अन्ये तु
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु ‘‘सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प’’ इति वाक्ये मनोमयत्वादिनोपास्यो जीवः । तस्यैव मनःप्राणादिसंबन्धात् । ब्रह्मणस्तु ‘‘अप्राणो ह्यमनाः शुभ्र’’ इत्यादिश्रुत्या तद्राहित्यादिति प्राप्ते ब्रह्मैवोपास्यम् । सत्यकामत्वज्यायस्त्वादिलिङ्गात् । जीवधर्मास्तु मनोमयत्वाणीयस्त्वादयो जीवाभिन्ने ब्रह्मणि युक्ताः । न च वैपरीत्यं शङ्क्यम् । विशिष्टचैतन्यरूपस्य जीवस्य ब्रह्मण्यध्यस्तत्वात् । अध्यस्तसर्पासाधारणधर्मैश्च भीषणत्वादिभीरज्जूरूपवती । न तु रज्जुरूपेणाभिगम्यत्वादिना सर्पो रूपवान् । तदा सर्पस्यैवाभावात् । सर्पदशायां त्वस्ति वास्तवी रज्जुरिति सिद्धान्तः । तदुक्तं भामत्यां
समारोप्यस्य रूपेण विषयो रूपवान्भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ।।
इति आद्यसूत्रस्य च सर्वत्र वेदान्तेषु परमात्मपरतया प्रसिद्धस्य ब्रह्मशब्दस्योपदेशादित्यर्थ इत्याहुः ।। अत्र ब्रूमः ।।
तत्वतो भात्यधिष्ठानेनारोप्यगतधर्मधीः ।
ब्रह्मणश्च तथा भानं त्वयाप्यत्राभ्युपेयते ।। १ ।।
प्रकाशिका
अन्ये त्विति ।। ‘‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति । सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपस्सत्यकामस्सत्यसङ्कल्प आकाश आत्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः । एष म आत्मान्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतंडुलाद्वा एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्याः । एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मी’’ति छान्दोग्ये तृतीये श्रूयते । तत्र ‘‘सक्रतुं कुर्वीते’’ति क्रतुशब्दितसङ्कल्पध्यानापरपर्यायोपासनाविधौ मनोमयत्वादिधर्मैर्जीव उपास्यत्वेनोपदिश्यतेऽथ ब्रह्मेति संशये मनोमय इत्यादिवाक्योक्तो मनोमयत्वादिविशिष्टो जीव एव । कार्यकारण सङ्घातात्मनो जीवस्यैव मनआदिसम्बन्धस्य प्रसिद्धत्वात् । ब्रह्मणस्तु ‘‘अप्राणो ह्यमना’’ इत्यादिना तद्राहित्यात् । ‘‘सर्वं खल्विदं ब्रह्मे’’ति वाक्यं ब्रह्मबोधकमपि क्रतुं कुर्वीतेत्युक्तोपासनायां न कर्मतया ब्रह्मार्पकम् । तस्य क्रतुं कुर्वीतेति वाक्यविहितोपासनानुवादेन शान्तत्वरूपगुणविधिहेतुसमर्पकत्वात् । इदं सर्वं जगत् तज्जत्वात्तल्लत्वात्तदनत्वाद्ब्रह्मात्मकमेव यस्मात्तस्माद्रागद्वेषौ हित्वा शान्तस्सन्नुपासीतेत्येवंपरत्वात् । क्रतुं कुर्वीतेत्युक्तोपासनायां स्ववाक्यगतमनोमयत्वादि-विशिष्टजीवस्यैव कर्मत्वेनान्वयसम्भवेऽन्यपराद्वाक्याद् ब्रह्मणः कर्मत्वेन स्वीकारायोगात् । सत्यसङ्कल्पत्वादिब्रह्मधर्माणां तदभिन्नजीवे नेयत्वात् । उक्तं च भामत्यां–
क्रतुमित्यादिवाक्येन विहितां क्रतुभावनाम् ।
अनूद्य सर्वमित्यादिवाक्यं शमगुणेविधिम् ।। इति ।
एवं प्राप्ते प्राणशरीर इत्यत्र प्राणः शरीरमस्येति बहुव्रीहित्वात्समासस्थसर्वनाम्नः सन्निहितपरस्य सर्वं खल्विदं ब्रह्मेति पूर्ववाक्ये सर्ववेदान्तेषु प्रसिद्धस्य ब्रह्मशब्दस्योपदेशेन ब्रह्मण एव सन्निहितत्वात्तत्परामर्शकतया प्राणशरीरपदेन ब्रह्मण एवोपस्थित्या जीवप्रतीत्यभावात् । मनोमयशब्दस्य च विकारप्राचुर्याद्यनेकार्थमयडन्तस्य साधारणतया जीवविशेषोपस्थापकत्वायोगात् । सत्यकामत्वादिविवक्षितगुणानां ब्रह्मण्येवोपपत्तेः अन्यपरादपि वाक्यादुपासनकर्माकाङ्क्षानिवर्तकत्वेन ब्रह्मैवोपास्यत्वेनोच्यते । न च जीवधर्मविरोधः । तेषां जीवाभिन्ने ब्रह्मण्यपि युक्तत्वात् । वैपरीत्यस्य चा सम्भवात् । तदुक्तं भामत्यां–
समासस्सर्वनामार्थस्सन्निकृष्टमपेक्षते ।
तद्धितार्थोऽपि सामान्यान्नापेक्षाया निवर्तकः ।।
तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि ।
तथाच सत्यसङ्कल्पप्रभृतीनां यथार्थता ।। इति ।
क्रतुं कुर्वीतेत्यस्य ध्यानं कुर्वीत उपासीतेति यावदित्यर्थः । मनोमय इत्यंशोक्तिः पूर्वपक्षयुक्तिसूचनाय । सत्यसङ्कल्प इत्यंशोक्तिस्सिद्धान्तयुक्तिसूचनायेति ज्ञेयम् । ननु मनोमयवाक्योक्तो जीवः कुतः । ब्रह्मैव किं नेत्यत आह ।। तस्यैवेति ।। ननु जीवस्य मनोमयत्वादयस्स्वतः । ब्रह्मणस्तु तद्द्वारा । प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु । न पुनर्जघन्यं ब्रह्म । तल्लिङ्गानि च तदभेदाज्जीवेप्युपपद्यन्त इति भावेनाशङ्क्य निराह ।। न च वैपरीत्यमिति ।। रूपवती धर्मवती । विषयोऽधिष्ठानम् । रूपशब्दो धर्मपरः । अत्रेदं दूषणं ध्येयम् । अस्मद्रीत्या पूर्वसङ्गतस्य संशयपूर्वपक्षबीजयुक्तस्य स्ववाक्यस्थशब्दविशेषोपेतस्य वाक्यस्योदाहरणत्वसम्भवेऽनेवंविधवाक्योक्त्ययोगात् । न हि त्वद्वाक्ये सत्यकामत्वादिब्रह्मधर्माणां सत्त्वात् संदेहो युज्यते । मनोमयत्वादेरानन्दमयाधिकरणन्यायेन सावकाशत्वात् अपच्छेदन्यायेन परप्राबल्येन सत्यकामत्वादिना पूर्वस्य मनोमयत्वादेर्बाधसम्भवाच्च । पूर्वप्राबल्येऽपि सत्यकामत्वादेर्बहुत्वेन निरवकाशत्वेन च बलवत्त्वात्पूर्वस्याप्यल्पस्य सावकाशस्य बाधोपपत्तेः । किञ्च यथा त्वन्मते पूर्वाधिकरणे उपक्रमोपसंहाराभ्यां प्रतीतैकवाक्यतानु-रोधेन जीवमुख्यप्राणलिङ्गे तदनुगुणतया ब्रह्मणि नीते तथेहापि ‘‘सर्वं खल्विदं ब्रह्मे’’त्युपक्रमात् ‘‘एतद्वै ब्रह्मे’’त्युपसंहारादेकवाक्यत्वावगमेन ब्रह्मविषयत्व-प्रतीतिस्वारस्येन मनोमयत्वादेर्नेयत्वाद्भिन्नविषयत्वप्रतीतिपूर्वकपूर्वपक्षायोगाच्चेति । यदुक्तं सिद्धान्ते जीवधर्माणां ब्रह्मण्यारोप इति तन्न युक्तम् । रज्जुत्वासाधारणधर्मेण प्रतीतायां रज्जौ भीषणत्वाद्यनारोपस्येव सत्यकामत्वाद्यसाधारणधर्मेण प्रतीते ब्रह्मणि जीवधर्मा-रोपस्यायोगात् । सिद्धान्तानुदय इत्याह ।। तत्वत इति ।। अत्र तथाभानमसिद्धमित्यत आह ।। ब्रह्मणश्चेति ।। सत्यकामत्वादिधर्मैस्सिद्धान्तितत्वादिति भावः ।
चन्द्रिकाबिन्दुः
अभिगम्यत्वादिना प्राप्यत्वादिना । तदा रज्जोरसाधारणरज्जुत्वादिना ज्ञाने । सर्पदशायां रूपत्वम् । भ्रमदशायां विषयः अधिष्ठानम् । विषयस्य अधिष्ठानस्य । अस्मिंश्च पक्षे सूत्रं योजयति ।। आद्यसूत्रस्य चेति ।।
पाण्डुरङ्गि
समारोप्यस्यरूपेणेति ।। ज्ञायमानेन समारोप्यरूपेणाधिष्ठानं विषयो रूपवान् भवेत् । तस्याज्ञायमानत्वेन समारोपकालेपि सत्वात् । विषयस्य तु रूपेणासाधारणाकारेण ज्ञायमानेन समारोप्यं न रूपवत् । अधिष्ठानासाधारणरूपज्ञाने सति समारोप्याभावादित्यर्थः ।