मध्ये वामनमित्यत्र च मध्यशब्दो देशवाची

मध्यशद्बस्य मध्यस्थान ब्रह्मपरत्वे श्रौतदृष्टान्त:

तात्पर्यचन्द्रिका

मध्ये वामनमित्यत्र च मध्यशब्दो देशवाची । ‘‘ऊर्ध्वं प्राण’’मिति देशवाचकोर्ध्वशब्दसाहचर्यात् । ऊर्ध्वत्वप्रतियोगित्वाच्च । एवं च यथा ‘‘त्रिःप्रथमामन्वाहे’’त्यत्र प्रथमाशब्दो या ऋक् यत्र प्रकृतौ विकृतौ वा प्रथमस्थानस्था तत्पर एव । न तु प्रकृतौ प्रथमस्थानस्थप्रवोवाजीयऋग्विशेषमात्रपरः । एवं मध्यशब्दोऽपीह ‘‘ऊर्ध्वं प्राण’’मिति प्राणस्य स्थानान्तरनिर्देशात्तत्त्यागेन मध्यमस्थानस्थब्रह्मपरः । न तु श्रुत्यन्तरे मध्यमशब्दोक्तप्राणपरः । तस्माल्लिङ्गानि सावकाशानि । तदुक्तं न्यायविवरणे ‘‘लिङ्गानां परमात्मन्यवकाशो विद्यत एवे’’ति । अङ्गुष्ठमात्रत्वं च मूर्तिविशेषस्य व्यक्तयात्मनांऽगुष्ठमात्रत्वाद्वा स्थानहृदयगतस्य स्थानिनि ब्रह्मण्युपचाराद्वा युक्तम् । ननु परिमाणार्थकमात्रच्प्रत्ययोऽयं न त्ववधारणार्थो मात्रशब्दः । ‘‘देहांगुष्ठमितो देहे जीवांगुष्ठमितो हृदी’’ति स्मृतौ मित इति परिमाणस्यैवोक्तेः । अङ्गुष्ठपरिमाणत्वं च सर्वगतस्यापि व्योमवदित्युक्तमित्येव सूत्रे कस्मान्न समाहितमिति चेत् तथात्वे अङ्गुष्ठमात्रवाक्ये ‘‘मध्य आत्मनी’’त्यस्य हृदीत्यस्य च वैयर्थ्यापातात् । ‘‘अङ्गुष्ठमात्रः पुरुषोंऽगुष्ठं च समाश्रित’’ इति श्रुत्यन्तरे चाङ्गुष्ठमात्रहृदयगतत्वेनाङ्गुष्ठमात्रत्वोक्तेः । स्मृतावपि हृदीत्यादेरवैयर्थ्यायावधारणस्य विवक्षणीयत्वाच्च । प्राण्यन्तरस्यांगुष्ठाभावेपि शास्त्रस्य मनुष्याधिकारिकत्वात् । मनुष्याणां चांगुष्ठस्य सत्त्वेनादोषत्वात् ।

प्रमितग्रहणेनात्र श्रुतेर्निरवकाशताम् ।

एवकारेण लिङ्गेभ्यः प्राबल्यं सूत्रकृज्जगौ ।। १ ।।

प्रकाशिका

एवं लिङ्गद्वयं विष्णावुपपाद्य मध्यमत्वमपि सावकाशयति ।। मध्य इति ।। साहचर्यादिति ।। यथा ‘‘वत्समालभेते’’ति श्रुतवत्सालंभस्य गोदोहनादिगुणकर्मसाहचर्येण गुणकर्मत्वं तथेति भावः । ऊर्ध्वेति ।। ऊर्ध्वशब्दस्य पूर्वसापेक्षत्वेन तत्प्रतियोगिसमर्पकत्वाच्च मध्यदेशवाचीत्यर्थः । अस्त्वेवं किं तत इत्यतो दृष्टान्तपूर्वं सङ्गमयति ।। एवं चेति ।। नवमस्याद्यपादे ‘‘अभ्यासस्सामिधेनीनां प्राथम्यात् स्थानधर्मस्स्या’’दिति नवमेऽधिकरणे दर्शपूर्णमासयोः पञ्चदशसामिधेनीर्विधायैकादशर्चः पठित्वा ‘‘त्रिःप्रथमामन्वाह । त्रिरुत्तमाम् । ताःपञ्चदश सम्पद्यन्त’’ इति श्रुतं वाक्यमुदाहृत्य त्रिरभ्यासः किं प्राथम्योपलक्षिताया ऋचः प्रवोवाजीयाया धर्मः । तथाच यत्र तत्रस्थप्रवोवाजीया त्रिरभ्यसितव्या उत प्रथमस्थानधर्मः । ततश्च प्रवोवाजीयाया अन्यापि या विकृतिषु प्रथममुच्यते साप्यूहेन त्रिरभ्यसितव्येति विशये प्रथमामिति स्त्रीलिङ्गनिर्देशात्तस्या एवर्चः त्रिरभ्यास इति प्राप्ते प्रथमाशब्देनैव श्रुत्या प्राथम्याभिधानात् ऋचस्तु लक्षणीयत्वाद्यत्प्रथममुच्यतेऽतस्त्रिरिति प्राथम्यैकार्थसमवेतत्रिरभ्यासस्य विधिः । स्त्रीलिङ्गं तु प्राथम्यस्य ऋगाश्रयत्वेनैव प्राप्तत्वाद्गुणवाचिनामाश्रयलिङ्गवचनत्वान्नित्यानुवादः । तस्मात्प्रथमस्थानधर्म एव त्रिरभ्यास इति सिद्धान्तितम् । तत्र यथा प्रथमाशब्दः प्रथमस्थानस्थऋङ्मात्रपरो न तु विशेषपरः । एवमिहापि मध्यस्थानस्थपरो न तु तत्रस्थप्राणरूपविशेषपरः । तस्य स्थलान्तरे निर्देशात् । तथाच मध्यस्थं ब्रह्मैवेति तत्पर इति सिध्यतीत्यर्थः ।

एवं प्रथमसूत्रोक्ते श्रुतिलिङ्गयोर्निरवकाशत्वसावकाशत्वे समर्थ्येदानीं पूर्वपक्ष्युक्तांगुष्ठमात्रत्वस्यापि ‘‘हृद्यपेक्षयात्वि’’ति द्वितीयसूत्रोक्तं सावकाशत्वं हृदि विद्यमानावकाशापेक्षयेत्यादिटीकायां द्वेधाऽभिप्रेतमिति भावेन टीकां विवृण्वन्नाह ।। अङ्गुष्ठेति ।। एतेन टीकावाक्यं वाशब्दसंयोजनेन योज्यमित्युक्तं भवति । टीकायां क्वचिद्वाशब्देनापि पाठः । सौत्रं समाधानमाक्षिप्य समाधत्ते ।। नन्विति ।। ‘‘प्रमाणे द्वयसज्दघ्नञ्मात्रच’’ इति सूत्रादंगुष्ठशब्दान्मात्रच्प्रत्यये ‘‘जानुमात्रं जल’’मितिवदङ्गुष्ठपरिमाण इत्यर्थो लभ्यते । ततश्च किमित्यत आह ।। अङ्गुष्ठेति ।। वैयर्थ्येति ।। अङ्गुष्ठपरिमितत्वस्य स्थानसापेक्षत्वाभावादिति भावः । नन्विदं समाधानं पश्वादीनामङ्गुष्ठाभावेन तदन्तर्गतविष्णावसम्भवीत्यतो मनुष्याधिकारत्वादिति सूत्रशेषतात्पर्यं भाष्यटीकयोरुक्तमाह ।। प्राणीति ।। अत्राद्यसूत्रस्य हेतूक्तिपरत्वाद्द्वितीयस्य बाधकनिरसनपरत्वात्पौर्वापर्यसङ्गतिः स्पष्टेत्युपेक्ष्योक्तन्यायस्य सूत्राक्षरारूढतां टीकोक्तामेव सङ्गृह्य दर्शयति ।। प्रमितेति ।। अत्र आद्यसूत्रे ।

चन्द्रिकाबिन्दुः

मध्यमशब्दस्य प्रदेशभेदेन भिन्नार्थत्वमुपपद्यत इत्येतत् सदृष्टान्तमुपपादयति ।। एवं चेति ।। न त्विति ।। अन्यत्र तस्या एव ऋचोऽभावादिति भावः ।। तथात्व इति ।। इतरपरिमाणव्यवच्छेदतात्पर्याभाव इत्यर्थः । टीकायां स्थलद्वये उक्तमर्थं विक्षेपपरिहारार्थं बुद्धिसौकर्याय कारिकया सङ्गृह्याह ।। प्रमितग्रहणेनेति ।।

पाण्डुरङ्गि

मध्ये वामनमासीनमिति सर्वोत्तमत्वरूपकाष्ठात्वविरोधिमध्यस्थत्वमुच्यमानं वायावेवोपपद्यते । नतु विष्णाविति कथं तस्य सावकाशत्वमित्यत आह ।। मध्येवामनमित्यत्र चेति ।। अङ्गुष्ठमात्रवाक्य इति ।। अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठतीत्यङ्गुष्ठमात्रवाक्ये मध्य आत्मनीत्यस्य देहांगुष्ठमितो देहे जीवांगुष्ठमितो हृदीत्यत्र हृदीत्यस्य च वैयर्थ्यापातादिति भावः ।। स्मृतावपीति ।। देहाङ्गुष्ठमितो देहे जीवांगुष्ठमितो ह्रदीति स्मृतावपीत्यर्थः ।