अत्र वैश्वानरः किमग्न्यादिः किं वा ब्रह्मेति चिन्ता
विषयचिन्तानिरूपणपूर्वकं पूर्वपक्षकथानम्
तात्पर्यचन्द्रिका
अत्र वैश्वानरः किमग्न्यादिः किं वा ब्रह्मेति चिन्ता । तदर्थमग्निवैश्वानरादिशब्दानां ब्रह्मणि मुख्यत्वेऽग्न्यादिशब्दानां प्रसिद्धाग्न्यादौ लौकिकव्यवहारः तत्तत्सूक्तानां तत्तद्विद्यानां च ब्रह्मपरत्वे वैदिकसूक्तव्यवस्था विद्याव्यवस्था च न युक्ता उत युक्तेति ।। पूर्वपक्षस्तु ।। ‘‘आत्मानं वैश्वानरमुपास्ते अयमग्निर्वैश्वानर’’ इत्यादौ श्रुतो वैश्वानरोऽग्निदेवता वा भूतं वा । वैश्वानरश्रुतेस्तत्र प्रसिद्धेः । न च ‘‘अहं वैश्वानर’’ इति स्मृतिसमाख्यानात् पुरुषसूक्तसमाख्यानात् ‘‘को न आत्मा किं ब्रह्मे’’ति प्रकरणात् ‘‘सर्वे पाप्मानः प्रदूयन्ते’’ इति स्वज्ञानेन सर्वपाप्मप्रदाह सर्वगतत्वादिलिङ्गाच्च वैश्वानरो ब्रह्मेति वाच्यम् । समाख्याप्रकरणलिङ्गानां श्रुतितो दुर्बलत्वात् । बहुत्वप्रयुक्तप्राबल्यादपि स्वभावप्राबल्यस्य बलवत्त्वाच्च । उक्तं हि
द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः इति ।।
प्रकाशिका
विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। छान्दोग्ये पञ्चमेऽध्याये वैश्वानरविद्यायां ‘‘प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलोद्दालकास्समेत्य मीमांसां चक्रुः । को न आत्मा किं ब्रह्मेति । ते ह मीमांसमाना निश्चयमलभमानाः केकयं राजानमुपसद्योचुः । आत्मानमेव वैश्वानरं सम्प्रत्यध्येषि । तमेव नो ब्रूही’’त्युपक्रम्य श्रूयते ‘‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानं वैश्वानरमुपास्ते । स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति । तस्य हवा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्दोहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोन्वाहार्यपचन आस्यमाहवनीय’’ इत्यादि । तथा वाजसनेये सप्तमे ‘‘अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते’’ इत्यादि । तथा वैश्वानरसूक्ते ‘‘मूर्धानं दिवो अरतिं पृथिव्या वैश्वानर मृतआजातमग्निम् । कविं संम्राजमथितिं जनानामासन्नापात्रं जनयन्त देवाः’’ इत्यादि । तत्र सर्वत्र श्रुतो वैश्वानरो विषय इत्यर्थः । अत एव टीकायां ‘‘स वैश्वानर’’ इति तच्छब्देन सङ्गत्यर्थं पूर्वप्रकृतछान्दोग्यस्थवैश्वानरप्रतीतावपि तदुपलक्षणमिति भावेन वैश्वानर इति सामान्योक्तिः । वैश्वानर इत्युपलक्षणम् । प्राक्पादद्वयेन समन्विता अशेषविद्यागता अशेष सूक्तस्था अग्न्यादिनानाशब्दा अप्युदाहरणमिति ध्येयम् ।
प्राचीनसर्वनयोक्ताक्षेपसमाधानार्थत्वादस्याधिकरणस्य । अत एवाग्रेऽग्निवैश्वानरादिशब्दानामित्युक्तिः । ‘‘वैश्वानरादयश्शब्दा अपि तद्वाचिन’’ इत्यनुव्याख्याने । सुधायां ‘‘वैश्वानरादय इत्यादिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयती’’त्युक्तम् । आत्मशब्दादिसाधकोपेतत्वेन प्राधान्यात्सूत्रादौ तस्यैवोक्तिः ।। अग्नीति ।। देवतेत्यर्थः । आदिपदेन भूताग्निः । एतेन टीकायामन्यो वेत्युक्तान्यशब्दार्थो विवृतः । अत्र ब्रह्मेति चिन्तानन्तरं वैश्वानरश्रुतेरन्यत्रप्रसिद्ध्यनुसारेण समाख्याप्रकरणलिङ्गानि विष्णुप्रापकाण्यग्नौ नेयानि उत तदनुसारेण प्रसिद्धिर्नेयेति चिन्ता । तदर्थं समाख्याद्यनुरोधेन प्रसिद्धेर्नयने बाधकमस्त्युत नेति चिन्ता टीकायां पूर्वोत्तरप्रापकयोस्तौल्योक्तेस्तामनुसृत्य नोक्ता । स्वरीत्या तु वक्तव्यैव । रीतिद्वयसाधारण्येन तु श्रुत्यादिकं ब्रह्मणि नेतुं न शक्यमुत शक्यमिति चिन्ता ध्येया । एतदुपयुक्तां प्रसिद्धेर्निरवकाशत्वरूपां चिन्तामाह ।। तदर्थमिति ।। मुख्यत्व इति ।। सिद्धान्तिना लक्षणादेरंनगीकारादेवमुक्तम् । यदि वक्ष्यमाणदिशा न युक्ता तदा निरवकाशलोकप्रसिद्ध्यादिवशादग्न्यादिरेव वैश्वानरादिशब्दार्थः । यदा तु ‘‘साक्षादप्यविरोधं अभिव्यक्ते’’रित्यादिवक्ष्यमाणदिशा युक्ता तदा बाधकाभावात् समाख्यादिवशाद्ब्रह्मैवेति सिद्धान्ते फलफलिभावोऽग्रे पूर्वपक्षादिविवरणरीत्या स्पष्ट इति भावः । अत्र टीकायां ‘‘श्रुतेरपि प्रसिद्धितो निरवकाशत्वा’’दित्यादिना श्रुतेर्निरवकाशत्वमात्रप्रयुक्तप्राबल्योक्तिप्रतीतावपि ‘‘लिङ्गस्य श्रुतितो दुर्बलत्वा’’दिति पूर्ववाक्येन श्रुतित्वप्रयुक्तप्राबल्यमप्यभिमतम् । एवं च वैश्वानरश्रुतेश्श्रुतित्वनिरवकाशत्वरूपोभयप्रयुक्तप्राबल्यात्पाचकत्वादिलिङ्गस्य च निरवकाशत्वनिमित्तप्राबल्यात् एवं प्रबलश्रुतिलिङ्गबलेन समाख्याप्रकरणलिङ्गरूपविष्णुप्रापकाणां बाधादग्निरेव वैश्वानरः । टीकायां पूर्वोत्तरपक्षप्रापकयोर्द्वयोरपि निरवकाशत्वेन तौल्योक्तिस्त्वभ्युपेत्यवादेनेति भावेन ‘‘नायं वैश्वानरो विष्णुः । किं त्वि’’त्यादिटीकां विवृण्वन् पूर्वपक्षयति ।। पूर्वपक्षस्त्विति ।। टीकायामयमित्युक्तया प्राक्प्रकृतछान्दोग्यस्थस्य परामर्श उपलक्षणमिति भावेन छान्दोग्यबृहदारणयकस्थयोर्वाक्यविशेषयोरुक्तिरात्मानमिति, अयमग्निरिति च । आदिपदेन ‘‘वैश्वानरमृत आजातमग्नि’’मित्यस्यामृचीति गृह्यते । ‘‘अत एव न देवताभूतं चे’’ति सूत्रव्यावर्त्यमाह ।। अग्निदेवतेति ।। भूतमिति ।। तेजोरूपं जडमित्यर्थः ।
‘‘न च वाच्यं सर्वगतत्वलिङ्गाद्वैश्वानरो विष्णु’’रिति टीकोपलक्षणं सूत्रोक्तसाधकमात्रस्येति भावेन तां व्याचष्टे ।। न चेति ।। ‘‘स्मर्यमाण’’मिति सूत्रोपात्तात् ‘‘अहं वैश्वानरो भूत्वे’’ति स्मृतिसमाख्यानात् ‘‘पुरुषविधमपी’’ति सूत्रांशोक्तात् ‘‘शीर्ष्णो द्यौस्समवर्तते’’ति पुरुषसूक्तसमाख्यानात् ‘‘असम्भवा’’दिति सूत्रखण्डोक्तात् ‘‘को न आत्मे’’ति ब्रह्मप्रकरणादित्यर्थः । ‘‘असम्भवात्पुरुषविधमपी’’त्यंशोक्तप्रकरणश्रुतिसमाख्याभ्यामुपलक्षणत्वेनोपात्तलिङ्गान्यप्याह ।। सर्व इति । अभिविमानपदेन ‘‘अभितो विगतं मानं मर्यादा यस्ये’’ति टीकोक्तव्युत्पत्त्योक्तं सर्वगतत्वम् । एतेन ‘‘अन्तरधिकरणन्यायेन विष्णावपि श्रुतेर्वृत्तिरस्तीति चे’’दिति न्यायविवरणटीकोक्तन्यायो विष्णुप्रापकसत्त्वरूपो विवृतः । ‘‘लिङ्गस्य श्रुतितो दुर्बलत्वा’’दित्यपि टीकावाक्यमुपलक्षणत्वेन वा कैमुत्यलब्धत्वाभिप्रायेण वा व्याचष्टे ।। समाख्येति ।। श्रुतित इति ।। वैश्वानरश्रुतित इत्यर्थः । सर्वापेक्षया श्रुतिप्राबल्यस्य ‘‘शब्दादेव प्रमित’’ इत्यत्र सेत्स्यमानत्वादिति भावः । अन्तर्नये तु निरवकाशलिङ्गेन श्रुतिबाधोनात्र तथेति भावः । यद्यपि सिद्धान्ते समाख्यादिकमिव ‘‘अभिविमानमात्मान’’ मित्यात्मश्रुतिरप्यस्ति । तथापि तदाच्छादनेन वा वक्ष्यमाणदिशा निरवकाशया परप्राबल्यन्यायेन प्रबलया चरमवैश्वानरश्रुत्या पूर्वस्यात्मशब्दस्य कथञ्चिन्नेयत्वादिति वा तस्याप्यग्न्यादिशब्दवद्विष्णौ मुख्यत्वं नेति वाऽभिप्रायेण तदनुक्तिः । तथा च वक्ष्यति ‘‘आत्मश्रुतेश्च न ब्रह्मणि मुख्यते’’ति । ‘‘न च लिङ्गस्य निरवकाशत्वेन प्राबल्यात् श्रुतिबाधकत्व’’मिति शङ्कोत्तरेऽप्युपलक्षणमिति भावेन स्वयं समाख्यादीनां बहुत्वात्प्राबल्यमिति शङ्कान्तरं हृदि कृत्वा समाधिमाह ।। बहुत्वेति ।। उक्तं हीति ।। विष्णुतत्वनिर्णयोदाहृतब्रह्मतर्कवाक्य इत्यर्थः । सः स्वभावः । उपजीव्यत्वनिरवकाशत्वश्रुतित्वरूप इत्यर्थः । यद्यपि पूर्वपक्षेऽपि वैश्वानरश्रुतिरिवायमग्निरित्याद्यग्निश्रुतिः ‘‘वैश्वानरे तद्ध्रुतं भवति । हृदयं गार्हपत्यो मनोन्वाहार्यपचन आस्यमाहवनीय इति । येनेदमन्नं पच्यत’’ इत्यादिना श्रुतानि होमाधिकरणत्वगार्हपत्याद्यङ्गकत्वपाचकत्वादिलिङ्गानि च सन्तीति प्रापकबाहुल्यमस्ति । तथापि टीकायां श्रुतित इत्युक्तयनुरोधेन तन्मात्रेणैव बहुत्वकृतप्राबल्यस्य बाध उक्तः ।
चन्द्रिकाबिन्दुः
टीकार्थकथनपूर्वकं पूर्वपक्षमुपपादयति ।। पूर्वपक्षस्त्वित्यादिना ।।