एवमुपसंहारादिरूपसकृदुक्तितोऽसकृदुक्तिरूपाभ्यासस्य प्राबल्यम्
अभ्यासादपूर्वतायाः प्राबल्यम्
तात्पर्यचन्द्रिका
एवमुपसंहारादिरूपसकृदुक्तितोऽसकृदुक्तिरूपाभ्यासस्य प्राबल्यम् । बहुबाधस्यान्याय्यत्वात् । यथाऽऽनन्दमयाधिकरणे ‘‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’’ इति जीवप्रापकोपसंहाराद् ब्रह्मशब्दाभ्यासस्य । सम्मतं चैतन्मीमांसका-नामपि भूयसामनुग्रहायाल्पबाधं वदताम् ।
प्रकाशिका
एवमुपक्रमादुपसंहारस्य प्राबल्योक्तिपरटीकां व्याख्याय ताभ्या-मभ्यासस्य प्राबल्योक्तिपरां ‘‘एकत्रोक्तादपि बहुलोक्तेः प्राबल्यात्’’ इत्यादिटीकां विवृणोति ।। एवमिति ।। आदिपदेनोपक्रमः । एकप्रकारेत्यस्येहानुपयोगादनुक्तिः ।। यथेति ।। ‘‘आनन्दमयोऽभ्यासात्’’ इत्यत्र तैत्तिरीये ‘‘अन्योऽन्तर आत्माऽऽनन्दमयः’’ इति श्रुतानन्दमयादिः किं जीवादिरुत ब्रह्मेति संशये आनन्दमयादिर्जीवादिरेव । विकारार्थकमयट्श्रवणात् । तस्य च विकाराभिमानिजीवादावेव सम्भवात् । न च स विकार इव प्राचुर्येऽपि दृष्ट इति वाच्यम् । तथापीह ‘‘तस्यैष एव शारीर आत्म’’ इति शरीरशरीरिभावरूपजीवप्रापकलिङ्गोपेतोपसंहारेण विकारार्थताया एव न्याय्यत्वादिति प्राप्ते ब्रह्मशब्दाभ्यासाद्विष्णुरिति सिद्धान्तितत्वादिति भावः । एतेन मयट एव जीवप्रापकत्वा-त्तस्य च ब्रह्मशब्दाभ्यासात्प्राचुर्यार्थत्वम् । न तूपसंहारबाधस्तत्रेति निरस्तम् । सुधायां मयटः सावकाशत्वमाशङ्क्य शरीरित्वकथनोपसंहारेणोज्जीवनात् । एवं गायत्रीनये गायत्री वेत्युपक्रमात् ‘‘यद्वैतद् ब्रह्मैतामेव ब्रह्मोपनिषदम्’’ इति ब्रह्मशब्दाभ्यासस्य प्राबल्यं बोध्यम् । तदुक्तं ‘‘बाहुल्यात् श्रुतिलिङ्गयोः’’ इत्यनुव्याख्याने ।। सम्मतमिति ।। एवं च नास्माभिरत्रात्यंतं यतितव्यमिति भावः । अश्वप्रतिग्रहेष्टिनये प्रतिग्रहीतुरिष्टिपक्षे वरुणायेति चतुर्थ्याः पञ्चम्यर्थत्वात् । अनयदिति नयतेः प्रतिग्रहार्थत्वात् । स्वां देवतामित्यत्र प्राधान्यनिर्दिष्टवरुणपरामर्शित्वेन देवतापदस्याविवक्षितार्थत्वाद् बहुबाधः स्यात् । दातुरिष्टिपक्षे तु प्रतिगृह्णातिमात्रस्य दानार्थत्वादल्पबाध इति वा, पञ्चदशरात्रे सत्रे प्रथमेऽहन्यग्निष्टुन्नामके नामातिदेशेनैकाहाग्निष्टुद्धर्मभूता सुब्रह्मण्याग्नेयी प्राप्ता । तस्या अल्पविषयायाश्चतुर्दशाहस्सु चोदकेन प्राप्ताया ऐन्द्य्रा बहुविषयया बाध इति द्वादशे द्वितीयपादे ‘‘विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्स्वधर्मत्वम्’’ इत्यत्रोक्तदिशा वा भूयोनुग्रहायाल्पबाधं वदतामित्यर्थः ।
चन्द्रिकाबिन्दु
‘‘उपसंहारात्’’ इति टीकायां पाठात् उपक्रमोपसंहाराभ्यामित्यत्र उपक्रमग्रहणमनावश्यकं उपसंहारादाधिक्यकथनेनैवोपक्रमादप्याधिक्यसिद्धेः । एवमुत्तर-त्रोपक्रमोपसंहारादिग्रहणमनावश्यकमेवेति ध्येयम् । टीकास्थ‘बहु’पदसूचितां युक्तिं दर्शयति ।। बहुबाधस्येति ।। सम्मतं चैतन्मीमांसकानामिति । प्रजापतिर्वरुणायेत्या-द्युदाहृतवाक्य एव प्रतिग्रहीतुरिष्टौ स्वीक्रियमाणं स प्रजापतिर्वरुणाय वरुणात् अश्वं अनयत् अश्वं अनाययत् स स्वां देवतामार्छत् प्रजापतिः स्वस्वरूपाख्यदेवतां प्राप्तवा-नित्यादि बहुबाधापेक्षया प्रतिगृह्णीयादित्यस्य प्रतिग्राहयेदित्येकबाधमेवाङ्गीकृत्य दातुरेवेष्टिरिति वदतामित्यर्थः ।
पाण्डुरङ्गि
एवमुपसंहारस्योपक्रमापेक्षया प्राबल्यमुपपाद्योपसंहारापेक्षयाऽभ्यासस्य प्राबल्यमुपपादयति ।। एवमुपसंहारेति ।। तत्र हेतुमाह ।। बहुबाधस्येति ।। स्वमते-नोदाहरणं दर्शयति ।। यथेति ।। सकृदुक्त्यपेक्षयाऽसकृदुक्तेः प्राबल्यं मीमांसकानामपि सम्मतमित्याह ।। सम्मतमिति ।।