पूर्वत्र सिद्धरूपदेवतातत्क्रम..

ज्योतिरुपक्रमाधिकरणम्

तात्पर्यचन्द्रिका

संगतिप्रदर्शनपूर्वकं पूर्वपक्षनिरूपणम्

ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ।।

पूर्वत्र सिद्धरूपदेवतातत्क्रम वाचिनामिन्द्रियेभ्य इत्यादीनां समन्वय उक्तः । अत्र तु साध्यरूपकर्मतत्क्रमवाचिनां स उच्यत इति वा पूर्वत्रावरादिशब्दनिमित्तानां ब्रह्मण्यसत्त्वेपि तदधीनत्वात्तत्र ते मुख्या इत्युक्तम् । अत्र तु योगवृत्त्या निमित्तमपि ब्रह्मण्यस्तीत्युच्यत इति वाऽवान्तरसङ्गतिः । अत्र ज्योतिरादिशब्दानां ब्रह्मणि समन्वयो न युक्त उत युक्त इति चिन्ता । तदर्थं सर्वशब्दानां योगः किं ब्रह्मणि न युक्त उत युक्त इति । तदर्थमवयवानां ब्रह्मणि यौगिकत्वे समुदायस्य ब्रह्मपरता नयुक्तोत युक्तेति ।

पूर्वपक्षस्तु । सर्वगुणपूर्तये सर्वशब्दानां ब्रह्मणि समन्वय इति यदुक्तं समन्वयसूत्रे तन्न । ‘‘वसंते वसंते ज्योतिषा यजेते’’ति वाक्यस्थानां ज्योतिरादिशब्दानां ज्योतिष्टोमादिकर्मस्वेव प्रसिद्धेः । प्रसिद्धित्यागेन ब्रह्मपरत्वेचान्यस्य कर्मतदंगतत्क्रमदेशकालाधिकार्यादिप्रापकस्याभावेन नियतकर्मानुष्ठानं न सिध्येत् । न च ‘‘शरीररूपकविन्यस्तगृहीते’’रिति न्यायेनाव्यक्तादिशब्दानां ब्रह्मसंबन्धात्प्रधानादाविव ज्योतिरादिशब्दानामपि कर्मादौ वृत्तेः कर्मसिद्धिरिति वाच्यम् । एवं हि ब्रह्मणोऽन्यत्र शब्दानां लक्षणैव स्यात् । तच्चानिष्टम् । नापि तदधीनत्वन्यायेन ब्रह्मणि वृत्तिः । सर्वशब्दसमन्वयेऽपि सर्वनियंतृत्वादन्यस्य गुणस्यासिद्धेः ।

विध्यादीनां नियन्ताऽयं पूज्यःप्राप्यश्च तद्वताम् ।

इत्यादिश्रुतिरूपेण विध्यादिश्रुतयोऽपि च ।

हरिं वदन्ति सर्वेषां तन्नामत्वादथापि वा ।।

इत्यादिस्मृत्यनुसारेण सिद्धान्तिना तदधीनत्वे सत्येवेह योगस्यैव व्युत्पादयितव्यत्वाच्च । नापि ‘‘जातमोतं हरौ यस्माज्ज्योतिषःप्राणरूपत’’ इत्यनुव्याख्यानोक्तरीत्या योगवृत्त्या ब्रह्मणि पदसमन्वयः । कर्मणि रूढेर्बलवत्त्वात् । किञ्च ज्योतिरित्यादिशब्दावयवानां जि ओतिः इत्यादीनामपि ब्रह्मपरत्वे समुदायस्य ब्रह्मणि वृत्तिर्न स्यात् । नहि पङ्कः पङ्कजशब्दार्थः । जगज्जनकत्वादिगुणश्च न सिध्येत् । अवयवसमुदाययोर्द्वयोरपि भगवन्नाममात्रत्वात् अवयवानामन्यत्र प्रसिद्धत्वेनाब्रह्मपरत्वेतु सर्वसमन्वयासिद्धिः । समुदायस्यापि तत एवाब्रह्मपरत्वापातश्च । अमुख्यवृत्त्याऽन्यपरतेति तु निरस्तम् । तदुक्तमनुव्याख्याने ‘‘व्युत्पत्तेरप्यशक्यते’’तीति ।।

प्रकाशिका

ॐ ज्योतिरुपक्रमात्तुतथाह्यधीयत एके ॐ ।। अत्र विषयोपाधिः प्रागेवोक्तः । ‘‘तत्तु समन्वयादिति सर्वशब्दानां परमात्मवाचकत्वमुक्त’’मिति टीकायाः फलपरत्वात्पूर्वानन्तर्ये हेतुमाह ।। पूर्वत्रेति ।। इन्द्रियादीनामभिमानिदेवतापरत्वादिति भावः । यद्यपि पूर्वत्राव्यक्तशब्द एव सूत्रादौ समन्वित इति भाति तथापि परमैश्वर्यविरोधित्वरूपविषयतावच्छेदकाक्रान्तत्वादुत्तमताबोधक प्रमाणविरुद्धत्वादिरूपपूर्वपक्षयुक्तेस्तदधीनत्वादिसिद्धान्तयुक्तेश्च साम्यात्सूत्रादौ च आनुमानिकशब्दस्योपलक्षणार्थत्वादिन्द्रिया देरादित्वेप्यव्यक्तशब्दोदाहरणत्वस्य निचाय्यवाक्ये ब्रह्मपरत्वान्यथानुपपत्तिसूक्ष्मत्वादिविशेषयुक्तयुपेतत्वेनानन्दमयशब्दस्येव युक्तत्वादिति भावेनेन्द्रियेभ्य इत्यादीनामित्युक्तम् ।। साध्येति ।। सिद्धवाचिचिन्तानन्तरं तत्साध्यवाचिचिन्ता बुद्धिस्था । द्रव्यदेवतासाध्यत्वाद्यागादिकर्मणामिति भावः । तेषामपीह पदवर्णादिरूपेणोदाहरणत्वेऽपि पूर्वत्र परापरभावमुपेत्य वाक्यरूपत्वाहानेन समन्वितत्वमुपादायैवमुक्तम् ।। तत्क्रमवाचिनामिति ।। पञ्चमीपरादिशब्दानामित्यर्थः ।। निमित्तमपीति ।। तथाचैकरूपविचारस्य जिज्ञासितत्वादवसरसंगतिरिति वा सोपानारोहणक्रमरूपा वा संगतिरित्यर्थः । ‘‘तज्ज्योतिरादिशब्दवाच्यं विषय’’ इत्यादिविषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। ‘‘वसन्ते वसन्ते ज्योतिषे’’त्यादिकर्मकाण्डादिस्थज्योतिरादिशब्दानामित्यर्थः । अत्र वसन्तादीति वक्तव्ये ज्योतिरादीत्युक्तिस्सूत्रानुसारात् । तत्र तु गतिर्वक्ष्यते । युक्ताचैवमेवोक्तिः । नहि वसन्तादिवाक्यमेवात्र विषयः । किं तु ब्राह्मणोपनिषन्मन्त्ररूपसकलवेदराशिगतसर्वशब्दानामेवात्र चिन्त्यत्वात्तत्र कर्मवाचितया प्राधान्यात्प्रबलबाधकोपेततयाऽशक्यब्रह्मपरत्वस्यान्योपलक्षणत्वाज्ज्योतिष एवादितो ग्रहणम् । समन्वयः शक्तितात्पर्यावधारणम् ।

कल्पनेति सूत्रोपयुक्तपूर्वोत्तरकोटिचिन्ताद्वयमाह ।। तदर्थमिति ।। उपक्रमात्त्वित्यंशसूचितो योगोऽवयवार्थानुगम इत्यर्थः । अत्र लक्षणया सर्वशब्दानां समन्वयस्य निरस्तत्वेऽपि योगरूढिसाधारण्येन मुख्यवृत्तिर्युक्ता न वेत्येव चिन्तनीयम् । ब्रह्मणि योगायोगेपि रूढ््या समन्वयोपपत्तेः । न तु विशिष्ययोग इति । तथापि ब्रह्मण्यज्ञरूढेरभावाद्गुणपूर्त्यसिद्ध्या रूढ््या समन्वयस्य सिद्धांत्यनभिमतत्वाच्च, विद्वद्रूढेश्च ‘‘सा योगादेव लभ्यत’’ इत्युक्तया योगमूलत्वाच्च ‘‘उपक्रमात्त्वि’’त्यभिमतयोग एव चिन्तितः । समुदायस्य यौगिकपदसमुदायस्य । ज्योतिष्टोमादिपदस्येत्यर्थः । यदि न युक्ता तदाऽवयवानां ज्योतिरादिशब्दानां यौगिकत्वायोगेन न सर्वसमन्वयो युक्तः । यदितु युक्ता तदाऽवयवानां यौगिकत्वसंभवेन तन्मूलविद्वद्रूढेरपि संभवेन प्रबलमहायोगेनैवाज्ञरूढिबाधाद्युक्तोज्योतिरादिसर्वशब्दसमन्वय इति स्पष्टः फलफलिभावो वक्ष्यमाणपूर्वोत्तरपक्षयोरिति भावः । यद्यप्यवयवार्थानुगमरूपयोगायोगेऽपि तदधीनत्वहेतुना शब्दवृत्तावपि समन्वयो युक्तः । तथापि वक्ष्यमाणदिशा स्वातन्त्र्यमात्रस्य सिद्धान्त्यनभिमतत्वात्तदंशस्य सिद्धत्वेनाचिन्तनीयत्वाद्योग एवोपात्तः । ननु कर्मकाण्डगतज्योतिरादिशब्दासमन्वयेऽपि प्रागुक्ते विरोधाभावाद्य्वर्थेयं चिन्तेत्यतष्टीकोक्तं प्रयोजनं स्फोरयन्पूर्वपक्षटीकां व्यनक्ति ।। सर्वगुणेति ।। उपलक्षणमेतत् । मुक्तिहेतुसर्वशब्दवाच्यत्वज्ञप्तये चेत्यपि ध्येयम् । किं रूढ््या ज्योतिरादिसर्वशब्दसमन्वयोऽभिमतोऽथवा योगेन । नाद्यः । असिद्धेरिति भावेनाह ।। वसन्त इति ।। ‘‘तत्प्रसिद्धिं चापहाये’’ति टीकां विवृण्वन्बाधकं चाह ।। प्रसिद्धीति ।। कर्म ज्योतिष्टोमादि । अङ्गानि प्रयाजादयः । ‘‘अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयती’’ति क्रमः । ‘‘समे दर्शपूर्णमासाभ्यां यजेते’’ति देशः । ‘‘पौर्णमास्यां पौर्णमास्या यजेते’’त्यादिर्वसंतादिश्च कालः । अधिकारी स्वर्गकामादिः । एतेन टीकायामवस्थाविशेषमाश्रित्य ‘‘अधिकारिनियोज्ययजमाने’’ति भेदेनोक्तावपि पदत्रयेणाप्यधिकार्येव प्राप्त इति सूचितम् । तथाचाक्षरार्थोक्तिप्रस्तावे विवरिष्यत इति । आदिपदेन टीकोक्तफलर्त्विगादिपरिग्रहः । ‘‘न च वाच्यं परमात्मसंबन्धेनान्यत्रापि शब्दवृत्तिरभ्युपगतेति । तथासति लोके लक्षणेतरवृत्त्यभावप्रसङ्गा’’दित्यग्रेतनटीकावाक्यं व्यवहितमपि श्लिष्टत्वादत्रैव व्यनक्ति ।। नचेति ।।

लक्षणैवेति ।। अन्यत्र रूढ््यपरित्यागेन भगवति शब्दानां वृत्तिरित्यस्यात्रैव सेत्स्यमानत्वेनेतः पूर्वं क्वाप्यसिद्धेरिति भावः ।। अनिष्टमिति ।। अभिधानव्याकरणादिसर्वलोकसिद्धरूढेरपह्नवायोगादिति भावः । टीकोपलक्षणमिति भावेन प्रकारान्तरेण हरौ शब्दवृत्तिमाशङ्क्य निराह ।। नापीति ।। सर्वगुणसिद्ध्यर्थत्वात्समन्वयस्येति भावः ।। स्मृतीति ।। श्रुतिगीतातात्पर्योक्तस्मृतौ ‘‘तन्नामत्वादथापिवे’’त्यनेन योगस्योक्तत्वादिति भावः । ‘‘किंच ज्योतिरादी’’त्यादिटीकां विवृणोति ।। नापीति ।। एतेन ‘‘अथवा योगेने’’तिद्वितीयपक्षोपि निरस्तो ध्येयः । ‘‘अभ्युपेत्यचेदमुदित’’मिति टीकां व्यनक्ति ।। किञ्चेति ।। किमवयवानामपि ब्रह्मपरत्वमुपेत्य तत्समुदायस्य ब्रह्मणि योग उच्यतेऽथानुपेत्येति हृदि विकल्प्य क्रमेण निराह ।। जीति ।। टीकायां ज्योतिष्टोमशब्दस्य समुदायत्वमुपेत्य स्तोमज्योतिश्शब्दयोरवयवत्वव्युत्पादनस्याभिप्रायमग्रे विवरिष्याम इति भावेनानुभाष्योक्तं ज्योतिश्शब्दस्य समुदायत्वमुपेत्य जीत्यादीनामवयवत्वमुक्तमिति ध्येयम् । तत एव अन्यत्र प्रसिद्धत्वादेव ।। अमुख्यवृत्त्येति ।। भगवत्संबन्धादन्यत्रवृत्तिरित्येतदित्यर्थः । ‘‘न योगोऽपि संभवती’’त्यादिटीकाया मूलमाह ।। तदुक्तमिति ।।

चन्द्रिकाबिन्दुः

साध्यस्यापि क्वचित्पूर्वभावः अविरुद्ध इत्यतः पक्षान्तरमाह ।। पूर्वत्रावरादिशब्देति ।। पूर्वपक्षटीकाभिप्रायकथनपूर्वकं पूर्वपक्षटीकामेव व्याख्याति ।। पूर्वपक्षस्त्विति ।। नियतकर्मानुष्ठानाङ्गमिति पाठः । अनुष्ठानाङ्गं नियतकर्म न सिध्येदित्यर्थः ।। सर्वशब्दसमन्वयेऽपीति ।। तदधीनत्वन्यायमनुसृत्य समन्वयकथने सर्वशब्दप्रवृत्तिनिमित्तनियन्तृत्वाख्य एक एव गुणो लभ्यत इति भावः ।। योगस्यैवेति ।। तथा च योगेनैव सिद्धान्तरीत्या सर्वशब्दानां ब्रह्मपरत्वे कर्मादिविलोपस्तदवस्थ इति भावः ।। जगज्जनकत्वादीति ।। जगदादिशब्दानामपि ब्रह्मपरत्वादिति भावः । तत एव अन्यत्र प्रसिद्धत्वादेव ।। निरस्तमिति ।। ब्रह्मणोऽन्यत्र लक्षणैव स्यादित्यनेनेति शेषः ।।

पाण्डुरङ्गि

ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ।। तच्चानिष्टमिति ।। सिद्धान्तिन इति शेषः । तत एव अन्यत्र प्रसिद्धत्वादेवेत्यर्थः । निरस्तं अन्यत्र लक्षणापत्त्या निरस्तमित्यर्थः ।