शरीरत्वस्य गौणत्वं च बृहदारण्यकभाष्य उक्तम्

सूत्रभाष्यबृहदारण्यभष्ययो: निरूपितस्य अन्तरशब्दार्थस्य विवरणम्

तात्पर्यचन्द्रिका

शरीरत्वस्य गौणत्वं च बृहदारण्यकभाष्य उक्तम् । तेन पुराणादिषु प्रपञ्चे ब्रह्मकायत्वाद्युक्तिरपि समर्थिता । एवं च ‘‘य आत्मनि तिष्ठ’’न्नित्यादिकं च क्लेशेन न नेयमिति । एतदेवाभिप्रेत्योक्तं न्यायविवरणे ‘‘पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेर्विष्णोरपी’’ति ।। सूत्रक्रमस्तु । आद्ये स्वपक्षसाधकोक्तिः । द्वितीये प्रधानजीवपक्षयोः साधकाभावोक्तिः । तृतीयसूत्रस्थस्य शारीरश्चेत्यस्यात्रापि सम्बन्धात् । तृतीये जीवपक्षे बाधकोक्तिरिति ।

प्रकाशिका

गौणत्वं भाष्यटीकयोर्नोक्तमित्यत आह ।। शरीरत्वस्येति ।।

पृथिव्याद्या देवतास्तु देहवद्यद्वशत्वतः ।

शरीरमिति चोच्यन्ते यस्य विष्णोर्महात्मन ।।

इति स्मृत्या शरीरस्य यथा जीववशत्वं तथा पृथिव्याद्यभिमानिजीवानामीश्वरवशत्वात्तच्छरीरत्वमिति गौणत्वमुक्तमित्यर्थः । तथा च भाष्यद्वयानुसाराद्द्वयमप्यस्माभिरुक्तमिति भावः । गौणत्वोक्तेः फलमाह ।। तेनेति ।। गौणत्वकथनेनेत्यर्थः ।। पुराणादिष्विति ।। ‘‘स विश्वकायः पुरुहूत ईशस्सत्यं परं ज्योतिरजःपुराण’’ इत्यादि भागवतादिष्वित्यर्थः ।। कायत्वादीति ।। देहत्वविग्रहत्वाद्युक्तिरादिपदार्थः ।। क्लेशेनेति ।। भेदाभेदादिना ।। यौगिकेति ।। गौणशरीरत्वेत्यपि ग्राह्यम् । अविदितत्वादिनिरवकाशबाधकबलेन प्रथमप्राप्ताया अपि रूढेः परित्यागोपपत्तेरिति भावः ।। आद्य इति ।। ‘‘अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशा’’दित्यत्र भाष्यादावविदितत्वान्तरत्वयोरुक्तेरिति भावः । द्वितीये न च स्मार्तमतद्धर्माभिलापादित्यत्र । भाष्ये त्रिगुणत्वोपादानत्वादिप्रधानधर्मोक्तयभावात्कापिलस्मृतौ पृथिव्याद्यात्मकतयोक्तप्रधानं नान्तर्यामीत्युक्तया संसारित्वादितद्धर्माभिलापाभावाज्जीवोऽपि नेति लब्धत्वात्प्रधानजीवेत्युक्तम् । जीवपदाभावात्कथमेतदित्यत आह ।। तृतीयेति ।। एतेन जीवपक्षे साधकं नेत्यनुक्त्वा कथं बाधकोक्तयवसर इति प्रत्युक्तम् । एतेन ‘‘यज्जीवोंऽतर्यामीत्युक्तं तदपि संसारित्वाद्यतद्धर्माभिलापादिना निरस्तमपि विशेषयुक्तया निराकुर्वत्सूत्र’’मिति टीकोक्तं सूत्रारूढं दर्शितम् । ‘‘अतद्धर्माभिलापा’’दित्यत्र समासनिर्वाहस्तु ‘‘नानुमानमतच्छब्दा’’दित्यत्र करिष्यत इति भावः ।। तृतीय इति ।। ‘‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयत’’ इत्यत्रात्मनोंऽतर इति माध्यंदिनाः विज्ञानादन्तर इति कण्वाश्च जीवमन्तर्यामिणो भेदेनाधीयत इति शारीरो नान्तर्यामीति भेदाध्ययनरूपबाधकोक्तिरित्यर्थः । यद्यपि चकारात् ‘‘यस्तेजसि तिष्ठन्नित्यादिना श्रीदुर्गारूपायाश्चित्प्रकृतेरपि भेदेनाधीतत्वान्न चित्प्रकृतिरन्तर्यामीत्यभिप्राय’’ इति तत्वप्रदीपरीत्या चित्प्रकृतिपक्षेऽपिबाधकोक्तिपरत्वं भाति । तथापि टीकारीत्यैवमुक्तिः ।

चन्द्रिकाबिन्दुः

नन्विदानीं भाष्यकारादिभिः असूचितं शरीरशब्दस्य गौणत्वं किमिति भवद्भिरङ्गीकृतमित्याशङ्क्य प्रयोजनवशादन्यत्रोक्तमत्रास्माभिरङ्गीकृतमित्यभिप्रेत्याह ।। शरीरत्वस्येति ।। तेन शरीरशब्दस्य गौणत्वाश्रयणेन कायशब्दोऽपि पुराणादिषु गौण्या वृत्त्या प्रयुज्यते इति भावः । क्लेशेन पृथिव्याद्यभिमानिजीवादिपरत्वेन ।

ननु, न च स्मार्तमिति सूत्रे प्रधानपक्ष एव साधकाभावोक्तिः । स्मार्तशब्दस्य प्रधानपरत्वात् न जीवपक्ष इत्यत आह ।। तृतीयेति ।। इदं च तृतीयसूत्रावतारिकाटीकायां स्फुटम् ।।

पाण्डुरङ्गि

ननु च भाष्यतट्टीकयोः पृथिव्यादेर्यौगिकशरीरत्त्वमेवोक्तम् । भवद्भिश्च शरीरवत्तन्नियम्यत्वेन गौणं शरीरमित्युच्यते । तत्कुतोऽवगन्तव्यम् । भाष्यानुक्तत्वेन मूलभूतप्रमाणाभावादित्यत आह ।। शरीरत्वस्येति ।। एवं आदिपदेनात्मानं यमयतीत्यस्य सङ्ग्रहः ।। क्लेशेनेति ।। तत्वभिमानिनामस्मदाद्यात्मनियामकत्वाभिप्रायेणात्माभिमानि-चतुर्मुखरूपजीवविशेषाभिप्रायेण चेति क्लेशेन नेयमित्यर्थः ।

Load More