एष तपती’’ ति पूर्ववाक्यस्थं प्राणं परामृश्यावयवार्थोक्तया योगः, ‘आचक्षत’ इत्यनेन रूढिश्चोक्ता । अवधारणेन च लौकिकरूढिप्राबल्यप्रसक्तमन्येषां मुख्यार्थत्वं निरस्तम् । तदुक्तमनुव्याख्याने ‘‘आचक्षत इति ह्यत्र सन्तमित्यवधारणात् । योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् । बहुशो दर्शयत्यंजस्तात्पर्यात्सनिरुक्तिक’’ मिति ।

न चैवं कर्मानुष्ठानस्य व्युत्पत्तेर्वाऽनुपपत्तिः । यतः

उपजीव्यं प्रसिद्धार्थे शतमित्यादिका श्रुतिः ।

न शक्ता बाधितुं तस्माद्युक्ते व्यत्पत्तिकर्मणी ।। १ ।।

न हि ज्योतिरादिशब्दानां तदवयवानां च प्रसिद्धोऽर्थो विनैव बाधकं त्यक्तुं युक्तः । न च ‘‘तं यच्छतं वर्षाणी’’त्यादिश्रुतिरेव बाधिका । अनया ब्रह्मणि शतर्च्यादिशब्दव्युत्पादनाय तदवयवानां लोकप्रसिद्धार्थमुपजीवन्त्या न्यायसाम्याज्ज्योतिरादिशब्देष्वपि तस्याभ्यनुमातत्वात् । एवं च यथा डु पचष् पाके डु कृञ् करणे इत्यादौ पाकादिशब्दानां पच्यादिधातुजत्वेऽपि तेषां लोकप्रसिद्धार्थमादाय धातूनामर्थनिरूपणम् । अन्यथा ह्यन्योन्याश्रयः स्यात् । तथेहाप्यवयवानां विष्णुपरत्वेऽपि लोकप्रसिद्धार्थमादाय व्युत्पादनम् । एवमवयवव्युत्पादनं तदवयवानां लोकप्रसिद्धार्थमादायेति द्रष्टव्यम् । न चैवं लोके लक्षणैव स्यादिति शंक्यम् । अभिधानव्याकरणादिभिः प्रमितस्य लोके मुख्यत्वस्य विनैव बाधकं त्यागायोगात् । न चैतमेवेत्यवधारणं बाधकम् । तस्य प्रमितमुख्यत्वाबाधेनैव ब्रह्मण्येव परममुख्यत्वमन्यत्र नेत्येवंपरत्वात् । ब्रह्मणि परममुख्यत्वं च प्रवृत्तिनिमित्तस्य निरवधिकत्वानन्याधीनत्वाभ्यां युक्तम् । युक्तं च मुख्यवृत्तावेव योगरूढ््योरिव तारतम्यम् ।

प्रकाशिका

ननु विष्णौ योगात् कर्मणि रूढेर्बलवत्त्वाद्यौगिकस्य हरेः कथं मुख्यार्थत्वमिति चोद्यं सूत्रोपात्तश्रुतेरभिप्रायव्यक्तीकारेण परिहरति ।। अत्र चेति ।। एतेन ‘‘न च शब्दानामन्यत्र रूढत्वेन योगाङ्गीकारायोग’’ इत्यादिटीका विवृता ।। रूढिरिति ।। ‘‘प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयत’’ इत्यनुव्याख्यानोक्तेरिति भावः । अवधारणेन एतमेवेत्येवकारेण ।। मुख्यार्थत्वमिति ।। सर्वथा तत्तच्छब्दार्थत्वनिषेधस्य वक्ष्यमाणदिशाऽयोगादिति भावः । टीकोक्तेर्मूलमाह ।। तदुक्तमिति ।। ‘‘एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।’’ आचक्षत इति पूर्वशेषः ।। आचक्षत इति ।। आचक्षत इत्यादिका श्रुतिस्सनिरुक्तिकं योगवृत्तिसाहित्येन । तत्रगां परमेश्वरविषयाम् । शतर्च्यादिशब्दोपलक्षितसर्वशब्दानां विद्वद्रूढिं दर्शयति । यच्चात्र बहुशः बहुवारं दर्शयति तेन ज्ञायते अञ्जः तात्पर्यादेव । न तु प्रासङ्गिकत्वेनेति । ‘‘किं चात्र सन्तमिति वचनादेतमेवेत्यवधारणाच्च लौकिकरूढितो भगवद्विषयस्य योगस्य प्राबल्यं च दर्शयती’’त्यर्थः सुधोक्तः । एवं स्वपक्षसाधकाद्यसूत्रभाष्यटीकातात्पर्यं विवृत्येदानीं ‘‘कल्पनोपदेशाच्च मध्वादिवदविरोध’’ इति सूत्रभाष्यटीकातात्पर्यं

तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ।

प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।

उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ।। इत्यनुव्याख्यानसुधयोरुक्तरीत्या विवृण्वन् पूर्ववाद्युक्तं बाधकं निराह ।। न चैवमिति ।। यत इत्यस्य यतो बाधितुं न शक्ता तस्मादिति श्लोकेनान्वयः । ननु प्रसिद्धार्थसत्त्वे तस्योपजीव्यत्वादिचिन्ता । तदेव कुतो ब्रह्मपक्ष इत्यतस्तत्सत्त्वसमर्थनपूर्वकं श्लोके त्रिपादीं विवृणोति ।। न हीति ।। बाधकं च तमिति वचनमेव स्यात् । नान्यत् । अनुपलम्भात् । तच्चोपजीवकतया दुर्बलं न बाधकमित्याह ।। न चेति ।। नन्वस्तु शतर्च्यादिशब्दे । ज्योतिरादिशब्दे तु कथमित्यत आह ।। न्यायेति ।। जि ओति इत्याद्यवयवानां प्रसिद्धार्थमुपजीव्यैव ज्योतिश्शब्दव्युत्पादनस्यानुमतत्वान्नोपजीव्यार्थबाध इत्यर्थः । एतमेवार्थं दृष्टान्तेन व्यनक्ति ।। एवं चेति ।। प्रसिद्धार्थाबाधे सतीत्यर्थः ।। पच्यादीति ।। पचि धातोर्भावे घञ्प्रत्यये ‘‘अत उपधाया’’ इति वृद्धौ ‘‘चजोः कुघिण्यतो’’रिति कुत्वे पाक इति रूपम् । तथा ‘‘ल्युट् चे’’ति सूत्रेण कृञो भावे ल्युटि कृते ‘‘युवोरनाका’’वित्यनादेशे ‘‘सार्वधातुकार्धधातुकयो’’रिति गुणे रपरत्वे च करणमिति रूपम् । गम्लृ गतावित्यादिरादिपदार्थः ।। लोकेति ।। अवयवविक्लृत्त्यादिरूपार्थमादायेत्यर्थः ।। अन्यथेति ।। यौगिकार्थग्रहणे तज्ज्ञानानंतरं पचि धातोस्तदर्थकत्वज्ञानं तज्ज्ञाने च तज्जन्यपाकशब्दार्थज्ञानमित्यन्योन्याश्रय इत्यर्थः ।। व्युत्पादनमिति ।। तत्प्रकारश्च ‘‘जातमोतं हरौ यस्मा’’दित्याद्यनुव्याख्यानसुधयोर्ध्येय इति भावः ।

प्रागुक्तलक्षणाप्रसङ्गं निराह ।। न चैवमिति ।। भगवत एव सर्वशब्दमुख्यार्थत्वे । शरीर रूपकेत्युक्तन्यायेन तत्तच्छब्दमुख्यार्थेश्वरसम्बन्धेनैवान्यत्र शब्दवृत्तेर्वाच्यत्वादिति भावः । अभिधानं निघण्टुः ।। अन्यत्र नेति ।। पारम्यस्यैव निषेधो न तु मुख्यत्वस्येत्यर्थः । एतेन ‘‘तत्रापि परमो मुख्य’’ इति स्मृत्युक्तेरुपयोगो दर्शितः ।। युक्तं चेति ।। व्युत्पादयिष्यते चैतत्समाकर्षादित्यत्र । कुवलयेति कुमुदं भूवलयं च गृह्यते ।।

चन्द्रिकाबिन्दुः

एवं विष्णोः सर्वशब्दमुख्यार्थत्वे साधकमुक्तवा इदानीं बाधकं परिहरति ।। न चैवं कर्मानुष्ठानस्येति ।। न्यायसाम्यादिति ।। अनेन ज्योतिष्टोमादिवाक्यस्य तं यच्छतमित्यादिवाक्यं प्रत्युपजीव्यत्वं नास्तीति शङ्का परिहृता । तं यच्छतमिति वाक्यस्यावश्यं लोकप्रसिद्धार्थपरत्वमङ्गीकरणीयम् । ज्योतिरादिवाक्यस्यापि लोकप्रसिद्धार्थविषये उपजीव्यजातीयत्वमस्तीत्यङ्गीकारात् ।। अन्यथा ह्यन्योन्याश्रयःस्यादिति ।। पच् यक् इति धात्वर्थसिद्धौ पाककरणशब्दार्थसिद्धिः, पाककरणशब्दार्थसिद्धौ च पचिधात्वर्थसिद्धिरित्यन्योन्याश्रयो द्रष्टव्यः ।। अन्यत्र नेत्येवमिति ।। इन्द्रादौ परममुख्यत्वं नेत्येवमर्थम् ।। योगरूढ््योरिवेति ।। योगरूढ्योश्शक्तित्वाविशेषेऽपि यथाऽवान्तरविशेषः, एवं मुख्यवृत्तावेव परममुख्यत्वं मुख्यत्वमिति विशेषः ।।

पाण्डुरङ्गि

एतमेव तथा संतं शतर्चीत्यादिनामभिः । आचक्षत इत्याद्यनुव्याख्यानं मनसि निधायाऽह ।। तं यच्छतमित्यादिना ।। ननूभयत्रापि मुख्यत्वे कथं तत्र ब्रह्मणि परममुख्यत्वमन्यत्र नेति तारतम्यम् । वृत्तौ तारतम्यादर्शनादित्यत आह ।। युक्तं चेति ।। अनेकार्थत्वस्यान्याय्यत्वं वदन् प्रष्टव्यः । किं लोकेऽदर्शनाद्वैकस्यानेकार्थत्वमन्याय्यं शास्त्रान्तरेऽदर्शनाद्वा वेदेऽदर्शनाद्वा । नाद्य इत्याह ।। राजेति ।। अत्र राजशब्देन चन्द्रविवक्षायां कुवलयशब्देनोत्पलं विवक्षितम् । भूपतिविवक्षायां कुशब्देन पृथिवी, तस्याः वलयं मण्डलं कुवलयपदेन विवक्षितमिति बोध्यम् ।