प्रतिसम्बन्धिना तुल्यदेशे सम्बन्धिनि स्थितेः
आकाशे अणुत्वमप्यस्तीति साधनं
तात्पर्यचन्द्रिका
किञ्च–
प्रतिसम्बन्धिना तुल्यदेशे सम्बन्धिनि स्थितेः ।
संयोगस्याणुसंयोगो ह्याकाशेऽप्यणुमात्रगः ।। १ ।।
आकाशस्येश्वरस्य च परमाणुसंयोगः प्रतिसम्बन्धिभूतपरमाणुतुल्यपरिमाणाकाशादिप्रदेशवृत्तिर्वाच्यः । सूच्यग्रादिना पर्वतादेः संयोगस्य सूच्यग्रसमपरिमाणपर्वतादिप्रदेशवृत्तित्वदर्शनात् । यदि चान्यत्रादृष्टाप्याकाशसंयोगस्य प्रतिसम्बन्धिपरिमाणादधिकपरिमाणदेशवृत्तिता तर्ह्यन्यत्रादृष्टमीश्वरस्य महतोऽप्यणीयस्त्वं स्यात् । भेरीशब्दासमवायिकारणस्य हन्यमानभेर्याकाशसंयोगस्य कृत्स्नाकाशवृत्तित्वं च स्यात् । तथाच त्वन्मते जन्यविभुविशेषगुणानां देशनियमस्यासमवायिकारणकृतत्वादाद्य एव भेरीशब्दः कृत्स्नव्यापीति तस्य सर्वत्रोपलब्धिः स्यात् । वीचीतरङ्गन्यायेन शब्दपरंपरोत्पत्तिप्रक्रियाभङ्गश्च स्यात् । संयोगस्य स्वात्यन्ताभावसामानाधिकरण्याददोष इति चेन्न । अणुत्वमहत्त्वयोरसामानाधिकरण्यनियमे भावाभावयोः सुतरां सामानाधिकरण्यायोगात् । किंच भेर्यवष्टब्धप्रदेशे संयोगवत्तदत्यन्ताभावस्य अन्यत्र च तदत्यन्ताभाववत्संयोगस्य धीःस्यात् । प्रदेशस्यौपाधिकत्वे तूपाधिसंयोगोऽप्युक्तरीत्याऽणुप्रदेशवृत्तिःस्यात् । न च निरवयवे गगनेऽणुपरिमाणः प्रदेशोऽन्योस्तीति महतो गगनस्यैवाणुत्वं सिद्धमिति नाणुत्वमहत्त्वयोर्विरोधः ।
प्रकाशिका
एवं लोके विरोधमुपेत्य द्वयोर्ब्रह्मणि समावेशस्समर्थितः । इदानीं घटादावन्यापेक्षयाऽणुत्वमहत्त्वयोरविरोध इव स्वापेक्षयाऽपि स्वस्य तथाभावो युक्तः । ‘‘महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित्’’ इति ‘‘अतस्सर्वपदार्थानां भागास्सन्त्येव सर्वदा । सर्वदिक्ष्वपि सम्बन्धा’’दित्यादिवैशेषिकनयानुभाष्योक्तयनुरोधेनात्र सुधायां ‘‘किं चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तत उताकाश एवे’’त्यादिना प्रपञ्चितरीत्याऽपरिच्छिन्ने गगनादौ परिमाणापकर्षलक्षणाणुत्वस्यापि दर्शनेन विरोधस्यैवाभावाद्ब्रह्मणि तत्समावेशो युक्त इत्यभिप्रेत्याकाशेऽणुत्वमपि साधयति ।। किञ्चेत्यादिना नाणुत्वमहत्त्वयोर्विरोध इत्यन्तेन ।। यद्वा ‘‘परमाणुसम्बद्ध ईश्वरप्रदेशः परमाणुपरिमाणतामणति । मेरुमन्दरादिगतस्तत्परिमाणतामुपैति । स एव गगनसम्बन्धी तादृशो भवति । न हि तेषां प्रदेशानामीश्वरान्मिथो वा भेदं वादिनो वदन्ती’’त्यादिना तत्वप्रदीपोक्तदिशा ईश्वरोऽणुपरिमाणाश्रयः । अणुपरिमाणपरमाणुसंयोगाश्रयत्वादित्यनुमानमभिप्रेत्य हेतोर्व्याप्तिसिद्ध्यर्थं गगनादौ दृष्टान्ते दार्ष्टान्तिके ईश्वरेच तत्साधयति ।। किञ्चेत्यादिना ।। श्लोकं व्याख्याति ।। आकाशस्येति ।। अप्रयोजकत्वमाशङ्क्य विपक्षे बाधकद्वयमाह ।। यदिचेति ।। अस्तु कृत्स्नवृत्तित्वं को दोष इत्यत आह ।। तथाचेति ।। एतेन ‘‘भेरीसंयोगस्यापि तथात्वोपपत्तेः । तथाच सर्वत्र शब्दोपलब्धिप्रसङ्गा’’दिति सुधावाक्यं विवृतं भवति । संयोगस्याव्याप्यवृत्तित्वं मत्वोक्तबाधकपरिहारमाशङ्कते ।। संयोगस्येति ।। अदोष इति ।। संयोगस्य प्रदेशवृत्तित्वदर्शनादीश्वरे गगनादौ च परमाणुतुल्यपरिमाणप्रदेशोऽपि परमाणुसंयोगाश्रयतयाऽभ्युपगन्तव्य इति दोषो नास्तीत्यर्थः । अन्यथा न्यायामृते प्रदेशस्य प्रदेशिनो भिन्नत्वेनान्यवृत्तिधर्मस्यान्यवृत्तित्वाभ्युपगमेऽतिप्रसङ्गादिति भावः । ‘‘भावाभावयोरन्यत्र सर्वत्र सहानवस्थितयोः कथं विरोधो न भवे’’दिति सुधोक्तं दोषं व्यक्तमाह ।। अणुत्वेति ।। सुतरामिति ।। अणुत्वमहत्त्वयोरेकत्र वृत्तौ हि तत्परिमाणप्रदेशादिनिष्ठतया संयोगतदभावयोरविरोधो नान्यथेति भावः । अल्पपरिमाणप्रदेशवृत्तित्वमनङ्गीकृत्य स्वात्यन्ताभावसामानाधिकरण्यनियमे दोषान्तरं चाह ।। किञ्चेति ।। यद्वा एकत्र संयोगतदभावौ प्रतीतिविरोधान्न स्त इत्याह ।। किञ्चेति ।। नन्वस्तूक्तदिशा परमाणुसंयोगो गगनादौ परमाणुतुल्यपरिमाणप्रदेशवृत्तिर्न तावता गगनादेरणुत्वमहत्त्वसिद्धिः । प्रदेशस्यौपाधिकत्वात् । स्वाभाविकत्वे वा पटादाविव भिन्नत्वेनाणुत्वस्य तन्मात्रनिष्ठत्वेन गगनादावभावादित्यतो द्वयमपि क्रमेण निराह ।। प्रदेशस्येति ।। उक्तरीत्येति ।। सूच्यग्रेत्यादिनोक्तरीत्येत्यर्थः । नन्वस्तूपाधिसंयोगोप्यणुपरिमाणकप्रदेशवृत्तिः । को दोष इति चेत् सोपि किमौपाधिक उत स्वाभाविकः । नाद्यः । आत्माश्रयाद्यापत्तेः । द्वितीये तु स्वाभाविकाणुपरिमाणकप्रदेशो गगनादावंगीकृतस्स्यादिति भावः । उक्तं च तत्वविवेकटीकायां ‘‘तथैवांशांशिनोरपी’’त्येतद्व्याख्यावसरे किं चाकाशस्य तावदंशास्सन्तीत्यङ्गीकरणीयम् । अन्यथाऽऽकाशे विहगशरीरभावाभावौ न स्याताम् । संयोगस्स्वात्यन्ताभावसमानाश्रय इति चेन्न । विरोधात् । अन्यथा सर्वत्र भावाभावविरोधाभावप्रसङ्गात् । न चोपाधिकृतांशसद्भावादविरोधः । उपाधेरपि विहगशरीरसमानयोगक्षेमत्वा’’दिति ।। निरवयव इति ।। ‘‘कूटं खं विदलं व्योमे’’त्यादौ विदलत्वप्रसिद्धेः । परैरपि तथाऽङ्गीकाराच्चेति भावः । गगने प्रदेशोऽन्यो नह्यस्तीत्यनेनैतदपि निरस्तम् । संयोगः प्रदेशवृत्तिरित्ययुक्तम् । तथात्वे घटादिसंयोगोऽपि घटाद्यंशसंयोगपूर्वकः सोऽपि तदंशसंयोगपूर्वक इत्यनवस्थापत्तेः । न चेयं निरंशे परंपरा विश्राम्यतीति वाच्यम् । उक्तरीत्या कस्याप्यनंशत्वाभावादिति प्रदेशप्रदेशिनोरभेदेन प्रदेशसंयोगस्यैव प्रदेशिसंयोगत्वेनानवस्थाभावादिति । एतेनैवान्यसंयोगस्य कथमन्यसंयोगत्वम् । अतिप्रसङ्गादित्यपि प्रत्युक्तम् । तयोरभेदादिति । प्रपञ्चितं चैतद्वैशेषिकानुव्याख्यानसुधयोः–
अंशांशिनोरभेदेन त्वंशं संयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ।।
एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा ।। इत्यादिनेति भावः ।
चन्द्रिकाबिन्दुः
प्रतिसन्धिना परमाण्वादिप्रतिसन्धिना । आकाशसंयोगस्य आकाशे परमाण्वादिसम्योगस्य ।। कृत्स्नाकाशवृत्तित्वं चेति ।। प्रतिसम्बन्धिभेदावच्छिन्नाकाशापेक्षया सर्वाकाशवृत्तित्वात्सम्योगस्येति भावः ।। सम्योगस्येति ।। तथा च सम्योगवत् तदत्यन्ताभावस्यापि सत्त्वेन सर्वत्र शब्दोपलब्धिर्न भवत्येवेति भावः ।। सुतरामिति ।। सर्वविरोधानां भावाभावविरोधमूलत्वादिति भावः । ननु संयोगवति तदभावस्य वा तदभाववति संयोगस्य वा प्रतीतिरापादयितुं न शक्यते । उभयोः प्रदेशभेदेन वृत्तेरङ्गीकारादित्याशङ्क्याह ।। प्रदेशस्येत्यादिना ।।
पाण्डुरङ्गि
वीचीतरङ्गन्यायेनेति ।। प्रथमोत्पन्नावीचीवीच्यन्तरमारभते तच्च तरङ्गान्तरं तथा शब्दोपि सर्वतो दिक्षुसजातीयशब्दान्तरं तदपि शब्दान्तरमिति वीचीतरङ्गन्यायेनेत्यर्थः ।। उक्तरीत्येति ।। आकाशस्योपाधिसंयोगः प्रतिसम्बन्धिभूतोपाधितुल्यपरिमाणाकाशादिप्रदेशवृत्तिर्वाच्य इत्युक्तरीत्येत्यर्थः ।।