यद्यप्यत्रेशानपदप्रवृत्तिनिमित्तप्रेरकत्वमसङ्कुचितं न वायौ

वामनाधिकरणम्

तात्पर्यचन्द्रिका

संगतिप्रदर्शनपूर्वकं विषयचिन्तानिरूपणम्

।। ॐ शब्दादेव प्रमितः ॐ ।।

यद्यप्यत्रेशानपदप्रवृत्तिनिमित्तप्रेरकत्वमसङ्कुचितं न वायौ । सङ्कुचितं तु जीवान्तरेऽपि । रुद्रेत्वीशानशब्दप्रसिद्धिरप्यधिका । तथापि तस्य वायौ किञ्चित्सङ्कुचितत्वादन्यत्र त्वत्यन्तसङ्कुचितत्वादीशानत्वसहचरितप्राणादिव्य वस्थापकत्वस्यान्यत्रात्यन्तासम्भवाच्चेशानशब्दो विष्णुवायुसाधारण इति ज्ञेयम् । ‘‘तमात्मस्थं येऽनुपश्यंति धीरास्तेषां सुखं शाश्वत’’मिति पूर्वत्र विष्णुज्ञानादेव मोक्ष इत्युक्तम् । तदयुक्तं ‘‘विश्वेदेवा उपासत’’ इत्यन्यस्यैव देवोपास्यत्वप्रतीतेः । प्राप्तसमस्तैश्वर्याणां च देवानां मोक्षादन्यार्थमुपासनायोगात् । अन्योपासनया च विष्णुज्ञानायोगादिति पूर्वाधिकरणाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिः । अत्र ‘‘ईशानो भूतभव्यस्ये’’ति काठकोक्त ईशानः किं वायुरुत विष्णुरिति चिन्ता । तदर्थं किं ‘‘ऊर्ध्वं प्राणमुन्नयती’’ति प्राणव्यवस्थापकत्वादिलिङ्गानुसारेण ‘‘मध्ये वामन’’ मिति वामनश्रुतिर्नेया किं वा विपरीतमिति । तदर्थं किमनेकानि लिंगानि प्रबलानि किं वैकापि श्रुतिः प्रबलेति । तदर्थं किं लिंगानि निरवकाशानि श्रुतिस्तु सावकाशोत विपरीतमिति ।।

प्रकाशिका

अत्र टीकायां ‘‘प्रेरकत्वसाम्येन भगवति वायौ च साधारणस्येशाननाम्न’’ इत्यादिना सङ्गतिग्रन्थे प्रेरकत्वसाधारण्येनेशानशब्दस्योभयत्र प्रसिद्धिरुक्ता । सा न युक्तेव । व्यधिकरणत्वात् । किं च प्रेरकत्वमसङ्कुचितं सङ्कुचितं वा । नोभयथापि पूर्वोत्तरकोटिद्वयमात्रसाधारण्यं लभ्यत इत्याक्षिप्य समाधत्ते ।। यद्यपीति ।। अक्षरशब्दस्येव प्रवृत्तिनिमित्तसाधारण्यादुभयत्र प्रसिद्धिरिति न वैयधिकरण्यमिति भावः ।। प्रसिद्धिरपीति ।। ‘‘ईश्वरश्शर्व ईशानश्शंकर’’ इत्युक्ते रूढिरपीत्यर्थः । वायुमात्रप्रसिद्धलिङ्गसाहित्येन रुद्रादित्यागे च द्वयमात्रसाधारण्यमित्याह ।। ईशानत्वेति ।। अन्यत्र विष्णुवायुभ्याम् । यद्यपि नायं नियमः । यथोक्तमक्षरनये ‘‘अन्यसाधारण्येऽपि संशयकोटिसाधारण्यमात्रेण तत्सिद्धे’’रिति । तथापि सति संभवे त्यागायोगादेवमुक्तम् । एतेन ‘‘ईशानशब्दस्य रुद्रे प्रसिद्धावपी’’त्यादि टीका विवृता । ‘‘विष्णुरेव जिज्ञास्य’’ इत्युक्तमिति भाष्यादि तु फलप्रदर्शनपरमिति भावेन पूर्वानन्तर्ये हेतुमाह ।। तमिति ।। ऐश्वर्यार्थमुपासनं कुतो नेत्यत आह ।। प्राप्तेति ।। विष्णुज्ञानार्थमेव देवानामन्योपासनमस्त्वित्यत आह ।। अन्येति ।।

एतेन यदुक्तं कल्पतरौ ‘‘प्राक् सतिविषये च साधारणी सप्तमी न तद्भासयत इति विषयत्वनिषेधस्मृत्या विषये व्यवस्थापिता । तद्वत्परिमाणमपि जैवं पारमेश्वरं वेति विशये अङ्गुष्ठमात्रं निश्चकर्षेति निर्णीतस्मृत्या जैवमिति प्रत्यवस्थानात्सङ्गति’’रिति । तन्निरस्तम् । असङ्कुचितेशानत्वरूपब्रह्मधर्मसन्दष्टत्वेन संशयस्यैवायोगात् । यदपि ‘‘अल्पश्रुतेरिति चे’’दित्यत्राल्पपरिमाणत्वं भगवत उक्तम् । अथाल्पपरिमाणविशेषः परमात्मव्यतिरिक्तस्य दृश्यत इति सङ्गतिरिति श्रुतप्रकाशोक्तं तदप्यनेन निरस्तम् । न्यायभेदादिना ‘‘अनुकृते’’रिति योगद्वयस्याधिकरणान्तरत्वेऽवश्यम्भाविनि व्यवहितेन सङ्गत्युक्तेरयुक्तत्वात् । विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। काठके चतुर्थवल्ल्यां ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वैतत् । अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वैतत्’’ । इत्याद्युक्त्वा पश्चात् ‘‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वेदेवा उपासत’’ इत्याम्नायते । तत्रेशानो विषय इत्यर्थः । एतेन ‘‘स ईशानोऽत्र विषय’’ इति टीकास्थैतच्छब्दपरामर्शो दर्शितः ।। प्राणेति ।। प्राणव्यवस्थापकत्वमध्यमत्वसर्वदेवोपास्यत्वलिङ्गानुसारेणेत्यादिपदार्थः । यदि लिंगानि निरवकाशानि तदा तैर्वामनश्रुतेर्बाधाद्वायुरेवेशान इति पूर्वपक्षे फलम् । यदि सावकाशानि तदा श्रुत्यैव लिङ्गानां बाधाद्विष्णुरेवेशान इति सिद्धान्ते फलमिति स्पष्टः फलफलिभाव इति भावः । अत्र यद्यपि श्रुतिः प्रबलेति चिन्तानन्तरं किमनेकत्वप्रयुक्तप्राबल्यं बलवदुत श्रुतित्वप्रयुक्तप्राबल्यं बलवदित्येव चिन्ता वाच्या । श्रुतिस्वभावप्राबल्यस्यैवात्र समर्थनात् । न तु निरवकाशत्वादिचिन्ता । तथापि सा पूर्वत्रैकानेकपदप्रयोगादेव सूचितेति सौत्रैवकारप्रमितशब्दाभ्यां श्रुतित्वनिरवकाशत्वोभयप्रयुक्तप्राबल्यस्य सूचितत्वात् न्यायविवरणानुसारेणाभ्युच्चयत्वेन सावकाशत्वादिचिन्ता प्रदर्शिता ।

चन्द्रिकाबिन्दुः

असङ्कुचितमिति ।। परममुख्यमित्यर्थः ।। जीवान्तरेऽपीति ।। तथा च न वायुविष्णुमात्रसाधारण्यमीशानपदप्रवृत्तिनिमित्तस्येति भावः ।। अन्यत्रेति ।। रुद्रादावित्यर्थः । तथा च अत्यन्तासङ्कुचितमीशानपदप्रवृत्तिनिमित्तं वायुविष्णुमात्रसाधारणमिति भावः । अनन्तरसङ्गतिं दर्शयति ।। तमात्मस्थमिति ।। तावता विष्णुज्ञानादेव मोक्ष इत्यस्य कथमाक्षेप इत्यत आह ।। प्राप्तेति ।। ननु वायूपासनया विष्णुज्ञानमेव भवति विष्णुज्ञानादेव मोक्षः । तथा च न पूर्वाक्षेप इत्यत आह ।। अन्योपासनया चेति ।।

पाण्डुरङ्गि

टीकोक्तमीशानशब्दस्य प्रेरकत्वसाम्येन विष्णुवायुसाधारणत्वं तत्रानुपपत्तिप्रदर्शनतत्परिहारपूर्वकमुपपादयति ।। यद्यप्यत्रेत्यादिना ।। विपरीतमिति ।। वामनश्रुत्यनुसारेण प्राणव्यवस्थापकत्वादिलिङ्गं नेयमिति विपरीतमित्यर्थः ।