अत्र पूर्वाधिकरणोक्त ..
वैषम्यनैर्घृण्याधिकरणम्
तात्पर्यचन्द्रिका
कर्माद्यपेक्षया फलदानात् विष्णो: वैषम्यनैर्घृण्ये न स्त: इति प्रतिपादनम्
ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ।।
अत्र पूर्वाधिकरणोक्त परप्रयोजनरूपफलविषययुक्तयविरोध उच्यत इति सङ्गतिः । अत्र विष्णोः सर्वकर्तृत्वं न युक्तमुत युक्तमिति चिन्ता । तदर्थं सुखदुःखकर्तृत्वे वैषम्याद्यापत्तिरुत नेति । तदर्थमीश्वरः किमनादिकर्मयोग्यतादिनिरपेक्ष उत तत्सापेक्ष इति । तदर्थं च कर्मयोग्यतादिकमीश्वरानधीनमुत ईशितव्यत्वात्तदधीनमिति । तदर्थं तस्येश्वराधीनत्वे पुनरापन्नं स्वाधीनानादिसिद्धयोग्यताद्यनुसारेण सुखदुःखदत्वलक्षणं वैषम्यादिकं किं वैषम्यादिकमित्येव दोषः किं वा वेदाप्रामाण्याद्यापादकतयेति ।। पूर्वपक्षयतीति ।। अयं भावः । परप्रयोजनाय सृष्टिरिति पूर्वोक्तं न युक्तम् । एवं हि सर्वेऽपि सर्वदा सुखिनः स्युः । ईश्वरो हि कांश्चित्सुखयन् कांश्चिद्दुःखयन् विषमो निर्घृणश्च स्यात् । न च कर्मसापेक्षत्वाददोषः । ‘‘एष ह्येव साधुकर्म कारयती’’त्यादिश्रुत्या कर्मणोऽपीश्वरकारितत्वात् । ननु च पूर्वपूर्वकर्मापेक्ष्योत्तरोत्तरकर्म कारयति । न च यत्र पर्यवसानं तदारभ्य दोष इति वाच्यम् । अनादित्वात्कर्मप्रवाहस्येति चेन्न । अनादिकर्मप्रवाहसत्तास्वभावादेरप्यारम्भणाद्यधिकरणन्यायेनेशाधीनत्वे पुनर्वैषम्याद्यापातात् । अनधीनत्वे तु स्वातन्त्र्यं नोपपद्येतेत्युभयथापि न निर्दोषं ब्रह्मेति पक्षः ।
सिद्धान्तमाह ।। सिद्धान्तयदिति ।। अयं भावः । वैषम्यनैर्घृण्ये हि किं धर्माधर्मावनपेक्ष्येश्वरस्य सुखदुःखदत्वे तयोः सुखदुःखहेतुत्वप्रतिपादकवेदाप्रामाण्यापादकतया दोषौ किं वा तत्सापेक्षत्वेन वेदाप्रामाण्याभावेऽपि तस्यापीशाधीनत्वेनेश्वरस्य दोषौ । नाद्यः । कर्मादेरपेक्षणात् । द्वितीयेऽपि किं जीवानामिव प्रत्यवायहेतुतया दोषौ यद्वा ‘‘समोऽहं सर्वभूतेष्वि’’त्यादिशास्त्राप्रामाण्यापादकतया अथवा समत्वरूपसद्गुणविरोधित्वेन नीचत्वापादकतया । नाद्यः । ईश्वरस्य विधिनिषेधातीतत्वात् । अनादिसिद्धयोग्यताद्यनुसारित्वस्यैव तत्र समशब्दार्थत्वात् । उक्तं हि
सेवायोग्यातिरेकेण स्वानामपि न दास्यति ।
अपराधातिरेकेण नान्यस्यातस्समो हरिः ।। इति ।
यत्र यस्य यथा वृत्तिर्विहिता वर्तनं तथा ।
ज्ञानं वापि समत्वं तद्विषमत्वं ततोऽन्यथा ।। इति च ।
अत एव यमस्य समवर्तित्वप्रसिद्धिः ।
न हि मातृकलत्रादौ गुरुशिष्यादिकेऽपि च ।
वसिष्ठपुल्कसादौ च समधीस्सम उच्यते ।। १ ।।
न वा दुष्टान्निगृह्णन् शिष्टांश्चानुगृह्णन् राजा विषमः । ‘‘शुनि चैव श्वपाके चे’’त्यादि त्वधिष्ठानवैषम्येऽपि तदधिष्ठितस्य भगवतस्तदभावपरम् । तृतीयेऽपि किं विविधतत्तत्स्वभावकरणाद्वैषम्यादिकं किं वानादिनित्यतत्तत्स्वभावोल्लंघनात् यद्वाऽनादिसिद्धविविधतत्तत्स्वभावस्यान्यथाकरणे शक्तत्वेऽपि तदकरणात् अथवाऽनादितत्तत्स्वभावनियमनात् । नाद्यः । चेतनस्वभावस्यानादित्वात् । न द्वितीयः । ईश्वरस्य तत्तत्स्वभावानुसारेणैव फलप्रदत्वात् । न तृतीयः । तस्य वैषम्याद्यनापादकत्वात् ।
स्वभावमन्यथाकर्तुं यश्शक्तोऽप्यनुवर्तते ।
नासौ लोकेऽपि विषमो न वा निर्घृण उच्यते ।। १ ।।
समर्थोऽपि हि हंसादीन् काकीकर्तुं च यो मुनिः ।
न काकीकुरुतेऽयं किं लोके विषम उच्यते ।। २ ।।
समर्थोपि च काकादीन् हंसीकर्तुं हि यो मुनिः ।
न हंसीकुरुतेऽयं किं लोके निर्घृण उच्यते ।। ३ ।।
न चतुर्थः । स्वभावनियामकत्वस्य निरतिशयस्वातन्त्र्यरूपमहागुणानुगुणत्वेन नीचत्वानापादकत्वात् । स्वभावाननुसारिदयायाश्चेश्वरे गुणत्वाभावेनानपेक्षितत्वात् । अन्यथेश्वरो दयालुत्वाद्दुःखमपि सुखमधर्ममपि धर्मं कुर्यात् । खिद्येत च लौकिकदयालुवत्प्राणिनां दुःखदर्शनेन । उक्तं हि
विषमत्वं तु दोषाय शुभाशुभविपर्यये ।
शुभाशुभनियंतृत्वं न दोषो गुण एव सः ।। इति ।
न विष्णोर्विषमत्वं तु योग्यतापेक्षया क्वचित् ।
योग्यतायास्तन्नियत्या विषमत्वं क्वचिद्भवेत् ।। इति च ।
(जीवानामिव प्रत्यवायहेतुतया दोषौ यद्वा ‘‘समोऽहं सर्वभूतेष्वि’’त्यादिशास्त्राप्रामाण्यापादकतया अथवा सर्वसमत्वरूपसद्गुणविरोधित्वेन नीचत्वापादनतया । नाद्यः । प्रवाहतोऽनादिकर्मापेक्षाभावात् । परं तु तत्कर्मेशाधीनम् । न द्वितीयः । ईश्वरस्य विधिनिषेधातीतत्वात् । न तृतीयः ।। अनादिसिद्धयोग्यताद्यनुसारित्वस्यैव तत्र समशब्दार्थत्वात् । उक्तं हि
सेवायोग्यातिरेकेण स्वानामपि न दास्यति ।
अपराधातिरेकेण नान्यस्यातः समो हरि ।। इति ।
यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा ।
ज्ञानं चापि समत्वं तद्विषमत्वमतोऽन्यथा ।। इति च ।
अत एव यमस्य समवर्तित्वप्रसिद्धिः । न हि मातृकलत्रादौ गुरुशिष्यादिकेऽपि वा । वसिष्ठपुल्कसादौ च समधीः सम उच्यते ।। १ ।। न हि दुष्टान्निगृह्णन् राजा विषमः । ‘‘शुनि चैव श्वपाके चे’’त्यादि त्वधिष्ठानवैषम्येऽपि तदधिष्ठितस्य भगवतस्तदभावपरम् । चतुर्थेऽपि किमनादिनित्यतत्तत्स्वभावोल्लंघनाद्वैषम्यादिकं यद्वाऽनादिसिद्धविविधस्वभावस्यान्यथाकारणे शक्तत्वेऽपि तदकारणात् अथवाऽनादितत्तत्स्वभावनियमनात् किं वा विविधतत्तत्स्वभावकरणात् । नाद्यः । ईश्वरस्य तत्तत्स्वभावानुसारेणैव फलप्रदत्वात् । न द्वितीयः । तस्य वैषम्याद्यनापादकत्वात् ।
स्वभावमन्यथाकर्तुं यः शक्तोऽप्यनुवर्तते ।
नासौ लोकेऽपि विषमो न वा निर्घृण उच्यते ।। १ ।।
समर्थोऽपि च हंसादीन्काकीकर्तुं हि यो मुनिः ।
न काकीकुरुतेऽयं किं लोके विषम उच्यते ।। २ ।।
समर्थोऽपि च काकादीन् हंसीकर्तुं हि यो मुनिः ।
न हंसीकुरुतेऽयं किं लोके निर्घृण उच्यते ।। ३ ।।
न तृतीयः । स्वभावनियामकत्वस्य निरतिशयस्वातन्त्र्यरूपमहागुणानुगुणत्वेन नीचत्वानापादकत्वात् । स्वभावाननुसारिदयायाश्चेश्वरे गुणत्वाभावेनानपेक्षितत्वात् । अन्यथेश्वरो दयालुत्वाज्जडमपि चेतनं सुरापानादि च धर्मसाधनं कुर्यात् । खिद्येत च लौकिकदयालुवत्प्राणिनां दुःखदर्शनेन । उक्तं हि
विषमत्वं तु दोषाय शुभाशुभविपर्यये ।
शुभाशुभनियंतृत्वं न दोषो गुण एव स ।। इति ।
न विष्णोर्विषमत्वं तु योग्यतापेक्षया क्वचित् ।
योग्यतायास्तन्नियत्या विषमत्वं क्वचिद्भवा ।। इति च ।
न चतुर्थः । चेतनस्वभावस्यानादित्वेनेशाकृतत्वात्) तदेतदभिप्रेत्योक्तमनुव्याख्याने
वैषम्यं निर्घृणत्वं च वेदाप्रामाण्यकारणम् ।
नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ।। इति ।
सूत्रेऽप्यनुव्याख्यानोक्तमाद्यपक्षमाद्येन निरस्य द्वितीयसूत्रे तर्हि स्वातन्त्र्यं नोपपद्येतेति शङ्कां ‘‘उपपद्यत’’ इत्यनेन निरस्य ‘‘उपलभ्यत’’ इत्यनेनानुव्याख्यानोक्तो द्वितीयः पक्षः स्वीकृत इति द्रष्टव्यम् ।
प्रकाशिका
फलविषयेति ।। कर्मापेक्षं फलदानं न तदनपेक्षमित्येवंरूपयुक्तीत्यर्थः ।। सङ्गतिरिति ।। आक्षेपिकीत्यग्रे व्यक्तम् । अधिकरणोपाधिः पादान्ते स्पष्टयिष्यत इति भावः । यद्वा परप्रयोजनेत्यादिनोपाधिरप्युक्तो ध्येयः । द्विविधं हि वैषम्यादिकम् । कर्मानपेक्षत्वप्रयुक्तमन्यत्तु तदपेक्षत्वेऽपि कर्मादेस्सत्तादेरपीश्वराधीनत्वप्रयुक्तम् । तत्राद्योपयुक्तचिन्तामाह ।। न युक्तमुत युक्तमिति ।। अंत्योपयुक्तामाह ।। तस्येश्वराधीनत्व इति ।। ननु किमीश्वराधीनमित्यनधीनत्वपूर्वपक्षकोटेर्निरपेक्षत्वसाध्यं प्रति कथं हेतुत्वमिति चेदेवमत्र हेतुहेतुमद्भावः । यदि वैषम्यादिकं तत्त्वेनैव दोषस्तर्हि कर्मादेरीश्वराधीनत्वेऽपि दोषतादवस्थ्यादनधीनत्वे वाच्येऽनधीनकर्मसापेक्षत्वे तस्यैव स्वतन्त्रकर्तृत्वमित्यस्य भङ्गापत्त्या तन्निरपेक्षत्वे निर्निमित्तं सुखादि प्रयच्छतो वैषम्याद्यापत्त्या न कर्तृत्वं युक्तम् । यदि तु वेदाप्रामाण्यप्रत्यवायाद्यापादकतया दोषस्तदा तस्येशेऽभावादनधीनकर्मादिसापेक्षत्वेन निर्निमित्तं सुखादिदातृत्वाभावेन तन्निमित्तवैषम्याद्यापत्त्यभावात्कर्तृत्वं युक्तमिति भावः । परप्रयोजनरूपफलविषययुक्तयविरोध इत्यस्य टीकायामस्फुटत्वादाह ।। अयं भाव इति ।। कर्मनिरपेक्ष उत सापेक्षः । आद्य आह ।। एवं हीति ।। अयं प्रधानसौत्रहेतुनिरस्यः । द्वितीयं शङ्कते ।। न चेति ।। द्वितीयसूत्रभाष्यटीकोक्तचोद्यपरिहारावनूद्य पूर्वपक्षी प्रत्याह ।। ननु चेति ।। ‘‘उपपद्यते चाप्युपलभ्यते चे’’ति सूत्रव्यावर्त्यमाह ।। अनादिकर्मप्रवाहेति ।। कर्माद्यपेक्षाप्रयुक्तं वैषम्यादिकमीशेऽस्ति । तत्तु न दोषः । तदनपेक्षत्वप्रयुक्तं तु दोषः । तत्तु नास्त्येवेत्यस्य टीकायामस्फुटत्वाददोषत्वस्योपपादनसापेक्षत्वात् सुधायां ‘‘न चेदं वेदाप्रामाण्याकारणम् । कर्मादिसापेक्षत्वाङ्गीकारात् । नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः । तदभावा’’दित्युक्तमुपलक्षणं मत्वाऽनेकविकल्पपूर्वं टीकां विवृणोति ।। अयं भाव इति ।। द्वितीयेऽपि किमिति ।। ‘‘वैषम्यादेरदुःखरूपतया स्वतो दोषत्वाभावा’’दिति सुधोक्तेरिति भावः । समोऽहमिति गीतावाक्यं नवमाध्यायस्थम् । अनादीति ।।
देशकालौ गुणांश्चैव भक्तयादीनप्यपेक्ष्य तु ।
योग्यतां च तथा कर्म सम इत्यभिधीयते ।।
इति सप्तमस्कन्धतात्पर्योक्तेरिति भावः ।। उक्तं हीति ।। षष्ठस्कन्धतात्पर्ये ।। प्रसिद्धिरिति ।। ‘‘समवर्तीपरेतरा’’डित्यादिनिघण्टौ ‘‘ऋषभः पापिनां शास्ता त्वं यमः समदर्शन’’ इत्यादौ पुराणे चेत्यर्थः । तदेव व्यतिरेकेणोपपादयति ।। न हीति ।। ‘‘शुनि चैव श्वपाके च पण्डितास्समदर्शिन’’ इत्यादिगीतोक्तिः कथमित्यत आह ।। शुनि चेति ।। नन्वयोग्यस्य योग्यताकरणाद्दयालुत्वगुणलाभस्स्यादित्यत आह ।। स्वभावाननुसारीति ।। स्वभावनियामकत्वस्येत्युक्तार्थे संमतिमाह ।। उक्तं हीति ।। सप्तमस्कन्धतात्पर्ये प्रथमेऽध्याय उक्तमित्यर्थः । ‘‘विपर्यय’’ इत्यनन्तरं ‘‘अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृत’’मित्यर्धस्येहानुपयोगादनुदाहृत्य ‘‘शुभाशुभे’’ति तदुत्तरार्धमेवोदाहृतम् । ‘‘गुण एव स’’ इत्यनन्तरं ‘‘अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभो’’रिति शेषो बोध्यः । ‘‘न विष्णो’’रिति तु तत्रैवोक्तस्कान्दस्मृतिः ।। वेदाप्रामाण्येति ।। कर्मानपेक्षत्वनिमित्तमित्यर्थः । अन्यत्तु स्वाधीनतत्सापेक्षत्वनिमित्तमित्यर्थः । उक्तार्थं सूत्रारूढं करोति ।। सूत्रेऽपीति ।। न केवलमनुव्याख्यान इत्यपेरर्थः । आद्येन सापेक्षत्वादित्यंशेन । द्वितीयसूत्रे उत्पन्नशङ्कामिति योज्यम् ।। तर्हीति ।। अनादिकर्मसापेक्षत्व इत्यर्थः ।। निरस्येति ।। ‘‘स्वाधीनसाधनादानं त्वि’’त्युक्तदिशेति भावः ।। स्वीकृत इति ।। ‘‘उपलभ्यते चेश्वरस्यैतादृशं वैषम्यं निर्घृणत्वं च प्रमाणै’’रिति सुधोक्तेः । टीकायामपि व्यक्तमुक्तेश्चेति भावः ।
चन्द्रिकाविवृतिः
।। ॐ वैषम्यनैर्घृण्येन ॐ ।। परप्रयोजनेति ।। पूर्वाधिकरणे स्वपरसाधारण्येन फामात्रविचारः । इदानीं परप्रयोजनविषयविचार इति सामान्यविशेषभावादनन्तरसङ्गतिरित्यर्थः ।। कर्मयोग्यतादीति ।। यद्यप्यत्राधिकरणे सुखदुःखादिवैषम्यनैर्घृण्यपरिहारः कर्ममात्रमादायैव क्रियत इति योग्यताग्रहणमतिरिक्तं तथापि मुक्तितमोगतयोः सुखदुःखादिविषये वैषम्यनैर्घृण्यपरिहारसूचनायानादियोग्यताग्रहणम् ।। योग्यतायाः बन्धनिवृत्यनन्तरमपि सत्त्वादिति भावः ।। अनधीनत्व इति ।। अनादिकर्मादीनामीश्वरान-धीनत्वे ईश्वरस्य सर्वस्वातन्त्र्यं भवदङ्गीकृतं न स्यात् । तथा चाधीनमिति वक्तव्यमिति वैषम्यादिदोष इति भावः । तत्सापेक्षत्त्वेन धर्मादिसापेक्षत्वेन ।। तस्यापि धर्मादेरपि ।। ईश्वरस्य विधिनिषेधेति ।। अनेनेश्वरस्य प्रत्यवायाभावादिति सुधावाक्यार्थप्रत्यवायाभावे हेतुरुक्त इति ध्येयम् ।। तत्र समशब्दार्थेति ।। समोऽहमित्यादिशास्त्रे समशब्दार्थः तत्तद्योग्यतानुसारित्त्वमेव । कर्मयोग्यताद्यनुसारेण फादानेन तच्छास्त्रप्रामाण्यमिति भावः । सेवायोग्यातिरेकेणेति ।। सेवातिरेकेण योग्यतातिरेकेण चेत्यर्थः ।। सुखमिति पूर्वार्धे, दुःखमित्युत्तरत्र च सम्बन्धः ।। अत एवेति ।। विहितवर्तनस्यैव समत्त्वापादकत्वादेव यमस्येत्यादि । अत एव विहितज्ञानिन एव समधीत्त्वात् । अन्य स्यातथात्वादेव न हीत्यादि ।।
तत्तत्स्वभावेति ।। सदसत्कर्मकरणानुकूास्वभावकरणादित्यर्थः ।। एवमुत्तरत्रापि सदसत्स्वभावौ स्वभावशब्दार्थतया ग्राह्यौ ।। अनादित्वादिति ।। तथा च तादृशस्वभावकरणनिमित्तवैषम्यादिकं नास्तीति भावः ।। ननु स्वभावस्य विाक्षणत्वेऽपि ईश्वरस्य दयालुत्त्वाख्यगुणवत्वेन सर्वेषां सुखेनैव भवितव्यम् । अन्यथा दयालुत्वं न सिद्ध्येदित्यत आह ।। स्वभावाननुसारिदयाया इति ।। शुभाशुभविपर्यय इति ।। शुभस्यापि पुंसो शुभदाने अशुभस्यापि शुभदाने शुभस्याशुभत्वकरणे अशुभस्य शुभत्वकरणे चेत्यर्थः ।। अतोऽन्यत्तु न वैषम्यादिनामकमिति ।। अतोऽन्यत्तु प्रत्यवायवत्वविरुद्धस्वभावकरणादिकमीश्वरे नास्त्येवेति । अतोऽन्यदनादिसिद्धतत्तस्वभावस्यान्यथाकरणशक्तत्वेऽपि तदकरणादित्यादिकं यद्य-पीश्वरेऽस्ति तथापि तद्वैषम्यनैर्घृण्यनामकं नेति योजनाद्वयमभिप्रेत्योदाहृतमिति द्रष्टव्यम् ।।