यद्यप्यक्षरशब्दो वर्णेषु लोकतः प्रसिद्धः

अक्षराधिकरणम्

तात्पर्यचन्द्रिका

संन्गतिकथनम्

।। ॐ अक्षरमम्बरान्तधृतेः ॐ ।।

यद्यप्यक्षरशब्दो वर्णेषु लोकतः प्रसिद्धः । तथापि न तस्यान्यत्रप्रसिद्धता । न हि सा ब्रह्मणोऽन्यत्र यत्र क्वचन प्रसिद्धता । किं तु पूर्वपक्ष्यभिप्रेतेऽन्यत्र । उभयत्र प्रसिद्धत्वं तु ‘‘विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारण’’ इति न्यायविवरण एवोक्तम् । प्रयोगसाधारण्येनोभयत्र प्रसिद्धता तु नोक्ता । पूर्वपक्षिणं प्रति सम्प्रतिपन्नप्रयोगाभावात् । वर्णादिसाधारणेन तेन ब्रह्मचित्प्रकृतिरूपार्थद्वयमात्रसाधारण्यासिद्धेश्च । प्रवृत्तिनिमित्तोपजीविस्थलान्तरस्थप्रयोगानुसन्धाननिरपेक्षे समन्वेतव्यशब्दप्रवृत्तिनिमित्तसाधारण्यप्रयुक्त उभयत्र प्रसिद्धत्वे सम्भवति तत्सापेक्षस्य तस्यानादरणीयत्वाच्च । अत्र चाक्षरशब्दो योगमात्रस्यातिप्रसक्तत्वात्पङ्कजादिवद्योगरूढः । तत्र रूढ्यंशसाधारण्यस्य ‘‘अक्षरत्रयमीरित’’मित्यदृश्यत्वाधिकरणभाष्योदाहृतस्मृत्यैव सिद्धेर्योगांश साधारण्यमात्रं ‘‘अविनाशित्वसाम्या’’दिति न्यायविवरण उक्तम् । अत एव टीकायां ‘‘द्रष्टृत्वादिश्रवणाज्जडप्रकृतेरोंकारस्य च न सन्देहनिविष्टत्व’’मित्युक्तम् । अन्यथा हि नित्यमात्रस्य न सन्देहनिविष्टत्वमित्यवक्ष्यत् । जडप्रकृत्यादिसाधारण्येनाक्षरशब्दस्योभयत्र प्रसिद्धत्वाभावस्तु टीकायां न शङ्कितः । अन्यसाधारण्येऽपि संशयकोटिसाधारण्यमात्रेण तत्सिद्धेः ।

प्रकाशिका

‘‘अत्राविनाशित्वसाम्याच्चित्प्रकृतौ हरौ च साधारणस्याक्षरनाम्न’’ इत्यादिपादादिसङ्गत्युक्तिपरा टीका न युक्तेव । अविनाशित्वसाम्येऽक्षरनाम्नस्साधारण्ये बीजाभावात् । यद्यपि ‘‘अविनाशित्वस्याक्षरशब्दप्रवृत्तिनिमित्तत्वादित्यत्रोपस्कर्तव्य’’मिति न्यायविवरणटीकोक्तया सबीजत्वम् । तथाप्यक्षरशब्दस्य विष्णुचित्प्रकृत्योर्यौगिकत्वेन लिङ्गतापत्त्या नाम्न इत्युक्तययुक्तेश्चेत्यतो मूलोक्तितद्व्याख्यानादिटीकां विवरिष्यन्नन्यत्र प्रसिद्धत्वं तावदाशंक्य निराह ।। यद्यपीत्यादिना ।। क्वचनेति निपातसमुदायः ।। किं त्विति ।। इह च वर्णे द्रष्टृत्वादेरयोगान्न पूर्वपक्ष्यभिप्रेत इति भावः । का तर्हि पूर्वपक्षकोटिः । कथं चोभयसाधारण्यम् । वर्णव्यावृत्तस्य तद्बीजस्याभावादित्यत आह ।। उभयत्रेति ।। अविनाशित्वं तु वर्णादिव्यावृत्तकोटिद्वयमात्रसाधारणमित्यग्रे विवरिष्याम इति भावः । एतेन टीकैतन्मूलेति सूचितम् ।

ननु वक्ष्यमाणदिशा रूढेरप्यावश्यकत्वात्तस्याश्च प्रयोगबाहुल्यादिरूपत्वात्प्रयोगवशादेव साधारण्यं कुतो नोक्तम् । किं रूढितोऽप्यमुख्ययोगाश्रयणेनेत्यत आह ।। प्रयोगेति ।। ‘‘यया तदक्षरमधिगम्यत’’ इत्यादिप्रयोगात्कथमेतदित्यत उक्तं सम्प्रतिपन्नेति ।। तत्रासंमतेरिति भावः ।। नन्वस्ति ‘‘परतः परमक्षरम् । हरिमेवे’’ति स्मार्तप्रयोग इत्यनुशयादाह ।। वर्णादीति ।। वर्णे लोकतः । जडप्रकृतौ च स्मार्तः ।। अर्थद्वयेति ।। तन्मात्रसाधारण्यस्यैव वक्तव्यत्वेनाग्रे साधनादिति भावः । ननु द्रष्टृत्वादिना वर्णजडप्रकृत्योर्निरासे द्वयमात्रवृत्तित्वं स्यादित्यतो हेत्वन्तरमाह ।। प्रवृत्तीति ।। श्रीतत्त्वादौ स्थलान्तरप्रयोगस्यावयववृत्त्यैवोपपत्तौ रूढेरकल्पनादिति भावः । नन्वेवं प्रवृत्तिनिमित्तस्याकाशादावपि सत्त्वेन कथं द्वयमात्रवृत्तित्वमक्षरशब्दस्येत्याशङ्कां हृदि कृत्वा ‘‘उपलक्षणं चैतत् । अक्षरशब्दस्य तत्र प्रसिद्धत्वादिति द्रष्टव्य’’मिति न्यायविवरणटीकायां ‘‘अविनाशित्वसाम्या’’दित्यस्योपलक्षणत्वोक्तेर्बीजं वदंस्तदनुरोधेनात्रापि टीकायामविनाशित्वसाम्यादित्यनन्तरं तत्र प्रसिद्धत्वाच्चेत्यपि द्रष्टव्यमिति भावेन योगस्य साधारण्यमुपेत्य रूढिबलाच्चोभयमात्रवृत्तित्वं द्रष्टव्यमित्येकं पक्षं तावदाह ।। अत्र चेति ।। अत एवेति ।। योगरूढिभ्यां साधारण्यस्याभिमतत्वादेवेत्यर्थः । ‘‘अक्षरत्रयमीरित’’मिति जडप्रकृतौ, ‘‘यस्त्वेतं त्रिमात्रेणोंऽकारेणैवाक्षरेण परमपुरुषमभिध्यायीते’’त्योंकारे च प्रयोगात्तयोरपि रूढेरविनाशित्वयोगस्य च सत्त्वाद्द्वयोरेव व्यवच्छेद्यतयोक्तिः । योगमात्रस्याभिमतत्वे तस्य नित्यमात्रेऽपि सत्त्वेन तन्मात्रमेव व्यवच्छेद्यतयोपादीयेतेत्यर्थः । ननु वर्णमात्रेऽपि योगरूढिभावोऽस्तीति चेत्सत्यम् । वर्णमात्रोपलक्षणमेतट्टीकायाम् । अत एव न्यायविवरणटीकायां ‘‘नन्वचेतन प्रकृतौ वर्णेषु च कुतो न शङ्के’’त्युक्तमिति ध्येयम् । ननु योगरूढ्योर्जड प्रकृत्यादावपि भावे सति पूर्वोत्तरकोटिद्वयमात्रसाधारण्याभावाद्द्रष्टृत्वादिना संशयादिकोटित्वशङ्कानिरासवदुभयत्र प्रसिद्धत्वाभावमाशङ्क्य कुतो न तन्निरासः कृत इत्यत आह ।। जडेति ।।

पाण्डुरङ्गि

नन्वक्षरशब्दस्योभयत्र प्रसिद्धशब्दसमन्वयप्रतिपादकपादे समन्वयप्रतिपादने पादासङ्गतिः । तस्य वर्णादौ रूढत्वेनान्यत्र प्रसिद्धत्वादित्यत आह ।। यद्यपीत्यादिना ।। सा अन्यत्र प्रसिद्धता । ननु चाविनाशित्वरूपप्रवृत्तिनिमित्तसाधारण्येनाक्षरशब्दस्योभयत्रप्रसिद्धत्वं किमर्थमुच्यते । प्रयोगसाधारण्येनाप्युभयत्र प्रसिद्धत्वोपपत्तेरित्यत आह ।। प्रयोगेति ।। पूर्वपक्षिणं प्रतीति ।। ब्रह्मणि चित्प्रकृतौ चेति शेषः । किं च प्रयोगसाधारण्येनाक्षरशब्दस्य चित्प्रकृतिब्रह्मरूपोभयप्रसिद्धता न सम्भवति । तस्य चित्प्रकृतिब्रह्मणोरिव वर्णादावपि सत्त्वादित्यत आह ।। वर्णादीति ।।

ननु च न प्रयोगमात्रमुभयत्रप्रसिद्धिसाधकत्वेनोच्यते । येनातिप्रसङ्गः स्यात् । किं नाम प्रवृत्तिनिमित्ताविनाशित्वोपजीविप्रयोगसाधारण्यमेव । न चैवं ब्रह्मणि प्रयोगो नास्तीति न तस्योभयत्रप्रसिद्धत्वमिति वाच्यम् । विषयवाक्ये प्रवृत्तिनिमित्तोपजीविप्रयोगाभावेऽपि स्थलान्तरे तत्संभवादित्यत आह ।। प्रवृत्तिनिमित्तेति ।। ननु यदि प्रयोगसाधारण्यस्य वर्णादिसाधारणत्वेन तेन ब्रह्मचित्प्रकृतिरूपार्थद्वयमात्रसाधारण्यासिद्ध्या तस्योभयत्र प्रसिद्धिसाधकत्वं नाङ्गीक्रियते तर्ह्यविनाशित्वरूपप्रवृत्तिनिमित्तसाधारण्येनाप्युभयत्र प्रसिद्धत्वं न स्यात् । प्रवृत्तिनिमित्तसाधारण्यस्यापि वर्णादिसाधारणत्वेन ब्रह्मचित्प्रकृति रूपार्थद्वयमात्रसाधारण्यासिद्ध्यापातादित्यतः स्यादेतदेवं यदि प्रवृत्तिनिमित्तसाधारण्यमात्रेणैवोभयत्र प्रसिद्धतोच्येत । किं नाम रूढिसहितयोगसाधारण्यमेव । अक्षरादिशब्दानां योगरूढत्वादिति भावेनाह ।। अत्र चेति ।। अत एवेति ।। रूढियोगसाधारण्यस्योभयत्रप्रसिद्धिसाधकत्वेनाभिमतत्वादेवेत्यर्थः ।। अन्यथेति ।। अविनाशित्वरूपप्रवृत्तिनिमित्तसाधारण्यमात्रस्यैवोभयत्रप्रसिद्धिसाधनत्वेऽभिमत इत्यर्थः । ननु रूढियोगसाधारण्यस्यापि प्रकृतिवर्णसाधारणत्वेन तेनापि तत्र ब्रह्मचित्प्रकृतिरूपार्थद्वयमात्रसाधारण्यसिद्धिः कथं स्यादित्यत आह ।। जडप्रकृत्यादीति ।। आदिपदेन वर्णसङ्ग्रहः । विष्णुचित्प्रकृतिवर्णसाधारणत्वाद्द्वयमात्रसाधारण्याभावादुभयत्रप्रसिद्धत्वं कथमिति शङ्काभावो वक्ष्यमाणहेतोरिति भावः । सन्देहकोट्योरेव साधारण्यस्य विवक्षितत्वादिति भावः ।

Load More