किं च प्रयोगो ज्ञापकः शक्तेर्निमित्तं तु नियामकम्
प्रवृत्तिनिमित्तं शक्तेः नियामकं, प्रयोग: केवलं ज्ञापकः
तात्पर्यचन्द्रिका
किं च
प्रयोगो ज्ञापकः शक्तेर्निमित्तं तु नियामकम् ।
नियामकानुसारित्वं नियम्यस्य च शोभते ।। १ ।।
प्रयोगो हि शक्तेर्ज्ञापक एव । निमित्तं तु शक्तिविषयतावच्छेदकतया तन्नियामकम् । नियम्यं च नियामकानुसारि । न च प्रयोग एव ज्ञापकः । उपदेशादिनापि तज्ज्ञानात् । सुलभा च ‘‘प्रातिपदिकाद्धात्वर्थ’’ इति ण्यंतेभ्योऽवरादिशब्देभ्यः पचाद्यचि कृते अवरयतीत्यवर इत्यवरादिशब्दानां ब्रह्मणि व्युत्पत्तिः । तदुक्तं न्यायविवरणे ‘‘प्रसिद्धत्वाच्च कर्तृव्युत्पत्ते’’रिति । सर्वं चैतत् ‘‘नामानि सर्वाणि यमाविशंति वचसां वाच्यमुत्तम’’मित्यादिश्रुतिस्मृतिबलात्कल्प्यते । आविशंतीत्यादिना मुख्यवृत्त्युक्तेः । दृष्टा हि चमसस्वर्गादिशब्दानां शिरः सुखादौ लोक प्रयोगाभावेऽपि ‘‘इदं तच्छिर एष ह्यर्वाग्बिलश्चमसः सुखं स्वर्गपदास्पद’’मित्यादिश्रौतानुशासनाच्छिरः सुखादिवाचिता । इमौ च पूर्वोत्तरपक्षौ तदधीनत्वरूपमूलहेत्वाश्रितौ । ज्ञेयत्वावचनादिहेत्वंतराश्रितौ तु भाष्यादौ स्पष्टौ । ‘‘ज्योतिर्दर्शना’’दित्यत्र टीकायां म्रियमाणादिशब्दोंऽतर्णीतणिजित्येवोक्तम् । न तु स्वातन्त्र्यं मुख्यनिमित्तमिति । अभिमान्यधिकरणेऽपि ‘‘मृदब्रवी’’दित्यादौ मृदादिशब्दा देवतापरा इत्येव सिद्धांतः । देवतायां मुख्यत्वं त्वत्रत्यतदधीनत्वन्यायाधीनमिति न पुनरुक्तिः ।
प्रकाशिका
प्रयोगप्राचुर्यस्य मुख्यत्वहेतुत्वं निरस्य ‘‘प्रवृत्तिनिमित्तस्य हरौ मुख्यत्वेन मुख्यत्वोपपत्ते’’रिति टीकां विवृण्वन्निमित्तं मुख्यत्वे हेतुरित्येतदुपपादयति ।। किञ्चेति ।। नियामकत्वप्रकारं व्यञ्जयञ्श्लोकं व्याचष्टे ।। प्रयोग इति ।। ननु ‘‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध’’ इति जैमिनिसूत्रोक्तया देवताधिकरणे ‘‘अत एव च नित्यत्व’’मित्यत्र शब्दार्थसम्बन्धानां नित्यत्वोक्तया च शब्दगतशक्तेरनादिनित्यायाः कथमन्याधीनतेति चेन्न । ‘‘आनादीनां गुणादीनां यथा गुण्यादितन्त्रते’’त्यादिना गायत्र्यधिकरणोक्तरीत्याऽनादिनित्याया अप्यन्याधीनत्वोपपत्तेः । ज्ञापकत्वमपि न प्रयोगस्य नियतमित्याह ।। न चेति ।। किञ्चेति चार्थः ।। उपदेशादिनेति ।। उपमाननिगमनिघण्टुव्याकरणादिरादिपदार्थः । नन्वस्त्वेवमव्यक्तादिशब्देषु गतिः । अतिसूक्ष्मत्वादि तच्छब्दप्रवृत्तिनिमित्तस्य शब्दशक्तिनियामकस्य हरौ सत्त्वात् । बद्धावरादिशब्देषु कथम् । बद्धत्वावरत्वादेर्बद्धावरादिशब्दप्रवृत्तिहेतोर्बद्धादि शब्दशक्तिनियामकस्य हरावभावेन हरेर्बद्धावरादिशब्दमुख्यार्थतानापत्तेरिति चेन्न । ‘‘रूढस्य वा यौगिकस्य वा यस्य शब्दस्ये’’त्यादिना प्रागुक्तदिशोपपत्तेः । ‘‘अवरयतीत्यादिव्युत्पत्त्युपपत्तेश्चे’’ति टीकां ‘‘किं च प्रातिपदिकाद्धात्वर्थ इति ण्यंतेभ्यः पचाद्यचि कृते सुलभाऽवरादिशब्दप्रवृत्ति’’रिति सुधोक्तरीत्या विवृण्वन्परिहारान्तरं चाह ।। सुलभा चेति ।। तृतीयस्याद्यपादे ‘‘सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्’’ इत्यत्रोक्तचुरादिगणमध्ये ‘‘प्रातिपदिकाद्धात्वर्थे बहुलमिष्टवच्चे’’ति पठितम् । तस्यार्थः । प्रातिपदिकात्करोत्यादिधात्वर्थे विवक्षिते बहुलं णिच्प्रत्ययो भवति । णाविष्टवच्च कार्यं भवतीति । तथा चावरङ्करोति बद्धं करोतीत्याद्यर्थेऽवरबद्धादिशब्दाण्णिचि कृते इष्टवच्चेत्युक्तेः ‘‘टेः’’ इष्टे मेयः सुपरतष्टेर्लोप इत्युक्तटिलोपे चण्यंतात् ‘‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यच’’ इत्यत्र पचादेराकृतिगणत्वस्य ‘‘यङोऽचि चे’’त्यत्राज्ग्रहणेन ज्ञापितत्वात्पचाद्यचि कृते ‘‘णेरनिटी’’ति णिलोपे स्वाद्युत्पत्ताववरो बद्ध इत्यादिरूपमिति भावः । ‘‘अवरयतीत्यादि व्युपत्त्युपपत्तेश्चे’’त्यादिटीकां विवृत्य तन्मूलमाह ।। तदुक्तमिति ।। प्रसिद्धेश्च कर्तृव्युत्पत्तेरिति न्यायविवरणपाठः क्वचिदुपलभ्यते । ‘‘ननु भवेदियमव्यक्तादिशब्दानां परमात्मनि मुख्यत्वचिन्ता । यदि तेषां तद्वाचित्वमेव भवेत् । न च तद्युक्तम् । तेषामन्यत्रैव प्रसिद्धत्वा’’दित्यादिटीकोक्तशङ्कां हृदि कृत्वा तन्निवर्तकतया प्राप्त ‘‘चमसवदविशेषा’’दिति सूत्रभाष्यटीकार्थं विवृणोति ।। सर्वं चैतदिति ।। ‘‘कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तम’’मित्यनुव्याख्यानोक्तस्मृतिः। श्रुतौ मुख्यत्वलाभप्रकारमाह ।। आविशन्तीति ।। आङस्सम्यक्त्वार्थतया मुख्यत्वलाभ इति भावः ।। स्पष्टाविति ।। सूत्रार्थकथनेन किञ्चिदग्रे विवरिष्यते चेति भावः ।।
चन्द्रिकाबिन्दुः
ननुप्रयोगोऽप्यसाधारणज्ञापकश्चेत् तन्नियतत्वं शक्तेर्भविष्यतीत्यत आह ।। न च प्रयोग एवेति ।। ननु ज्ञेयत्वावचनादित्यादिसूत्रव्यावर्त्यपूर्वपक्षसिद्धान्तौ किमिति नोक्तावित्यत आह ।। इमौ चेति ।।
पाण्डुरङ्गि
इतश्च न प्रयोगप्राचुर्यस्य शब्दमुख्यत्वे हेतुत्वमित्याह ।। किञ्चेति ।। ननु शब्दमुख्यत्वस्य प्रवृत्तिनिमित्तरूपनियामकानुसारित्वेन ब्रह्मणि दुःख्यादिशब्दानां मुख्यत्वम् । तन्नियामकीभूतप्रवृत्तिनिमित्तज्ञापकप्रयोगस्याभावादिति शङ्कते ।। न चेति ।। स्यादप्येवं यदि सर्वत्र प्रयोग एव प्रवृत्तिनिमित्तज्ञापकतया स्वीक्रियेत । न चैवमित्याह ।। उपदेशादिनापीति ।। न्यायविवरणोक्तां युक्तिमाह ।। सुलभा चेति ।। प्रातिपदिकाद्धात्वर्थे बहुलमिष्टवच्चेति सूत्रादवरादिशब्देभ्यश्चौरादिके णिचि सति इष्टवद्भावादिष्टे मेयः सुपरतः टिलोपविधानेन टिलोपे सति सनाद्यंता धातव इति धातुसंज्ञायां पचाद्यचि णेरनिटीति णिचो लोपेऽवरादिशब्दनिष्पत्तिरिति भावः । दुःख्यादिशब्दानां भगवति मुख्यत्वे बाधकं परिहृत्य साधकमप्याह ।। सर्वं चैतदिति ।। चमसवदविशेषादिति सूत्रोक्तं हेतुमाह ।। दृष्टा हीति ।। ज्ञेयत्वावचनादिति सूत्रोक्तपूर्वपक्षसिद्धान्तानुक्तेर्न्यूनत्वं परिहरति ।। इमौ चेति ।। पौनरुक्तयं परिहरति ।। ज्योतिरिति ।।