किं च व्याकरणे..

राज्ञि बद्धादिशब्दप्रयोगापत्तिपरिहार:

तात्पर्यचन्द्रिका

किं च व्याकरणे त्वामतिक्रान्तानामित्याद्यर्थे अतित्वाकमतित्वयामित्यादयः, मामतिक्रांतानामित्याद्यर्थे अतिमाकमतिमयामित्यादयश्च लक्षणतो व्युत्पादिताः । न च तेषां प्रयोगोऽस्ति । तद्वदिहाप्यस्तु । अदर्शनेऽपि व्याकरणस्मृत्या व्युत्पादितत्वात् प्रयोगयोग्यताऽस्तीति चेत्तर्हीहाप्युक्तया श्रुत्या स्मृत्या च व्युत्पादितत्वाद्योग्यताऽस्तीति समम् । किञ्च यथा द्वन्द्वस्योभयार्थत्वेऽपि प्राण्यंगादौ समाहारस्यैव विवक्षा । दधिपयआदावितरेतरयोगस्यैव । तथा दुःखीत्यादेरुभयार्थत्वेऽपि लोकआश्रयत्वस्यैव विवक्षा । ब्रह्मणि तु स्वातन्त्र्यस्येत्यस्तु । यद्वा राज्ञो बन्धनादियोग्यत्वात्तत्रामङ्गलधीर्मा भूदिति बद्धाद्यप्रयोगः । ब्रह्मणस्तु दोषातिदूरत्वात् प्राज्ञानां तद्धीर्नास्तीति स्वातन्त्र्यविवक्षया तत्प्रयोगेऽप्यदोषः । न चोत्कर्षेण वर्तनस्यापि जयिधात्वर्थत्वात्तदाश्रयत्वस्य च राज्ञिसम्भवान्न स्वातन्त्र्यं तत्र निमित्तमिति वाच्यम् । राजा शत्रूञ्जयतीत्यभिभवाभिप्रायेणापि तत्प्रयोगात् । नापि जयाश्रयभृत्यसम्बन्धाद्राज्ञि लाक्षणिकः । भृत्यसम्बधिनि पुरुषांतरे तदप्रयोगात् । जयाश्रयभृत्यधीपूर्वकत्वाभावाच्च ।

न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ।

यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ।।

इत्यनुव्याख्याने भृत्यादपि राज्ञि प्रयोगप्राचुर्याद्युक्तेश्च । धनीत्यादौ स्वातन्त्र्येऽपि मुख्यत्वदर्शनाच्च । ‘‘यदधीन’’ इति स्मृतावभिधोक्तेश्च । ‘‘तदस्यास्ती’’ त्याद्यनुशासनस्याश्रयत्वस्वातन्त्र्ययोः समत्वाच्च । न्यायविवरणे मृत्युनियामके मृत्युपदस्याभिधानादिसिद्धत्वेन मुख्यत्वस्योपपादितत्वाच्च । एवं च

दुःखादेर्जीवगस्यापि स्वाधीनत्वेन हेतुना ।

दुःखीति गीयते ब्रह्म धनस्वामी धनी यथा ।। १ ।।

स्वातन्त्र्याश्रयत्वयोः सम्बन्धयोर्भेदेऽपि निमित्तस्य दुःखबन्धावरत्वादेरेकत्वात्तदाश्रितेऽपि तदधीनत्वस्यानुगतत्वाच्च न नानार्थता । अत एवानुव्याख्याने स्वातन्त्र्ये मुख्यत्वोक्तिर्युक्ता । न हि नानार्थेष्वक्षादिशब्देष्वेकत्रार्थे मुख्यता । एवं च रूढस्य वा यौगिकस्य वा यस्य शब्दस्य प्रवृत्तिनिमित्तमाश्रितत्वेन वा यथेष्टविनियोक्तृत्वरूपस्वातन्त्र्यविषयत्वेन वा यदधीनं स तस्य वाचकः । तत्राप्याश्रयादपि स्वतन्त्रं प्रत्यधीनत्वस्य मुख्यत्वात्तद्वाचिता मुख्या । एवं च दुःख्यादिशब्दानां स्वातंत्र्यादेवेशे वृत्तिः । अव्यक्तादिशब्दानां त्वाश्रयत्वादपि । तन्निमित्ताव्यक्तत्वस्य परमसूक्ष्मे ब्रह्मण्येव मुख्यत्वात् । न च निमित्ताधिक्यान्न मुख्यत्वम् । अतिसहनवति पुंसि सिंहशब्दस्याल्पपङ्कजादप्यधिकपङ्कजे पद्मे पङ्कजशब्दस्य मुख्यत्वप्रसङ्गादिति वाच्यम् । तत्र सिंहत्वजातेः पद्मत्वजातेश्च निमित्तत्वेन विवक्षितत्वात् । तयोश्च तत्रातिशयाभावात् । अल्पज्ञादपि बहुज्ञे विद्वच्छब्दस्य मण्डलाधिपादपि सार्वभौमे भूपशब्दस्य मुख्यत्वदर्शनाच्च । ‘‘इति शङ्का निरस्ता भवती’’ति टीकायां त्वव्यक्तत्वं न केवलमीशेऽधिकं किन्तु प्रधानगतमपि तदधीनमिति परिहारांतरस्य भाष्यस्थचशब्दादिसूचितस्य सद्भावादयं परिहारो नोक्तः । शब्दस्य मुख्यत्वे च निमित्तमुख्यत्वं हेतुः । न तु प्रयोगप्राचुर्यम् । रूढलक्षणादौ तत्प्राचुर्येऽपि मुख्यत्वादर्शनात् । नूतनयौगिकशब्देषु तत्प्राचुर्याभावेऽपि मुख्यत्वदर्शनाच्च ।।

प्रकाशिका

स्वातन्त्र्यस्य निमित्तत्वे राज्ञि बद्धादिशब्दप्रयोगापातं प्रकारान्तरेण परिहरति ।। किञ्च व्याकरण इति ।। अतित्वाकमिति ।। अतियुष्मत् आम् इति स्थिते ‘‘त्वमावेकवचन’’ इति मपर्यंतस्य त्वादेशेकृते ‘‘आमि सर्वनाम्नस्सुट्’’इति सुडागमे ‘‘साम आकम्’’इत्याकमादेशे शेषे लोपे च सत्यतित्वाकमिति रूपम् । मतान्तरे तु गौणतायामसर्वनामत्वेन सुडभावात् ‘‘साम आक’’मित्यस्याप्रवृत्तेः ‘‘योऽची’’ति यकारादेशे अतित्वयामिति सिध्यति । एवमस्मच्छब्देऽप्युक्तप्रक्रियायामतिमाकमतिमयामिति षष्ठीबहुवचने रूपं भवति ।। लक्षणत इति ।। ‘‘त्वमावेकवचन’’ इत्यत्र ‘‘वक्तीति वचनं कृत्यल्युटो बहुलमिति कर्तरि ल्युटि कृते । एकस्यार्थस्य वचने युष्मदस्मदी’’ इत्युक्तया एकत्वाद्यर्थवाचिवचनग्रहणाद्य्वुत्पादिताः । ‘‘सामआक’’मित्यादिसामान्यलक्षणतश्च व्युत्पादिता इत्यर्थः ।। न च तेषामिति ।।

ननु महाभाष्ये पस्पशाग्रन्थे ऊष तेर चक्र इत्यादिलिण्मध्यमपुरुषबहुवचनान्त शब्दानामप्रयोगमाशङ्क्य ‘‘सर्वे देशान्तर’’ इत्यनेनसर्वशब्दानां प्रयोगोस्तीत्युक्तम् । तत्कथमेवमुक्तमिति चेत्संभावनाभिप्रायेण तदुक्तेः । अत एव ‘‘ष्णान्ताष’’डिति सूत्रे ‘‘यथालक्षणमप्रयुक्त’’ इति भाष्य एवाप्रयोगोऽप्युक्तः । न च प्रयोगमूलत्वाद्य्वाकरणस्याप्रयुक्तानां कथं व्युत्पादनमिति वाच्यम् । ‘‘अप्रयुक्ते दीर्घसत्रव’’दिति पस्पशाभाष्य एव समाहितत्वादिति भावः ।। उक्तयेति ।। ‘‘स्वतन्त्रत्वात्प्रर्वर्तन्त’’ इति श्रुत्या ‘‘सर्वस्य तदधीनत्वादिति स्मृत्ये’’त्यर्थः । यद्वा ‘स बद्धस्स बन्धयती’त्यादिश्रुत्या ‘‘यदधीनो गुणो यस्ये’’ति स्मृत्या व्युत्पादितत्वाद्राजादावपि भृत्यगतबन्धादिस्वातन्त्र्येण बद्धादिशब्दयोग्यताऽस्त्वित्यर्थः । एवं ‘‘प्रयोगे सति निमित्तानुसरण’’मित्यादिसन्न्यायरत्नावल्युक्तेः ‘‘किञ्च यथा मृत्तिकादावि’’त्यादिना द्वेधा तात्पर्यविवरणेन राजादौ बद्धादिपदप्रयोगापातदोषो निरस्तः । अथेदानीं यत्प्राक् धनीत्यादिशब्ददृष्टान्तेन लोके तद्गतत्वं निमित्तमीश्वरे तु स्वातन्त्र्यं निमित्तं दुःख्यादिपदप्रयोग इत्युक्तम् । तदयुक्तमिव । ‘‘तदस्यास्त्यस्मि’’ न्नित्यनुशासनेन षष्ठीसप्तमीरूपोभयार्थकस्य मत्वर्थीयप्रत्ययस्य विषयभेदकल्पना न दृष्टचरेत्यतः प्रागुक्तमेव दृष्टान्तान्तरेण व्यनक्ति ।। किञ्च यथा द्वन्द्वस्येति ।। ‘चार्थे द्वन्द्व’’ इत्यत्रान्वाचयसमुच्चययोरसामर्थ्येन समासाभावात्समाहारेतरेतरयोगरूपार्थद्वय एव द्वन्द्वस्य विधानमिति वृत्त्यादावुक्तेरुभयार्थत्वेऽपीत्युक्तम् । ‘‘द्वन्द्वश्च प्राणितूर्यसेनांगाना’’मिति सूत्रे ‘‘द्विगुरेकवचन’’मित्यत एकवचनमिति पदमनुवर्त्य प्राण्यंगानां तूर्याङ्गानां सेनाङ्गानां च द्वन्द्व एकवद्भवतीत्यर्थमुक्त्वा शिरोग्रीवं मार्दङ्गिकपाणविकं रथिकाश्वारोहमित्युदाहृत्योक्तं वृत्तौ ‘‘इतरेतरयोगे समाहारे च द्वन्द्वो विहितः । तत्र समाहारस्यैकत्वात्सिद्धमेवैकवचनम् । इदं तु प्रकरणं विषयविभागार्थम् । प्राण्यङ्गादीनां समाहार एव द्वन्द्वः । दधिपयआदीनामितरेतरयोग एव । वृक्षमृगादीनामुभयं चेती’’ति ।। ततश्च ‘‘द्वंद्वश्च प्राणितूर्ये’’ त्यारभ्यैकवद्भावतद्विकल्पतन्निषेधपरानेकसूत्रसंदर्भात्मकमिदं प्रकरणमारभमाणस्य पाणिनेर्यथा क्वचित्प्राण्यङ्गादौ समाहारविवक्षा दधिपयआदावितरेतरयोगविवक्षा । ‘‘न दधिपयआदीनी’’त्येकवद्भावनिषेधात् । तथेहापि दुःखीत्यादिमत्वर्थीयप्रत्ययान्तशब्दस्य ‘‘तदस्यास्त्यस्मि’’न्नित्यनुशासनेन षष्ठीसप्तम्यर्थरूपस्वातन्त्र्यतदाश्रयत्वलक्षणोभयार्थत्वे विषयभेदेन निमित्तभेदविवक्षाऽस्तु । तथा च न राज्ञि बद्धादिशब्दप्रयोगापातः । जयीति शब्दप्रयोगोऽपि राज्ञि स्वातन्त्र्यविवक्षया भृत्ये तद्गतत्वविवक्षया चोपपन्न इति भावः ।

एवं ‘‘भृत्यबन्धादिकं राज्ञी’’ति श्लोकतात्पर्यविवरणेन पूर्वपक्ष्युक्तातिप्रसङ्गं निरस्येदानीं

अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ।

अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ।।

इत्यनुव्याख्यानोक्तं समाध्यन्तरं व्यनक्ति ।। यद्वेति ।। तद्धीः दोषधीरित्यर्थः । ननु स्यादेवं यदि स्वातन्त्र्यं शब्दप्रवृत्तौ निमित्तं स्यात् । तदेवासिद्धम् । मानाभावात् । यदत्रोक्तमनुव्याख्याने ‘‘कृतो राज्ञि जयोऽन्यथे’’ति स्वातन्त्र्यस्याहेतुत्वे राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः कथं स्यादिति जयिशब्दाप्रयोगापत्तिरूपं बाधकं तन्न । तद्गतत्वेनैव तत्र प्रयोगोपपत्तेः । तथा हि । जयिधातुर्द्य्वर्थःप्रसिद्धः । यथोक्तं

जयेर्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ।

उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मकः ।। इति ।

तथा चोत्कृष्टत्वहेतुकत्वेन जयीति प्रयोगः । किञ्च गङ्गासंबन्धात्तीरे गङ्गाशब्दप्रयोगवद्भृत्यसंबन्धात्तद्गतजयिशब्दस्य लक्षणयापि प्रयोगोऽस्तु । तथा च तत्र स्वातन्त्र्यं मुख्यमित्यपि दूरापास्तमित्यतो हेतुत्वं तावदाशङ्क्य समाधत्ते ।। न चेति ।। सकर्मकत्वादभिभवेत्युक्तम् । तथा च तस्य भृत्यगतत्वेन राजगतत्वाभावात्स्वातन्त्र्यमेवोपेयमिति भावः । ‘लक्षणयाऽपि प्रयोगोऽस्त्विति चेन्न । तदस्यास्तीत्यादिनिमित्तसाम्या’दिति सुधावाक्यं विवृण्वन्नमुख्यार्थत्वमाशङ्क्य निराह ।। नापीति ।। संबन्धविशेषस्य विवक्षितत्वान्नातिप्रसङ्ग इत्यत आह ।। जयेति ।। नन्वेतदेवासिद्धमित्यतस्स्वातन्त्र्यं मुख्यवृत्त्या शब्दप्रयोग एव निमित्तम् । न तु लक्षणया तत्प्रयोगे संबन्धरूपतयेत्यत्रानुव्याख्यानोक्तं हेतुमाह ।। न हीति ।। जयस्यान्यगत्वेऽपि भृत्यगतत्वेऽपि तं जयं प्रति स्वातंत्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत्प्रयुज्यते तावज्जयाधिकरणस्यापि भृत्यस्य संबन्धितया न प्रयुज्यते हि यस्मात्तस्मात्स्वातंत्र्यं मुख्यत्वे हेतुरित्यर्थः । भृत्यधीपूर्वकत्वनियमे चैतन्न स्यादिति भावः । स्वातन्त्र्यादिति वाच्ये स्वातन्त्र्याभासमात्रत इत्युक्तिः किमुतानुपचरितस्वातन्त्र्ये हराविति कैमुत्यद्योतनाय । एतेन ‘‘न चान्यगतशब्दप्रवृत्तिनिमित्तप्रेरके शब्दवृत्तिरमुख्या । राजनि विजयशब्दस्य बहुलप्रयोगा’’दिति टीकैतदनुव्याख्यानमूलेति सूचितम् ।

ननु भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न । तज्ज्ञानेऽपि तदुपलंभात् । ननु न प्रयोगप्राचुर्यं मुख्यतायां हेतुः । अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनात् । अनुव्याख्यानं तु प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । न स्वातन्त्र्यम् । तदप्राचुर्यादमुख्यमिति परेण चोदिते परहेतोरसिद्धिकथनायैव प्रवृत्तम् । न तु प्रयोगप्राचुर्येण मुख्यत्वं साधयितुम् । अभिधानप्रवृत्तावेव स्वातन्त्र्यतद्गतत्वयोर्निर्धारणायां स्वातंत्र्यं मुख्यमित्यत्र प्रयोगप्राचुर्यस्वहेतुत्वाभिधानाय वा प्रवृत्तम् । तथैव सुधायामुक्तेरित्यतो हेत्वंतराण्याह ।। धनीत्यादिना ।। अनुशासनस्येति ।। ‘‘तदस्यास्त्यस्मिन्निति मतुबि’’त्यत्रेति शब्दस्यार्थनिर्देशार्थत्वादस्मिन्नित्यनेनाश्रयत्वलाभेऽपि अस्येति षष्ठ्या स्वस्वामिभावादिसंबन्धसामान्यस्यैव प्राप्तेरिति भावः । आदिपदेनास्मिन्नेवार्थे प्रवृत्तं ‘‘अत इनिठना’’विति सूत्रं गृह्यते ।। न्यायेति ।। ‘‘मृत्युशब्दादिषु प्रसिद्धेश्चे’’ति न्यायविवरण इत्यर्थः । एतेन ‘‘यमादौ मृत्युप्रमुखशब्दानां च तथात्वा’’दिति टीका न्यायविवरणमूलेति सूचितम् । ‘‘अयं भाव’’ इत्यादिनोक्तं तदधीनत्वसूत्रविवरणपरानुव्याख्यानतात्पर्यं सङ्गृह्याह ।। एवं चेति ।। स्वातन्त्र्यस्य निर्बाधं निमित्तत्वे सिद्धे सतीत्यर्थः । नन्वेवं प्रवृत्तिनिमित्तभेदेनानेकार्थकत्वं स्यादित्यत आह ।। स्वातन्त्र्येति ।। दुःखबन्धेति ।। सम्बन्ध एव च ‘‘तदस्यास्त्यस्मि’’न्निति द्वेधा पाणिनिना विवेचित इति दुःखबन्धावरत्वाद्यप्येकरूपमेव सत् सम्बन्धभेदाद्धरौ तदन्यत्र शब्दप्रवृत्तौ निमित्तमिति नानेकार्थत्वं दुःखिबद्धादिशब्दानामित्यर्थः । अस्तु सर्वत्र स्वातन्त्र्यमेकमेव निमित्तमनुगतम् । न च दुःखाद्याश्रयेऽव्याप्तिः । तत्रापि स्वाश्रितं दुःखबन्धादिकं प्रति तदाश्रयस्य जीवस्य स्वातन्त्र्यसत्त्वादिति भावेनाह ।। तदाश्रितेऽपीति ।। हेतुगर्भमिदम् । ‘‘तदस्यास्त्यस्मि’’न्निति भेदेनोक्तिस्तु ‘‘प्रमाणप्रमेये’’त्यादिगौतमसूत्रे प्रमाणप्रमेययोरिव व्याप्यव्यापकरूपावान्तरविशेषद्योतनायेति भावः ।। अत एवेति ।। स्वातन्त्र्यस्य सार्वत्रिकत्वादेवेत्यर्थः । ‘‘स्वातन्त्र्यं तद्गतत्वं चे’’ति तदधीनत्वसूत्रानुव्याख्यानोक्तमर्थं प्रवृत्तिनिमित्तैकरूप्यमुपपाद्य ततश्च किमित्यतस्तस्य फलमाह ।। एवं चेति ।। स्वातन्त्र्यस्य निमित्तत्वे मुख्यत्वे च सतीत्यर्थः । अव्यक्तजीवादिशब्दाशयेनोक्तं रूढस्येति ।। दुःख्यादिशब्दाशयेनोक्तं यौगिकस्येति ।। एवं सामान्यत उपपाद्य प्रकृतोदाहरणनिष्ठतां दर्शयन् ‘‘तदधीनत्वाच्चाव्यक्तत्वादीना’’मिति भाष्यं, ‘‘अत्राव्यक्तत्वग्रहणेनाव्यक्तशब्दस्य द्वेधापि परमात्मनि वृत्तिरिति दर्शयती’’ति टीकां च व्यनक्ति ।। एवं चेति ।। प्रवृत्तिनिमित्तस्य तदधीनत्वेन तद्वाचकत्वे सतीत्यर्थः ।

‘‘अव्यक्तत्वोपयोगिनस्सूक्ष्मत्वस्य तत्र सद्भावा’’दित्यादिकां ‘‘अतिशयेन प्रवृत्तिनिमित्तवत्येव शब्दस्य मुख्यत्वादित्यन्तां ‘‘सूक्ष्मं तु तदर्हत्वा’’दिति सूत्रभाष्यटीकां हृदि कृत्वाऽऽश्रयत्वादित्युक्तं व्यनक्ति ।। तन्निमित्तेति ।। नन्वत्र टीकायां ‘‘अतिशयेन प्रवृत्तिनिमित्तवत्येवे’’त्याद्युक्तिरयुक्ता । तदधीनत्वसूत्रटीकायां प्रधानादेरतिसूक्ष्मत्वाद्यभावेऽपि नामुख्यार्थत्वम् । अल्पपङ्कजेऽपि पद्मे पङ्कजशब्दस्यामुख्यताऽदर्शनादिति शङ्का च निरस्ता भवती’’त्युक्तेः । तथा चमससूत्रावतरणपरटीकायां ‘‘सहनवति पुंसि प्रयुक्तस्य सिंहशब्दस्य तदवाचकत्वदर्शना’’दिति ग्रन्थेन योगार्थस्य वाचकत्वाहेतुत्वोक्तेः । तथा ‘‘महद्वच्चे’’ति सूत्रटीकायां ‘‘अतिसहनवति पुरुषे सिंहशब्दस्यामुख्यत्वा’’दित्युक्तेश्चेति भावेनाशङ्क्य समाधत्ते ।। न च निमित्ताधिक्यादिति ।। भाष्यस्थचशब्दादिसूचितस्येति ।। ‘‘तदधीनत्वाच्चाव्यक्तत्वादीना’’मिति भाष्यस्थेत्यर्थः । आदिपदस्य ‘‘नामानि सर्वाणि यमाविशंती’’ति वाचकत्वोक्तिपरश्रुत्युक्तिसूचितस्येत्यर्थः ।। अयमिति ।। सिंहत्वजातेरित्यादिनोक्तः । ‘‘यदुक्तं विष्णोरेव मुख्यतोऽव्यक्तादिशब्दवाच्यत्वमिति तदयुक्तम् । अव्यक्तादिशब्दानां प्रधानादावेव प्रसिद्धत्वात् । न च वाच्यं शब्दप्रवृत्तिनिमित्तस्येश्वरे मुख्यत्वेन तत्र शब्दानां मुख्यत्वमुक्तमिति । न हि यत्र प्रसिद्धश्शब्दस्तत्रामुख्योऽमुख्यतः प्रवृत्तिनिमित्तवति च मुख्य इति दृष्टचर’’मिति टीकोक्तचोद्यरीत्या ‘‘अव्यक्तादिशब्दानां त्वाश्रयत्वादपी’’त्यादिप्रागुक्तमयुक्तमित्याशङ्कां हृदि कृत्वा ‘‘महद्वच्चे’’ति सूत्रभाष्यटीकाभिप्रेतहेतूक्तया प्रागुक्तं समर्थयते ।। शब्दस्येति ।। न त्वित्युक्तमेवान्वयतो व्यतिरेकतश्च व्यभिचारेण व्यनक्ति ।। रूढेति ।। मार्गाश्चलन्ति, मञ्चाः क्रोशन्तीत्यादिशब्द इत्यर्थः । ‘‘प्रयोगप्राचुर्यं च न मुख्यताहेतुः । अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शना’’दिति सुधोक्तेरिति भावः ।। नूतनयौगिकेति ।। पर्वताद्यर्थकेषु वसुमतीधृतिहेतुरित्यादिशब्देष्वित्यर्थः ।

चन्द्रिकाबिन्दुः

अनन्तानां हि वेदशब्दानां लक्षणानि व्याकरणकारैरुक्तानि । न च तेषां प्रयोगो दृश्यत इति सुधाभिप्रेतं समाधानमाह ।। किं च व्याकरण इति ।। तद्वदिहापीति ।। प्रकृतेऽपि प्रवृत्तिनिमित्तसद्भावेऽप्यप्रयोगोऽस्तु बद्धादिशब्दानामिति भावः । प्रयोगयोग्यता प्रयोगयोग्यताम् । एकस्यैव दुःख्यादिशब्दस्य जीवे विवक्षाविशेषेण प्रवृत्तिः, ब्रह्मणि विवक्षाविशेषेण प्रवृत्तिरित्यत्र दृष्टान्तान्तरमाह ।। किं च यथा द्वन्द्वस्येति ।। ‘राज्ञो योगादमङ्गल’मित्यनुव्याख्यानसूचितं पक्षमाह ।। यद्वा राज्ञ इति ।। किन्तु तदस्यास्तीत्यादिसम्बन्धमात्रस्येति सुधासूचितं समाधानमाह ।। तदस्यास्तीति ।।

ननु स्वातन्त्र्यमादाय प्रवृत्तौ शब्दस्यामुख्यार्थत्वमेव । अन्यथाऽनेकार्थत्वप्रसङ्ग इत्यत आह ।। स्वातन्त्र्याश्रयत्वयोरिति ।। अतिसहनवति बहुविधबाधसहनवति । सिंहेऽपि बहुबाधकसहनं प्रसिद्धं तन्निराकरणाशक्तेः । प्रवृत्तिनिमित्तातिशयेन मुख्यत्वे दृष्टान्तमाह ।। अल्पज्ञादपीति ।। तर्हि टीकायामल्पपङ्कजादित्यादिशङ्कायां कथं परिहारोक्तिरित्यत आह ।। इति शङ्का निरस्ता भवतीति ।। ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति सुधाभिप्रेतमर्थमाह ।। शब्दस्य मुख्यत्व इति ।।

पाण्डुरङ्गि

एवं ब्रह्मणि प्रयोगाभावमभ्युपेत्य समाहितम् । इदानीं प्रयोगाभावेऽपि योग्यताऽस्त्येवेति न दोष इत्याह ।। किं चेति ।। उक्तया श्रुत्या स बद्धः स दुःखी स बन्धयति स दुःखयतीत्युक्तश्रुत्येत्यर्थः ।। स्मृत्या चेति ।। यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयत इति स्मृत्या चेत्यर्थः । नन्वतित्वाकमित्यादेर्लोकेऽप्रयोगेऽपि व्याकरणस्मृत्या व्युत्पादितत्वाद् ब्रह्मण्युक्तश्रुतिस्मृतिभ्यां व्युत्पादितत्वात्तत्र बद्धादिशब्दप्रयोगयोग्यतासत्त्वेऽपि राज्ञि बद्धादिशब्दस्य कदाप्यभावेन तद्योग्यताया एव ज्ञातुमशक्यत्वात्कथं प्रयोगयोग्यताऽस्तीत्यरुच्याऽऽह ।। किञ्चेति ।। उभयार्थत्वेऽपीति ।। दुःखाश्रयत्वदुःखस्वातन्त्र्यरूपोभयार्थत्वेऽपीत्यर्थः । ननु लोके दुःखादिशब्दप्रयोगे आश्रयत्वस्यैव ब्रह्मणि तु स्वातन्त्र्यस्यैव विवक्षायां किं नियामकम् । न च लोके प्रयोगो ब्रह्मण्यप्रयोग एव नियामक इति वाच्यम् । शब्दप्रवृत्तिनिमित्तसत्त्वेन तस्यैवापादितत्वेनाप्रयोगस्य नियामकत्वासम्भवादित्यतोऽनुव्याख्यानोक्तं पक्षान्तरमाह ।। यद्वेति ।।

ननु न स्वातन्त्र्यविवक्षया ब्रह्मणि दुःख्यादिशब्दप्रयोगः । स्वातन्त्र्यापेक्षया शब्दप्रयोगस्य कुत्राप्यदृष्टत्वात् । न च राज्ञि स्वातन्त्र्यविवक्षया जयिशब्दो दृष्ट इति वाच्यम् । तत्रापि जयिशब्दार्थभूतोत्कर्षस्य राजगतत्वेनैव राजा जयीति प्रयोगोपपत्तेरित्याशङ्कते ।। न चेति ।। अभिभवाभिप्रायेणेति ।। अभिभवश्च न राजगत इति स्वातन्त्र्यमेव तत्र निमित्तमिति भावः । ननु तथापि राज्ञि जयिशब्दस्य लाक्षणिकत्वान्न तत्प्रति स्वातन्त्र्यं निमित्तमित्यत आह ।। नापीति ।। लक्षणाबीजभूतशक्यसम्बन्धोपपादनं जयाश्रयभृत्यसम्बन्धादिति ।। अनतिप्रसक्त एव शक्यसम्बन्धो लक्षणाबीजम् । प्रकृते च भृत्यसम्बन्धस्यातिप्रसक्तत्वान्न लक्षणाबीजत्वमित्याह ।। भृत्यसम्बन्धिनीति ।। सर्वत्र लक्षणायाः मुख्यार्थोपस्थितिपूर्वकत्वं दृष्टम् । न च प्रकृते तदस्तीत्याह ।। जयाश्रयेति ।। किं च जयिशब्दस्य भृत्ये मुख्यत्वे राजापेक्षया प्रयोगबाहुल्यं स्यात् । न च तदस्तीत्याह ।। न हीति ।। ननु राजा जयीत्यादिवद्धनीत्यादिप्रयोगोऽपि लाक्षणिक एवेत्यत आह ।। स्वातन्त्र्याश्रयत्वयोरिति ।। किञ्चाक्षादिशब्दानामिव परस्परासंसृष्टार्थत्वे नानार्थत्वं स्यान्न च तदस्तीत्याह ।। तदाश्रितेऽपीति ।। अत एवेति ।। परस्परासंसृष्टार्थत्वाभावेन नानार्थत्वाभावादेवेत्यर्थः । ब्रह्मणि शब्दप्रयोगे स्वातन्त्र्यं निमित्तमित्युक्तया सर्वेषामपि शब्दानां प्रयोगे स्वातन्त्र्यस्यैव निमित्तत्वं प्राप्तम् । तन्निराकरोति ।। एवं चेति ।। अपिशब्देन स्वातन्त्र्यपरामर्शः । नन्वव्यक्तादिशब्दानां त्वाश्रयत्वादपि भगवति प्रवृत्तिरित्ययुक्तम् । अव्यक्तादिशब्दप्रवृत्तिनिमित्तस्य भगवति गतत्वाभावेनाश्रयत्वासम्भवेन स्वातन्त्र्यस्यैव वक्तव्यत्वादित्यत आह ।। तन्निमित्तेति ।। नन्वधिकपङ्कजे पद्मे पङ्कजशब्दप्रवृत्तौ पद्मत्वजातेरेव निमित्तत्वात्प्रवृत्तिनिमित्ताधिक्यस्य तत्राप्रयोजकत्वेनाल्पपङ्कजादपि न मुख्यत्वमित्युक्तम् । तदयुक्तम् । तथा सति टीकाविरोधःस्यात् । टीकायां प्रवृत्तिनिमित्ताधिक्यस्य शब्दमुख्यत्वेऽल्पपङ्कजशब्दस्यामुख्यत्वशङ्कानिरासायाव्यक्तशब्दप्रवृत्तिनिमित्तस्य भगवति मुख्यत्वादन्यगतस्यापि भगवदधीनत्वादिति परिहारस्योक्तत्वात् । भवद्भिश्च स्वातन्त्र्यस्यैव प्रयोजकत्वमङ्गीकृत्याधिकपङ्कजे पद्मे पङ्कजशब्दस्य प्रवृत्तौ पद्मत्वजातेरेव निमित्तत्वेन तत्राप्यतिशयाभावेनाल्पपङ्कजेऽपि मुख्यत्वमिति परिहारोक्तेरित्यत आह ।। इति शङ्का निरस्ता भवतीति टीकायामिति ।। ननु तथापि न बद्धादिशब्दानां भगवति मुख्यत्वं सम्भवति । तत्प्रयोजकीभूतप्रयोगप्राचुर्याभावादित्यतोऽन्वयव्यतिरेकाभ्यां व्यभिचारान्न प्रयोगप्राचुर्यस्य शब्दमुख्यत्वहेतुत्वमित्याह ।। शब्दस्य मुख्यत्व इति ।।