पूर्वोक्तं मुख्यप्राणस्य जीवं प्रत्यकरणत्वमयुक्तम्

इन्द्रियाधिकरणम्

तात्पर्यचन्द्रिका

।। ॐ त इन्द्रियाणि तव्द्यपदेशादन्यत्र श्रेष्ठात् ॐ ।।

पूर्वोक्तं मुख्यप्राणस्य जीवं प्रत्यकरणत्वमयुक्तम् । तस्यापीन्द्रियत्वेन तं प्रति करणत्वादिति पूर्वपक्षोत्थानात्सङ्गतिः । अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादि कमयुक्तमुत नेति चिन्ता । तदर्थं श्रुतिरप्रमाणं न वेति । तदर्थं द्वादशानामेवेन्द्रियत्वश्रुतिरप्रमाणमुत नेति । तदर्थं सा इदं द्रवणयुक्तियुक्तत्वेन प्रबलया सामान्येन त्रयोदशप्राणानामिन्द्रियत्वश्रुत्या बाध्यते न वेति । तदर्थं सामान्यश्रुतिर्द्वादशत्वरूपविशेषश्रुत्यनुसारेण मुख्यप्राणं परिहृत्य न वर्तत उत वर्तत इति । तदर्थमिन्द्रियत्वप्रयोजकत्वेन सामान्यश्रुत्युक्तमिदं द्रवणं मुख्यप्राणस्यास्ति न वेति । ‘‘भेदश्रुते’’रिति सूत्रे प्राणस्येन्द्रियान्तराद्भेदे श्रुतिरुक्ता । ‘‘वैलक्षण्या’’दिति सूत्रे तु प्रत्यक्षमिति भेदः । मनोपि सत्यतिप्रयत्ने पुमधीनप्रवृत्त्येव । न हि सुषुप्तौ पुंप्रयत्नाभावेऽपि प्राणस्येव मनसः प्रवृत्तिरस्ति । परेषां भाष्ये तु प्रकृता वागादयः प्राणाः प्राणादिवन्मुख्यप्राणस्य वृत्तिभेदा इति प्राप्ते तत्वान्तराणि । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चेत्यादौ भेदव्यपदेशादिति सिद्धान्त इत्युक्तम् । तत्र तत्वान्तरणीति प्रतिज्ञाध्याहारः । तव्द्यपदेशादित्यस्य भेदश्रुतेरित्यनेन पौनरुक्तयम् । तच्छब्दस्याध्याहृततत्वान्तरपरतेति दोषा इति स्वमतमेव दूषितं भामतीकारेण । कैश्चिच्च मुख्यप्राणोऽपीन्द्रियमिति प्राप्ते तद्वर्जमेकादशैवेन्द्रियाणीति सिद्धान्तितम् । तत्रेन्द्रियस्यैकादशत्वं प्रागेव निरस्तम् । अन्यत्त्वविरुद्धम् ।।

प्रकाशिका

पूर्वोक्तमिति ।। प्राणवतेत्यत्र ‘‘न जीवापेक्षया मुख्यं कारयेत्परमेश्वर’’ इति भाष्योक्तमित्यर्थः । पूर्वोत्तरपक्षटीकासूचिताश्चिंता आह ।। अत्रेति ।। इन्द्रियत्वश्रुतिरिति ।। तदप्रामाण्यप्रामाण्ययोः सतोः ‘‘तत्सामान्या’’दिति न्यायेन समन्वितश्रुतिमात्राप्रामाण्यप्रामाण्ययोः प्रसक्तेरिति भावः । अन्यत्स्पष्टम् । वैलक्षण्यसूत्रे भाष्यटीकयोर्जीवाधीनप्रवृत्तित्वमिन्द्रियाणामुक्तम् । मनसस्तद्य्वनक्ति ।। मनोऽपीति ।। प्राणादिवदिति ।। यथा प्राणापानादयो मुख्यप्राणवृत्तिभेदा एवं वागादिप्राणा अपि । न तत्वांतराणीति प्राप्त इत्यर्थः । अन्यत्र श्रेष्ठात् श्रेष्ठं वर्जयित्वा । ते प्रकृतप्राणरूपवागादीन्द्रियाणि तत्वांतराणि । कुतः । तद्व्यपदेशात् तेषां प्राणानां श्रेष्ठाद्भेदव्यपदेशादिति योजनां हृदि कृत्वाऽनुवदति ।। एतस्मादिति ।। स्वमतमेव दूषितं भामतीकारेणेति ।। भामत्यां हि यथाश्रुतभाष्यं व्याख्याय ‘‘अन्ये तु भेदशब्दाध्याहारभिया भेदश्रुतेश्चेति पौनरुक्तयभिया तच्छब्दस्यानन्तरोक्तपरामर्शकत्वादन्यथा वर्णयांचक्रु’’रित्यादिना स्वभाष्योक्तं स्वमतमेव स्वयं दोषत्रयेण दूषयित्वाऽन्यथा वक्ष्यमाणदिशाऽधिकरणशरीरं वर्णितवानिति स्वमतमेव दूषितमित्यर्थः । दोषत्रयसमर्थनं च कल्पतरावेव व्यक्तम् । भाष्यभामतीवाक्ये भेदशब्दस्य तत्वान्तररूपार्थकत्वस्य कल्पतरावुक्तेः ‘‘तत्वान्तराणीति प्रतिज्ञाध्याहार’’ इत्याद्यनुवादः कृतः ।। तद्वर्जमिति ।। मुख्यप्राणवर्जमित्यर्थः ।। प्रागेवेति ।। सप्तगतेरित्यत्रेत्यर्थः । एतेन भामत्यभिमतवर्णकमपि प्रत्युक्तं ध्येयम् ।। अन्यत्त्विति ।। भेदश्रुतेर्वैलक्षण्याच्चेत्यनयोरेकयोगकरणं त्वसांप्रदायिकमित्युपेक्षणीयमिति भावः ।।