सिद्धान्तस्तु
सिद्धान्ते हृत्पद्मस्थयोविष्णुरेव न तु आकाशादिरीति निरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ।। हृत्पद्मस्थत्वं विष्णोरेव । अपहतपाप्मत्वादिलिङ्गात् । तच्च न हृत्पद्मस्थदहराकाशतया । येनोक्तदोषाः (षः) । किन्तु हृत्पद्मस्थदहराकाशगततया । न च गगनेऽपहतपाप्मत्वाद्युक्तिर्युक्ता । तत्र पाप्माद्यप्रसक्तेः । न चेश्वरेऽपि तदप्रसक्तिः ।
सजातीये दर्शनं हि प्रतिषेधे प्रयोजकम् ।
चेतने चैव पाप्मादिमत्ता दृष्टा जडे तु न ।। १ ।।
जीवस्य तु न संसारदशायामपहतपाप्मत्वादिकम् । मुक्तिदशायां तु देहाभावान्न हृत्पद्मस्थत्वम् । किञ्च अपहतपाप्मत्वादिकं भाष्योक्तश्रुत्यादिभिरीशस्य निरपेक्षम् । जीवस्य तु ईशदत्तत्वात्सापेक्षम् । न च निरपेक्षसम्भवे सापेक्षं ग्राह्यम् । एतेन सत्यकामत्वादेरपि ब्रह्मलिङ्गता सिद्धा । एतेनैवाकाशेऽप्यभिमान्यभिप्रायमपहतपाप्मत्वादीत्यपि निरस्तम् । अन्वयानुपपत्तिश्च ‘‘योऽन्वेष्टव्यो भगवांस्तस्यान्तर्हृदये यावान्वा अयमाकाशस्तावानाकाशस्तस्मिन् द्यावापृथिवी अन्तरेव समाहिते सच भगवानपहतपाप्मेत्यन्वय’’ इति न्यायविवरणे परिहृता । तद्विवृतं ‘‘तथाही’’ त्यादिटीकायाम् ।
प्रकाशिका
‘‘दहरपद्मस्थो विष्णुरेव भवे’’दित्यादिटीकार्थमनूद्य व्यनक्ति ।। हृत्पद्मस्थत्वमिति ।। लिङ्गानां बहुत्वेन सूत्रादौ बहुवचननिर्देशेऽपि प्रत्येकं हेतुत्वं सूचयितुं लिङ्गादित्येकवचननिर्देशः । एतच्च ‘‘गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च । धृतेश्च महिम्नोस्यास्मिन्नुपलब्धेः । प्रसिद्धेश्चे’’ति सौत्रसाधकानामुपलक्षणम् । उक्तदोषाः सुषिरश्रुतिविरोधादय इत्यर्थः । लिङ्गनिरवकाशत्वोक्तिपरां ‘‘नचाकाशस्यापि पापाद्यभावेने’’त्यादिटीकां व्यनक्ति ।। न च गगन इति ।। दर्शनं हीति ।। हिर्हेतौ । प्रसिद्धौ वा । नन्वस्त्विहापि सजातीये जडान्तरे पापदर्शनाद्गगने तन्निषेध इत्यत आह ।। जडे तु नेति ।। यदपि जीवे सावकाशमित्युक्तं तदपि नेति भावेन ‘‘असम्भवात् । उत्तराच्चेदाविर्भूतस्वरूपस्त्वि’’ति सूत्रभाष्यटीकोक्तं व्यनक्ति ।। जीवस्यत्विति ।। ननूक्तं भाविभावाभिप्रायेण संसारिण्यपि युक्तमिति । तथाऽऽकाशेऽप्यभिमानिद्वारा युज्यत इति चेत्यतो भाष्यटीकोक्तरीत्याऽनवकाशत्वमाह ।। किञ्चेति ।। श्रुत्यादिभिः ‘‘एषसर्वेभ्यः पाप्मभ्य उदित’’ इति ‘‘सर्वे पाप्मानोऽतोऽनिवर्तंते’’ इति ‘‘न ह वै देवान् पापं गच्छती’’त्यादि श्रुतिभिः,
नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।
अशनायादिकानन्ये तत्प्रसादात्तरंति हि ।
सत्यकामः परो नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत्तत्काम्यकामिता ।।
इत्यादिस्मृतिभिरित्यर्थः ।। जीवस्यत्विति ।। एतेन ‘‘आविर्भूतस्वरूपस्त्वि’’ति सौत्रखण्डस्य तात्पर्यमुक्तं भवति ।। न च निरपेक्षेति ।। ‘‘यस्य पर्णमयी जुहूर्भवती’’ति श्रुतजुहूवदिति भावः । अत एव च ‘‘यद्योन्यां तदुत्तरयोर्गायती’’त्यत्रोत्तराशब्दस्योत्तराग्रन्थे निरपेक्षवृत्तित्वेन तद्गतयोरेवोत्तरयोर्ग्रहणम् । न पुनस्सापेक्षयोर्योन्युत्तरयोरित्युक्तं नवमे । एवमुत्तरेभ्य इति सौत्रलिङ्गानां निरवकाशतोक्तया हृत्पद्मस्थदहराकाशस्थो विष्णुरित्युक्तम् । इदानीं परोक्तबाधकं निरसिष्यन्नन्वयानुपपत्तिं तावत्परिहर्तुमाह ।। अन्वयेति ।। टीकायामिति ।। ‘‘प्रसिद्धेश्चे’’तिसूत्रटीकायामित्यर्थः । एतेन भाष्येऽनुक्तावपि टीकायामन्वयोक्तिर्न्यायविवरणमूलेति दर्शितम् ।
चन्द्रिकाबिन्दुः
वाक्यान्वयस्त्विति सिद्धान्तः । तच्च हृत्पद्मस्थत्वं अपहतपाप्मत्वादिलिङ्गादिति । यद्यपि अपापत्वं पापात्यन्ताभावाधिकरणत्वं विष्णाविव जडेऽप्यस्ति तथापि पापनिषेधकरणं विष्णावेव तदेव च लिङ्गम् । निषेधश्च न जडे ।। अप्रसक्तेरिति ।। अपहतपाप्मेत्यादिनिषेधवाक्यप्रसक्तयन्यथानुपपत्तिरेव लिङ्गमिति भावः । अपहतपाप्मत्वहृत्पद्मस्थत्वयोर्जीवविषये कालतो वैयधिकरण्यमित्याह ।। जीवस्य त्वित्यादिना ।। एतेनेति ।। सत्यकामत्वादेर्निपरेक्षत्वस्य विवक्षितत्वेनेत्यर्थः ।। एतेनैवेति ।। अभिमानिगतापहतपाप्मत्वादेः सापेक्षत्वेनैवेत्यर्थः ।।
पाण्डुरङ्गि
प्रथमसूत्रोक्तं हेतुमाह ।। हृत्पद्मस्थत्वमिति ।। येनोक्तदोष इति ।। सुषिरस्य दहरस्थाकाशत्वप्रतिपादकश्रुतिविरोध इत्युक्तदोषो नेत्यर्थः । ननु चेतनत्वेन साजात्यविवक्षया जीवे पापप्रसक्तयेश्वरे तन्निषेधे पारतंत्र्येण जीवजडाकाशयोरपि साजात्यविवक्षया जीवे पापप्रसक्तया भूताकाशेऽपि तन्निषेधोपपत्तिरित्यरुचेराह ।। किञ्चेति ।। एतेनेति ।। अपहतपाप्मत्वादेः ब्रह्मधर्मत्वोपपादनेनेत्यर्थः ।। एतेनेति ।। जीवस्यापहतपाप्मत्वस्येशदत्तत्वेन तत्सापेक्षत्वोपपादनेनेत्यर्थः । तथाहीत्यादिवाक्यान्वयानुपपत्तिपरिहारकटीकाग्रन्थोऽनुपपन्नः ।