यदि जीवोऽणुस्तर्हि ..

व्यतिरेकाधिकरणम्

तात्पर्यचन्द्रिका

जीवोऽणु:

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ।।

यदि जीवोऽणुस्तर्हि योगिनो बहुरूपत्वायोग इति पूर्वाक्षेपेण पूर्वपक्षोत्थानात्सङ्गतिः ।। अत्र जीवस्य बहुरूपत्वश्रुतिः किं निरवयवत्वयुक्तयनुगृहीतयैकरूपत्वश्रुत्या बाधितोत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं विष्णोः सर्वस्रष्टृत्वादिकमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणं न वेति । तदर्थं जीवबहुरूपत्वश्रुतिः किं निरवयवत्वयुक्तयनुगृहीतयैकरूपत्वश्रुत्या बाधितोत नेति) तदर्थं भिन्नांशरहितस्य बहुरूपत्वं न घटत उत योगसामर्थ्याद्घटत इति । तदर्थं योगिनोऽघटितघटनाशक्तिमत्त्वे किमीश्वरत्वमापद्यत उत नेति । न्यायविवरणोक्तां पूर्वपक्षयुक्तिमाह ।। तथा सतीति ।। अत्र सूत्रे गन्धवच्छब्देनात्यन्तभेदहीनस्यापि व्यतिरेकसम्भावको दृष्टान्त उक्तः । दर्शयतिचशब्दाभ्यां त्वत्यंताभिन्नस्यापि विभागरूपे व्यतिरेके श्रुतिस्मृती प्रमाणीकृते । तत्सम्भावकं योगसामर्थ्यं योगिनस्तादृशसामर्थ्यदातृत्वरूपमीश्वरसामर्थ्यं च श्रुतिस्मृतिभ्यामेवोक्ते इति न सूत्रे पृथगुक्ते । प्रमितेऽनन्यगतिके चाविरोध ईश्वरशक्तयेति नातिप्रसङ्गः ।। छ ।। व्यतिरेकाधिकरणम् ।। १३ ।।

प्रकाशिका

‘‘युज्यते खलु विभावात्मनी’’त्यादिटीकासूचितामाह ।। यदीति ।। योगिनः निरवयवजीवस्येति शेषः । सुधायां तु ‘‘अविरोधश्चन्दनव’’दित्युक्तार्थोपपादकत्वेन सङ्गतिरुक्ता । पूर्वोत्तरपक्षटीकासूचिताश्चिंता आह ।। अत्रेति ।। ‘‘स पञ्चधा सप्तधा दशधा भवती’’ति बहुरूपत्वश्रुतिः । ‘‘स एकधा न सप्तधे’’त्यैकरूप्यश्रुतिः । टीकोक्तं सूत्रारूढं दर्शयितुं सूत्रार्थं निष्कृष्याह ।। अत्र सूत्र इति ।। नन्वेवं जीवजडेश्वराणामभेदमुपेत्य तन्निबन्धन सर्वानुपपत्तिरपीशाचिन्त्यशक्तयैव समाधीयतामित्यत आह ।। प्रमित इति ।। गुणक्रियादीनां धर्मिणा तादात्म्यमुपेत्य भेदनिबन्धनकार्याणामपीश्वराचिन्त्यशक्तयैव निर्वाहः क्रियतां किं विशेषादिनेत्यत आह ।। अनन्यगतिकेति ।। छ ।। व्यतिरेकाधिकरणम् ।। १३ ।।

चन्द्रिकाविवृतिः

।। ॐ व्यतिरेको गन्धवत् ॐ ।। अत्यन्ताभिमानस्य जीवस्यैकस्य कथमतिरेक इत्याशङ्कायां गन्धवदिति दृष्टान्तो न युक्तः । गन्धस्य पुष्पादिनाऽत्यन्तभेदाभावात् । दृष्टान्तमात्रस्य असाधकात्वाच्च । व्यतिरेकशब्दस्याभावार्थकत्त्वे प्रकृतासङ्गतेश्चात्यन्ताभिन्नस्यापि विभागे सम्भाविकयोगसामर्थ्यतद्घट-केशशक्तयोः सूत्रेऽनुक्तया न्यूनता च । ईशशक्तया सम्भाविताङ्गीकारे शशशृङ्गाङ्गीकारापाताच्चेत्याशङ्क्य सूत्रार्थमाह ।। अत्र सूत्र इत्यादिना ।। अत्र वाक्यांशैः पूर्वोक्तसर्वशङ्कोद्धारो द्रष्टव्यः ।