केचित्तु
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु ।। शूद्रस्योपनयनाध्ययनाभावेऽपि कर्मकाण्डापशूद्राधिकरणन्यायेन कर्मानधिकारेऽपि अध्ययनस्य स्वाध्यायसंस्कारतया लिखितपठितस्वाध्यायजन्यज्ञानस्याश्रेयः साधनत्वेऽपि ‘‘श्रावयेच्चतुरो वर्णा’’नित्यादिवचनादितिहासपुराणश्रवणेऽधिकारात्तज्जन्यब्रह्मज्ञानसम्भवादस्ति ब्रह्मोपासनेऽधिकार इति प्राप्ते, ‘‘इतिहासपुराणाभ्यां वेदं समुपबृंह्येत् इति वचनेन तयोः वेदः समुपबृंहकमात्रत्वेन स्वातन्त्र्येण ज्ञानहेतुत्वाभावान्न शूद्रस्याधिकार इति सिद्धान्त इत्याहुः । तत्र पूर्वपक्षे कर्मानधिकाराङ्गीकरणमयुक्तम् । शूद्रेऽग्नेर्वेदजन्यकर्मविद्यायाश्चासम्भवेऽपीतिहासादिना ब्रह्मज्ञानवत्स्मृतिभिः कर्मज्ञानस्यापि सम्भवेनाग्न्यसाध्यसंध्योपासनादिकर्माधिकारसम्भवात् । किं चास्मिन्पक्षे सूत्र इतिहासादेरुपबृंहकत्वमेव सिद्धान्तहेतुतया वक्तव्यम् । न तु शूद्रस्योपनयनाद्यभावः । किं च वैदिकसंवर्गविद्याश्रोतुः शूद्रेति सम्बोधनेन वैदिकविद्याश्रवणाधिकारे शङ्किते सिद्धान्तिना ‘‘शुगस्ये’’ति सूत्रे तत्रैवानधिकार उक्तः । तस्मादितिहासादिना शूद्रस्य ज्ञानसम्भवासम्भवचिन्ता सूत्रविरुद्धा । अपि च इतिहासादेरुपबृंहकत्वेऽपि वेदानुपबृंहकेण वेदसमानार्थेन भाषाप्रबन्धादिना शूद्रस्य ब्रह्मज्ञान सम्भवात्तदुपासनाधिकारप्रसङ्गः । कर्मानधिकारादेव तदङ्गकोपासनानधिकारेत्विति हासादितो ज्ञानाभावव्युत्पादनवैयर्थ्यम् ।
किञ्च ‘‘इतिहासपुराणाभ्या’’मिति वाक्यमितिहासाद्यनुसारिण्येवार्थे वेदस्य तात्पर्यमित्येवं परम् । न तु वेदनिरपेक्षेतिहासादिर्न बोधक इति । अनेकशाखाभिज्ञमुनिकृतान्निर्णयरूपाद्वाक्याद्वेदनिरपेक्षादपि ब्राह्मणादीनामपि ज्ञानोत्पत्तेः । न चोत्पन्नमपि ज्ञानं शूद्रस्य न फलदम् । तस्यापि ‘‘य इदं शृृणुया’’ दित्युक्त्वा ‘‘शूद्रः सुखमवाप्नुया’’दित्युक्तयेतिहासादिश्रवणविधानात् । न च श्रवणं न ज्ञानार्थम् । किं तु पापक्षयार्थमिति शङ्क्यम् । दृष्टार्थत्वे सम्भवत्य दृष्टार्थत्वायोगात् । ‘‘स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरे’’त्यारभ्य ‘‘इति भारतमाख्यानं कृपया मुनिना कृत’’मित्यादिस्मृत्या भारतादेः शूद्रान्प्रति वेदकार्यकारित्वोक्तेश्च । यथा च त्वन्मते शूद्रादेर्मुक्तिसाधनब्रह्मोपासनानधिकारेऽपि तत्साधनप्रपत्तावधिकारः तथा वेदाद्ब्रह्मज्ञानेऽनधिकारेऽपीतिहासादिना तज्ज्ञानादावधिकारे बाधकाभावाच्च ।
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यांति परां गतिम् ।
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथे’’त्यादेश्च । तदेतदभिप्रेत्याह टीकाकारः ‘‘हरिः शूद्राद्यैर्वेदविद्या ज्ञेयो न भवती’’ति । भाष्यकृच्च ‘‘ज्ञेयो न वेदैः शूद्राद्यै’’रिति ।
प्रकाशिका
केचित्त्विति ।। ब्रह्मविद्यायां शूद्रस्याधिकारोऽस्ति न वेति संशयो बोध्यः ।। न्यायेनेति ।। अग्निविद्ययोरभावादित्येवं रूपेणेत्यर्थः । एतेन पूर्वतन्त्रापशूद्राधिकरणेनागतत्वमुक्तम् । अनिर्ज्ञातप्रकारस्य कथमधिकार इत्यत आह ।। श्रावयेदिति ।। प्रयोज्याभावे प्रयोजकासिद्धेः प्रयोज्योपादानमर्थात्सिद्धम् । न च ‘‘अन्नाद्यकामं याजये’’दितिवत्प्रयोज्यव्यापारविधिः । अधिकारिविशेषणाश्रवणादिति भावः । ‘‘अग्नेर्वेदजन्यकर्मविद्यायाश्चासम्भवेऽपी’’त्यभ्युपगमवादोऽयम् । पूर्वतन्त्रन्यायेनाग्न्याद्यभावेन कर्मानधिकारस्य ‘‘अनग्नित्वेन कर्मानधिकार’’ इत्यादिना निरस्तत्वादिति ध्येयम् ।। सन्ध्योपासनादीति ।। एतेन यदुक्तं श्रुतप्रकाशे कर्मणामितिहासपुराणेषु सामान्यतः कीर्तनेऽपि विशेषोपदेशाभावाद्वैशेषिकेषु विशेषोपदेशेषु शूद्रस्यानधिकार इति तन्निरस्तम् । संध्यावंदनादेर्विशेषोपदेशादिति । एतेनैव कर्माङ्गवैदिकमन्त्राध्ययनाभावान्न शूद्रस्य कर्मण्यधिकार इति केनचिदुक्तं निरस्तम् । अविहितस्य स्वशाखेतरशाखागतमन्त्राध्ययनस्येव तदङ्गमन्त्रमात्राध्ययनस्योपपत्तेः । नित्ये कर्मणि शक्याङ्गमात्रोपसंहारेणानुष्ठानस्योक्तत्वाच्चेति । सौत्रपदव्यावर्त्यपूर्वपक्षस्यैवोचितत्वेनेतिहासादिजन्यज्ञानमादायाऽधिकारपूर्वपक्षकरणं सूत्राननुगुणं चेत्याह ।। किञ्चेति ।। न त्विति ।। तथा चोपनयनाद्यङ्गीकारेणास्मद्रीत्यैव पूर्वपक्षो वाच्य इति भावः । सिद्धान्तोऽपि सूत्राननुगुण इत्याह ।। किञ्च वैदिकेति ।। अत एव श्रुतप्रकाशे ‘‘संवर्गविद्यावाक्यगतशूद्रशब्दनिर्वाह एव सौत्रः । अन्यत्पूर्वपक्षजातं सूत्रकाराभिप्रेतं स्वयमुपन्यस्त’’मित्याद्युक्तमिति भावः । अभ्युपेत्यापि सिद्धान्तप्रमेयमतिप्रसङ्गमाह ।। अपि चेति ।। भाषेति ।। तदीयद्राविडप्रबन्धादिनेत्यर्थः । ननु न ज्ञानासंभवादुपासनानधिकारः । किंत्वंगेष्वनधिकारादेवेत्यत आह ।। कर्मेति ।। ‘‘इतिहासपुराणेऽपि वेदोपबृंहणं कुर्वती एवोपायभावमनुभवतो न स्वातन्त्र्येणे’’त्यादिना त्वद्भाष्ये ज्ञानाभावोपपादनं व्यर्थमित्यर्थः । अयुक्तं च तद्व्युत्पादनमित्याह ।। किञ्चेति ।। अनेकेति ।। अनेन आप्तिमूलतामाह । निर्णयेत्यन्यानपेक्षताम् ।। ब्राह्मणादीनामिति ।। यथा प्रबलेन ‘‘अथातोऽग्निमग्निष्टोमेनानुयजन्ती’’ति वाक्येनेष्टकचितस्थण्डिलरूपाग्नेराहवनीयाधारतया ज्योतिष्टोमांगत्वे सिद्धे दुर्बलप्रकरणोपनीतोत्तरवेदिरप्यग्न्याधारतया तदङ्गं एवं पुराणादिजन्यमपि तज्ज्ञानमुपासनाङ्गम् । अन्यथा तज्ज्ञानस्य व्यर्थतापत्तेः । तथा च शूद्रस्यापि तज्जन्यं ज्ञानमुपासनाङ्गं स्यादिति भावः ।। न फलदमिति ।। विहितसाधनाजन्यत्वादिति भावः ।। इत्युक्त्वेति ।।
य इदं शृृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः ।
वेदान्तगो ब्राह्मणस्स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धस्स्याच्छूद्रस्सुखमवाप्नुयात् ।।
इति सहस्रनामसूक्तयेत्यर्थः । एतेन ‘‘श्मशानवच्छूद्रपतिता’’विति प्रतिषिद्धस्य समीपपाठस्य प्रतिप्रसवमात्रं श्रवणविधिः । न तु ज्ञानान्त इति निरस्तम् । सुखमिति श्रवणफलनिर्देशात् । न ह्यविहितसाधनजन्यात्फलोदयोक्तिर्युक्तेति भावः । ‘‘इतिहासपुराण श्रवणानुज्ञानं पापक्षयार्थम् । नोपासनार्थ’’मिति तद्भाष्योक्तं शङ्कते ।। न चेति ।। स्मृत्येति ।। ‘‘न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारत’’मिति भागवतप्रथमस्कन्धगतया स्मृत्येत्यर्थः ।। वेदकार्येति ।। तस्य यथा ब्रह्माद्यर्थावबोधद्वारा फलहेतुत्वं तथा इतिहासादि श्रवणस्यापीत्यर्थः । ननु वेदानधिकारे कथं तत्कार्ये ब्रह्मज्ञानादावधिकारस्स्यात् । ‘‘इति भारतमाख्यान’’मिति स्मृतिस्तु भारतप्रशंसामात्रपरत्वेनोपपद्यत इत्यत आह ।। यथा चेति ।। प्रपत्तिः भरन्यासः । इत्यादेश्च गीतायामित्यर्थः ।। भाष्येति ।। अणुभाष्यकृदित्यर्थः । अन्यथा न ज्ञेय इत्येवावक्ष्यदिति भावः ।
चन्द्रिकाबिन्दुः
कर्मकाण्डापशूद्रेति ।। पूर्वोत्तरतन्त्रयोरैकशास्त्र्यादिति भावः ।। कर्माधिकारसम्भवादिति ।। इतिहासपुराणादिमात्रसाध्यब्रह्मज्ञानाधिकारेऽङ्गीकर्तुः पूर्वपक्षिणस्तन्मात्रसाध्यकर्माधिकारो न विरुद्ध इति भावः । सूत्राननुगुणश्च पूर्वपक्ष इति भावेनाह ।। किञ्चास्मिन् पक्ष इति ।। इतिहासादेः स्वातन्त्र्येण न ब्रह्मज्ञानकारणत्वमुक्तं निराकरोति ।। किञ्चेति ।। इतिहासपुराणाभ्यामिति । भाषाप्रबन्धादिना भाषाप्रबन्धः वेदसमानार्थः रामानुजेनाङ्गीकृतः । तस्यापि शूद्रस्यापि इति स्त्रीशूद्रादीनां वेदेऽनधिकाराद्धेतोः । तत्साधनप्रपत्तौ मुक्तिसाधनप्रपत्तौ । स्त्रीशूद्रादीनां प्रपत्तावधिकारे प्रमाणान्तरमाह ।। मां हीति ।। ।। तदेतदभिप्रेत्येति ।। इतिहासादिना शूद्रादिज्ञेयत्वं ब्रह्मणोऽस्तीत्यभिप्रेत्येत्यर्थः ।।
पाण्डुरङ्गि
ननु न शूद्रस्य ब्रह्मोपासनाधिकारप्रसङ्गः । उपासनां प्रत्यङ्गीभूतकर्मण्यध्ययनोपेतताभावेनानधिकारेण तदङ्गिभूतोपासनायामनधिकारात् । न ह्यङ्गिन्यधिकारस्तदङ्गे त्वनधिकार इति सम्भवतीत्यत आह ।। कर्मानधिकारादेवेति ।। वैयर्थ्यमिति ।। कर्मण्यनधिकारादेव तदङ्गकोपासनानधिकारादिति भावः । नन्वितिहासपुराणाभ्यामिति वाक्यस्येतिहासाद्यनुसारिण्येवार्थे वेदस्य तात्पर्यमित्येवं परत्वं किमर्थं कल्पनीयम् । वेदनैरपेक्ष्येणापीतिहासादिर्न बोधक इत्येवं परमपि किं न स्यादित्यत आह ।। अनेकेति ।। ननु पुराणादौ सर्ववेदार्थानुक्तया वेदे चैकदेशस्योक्तया कथं पुराणादिजन्यज्ञानस्य साफल्यं स्यात् । सर्ववेदार्थज्ञानस्यैव फलजनकत्वादित्यत उक्तमनेकेति ।। श्रवणविधानादिति ।। तथा च विहितश्रवणजन्यज्ञानस्य फलदत्वमावश्यकमिति भावः । ननु श्रवणस्य पापक्षयार्थत्वेन ज्ञानार्थत्वाभावात्पापक्षयस्यैव विहितश्रवणसाध्यत्वेन न तस्य फलवत्त्वमित्यभिप्रेत्य शङ्कते ।। न च श्रवणं न ज्ञानार्थमिति ।