तत्वप्रदीपे तु ‘‘अभ्युपगम्यवादत्वा’’दित्यादिनाऽयं ..

ब्रम्हण: उत्क्रमणम् श्रुतिसिद्धं उपपत्तिसिद्धं च

तात्पर्यचन्द्रिका

तत्वप्रदीपे तु ‘‘अभ्युपगम्यवादत्वा’’दित्यादिनाऽयं प्राणो विष्णुरित्यभ्युपेत्यवादेन भाष्यं प्रवृत्तमित्युक्तम् । तत्र भाष्यन्यायविवरणयोः पक्षभेदेन व्यवस्थितत्वाद्भाष्ये पूर्वपक्ष उत्क्रमणलिङ्गोक्तिः सिद्धान्ते ब्रह्मण्युत्क्रमणसमर्थनं च स्वरसम् । युक्तं च ब्रह्मण्युत्क्रमणम् ।

जात्यादेः सर्वगस्यापि प्रतिव्यक्तिसमाप्तिवत् ।

सर्वगस्यापीश्वरस्य क्रियाया अपि सम्भवात् ।। १ ।।

यथा सर्वगतान्तरेऽदृष्टामपि जातिरूपसर्वगत एकैकत्र समाप्तिः । एकैकव्यक्तिदर्शनेऽपि जातिप्रतीतेः । यथा चासम्भावितमपि सर्वगतेषु गगनादिषु सर्वगतदिगाद्यसम्बद्धत्वमजसंयोगाभावपक्षे । तथा सर्वगतान्तरेऽदृष्टमपि क्रियावत्त्वं ब्रह्मण्यस्तु । ‘‘तमुत्क्रामन्तं प्राणोनूत्क्रामति’’ ‘‘स्वाभाविकी ज्ञानबलक्रिया च’’ ‘‘ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मन’’ इत्यादिश्रुतेः । क्रियाया औपाधिकत्वं तु ‘‘सर्वत्र प्रसिद्धे’’त्यत्रोक्तेनाणुत्वस्यौपाधिकत्वनिरासकन्यायेन निरसनीयम् । किञ्च क्रियावत्त्वेऽणुत्वमेव तन्त्रम् । न तु महत्त्वाभावादि । गौरवात् । गुणजात्यादौ क्रियापाताच्च । अत एव न महत्त्वमक्रियत्वे तन्त्रम् । गुणादौ महत्त्वाभावेऽप्यक्रियत्वदर्शनात् । भावरूपायां क्रियायां पूर्वं धीस्थायां पूर्वं धीस्थं यदणुत्वरूपं प्रयोजकं तदभावादेवाक्रियत्वोपपत्तौ तत्प्रयोजकान्तरस्यानन्वेषणीयत्वाच्च । यदि च विभुद्रव्ये पूर्वदेशाविभागादिरूपफलाभावेन क्रिया न स्यात्तर्हि सुखदुःखेच्छा संस्कारादिरूपफलाभावेनेश्वरे ज्ञानमपि न स्यात् । ज्ञानं नित्यत्वाल्लोकविलक्षणं चेत्क्रियापि तथास्तु ।

प्रकाशिका

परिहारान्तरमाह ।। तत्वप्रदीपे त्विति ।। भाष्यादौ हरावुत्क्रमणस्य श्रुतिसिद्धत्वमेवोक्तम् । न तूपपत्तिसिद्धत्वम् । स्वयं तदाह ।। युक्तं चेति ।। आदिपदार्थं वदन् श्लोकं व्याचष्टे ।। यथेति ।। ननु तत्र प्रतीतिबलादन्यतरकर्मादिकारणाभावादिवशात्तथात्वेऽपीह किं मानमित्यत आह ।। तमिति विष्णुमित्यर्थः । श्रुतेरौपाधिकक्रियाविषयत्वमस्त्वित्यत आह ।। क्रियाया इति ।। यथा सर्षपादेरणीयस्त्वे ततोऽप्यधिकपरिमाणहृदयादेरनुपाधित्वं तथाऽत्यन्ताणुतररूपगतक्रियायामपि न ततोऽपि स्थूलस्योपाधित्वं उत्क्रान्तप्राणानित्यादौ क्रियोपाधेरनुक्तेश्च श्रौतोत्क्रमणानुरोधेनेश्वरस्य क्रियावत्त्वं तत्प्रयोजकमणुत्वं च स्वाभाविकम् । अक्रियत्वं तत्प्रयोजकमहत्त्वं त्वौपाधिकमित्यपि सुवचम् । अतिमहापरिमाणादेः कथं ततो न्यूनपरिमाणोपाधिकृतत्वमिति चेत्सर्षपादितोऽप्यणुपरिमाणादेः कथं ततोऽधिकपरिमाणहृदयाद्युपाधिहेतुकत्वमिति सममित्यादिरूपेण निरसनीयमित्यर्थः । अत एव ‘‘स्वाभाविकी’’ति श्रुत्युक्तिः ।

ननु न हरौ क्रियावत्त्वं युक्तम् । प्रयोजकधर्माभावात् । अन्यथोत्क्रमणादिना जीवाणुत्वादिसिद्धिर्न स्यात् । व्याप्ते हरौ पूर्वदेशविभागादिफलाभावाच्च । अतस्तन्निवृत्तौ क्रियाया अपि निवृत्तिः । श्रुत्यादि तु गौणं व्याख्येयमित्यतः प्रयोजकं तावदाह ।। किञ्चेति ।। आदिपदेन महत्त्वाभावविशिष्टमणुत्वं गृह्यते । महत्त्वाभावस्य तंत्रत्वे दोषान्तरमाह ।। गुणेति ।। पररीत्यैतत् । ‘‘गुणाद्वा लोकव’’दित्यत्र गुणेऽपि क्रियावत्त्वोक्तेः । प्रागुक्तप्रतिबन्दीं निराह ।। अत एवेति ।। एतमेव हेतुं व्यनक्ति ।। गुणादाविति ।। किं तर्ह्यक्रियत्वे तन्त्रं यदभावाद्धारावक्रियत्वं वार्यत इत्यतस्सयुक्तिकं तदाह ।। भावेति ।। यदपि फलाभावादक्रियत्वमिति तदप्रयोजकमित्याह ।। यदि चेति ।। तथास्त्विति ।। अनित्यक्रियाया विभागादिफलजनकत्वेऽपीश्वरक्रियाया नित्यत्वेन लोकक्रियाविलक्षणत्वात्तादृशफलाभावेऽपि क्रियावत्त्वं सम्भवतीत्यर्थः । ननूत्क्रान्तप्राणानिति भूतकालनिर्देशान्न क्रियाया नित्यत्वमिति चेत्तर्हि तदैक्षतेति निर्देशाज्ज्ञाननित्यत्वाभावोऽपि स्यात् । यदि वेदस्यानादिनित्यत्वादद्य इव श्वःप्रभृतिष्वप्यनन्तकालेष्वेवमेवोक्तया ज्ञानस्यानाद्यनन्तकालतासिद्ध्या वा लकारस्य कालत्रयान्यतमवाचित्वेन कालत्रयवाचिनः कस्यचिल्लकारस्याभावाद्येनकेनचिल्लङादिना निर्देशेऽपि तन्नित्यत्व एव श्रुत्यन्तरसिद्धे तात्पर्याद्वा ज्ञाननित्यत्वसिद्धिः तर्हि क्रियाया अपि तथात्वमस्तु । अत एव पूर्वं ‘‘ज्ञानं नित्यं क्रिया नित्ये’’त्युदाहृतम् । ननु यदीश्वरक्रिया नित्या सर्वदोपलभ्येतेति चेन्न । अयोग्यत्वेन प्रत्यक्षेणोपलम्भाप्रसक्तेः ।। श्रुत्योपलम्भस्य तु ‘‘क्रिया नित्ये’’ति सत्त्वात् । अभिव्यक्तेः कादाचित्कत्वेन कदाचिदुपलम्भस्यापि सम्भवाच्च । उक्तं च सुधायामत्तेतिनये ‘‘कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्याम’’ इति । एतेन भगवति नित्यमुत्क्रमणवत्त्वे जीवस्य सर्वदा मरणमेव स्यादिति निरस्तम् । शक्तयात्मनोत्क्रमणस्य नित्यत्वेऽपि कदाचिदेव व्यज्यमानत्वेन दोषाभावात् । ननु यदि क्रियाविभागादिकार्यं न कुर्यात्तर्हि क्रियात्वं व्याहन्येत । संयोगविभागासमवायिकारणत्वात्क्रियायाः । यदि सा तौ कुर्यात्तर्हि तस्यास्संयोगविभागौ प्रत्यनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्ग इति चेत् ज्ञानेऽप्यस्य तुल्यत्वात् ।

पाण्डुरङ्गि

यदुक्तमुत्क्रान्तप्राणानिति प्राणोत्क्रमणश्रवणात्तस्य च पूर्णे ब्रह्मण्ययोगाच्च न प्राणस्य विष्णुत्वमिति तन्निराकरोति ।। युक्तं चेति ।। प्रसङ्गात्क्रियाया अनित्यत्वं पराचष्टे ।। क्रियाया इति ।। न्यायेनेति ।। उपाध्यनुक्तिन्यायेनेत्यर्थः ।। यदि च विभुद्रव्य इति ।। यावत्कर्मसत्त्वं संयोगविभागोत्पादनियमात्कार्याभावेन कारणाभावानुमानादित्यर्थः । पूर्वदेशाद्विभागादीत्यत्रादिशब्देनोत्तरदेशसंयोगोत्पत्तिसङ्ग्रहः ।

Load More