न चान्वेष्टव्यं प्रत्याधारतया तदुक्तिः
हृत्पद्मस्थितत्वं जीवस्य वा इति पूर्वपक्षपक्षान्तरनिरूपणम्
तात्पर्यचन्द्रिका
न चान्वेष्टव्यं प्रत्याधारतया तदुक्तिः । आधारतायाः ‘‘तस्मिन्यदन्त’’रिति प्रागेवोक्तत्वेन ‘‘किं तदत्र विद्यत’’ इत्याधेयस्यैव पृष्टत्वेन चाकाङ्क्षाभावेन द्यावापृथिव्यादेरन्वेष्टव्यत्वप्रसङ्गेन चाधारत्वोक्तेरनन्वयात् । आकाशपक्षेत्वस्त्यन्वयः । आकाशस्य दहरवाक्ये हृत्पद्मस्थतामुक्त्वाऽन्वेष्टव्यवाक्ये दहराकाशान्तःस्थस्यान्वेष्टव्यत्व उक्ते ‘‘किं तदत्र विद्यत’’ इत्यत्रान्वेष्टव्य आधेये पृष्टे ‘‘यावान्वा’’इत्यादिना पूर्वोक्तमाधारमाकाशमनूद्य तच्च द्यावापृथिव्याद्याश्रयत्वयोग्यत्वाय बाह्याकाशतुल्यतया विशेष्य ‘‘उभे अस्मि’’न्नित्यादिना द्यावापृथिव्यादेरन्वेष्टव्यत्वोक्तेःश्लिष्टत्वात् । एवं च पूर्वपक्षे जिज्ञासासूत्रस्याप्याक्षेपः । अत एव ‘‘मुख्यतः पृथिव्यादीनामनुपास्यत्वा’’दिति सिद्धान्तटीकायां पृथिव्यादेर्जिज्ञास्यत्वप्रतिषेधः । ननु तर्हि ब्रह्मेति द्वितीयोऽस्तु । न चैवमाधेयप्रश्नस्य ‘‘यावा’’नित्यनेनैवोत्तरितत्वेन ‘‘उभे अस्मि’’न्नित्यादिकं व्यर्थमिति वाच्यम् । ब्रह्मणो जिज्ञास्यत्वाय सर्वाधारत्वोक्तेरिति चेन्न । तस्मिन्सर्वं प्रतिष्ठितमिति समाख्याश्रुतौ साक्षात्सुषिरस्यैव सर्वाधारत्वोक्तेः । दहरोऽस्मिन्नन्तराकाशस्तस्मिन्निति पूर्वोक्तप्रसिद्धाकाशस्यैवेहापि ‘‘यावान्वा अयमाकाश’’ इत्याकाशश्रुत्या ‘‘उभे अस्मि’’न्निति सप्तम्याच प्रत्यभिज्ञानाच्च । नह्यस्मिन्निति सप्तमीनिर्दिष्ट आकाशः पृष्टमाधेयं प्रत्याधारो न । प्रथमानिर्दिष्टं च द्यावापृथिव्यादिकं पृष्टमाधेयं न । किं त्वन्यदेवेत्यन्वितं भवतीति । टीकायामस्मिन्पक्षे न्यायविवरणोक्तानन्वयमनुक्त्वा भाष्योक्तसुषिरश्रुतिविरोधोक्तिस्त्वनन्वयो न लगतीति नाभिप्रेत्य । किं तु सुषिरश्रुतिविरोधोऽपि लगतीत्यभिप्रेत्य । तस्मादाकाशमेव हृत्पद्मस्थम् । अपहतपाप्मत्वादिकं त्वाकाशेऽपि युक्तम् । तस्याचेतनत्वेन पाप्माद्यत्यन्ताभावस्य सत्त्वात् । तत्प्रध्वंसस्य च ब्रह्मण्यप्यसत्त्वात् । सत्यकामत्वादिकं तु प्रतिहतकामादिराहित्यात् । यद्वा अभिमान्यभिप्रायेणाकाशे अपहतपाप्मत्वादिकं सत्यकामत्वादिकं चास्तु । तस्माद्धृत्पद्मस्थमाकाशमेव । जीवो वाऽस्तु । ‘‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मे’’त्युत्तरत्रैतच्छब्देन प्रकृतं जीवमनूद्य तस्यात्मशब्देन ‘‘य आत्माऽपहतपाप्मा विजरो विमृत्यु’’रित्यादिनोक्तहृत्पद्मस्थात्मत्वविधानात् । तत्र चैतच्छब्दस्य परज्योतिःपरत्वे नपुंसकलिङ्गता स्यात् । अपहतपाप्मत्वादिकं तु मुक्तौ जीवेऽपि सम्भवात् ‘‘अस्य सूत्रस्य शाटकं वय यूपं तक्षती’’त्यादिवद्भाविभावाभिप्रायम् । अत एवास्मिन्नेव प्रकरण उत्तरत्र ‘‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुतिष्ठन्ते । अत्र ह्येते सत्याः कामा’’ इत्यादिना मुक्तानां सत्यकामत्वाद्युक्तिः । यावान्वा इत्यादिवाक्यानन्वयस्तु ब्रह्मपक्षेऽपि सम इति ।
प्रकाशिका
अन्वेष्टव्यं ‘‘उभे अस्मि’’न्नित्यादिना वक्तुं तदुपयुक्तत्वेनैतदुक्तयन्वयोस्त्वित्याशङ्क्य टीकोक्तमनन्वयं साधयति ।। न चेति ।। द्यावापृथिव्यादेरिति ।। यद्यप्येतत्पूर्वपक्षिणस्समीहितमेव । तथापि ‘‘तमेवैकं जानथ आत्मानमन्या वाचोविमुञ्चथे’’त्यादिना सिद्धान्तिभिरन्वेष्टव्यत्वस्य ब्रह्मनिष्टतयाऽङ्गीकारेण तेषां एतदनिष्टमिति भावः । तेन नोत्तरग्रन्थविरोध इति ध्येयम् । अस्मिन्पक्षे भाष्यमुपलक्षणमन्यदप्याक्षेप्यमित्याह ।। एवं चेति ।। तेन जिज्ञास्यत्वरूपब्रह्मधर्मादाकाशो ब्रह्मेति निरस्तम् । ‘‘यावान्वा’’इति वाक्यगताकाशो ब्रह्मेति द्वितीयपक्षष्टीकायां ‘‘न च यावानित्यादिनाऽऽकाशाख्यो विष्णु’’रित्यादिग्रन्थेन शङ्कापूर्वं निरस्तः । तं विशदयति ।। नन्विति ।। टीकोक्तं सुषिरश्रुतिविरोधमुक्त्वाऽनन्वयमपि योजयति ।। नहीति ।। हृत्पद्मस्थाकाशस्थं किमिति पृष्टे हृदये ब्रह्म तत्र च सर्वमस्तीत्यस्यानन्वयादिति भावः ।। अस्मिन्पक्ष इति ।। प्रतिवचनगताकाशो ब्रह्मेति पक्ष इत्यर्थः । ननु विष्णुलिङ्गविरोध इत्यत आह ।। अपहतेति ।। तस्मात् लिङ्गविरोधाभावादित्यर्थः । एवमाकाशपूर्वपक्षटीकां प्रपञ्च्य ‘‘इतरपरामर्शात्स इति चे’’दिति सूत्रपूर्वपक्षोक्तिपरां ‘‘जीवस्य वैतद्भवे’’दित्यादिटीकां व्यनक्ति ।। जीवोवास्त्विति ।। हृत्पद्मस्थ इत्यनुषङ्गः । तस्यात्मत्वविधानेऽपि हृत्पद्मस्थत्वं कुत इत्यत आह ।। य आत्मेति ।। तस्य प्रकृतहृत्पद्मस्थविषयत्वादिति भावः ।। विधानादिति ।। एतेन टीकादौ ‘‘परामर्शा’’दित्यस्य परामृश्यात्मत्वविधानादित्यर्थ उक्तो भवति ।
ननु तत्रैष इत्यस्य ज्योतिश्शब्दनिर्दिष्टविष्णुपरत्वमस्त्वित्यत आह ।। तत्र चेति ।। नपुंसकेति ।। उपलक्षणमेतत् । सम्पद्यत इत्यत्र कर्तृत्वेन सन्निहितजीवपरित्यागायोगादित्यपि ध्येयम् । लिङ्गविरोधमाशङ्क्य ‘‘उत्तराच्चे’’दिति सौत्राक्षेपाभिप्रायमाह ।। अपहतेति ।। अस्यसूत्रस्येति ।। सूत्रतादशायां शाटकभावाभावादिति भावः । सूत्रस्य शाटकं वयेत्येतद्यथोभे सूत्रे शाटकं भवति तथा कुर्विति भावेन प्रयुज्यते यथाच तक्षणे कृते यूपो भवति तथा कुर्विति भावेन प्रयुज्यते तद्वदिति भावः । विवृतश्चायं दृष्टान्तो महाभाष्ये ‘‘इग्यणस्संप्रसारण’’मित्यत्र यदि शाटको न वातव्यः अथ वातव्यो न शाटकः शाटको वातव्यश्चेति विप्रतिषिद्धम् । भाविनी खल्वस्य संज्ञाऽभिप्रेता । समन्येवातव्योयस्मिन्नुते शाटक इत्येतद्भवतीति । एवमिहापि स यणः स्थाने भवति । यस्याभिनिर्वृत्तस्य सम्प्रसारणमित्येषा संज्ञा भविष्यती’’ति । तथा पूर्वतन्त्रे नवमाद्यपादे ‘‘अग्नये जुष्टं निर्वपामी’’त्यत्र जुष्टमित्येतद्भाविभावाभिप्रायेणेत्युक्तं गुणशब्दस्तथेति चेदित्यत्र द्वादशेऽधिकरणे । तदेतदाह ।। इत्यादिवदिति ।। मुक्तावपि अपहतपात्मा इत्यादिवाक्ये पठितं सत्यकामत्वादिकं अप्रसिद्धम् । तदा निश्शेषकामनिवृत्तेरित्यत आह ।। अत एवेति ।। अपहतपाप्मत्वादेर्मुक्तविषयत्वादेवेत्यर्थः । ‘‘सयदि पितृलोककाम’’ इत्यादेर्मुक्तविषयत्वं च ‘‘संकल्पादेव च तच्छते’’रित्यधिकरणसिद्धमिति तत्प्रकरणादस्यापहतपाप्मेत्यादेर्मुक्तविषयत्वमवश्यं वाच्यम् । अन्यथा ‘‘सयदी’’त्यादेरप्रकृतविषयत्वं स्यादिति भावः । नन्वेवमप्यनन्वयदोषस्तदवस्थ इत्यतो ‘‘यश्चोभयोस्समोदोष’’ इति न्यायेन नाहं पर्यनुयोज्य इति भावेनाह ।। यावान्वा इति ।।
चन्द्रिकाबिन्दुः
न चेति ।। अन्वेष्टव्यं ब्रह्म प्रत्याधारतयाऽऽकाशोक्तिरिति कृत्वा नानन्वय इति भावः ।। आधारताया इति ।। दहरोऽस्मिन्नन्तर आकाश इत्यनेन पूर्वमेवाधारतया आकाशस्योक्तत्वेन पुनस्तदुक्तिवैयर्थ्यादिति भावः ।
यावान्वा अयमाकाश इत्याकाशशब्दस्य ब्रह्मपरत्वे स्वयमन्वयानुपपत्तिप्रकारं दर्शयति ।। दहरोऽस्मिन्नन्तर आकाश इति ।। अस्त्वाकाशस्य आकाशश्रुत्या अस्मिन्निति सप्तम्यन्तपदेन निर्देश्यमानत्वेन प्रत्यभिज्ञायमानत्वं तथापि अन्वयास्वारस्यं कथमित्यत आह ।। न ह्यस्मिन्निति ।। सप्तमीनिर्दिष्टाकाशः पृष्टमाधेयं प्रति आधारो न किन्तु इदं सप्तम्यन्तपदनिर्दिष्टमप्याकाशमाधेयं ब्रह्मैव । द्यावापृथिव्यादिकमपि ब्रह्मस्थं यत्किञ्चिदेव ।। तदिति प्रथमान्तपदनिर्दिष्टत्वात् आधेयं भवितुं योग्यं प्रश्नानुसारात् । ब्रह्मपक्षे तु न तत्पृष्ठमाधेयं भवति । ब्रह्मण एवाधेयत्वात् । तथा च प्रश्नानुगुण्यमुत्तरस्येत्यभिप्रायः । तर्हि टीकायामाकाशशब्दस्य ब्रह्मपरत्वपक्षे एवमुत्तरवाक्यस्वारस्यमनुक्तवा सुषिरश्रुतिविरोध एव किमित्युक्त इत्यत आह ।। टीकायामस्मिन् पक्ष इति ।।
पाण्डुरङ्गि
आकाशपक्षेतु अस्त्यन्वय इत्यादिटीका । तत्र यावान्वा इत्यादिना प्रसिद्धाकाशस्यैव विशेषमभिधायेत्युक्तम् । न तु तत्प्रयोजनमुक्तमित्यतस्तत्प्रयोजनं वदन्नेवार्थतष्टीकामनुवदति ।। आकाशपक्ष इति ।। अत एवेति ।। पूर्वपक्षे जिज्ञासासूत्रस्याप्याक्षेपस्याभिमतत्वादेवेत्यर्थः । यावान्वा अयमाकाश इति वाक्यस्थाकाशो न प्रसिद्धाकाशः । किं तु ब्रह्मेति द्वितीयोस्त्विति शङ्कते ।। नन्विति ।। टीकायां न च यावानित्यादिनाऽऽकाशाख्यो विष्णुः सर्वाधारतया परिहारे कथ्यत इति शङ्काग्रन्थे सर्वाधारतयेत्युक्तम् । तस्य प्रयोजनमाह ।। न चैवमाधेयप्रश्नस्येत्यादिना ।। तस्मिन्सर्वं प्रतिष्ठितमिति साक्षात्सुषिरस्यैव सर्वाधारत्वोक्तिविरोधादिति परिहारटीकायां यावानिति वाक्योक्ताकाशस्य विष्णुत्वे न्यायविवरणोक्तानन्वयासम्भवेन सुषिरश्रुतिविरोधोऽभिहित इति प्रतीतिनिरासायाह ।। तस्मिन्सर्वमिति ।। यावानिति वाक्योक्ताकाशस्य ब्रह्मत्वेऽप्युक्तरीत्याऽनन्वयश्चेत्तर्ह्यस्मिन्पक्षेऽनन्वयमनुक्त्वा सुषिरश्रुतिविरोधोक्तिरयुक्तेत्यत आह ।। टीकायामिति ।।
ननु प्रसिद्धाकाशपक्षेऽपहतपाप्मत्वाद्ययोग इत्यतोऽपहतपाप्मत्वं किं पापात्यन्ताभावो वा पाप्मध्वंसो वा । आद्यस्तु प्रसिद्धाकाशेऽप्युपपन्न इत्याह ।। तस्येति ।। द्वितीय आह ।। तत्प्रध्वंसस्य चेति ।। ननु च पाप्मात्यन्ताभाव एव विवक्षितः । न च चेतनत्वेनाकाशस्यापि पाप्मात्यन्ताभावोक्तिरिति वाच्यम् । तस्याचेतनत्वेन पापप्रसक्तेरेवाभावेन तन्निषेधायोगात् । न च नान्तरिक्षेऽग्निश्चेतव्य इत्यादाविवाप्रसक्तनिषेधः किं न स्यादिति वाच्यम् । तस्य हिरण्यं निधायाग्निचयनं कर्तव्यमिति विधिस्तावकत्वेन स्वार्थे तात्पर्याभावादित्यस्वरसादाह ।। यद्वेति ।। जीवस्य वैतद्भवेदिति टीका । तत्र जीवस्य पूर्वमप्रकृतत्वेनैतच्छब्देन तत्परामर्शानुपपत्तिः । अस्तु वा प्रकृतत्वम् । तथापि परञ्ज्योतिश्शब्देन ब्रह्मणोऽपि प्रकृतत्वादेतच्छब्देन तत्परामर्शः किं न स्यादित्यतो व्याख्याति ।। जीवोवेति ।। अत एवेति ।। भाविभावाभिप्रायेण जीवेऽप्यपहतपाप्मत्वादेः सम्भवादेवेत्यर्थः ।