यच्चोक्तं सर्वज्ञपदं रुद्राख्यविशेष्यपरमिति तन्न

चित्प्रकृतिचतुर्मुखरुद्राणां न सर्वज्ञत्वम्

तात्पर्यचन्द्रिका

यच्चोक्तं सर्वज्ञपदं रुद्राख्यविशेष्यपरमिति तन्न । तस्य चतुर्मुखजन्यतया तज्जनकत्वायोगात् । किन्तु प्रकृतस्याक्षरस्य सर्वज्ञत्वविशेषणपरम् । अत एव सूत्रे विशेषणपदम् । सर्वविदित्यनेन पौनरुक्तयं च टीकायामेव त्रेधा परिहृतम् । यद्यपि सर्वज्ञत्वविशेषणं चित्प्रकृतिचतुर्मुखरुद्राणामक्षरत्वनिषेधेऽपि हेतूकर्तुं शक्यम् । विष्णोरन्यस्य मुख्यसार्वज्ञाभावात् । तथापि चित्प्रकृत्यादीनामक्षरत्वे विश्वकर्तृत्वेन सर्वज्ञत्वस्यापि शक्यशङ्कत्वात् । श्रुतेरमुख्यसार्वज्ञविषयत्वसम्भवाच्च जडप्रकृतिमात्रनिषेधे भाष्ये हेतूकृतम् । यद्यपि च भेदव्यपदेशश्चित्प्रकृतिनिषेधेऽपि हेतूकर्तुं शक्यः । ‘‘अक्षरात्परतः पर’’ इति चित्प्रकृतितोऽपि भेदव्यपदेशात् । तथापि नाक्षरस्याक्षरात्परतः परत्वम् । विरोधादिति शङ्कोदयादक्षरभेदोक्तिं विना चित्प्रकृतितो भेदव्यपदेशो न सिद्ध्यतीति चतुर्मुखरुद्रमात्रनिषेधे भाष्ये हेतूकृतः । यद्यपि चात्र सौत्र इतरशब्दो जडप्रकृतिचतुर्मुखरुद्रपरः । तथापि चतुर्मुखरुद्रयोश्चेतनत्वेनैकीकृतत्वाद्द्विवचनं युक्तम् । ‘‘अक्षरत्रयमीरित’’मिति भाष्योक्तस्मृत्या चाक्षरव्यक्तीनां भेदव्यपदेशात्

पाण्डवस्यार्जुनस्यैव कार्तवीर्यार्जुनादिव ।

ब्रह्माक्षरस्य परता स्यादब्रह्माक्षराद्धुवम् ।। १ ।।

तदुक्तं न्यायविवरणे ‘‘अक्षरात्परतः परस्याप्यक्षरान्तरत्ववचना’’दिति ।

प्रकृताप्रकृतत्यागस्वीकारौ बाधके सति ।

दोषाय नैवैतस्यैव रेवतीष्विति वाक्यवत् ।। १ ।।

यथा ‘‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसामकृत्वापशुकामो ह्येतेन यजेते’’ त्यत्र यजेः प्रकृतिवाचिन्येतच्छब्दे सत्यपि प्रकृताग्निष्टुदाख्ययागत्यागोप्रकृतयागान्तरस्वीकारश्च दोषाय नैव भवतः । प्रकृतपरत्वे वाक्यभेदात् । तथा ‘‘अक्षरात्परत’’ इत्यस्य प्रकृतादृश्यत्वादिगुणकाक्षरपरताया बाधितत्वात्त्यागोऽप्रकृतप्रकृत्याख्याक्षरस्वीकारश्च । अत्र सूत्रक्रमस्तद्विषयवाक्यक्रमादिति ।।

प्रकाशिका

यदपि रुद्रप्रापकेशशब्दोपोद्बलकं सर्वज्ञपदमिति तत्राह ।। यच्चेति ।। सर्वज्ञ इत्यस्योत्तरार्धे ‘‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायत’’ इति चतुर्मुखजनकत्वश्रवणात्तस्य च रुद्रेऽनुपपत्तेरित्याह ।। तस्येति ।। ‘‘ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजस्स्मृत’’ इत्याथर्वण भाष्योक्तस्मृतेरिति भावः ।। प्रकृतस्येति ।। विश्वहेतुतया प्रकृतस्येत्यर्थः ।। सूत्र इति ।। ‘‘विशेषणभेदव्यपदेशाभ्यां च नेतरा’’विति सूत्रे सार्वज्ञविशेषणादित्युक्तमित्यर्थः । ननु यौगिकत्वे सर्वविदित्यनेन पुनरुक्ततोक्तेत्यत आह ।। सर्वविदिति ।। त्रेधेति ।। सामान्यविशेषतया वा सर्वं विन्दति लभत इति वा सर्वमुत्पादयतीत्युत्पत्त्यर्थकत्वेन वा विदिधातुर्नेय इत्युक्तमित्यर्थः । अत्र रामानुजभाष्यादौ ‘‘विशेषणभेदे’’ति हेतुद्वयस्य प्रत्येकं प्रधानादिनिरासकत्वमुपेत्यैकैकस्य प्रधानादिमात्रनिरासकत्ववर्णनं दूषितम् । भाष्ये तु विशेषणादित्यस्य प्रधानमात्रव्यावर्तकत्वं भेदव्यपदेशस्य ब्रह्मरुद्रमात्रनिषेधकत्वमुक्तम् । तत्र परोक्तदूषणालग्नतां वक्तुमक्षरस्य सर्वज्ञत्वविशेषणे किं लब्धमित्यतः प्रवृत्तं ‘‘यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तप इति विशेषणान्न प्रकृति’’रिति भाष्यमाक्षिप्य समाधत्ते ।। यद्यपीति ।। प्रकृतिपदस्य टीकायां जडपरत्वेन वर्णनस्यापि तात्पर्यमुक्तं भवति । सूत्रखण्डव्याख्यानपरं ‘‘तस्मादेतद्ब्रह्म नामरूपमन्नं च जायत इति भेदव्यपदेशान्न विरिञ्चः । ‘‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्र’’ इति भाष्यमाक्षिप्य समाधत्ते ।। यद्यपि चेति ।। भेदव्यपदेशकवाक्यमाह ।। अक्षरादिति ।।

ननु विशेषणभेदव्यपदेशाभ्यां यदि जडप्रकृतिब्रह्मरुद्राणां निरासस्तर्हि नेतर इति बहुवचनान्तनिर्देशस्स्यादित्याशङ्क्य समाधिमाह ।। यद्यपि चेति ।। एवं पृथिव्यादिदृष्टान्तोक्तयादीनि पूर्वपक्षोपोद्बलकानि सिद्धान्तबाधकानि निरस्येदानीं यदक्षरात्परत इति निकृष्टत्वेन श्रुतत्वरूपं बाधकान्तरं तदपि नेत्याह ।। अक्षरेति ।। एतेन भेदव्यपदेशेति सूत्रखण्डस्याक्षरव्यक्तीनां

अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।

श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ।

तामक्षरं परं प्राहुः परतः परमक्षरम् ।

हरिमेवाखिलगुणमक्षरत्रयमीरितम् ।।

इति स्मृत्या भेदव्यपदेशादित्यप्यर्थ उक्तो भवति । पञ्चम्यन्तस्य श्लोकेनान्वयः । उभयोरर्जुनशब्दवाच्यत्वेऽपि परापरभाव इवेहापि स इत्यर्थः । ननूक्तमत्र प्रकृतहानाप्रकृतस्वीकारौ स्यातामिति । तत्र ‘‘परविद्याविषयत्वबलेन प्रकृतपरित्यागाप्रकृतग्रहणयोरुपपत्ते’’रिति न्यायविवरणटीकोक्तमाह ।। प्रकृतेति ।। दृष्टान्तभागविवरणपूर्वं श्लोकं व्याचष्टे ।। यथेति ।। द्वितीयस्य द्वितीये पादे ‘‘समेषु कर्म युक्तं स्या’’दिति द्वादशेऽधिकरणे ‘‘त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेक विंशमग्निष्टोमसामकृत्वाब्रह्मवर्चसकामो यजेते’’त्यग्निष्टुत्सङ्ज्ञकं यागं विधाय पुनश्श्रुतं ‘‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसामकृत्वापशुकामो ह्येतेन यजेते’’ति वाक्यमुदाहृत्य किं पूर्वस्मिन्यागे पशुफलाय रेवत्याधारं वारवन्तीयं गुणो विधीयतेऽथ कर्मान्तरमिति संशये विशिष्टयागान्तरविधौ गौरवात्प्रकृतहानादिदोषादेतच्छब्दाच्च पूर्वत्रैव फलाय गुणविधिः । न च यागस्य वारवन्तीयाख्यसामाश्रयत्वायोगः । अङ्गावतारन्यायेन यागाङ्गस्तोत्रद्वारा तदुपपत्तेः । न चाग्निष्टोमस्य स्तोत्रान्वयः फलान्वयश्च विधेय इति वाक्यभेदः । क्रत्वर्थवारवन्तीयस्याप्यग्निष्टोमस्तोत्रान्वयसिद्धेस्तस्याविधेयत्वादिति प्राप्ते आश्रयाश्रयिभावस्य क्रियाकारकरूपत्वाद्यागस्य साम्नश्च क्रियाकारकभावायोगेनाश्रयाश्रयिभावानुपपत्तेः अङ्गावतारन्यायस्याङ्गाङ्गिभावविषयत्वात् क्रत्वर्थत्वेन वारवन्तीयस्याचोदितत्वेनान्यतोप्राप्तस्तोत्रसम्बन्धस्य फलसम्बन्धस्य च विधौ वाक्यभेदप्रसङ्गात् एतच्छब्दस्य च प्रस्तूयमानपरत्वाद्विशिष्टं कर्मान्तरमिति सिद्धान्तितम् । अत्र यथा वाक्यभेदबलेनैतच्छब्दश्रवणेऽपि प्रकृतत्यागाप्रकृतस्वीकारौ न दोषाय तथाऽत्रापीत्यर्थः ।। अत्रेति ।। आद्ये सूत्रे ‘‘यत्तदद्रेश्य’’मित्युपक्रमगतं वाक्यं विषयः । तत्रादृश्यत्वादिगुणक इति पुंल्लिङ्गनिर्देशस्तु ‘‘अक्षरात्परतः पर’’ इति पुंल्लिङ्गपरशब्दार्थापेक्षया । अत एव भाष्ये ‘‘परतःपरः प्रतीयते’’ इत्युक्तम् । एवं निर्देशोऽप्यक्षरात्परतः परस्याक्षरात्सम्भवतीत्यदृश्यत्वादिगुणकाक्षरस्यैकत्वस्फोरणायादृश्यत्वादिगुणकमित्युक्तौ अक्षरात्सम्भवतीत्युक्तमक्षरं विष्णुः परतः परस्त्वन्य इति शङ्का स्यात् । सा मा भूदित्येतदर्थः । विशेषणेति द्वितीयसूत्रे तु ‘‘तपसा चीयते ब्रह्मे’’ति तदुत्तरवाक्यं विषयः । रूपोपन्यासाच्चेत्यत्र तु तदुत्तरं ‘‘यदा पश्यः पश्यते रुक्मवर्ण’’मिति वाक्यं विषय इति तत्क्रमात्क्रम इत्यर्थः ।।

चन्द्रिकाबिन्दुः

तस्येति ।। तस्मादेतद्ब्रह्मेत्यादिवाक्यैश्चतुर्मुखजनकत्वोक्तेरिति भावः । भाष्यटीकाकारयोरचातुर्यमाशङ्क्य परिहरति ।। यद्यपीत्यादिना ।। एवमपि सूत्रं योजयितुं शक्यत एवेति सूत्राभिप्रायः । अक्षरव्यक्तीनां भेदेन व्यपदेशादित्यस्योत्तरश्लोकेनान्वयः । रेवतीषु ऐश्वर्यवाचकरैशब्दयुक्तेषु । वाक्यभेदादिति ।। वारवन्तीयमग्निष्टोमसामकृत्वा पशुलक्षणफलविधान इति शेषः । प्रकृतानुवादेनानेकगुणविधाने वाक्यभेदादिति भावः ।।

पाण्डुरङ्गि

।। त्रेधेति ।। सामान्यविशेषतया विदोत्पत्तौ ‘‘विदऌ लाभ’’ इति त्रेधेत्यर्थः । नन्वक्षरात्परतः पर इति निकृष्टत्वेन श्रुतत्वादक्षरस्याब्रह्मतेत्यतः तथाऽक्षरात्सम्भवतीत्यत्राक्षरशब्दस्य ब्रह्मपरत्वेऽपि अक्षरात्परतः पर इत्यत्र प्रकृतिपरत्वान्नानुपपत्तिरित्यत आह ।। अक्षरत्रयमीरितमिति ।। नन्वेवं प्रकृतहानाप्रकृतस्वीकारापत्तिरित्यत आह ।। प्रकृतेति ।।