दर्वीहोमा यथैवान्ये प्रकृतेर्विकृतेरपि

अस्थूलत्वानणुत्वयो: ब्रह्मणि अविरुद्धतानिरूपणम्

तात्पर्यचन्द्रिका

ब्रह्मणः परस्परविरुद्धस्थौल्याणुत्वोभयराहित्यं च श्रुतत्वान्न विरुद्धम् ।

दर्वीहोमा यथैवान्ये प्रकृतेर्विकृतेरपि ।

ईश्वरोऽपि तथैवान्यो महतोऽप्यणुतोऽपि हि ।। १ ।।

युक्तं हि दर्वीहोमानां परस्परविरुद्धप्रकृतिविकृतित्वोभयराहित्यवत् वाय्वादिस्पर्शस्योष्णशीतबहिर्भाववत् अपाकजरूपस्याबादेः पाकजनीलानीलरूपराहित्यवच्चाप्राकृतस्य ब्रह्मणः प्राकृतपरिमाणद्वयराहित्यम् । अथवा अनुव्याख्यानसुधोक्तरीत्याऽस्थूलादि पदैस्तद्विरुद्धाणुत्वादिविधिरस्तु । न चैवं विरोधः ।

यथैकस्यैव दध्यादेः क्रत्वर्थपुरुषार्थते ।

अणीयस्त्वमहीयस्त्वे तथैकस्यैव हीशितुः ।। १ ।।

दर्शपूर्णमासादीनां केवलप्रकृतित्वेऽपि पशुगणादीनां केवलविकृतित्वेऽपि अग्नीषोमीयपश्वादीनां प्रकृतित्वे सति विकृतित्ववत्, अवघातादीनां दृष्टमात्रार्थत्वेऽपि प्रोक्षणादीनामदृष्टमात्रार्थत्वेऽपि स्विष्टकृदादीनामुभयार्थत्ववत्, अन्यत्र कामाधिकारनित्याधिकारयोरन्यतरमात्रस्य सत्त्वेऽपि जातेष्टौ द्वयोः संवलनवत्, व्रीह्यादीनां क्रत्वर्थमात्रत्वेऽपि गोदोहनादीनां पुरुषार्थत्वमात्रत्वेऽपि दध्यादीनामुभयार्थत्ववच्चान्यत्राणुत्वमहत्त्वयोरेकैकमात्रस्य सत्त्वेऽपि अणुन्येव कृष्णस्य मुखे गर्भीकृतब्रह्माण्डे महत्त्वग्राहकस्य यशोदाप्रत्यक्षस्य अणुत्वलिङ्गस्यैकेनापि दाम्ना बन्धनस्य महत्त्वलिङ्गस्यानेकैरप्यबन्धनस्य ‘‘अणोरणीयान्महतो महीया’’नित्यागमस्य च सत्त्वात् । अणुत्वादेर्महत्त्वाद्यसामानाधिकरण्ये च प्राकृतत्वस्योपाधित्वात् । भेदप्रतिनिधेर्विशेषस्य सत्त्वाच्च ।। ‘‘त्वयीश्वरे ब्रह्मणि नो विरुध्यत’’ इत्यादावैश्वर्यादेवाविरोधोक्तेश्च ब्रह्मण्युभयमुपपन्नम् । तदुक्तमनुव्याख्याने–

अतो विरुद्धवद्भातमपि व्याख्याय तत्वतः ।

योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ।। इति ।

प्रकाशिका

अत्र भाष्ये

अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च ।

विरुद्धधर्मरूपोऽसावैश्वर्यात्पुरुषोत्तमः ।।

इत्यैश्वर्येणेश्वरे विरोधसमाधानमयुक्तम् । तथात्वे जीवेशाभेदोपगमेनाल्पज्ञत्वसर्वज्ञत्वादिकमपि समाधेयं स्यादित्यतः प्रमाणभावाभावाभ्यां व्यवस्थेति भावेनाह ।। ब्रह्मण इति ।। यद्वा लोके भिन्नाधिकरणतयोपलब्धानामस्थूलत्वानणुत्वादीनां कथं विष्णौ समावेश इत्यत आह ।। ब्रह्मण इति ।। श्रुतत्वादिति ।। यत्र हि धर्माणां भिन्नाधिकरणत्वं प्रमितं तत्रैव तेषां समावेशाभ्युपगमे हि विरोधः । यत्र प्रमाणेनैव सहोपलम्भोऽवगतस्तत्र तथैवाभ्युपगमो न विरुद्ध इति भावः । सदृष्टान्तं युक्तया चोपपादयति ।। दर्वीति ।। श्लोकोक्तमुपलक्षणमिति भावेन श्लोकोक्तं व्यनक्ति ।। युक्तमिति ।। प्राकृतपरिमाणद्वयराहित्यमित्यन्वयः । तत्र हेतुगर्भमप्राकृतस्येति । असम्भावनानिरासाय दृष्टान्ता दर्वीत्यादि । ‘‘तस्मिन्सोमः प्रवर्तेताव्यक्तत्वा’’ दित्यष्टमाध्यायांतिमाधिकरणे ‘‘यदेकया जुहुयाद्दर्वीहोमं कुर्या’’दित्यर्थवादगतदर्वीहोमशब्दितान् वास्तुहोमादीनुदाहृत्य किमेते सोमयागादिप्रकृतिका उतापूर्वा एवेति संशये अश्रुतेति कर्तव्यताकत्वाद्देवतासम्बन्धस्यास्पष्टत्वेनाव्यक्तचोदनाताकत्वाच्चाव्यक्तासु तु सोमस्येति न्यायेन सोमयागप्रकृतिका इति प्राप्ते सोमस्य यागत्वादेतेषां होमत्वात्सादृश्याभावान्न तत्प्रकृतिकाः । किंतु नारिष्टाग्निहोत्रादिहोमप्रकृतिका इति पक्षान्तरमुक्त्वा नारिष्टाङ्गभूतानां इध्मादीनां त्र्यम्बकहोमकेषु दर्वीहोमनामकेष्वभावदर्शनादपूर्वा एव दर्वीहोमा इति सिद्धान्तितम् । तथा चैवमुक्तन्यायेन विकृतित्वराहित्यं तन्मुखनिरीक्षकस्यान्यस्य कर्मणोऽभावात्प्रकृतित्वराहित्यं च यथा दर्वीहोमनामकानां होमानां तथा प्रकृतेऽपीत्यर्थः ।

यद्यपि प्रकृतित्वविकृतित्वयोर्न परस्परं विरोधः । अग्नीषोमीयपशोः पश्वन्तरापेक्षया प्रकृतित्वेऽपि दर्शपूर्णमासापेक्षया विकृतित्वात् । द्वादशाहस्याहर्गणापेक्षया प्रकृतित्वेऽपि ज्योतिष्टोमापेक्षया विकृतित्वाच्च । तथापि प्रतियोगिभेदाभावे तयोर्विरुद्धत्वमस्तीति वा स्वापेक्षया स्वस्य द्वयं विरुद्धमिति वा परस्परपरिहारेण क्वचिद्दर्शपूर्णमासादौ दृष्टत्वाभिप्रायेण वा परस्परविरुद्धेति प्रकृतिविकृत्योर्विशेषणमुपात्तम् । यद्वा विरुद्धेति राहित्ययोर्विशेषणम् ।। वाय्विति ।। यथा तार्किकमते तेजोगतस्य स्पर्शस्योष्णत्वं जलगतस्य शीतत्वं वायुगतस्योभयबहिर्भावः, पृथिवीवाय्वोरनुष्णाशीतस्पर्शोररीकरणात् । तद्वदित्यर्थः ।। पाकजेति ।। पृथिवीगतस्य रूपस्य तपनादितेजस्सम्बन्धेन पाकजत्वमङ्गीकृतमिति पाकजेत्युक्तम् । एवं भाष्याद्युक्तं सूत्रे साक्षादुपात्तं प्राकृतस्थौल्यादिराहित्यरूपहेतुं समर्थ्य सौत्रचशब्दसूचितमनुव्याख्यानादौ विवृतं हेत्वन्तरं समर्थयमानः पक्षान्तरमाह ।। अथवेति ।। न चैवमिति ।। अस्थूलानण्वादिशब्दैस्तद्विरुद्धाणुत्वमहत्त्वादिप्रापणे सतीत्यर्थः । श्लोकगतहिशब्दोक्तहेतुना न च विरोध इति साध्यस्यान्वयः । यस्मादीशितुस्ते युक्ते तस्मान्न विरोध इति श्लोकोक्तमुपलक्षणमित्यभिप्रेत्य पूर्वार्धं तावद्व्याचष्टे ।। दर्शेति ।। अष्टमे प्रथमपादे ‘‘इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिस्स्या’’दिति चतुर्थेऽधिकरणे ‘‘सौर्यं चरुं निर्वपेत् । ऐन्द्राग्नमेकादशकपालं निर्वपे’’दित्यादिवाक्योक्तसौर्येंद्राग्नादिषु दार्शपौर्णमासिको विध्यन्तः विधिसमीपे श्रूयमाणः इति कर्तव्यता गणः इत्यर्थः ।। विध्यन्त उत सौमिक इति संशये नियामकाभावादनियम इति प्राप्ते तद्धितेन देवतानिर्देशो निर्वपतिशब्दश्चेत्यादि लिङ्गविशेषाद्दार्शपौर्णमासिक इति सिद्धान्तितम् । तेन तत्र दर्शपूर्णमासयोः सर्वाङ्गोपदेशेन केवलप्रकृतित्वं सिद्धम् । आदिपदेनाग्निहोत्रादिग्रहणं तथा तत्रैव ‘‘तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशुयूपदर्शना’’दित्यष्टमेऽधिकरणे ‘‘मैत्रं श्वेतमालभेत वारुणं कृष्ण’’मित्यादिषु किमग्नीषोमीयस्य पशोर्विध्यन्त उतैकादशिनानां पशूनां विध्यन्त इति संशये आलभत्यादि सामान्यादग्नीषोमीयस्येति प्राप्ते प्रतिपशुयूपप्रसक्तिदर्शनात् । अविशेषलिङ्गादग्नीषोमीयप्रकृतित्वे चोदकेनैकस्यैव यूपस्य प्राप्तत्वेन प्रतिपशुयूपदर्शनं विरुध्येतेति पशुगणेष्वेकादशिनानां पशूनां विध्यन्त इति सिद्धान्तितम् । तेन तत्र पशुगणानां केवलविकृतित्वं सिद्धम् । आदिपदेन शाक्यानामयनादिसंवत्सरसत्राणां ग्रहणम् ।

तथा तत्रैव ‘‘पशौ च लिङ्गदर्शना’’दिति पञ्चमेऽधिकरणे ‘‘अग्नीषोमीयं पशुमालभेते’’ त्युक्ताग्नीषोमीयपशौ किं दार्शपौर्णमासिको विध्यन्त उत सौमिक इति सन्देहे अनियम इति प्राप्ते तद्धितेन देवतानिर्देशादिलिङ्गदर्शनाद्दार्शपौर्णमासिको विध्यन्त इत्युक्तत्वादग्नीषोमीयपशोर्विकृतित्वं सिद्धम् । तथा तत्रैव ‘‘दैक्षस्य चेतरे’’ष्विति षष्ठेऽधिकरणे सवनीयानुबन्ध्यनिरूढादिपशुषु किं दार्शपौर्णमासिको विध्यन्त उत दैक्षस्य दीक्षितेनानुष्ठीयमानेषु प्राथमिकत्वाद्दैक्षशब्दितस्याग्नीषोमीयस्येति संशये पूर्ववद्दार्शपौर्णमासिक इति प्राप्ते पशुद्रव्यकत्वसामान्याद्विशसनादिद्रव्यसंस्कारलाभाच्च दैक्षस्याग्नीषोमीयस्य विध्यन्त इत्युक्तत्वादग्नीषोमीयस्य पशोस्सवनीयादिपशुबन्धं प्रति प्रकृतित्वं दर्शपूर्णमासविकृतित्वं च पूर्वोक्तदिशा सिद्धमिति द्वैरूप्यं ध्येयम् ।। अवघातादीनामिति ।। छन्दोभिधानादित्यत्र प्राक्प्रपञ्चितमेतत् । ‘‘तानि द्वैधं गुणप्रधानभूतानी’’त्यधिकरणे दृष्टतुषविमोकमात्रार्थत्वं सिद्धम् ।

।। प्रोक्षणेति ।। द्वितीयस्याद्यपादे ‘‘धर्ममात्रे तु कर्मस्यानिवृत्तेः प्रयाजव’’दिति पञ्चमेऽधिकरणे ‘‘व्रीहीन् प्रोक्षति स्रुचस्संमार्ष्टी’’त्युक्तप्रोक्षणसंमार्जनादीनां द्रव्यगतसंस्काररूपादृष्टार्थत्वमुक्तम् ।। स्विष्टकृदिति ।। स्विष्टकृदधिकरणं जिज्ञासाधिकरणे प्रपञ्चितम् ।। कामेति ।। ‘‘ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकाम’’ इत्यादीनां कामाधिकारत्वं षष्ठाद्यस्वर्गकामाधिकरणे सिद्धम् । ‘‘यावज्जीवमग्निहोत्रं जुहोति यावज्जीवं दर्शपूर्णमासाभ्यां यजेत वसन्ते वसन्ते ज्योतिषा यजेते’’त्यादीनाम् ‘‘अभ्यासो कर्मशेषत्वात्पुरुषार्थो विधीयत’’ इति ‘‘सर्वशक्तौ प्रवृत्तिस्स्यात्तथाभूतोपदेशा’’दित्यादिषु नित्याधिकारत्वं षष्ठे द्वितीयपादे तृतीयपादे च सिद्धम् । यद्वा नित्यशब्दो नैमित्तिकपरः । जीवनादिगृहदाहाद्यनागन्तुकागन्तुकनिमित्तवत्त्वमात्रेण नित्यनैमित्तिकयोर्भेदात् । क्वचित्तु नैमित्तिकेत्येव पाठः । ‘‘यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपे’’दित्यादेर्नैमित्तिकाधिकारत्वं ‘‘क्षामेतु सर्वहोमस्स्यादेकदेशस्यावर्जनीयत्वा’’दिति षष्ठचतुर्थपादीयपञ्चमाधिकरणे सिद्धम् । ‘‘यस्मिन् जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमा’’नित्यादेरधिकारद्वयसंवलनं ‘‘पूर्ववन्तो विधानार्थास्तत्सामर्थ्यं समाम्नाये’’ इति प्रथमाध्यायचतुर्थपादीयद्वादशाधिकरणे ‘‘फलसंयोगस्त्वचोदितेन स्यादशेषभूतत्वा’’दिति चतुर्थाध्यायतृतीयपादीयसप्तदशेऽधिकरणे च सिद्धम् । पुत्रजन्मनिमित्तकत्वस्य फलार्थत्वस्य च श्रवणात् ।। व्रीह्यादीनामिति ।। एतच्च ‘‘तानि द्वैधं गुणप्रधानभूतानी’’त्यत्र सिद्धम् । तानि द्वैधाधिकरणं छन्दोनये विवृतम् ।। गोदोहनेति ।। चतुर्थस्याद्यपादे ‘‘यस्मिन्प्रीतिः पुरुषस्य तल्लिप्सार्थलक्षणाविभक्तत्वा’’दिति सूत्रे तृतीयवर्णके ‘‘गोदोहनेन पशुकामस्य प्रणये’’दिति दर्शपूर्णमासप्रकरणे श्रुतं गोदोहनं क्रत्वर्थमप्युत पुरुषार्थमेवेति संशये षष्ठीश्रुत्या पुरुषार्थत्वं क्रतूपकारकत्वाच्च क्रत्वर्थमित्युभयार्थमिति प्राप्ते उपकारकत्वलक्षणशेषत्वनिराकरणादन्यार्थस्यापि क्रतूपकारकत्वाविरोधात् श्रुत्या पुरुषार्थत्वमेवेति सिद्धान्तितम् ।। दध्यादीनामिति ।। चतुर्थस्य तृतीयपादे ‘‘एकस्य तूभयत्वे संयोगपृथक्त्व’’मिति तृतीयाधिकरणे ‘‘दध्नेन्द्रियकामस्य जुहुया’’दित्यत्राग्निहोत्रप्रकरणगते वाक्ये किं काम्यमेव दधि नित्येऽप्यग्निहोत्रे स्यादुत ततोऽन्यन्नित्य इति संशये काम्यस्य नित्यार्थत्वासम्भवादन्यदेव नित्ये स्यात् । न च दध्ना जुहोतीति दध्नो नित्यार्थत्वमपि श्रूयत इति वाच्यम् । तस्य काम्यवाक्यैकवाक्यत्वादिति प्राप्ते उभयोर्वाक्ययोर्नैराकाङ्क्षयेणैकवाक्यत्वासम्भवात्संयोगपृथक्त्वेनोभयार्थमिति सिद्धान्तितम् । एवं दृष्टान्तपरं पूर्वार्धं व्यक्तीकृत्योत्तरार्धोक्तं दार्ष्टान्तिकं व्यनक्ति ।। अन्यत्रेत्यादिना ।। सत्त्वेऽपीति ।। ब्रह्मण्युभयमुपपन्नमित्यन्वयः । ननु दृष्टान्तोक्तया सम्भावनैवोक्ता । न तु प्रमेयं तेन सिध्यति । मानाधीनत्वात्तस्येत्यतः ‘‘अणोरणीयानित्याद्यागमस्योभयकार्यदर्शनानुमानस्य यशोदादिप्रत्यक्षस्य च प्रमाणत्वा’’दिति सुधावाक्यं विवृण्वन्प्रत्यक्षादिप्रमाणान्याह ।। अणुनीति ।। अल्पपरिमाण इत्यर्थः । उक्तं च सन्न्यायरत्नावल्यां ‘‘दृष्टश्चैवंविधः प्रभावो यशोदया गोविन्दे । तथाहि भागवतवचनम्

पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् ।

मुखं लालयती राजन् जृम्भतो ददृशेऽखिलम् ।

खं रोदसी ज्योतिरनीकमास्ये सूर्येन्दुवह्निश्वसनानृषींश्चेत्यादी’’ति ।। अणुत्वलिङ्गस्येति ।। अणुत्वानुमापकस्य । महत्त्वलिङ्गस्य महत्त्वानुमापकस्येत्यर्थः । सत्त्वादित्यन्वयः । एतच्च

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ।

तद्दामबध्यमानस्य स्वार्भकस्य कृतागसः ।

द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिके’’त्यादिना ‘‘दृष्ट्वापरिश्रमं कृष्णः कृपयाऽऽसीत्स्वबन्धन’’ इत्यादिना चावसेयम् । अणोर्महत इति च पञ्चमी । नन्वेवं घटादावपि रूपरसवदणुत्वमहत्त्वे स्यातामित्यत ‘‘एकत्र युगपदणुत्वमहत्त्वविरोधस्तु प्राकृतत्वोपाधिकृत इति सन्न्यायरत्नावल्युक्तमाह ।। अणुत्वादेरिति ।। आदिपदेन ह्रस्वत्वदीर्घत्वादिग्रहः ।। भेदेति ।। यथाभेदेन सूचीकटाहादेरणुत्वमहत्त्वादिनिर्वाहस्तथेह नेहनानेत्यादिना भेदस्य निषेधेन भेदाभावेपि तत्प्रतिनिधितत्कार्यनिर्वाहकस्य विशेषस्य सत्त्वादित्यर्थः । इत्यादाविति ‘‘विरुद्धधर्मरूपोऽसावैश्वर्यात् पुरुषोत्तम’’ इति भाष्यं ग्राह्यम् । उक्तं च छान्दोग्यभाष्ये सप्तमे ‘‘अल्पपरिमाणस्यापि महत्परिमाणं च युज्यतेऽचिंत्यशक्तित्वात् । यस्मिन् विरुद्ध गतयोऽप्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्ये’’त्यादि । उक्तं चात्र तत्वप्रदीपे यद्यपि लोकेऽस्थूलत्वात्यणुत्वादयो धर्मा एकत्र विरुद्धाः । तथापि विष्णावैश्वर्यादुपपद्यन्ते । तदाह विरुद्धधर्मरूपोऽसावैश्वर्यादितीति ।। अत इति ।। यतो ब्रह्म विरुद्धलक्षणैर्युक्तमेवातो विरुद्धार्थप्रतिपादकमिव प्रतीतमपि वाक्यं तत्वतो व्याख्याय हरौ योजनीयं योजयितुं शक्यमिति । नन्वणुत्वमहत्त्वयोरन्यत्र सहानवस्थानरूपविरोधमभ्युपेत्य ब्रह्मण्यप्राकृतत्वेन वा विशेषबलेनाचिन्त्यैश्वर्येण वा द्वयमप्युपपन्नमित्युक्तमयुक्तमिव । अणुत्वमहत्त्वादिपरिमाणावान्तरजातेर्वैशेषिकाधिकरणानुव्याख्यानादौ निराकृतत्वात् । परिमाणापकर्षोत्कर्षयोरेवाणुत्वादिशब्दार्थत्वात्तयोश्च प्रतिवस्तु स्थितेरभ्युपगतत्वेन विरोधस्यैवाभावात् । उक्तं चानुव्याख्याने

अणुत्वं च महत्त्वं च परमाणावणावपि ।

कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यत ।। इति ।

अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ।

तारतम्यस्थिता यस्मात्पदार्थास्सर्व एव च ।।

इति चेन्मैवम् । तात्पर्यभेदात् । ब्रह्मणोऽपरिच्छिन्नत्वेन ततोऽधिकपरिमाणस्यान्यस्य वस्तुनोऽभावेन तदपेक्षयाऽणुत्वासम्भवात्स्वापेक्षयैव स्वस्याणुत्वस्य वक्तव्यत्वात्तस्य च घटादावदर्शनाद्विरुद्धत्वमिति भावेन ब्रह्मण्युक्तयुक्तया तयोस्समर्थनात् । तथाचोक्तमत्र सुधायां ‘‘न चैकपरिमाणोपेतमेवोत्कृष्टापकृष्टापेक्षयाऽणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः । घटादितुल्यत्वेन वक्तव्यत्वात् । उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्चे’’ति । तथा ‘‘अणीयांश्च महीयांश्च भगवानागमोदित’’ इति वैशेषिकनयानुव्याख्यानव्याख्यावसरे चोक्तम् । ‘‘नन्वेवं स्वस्मादेव स्वयमुत्कृष्टोऽपकृष्टश्चेत्यागतम् । को नेत्याहे’’त्यादि ।

चन्द्रिकाबिन्दुः

सूत्रस्यार्थान्तरमभिप्रेत्याह ।। ब्रह्मणः परस्परेति ।। ननु परस्परविरुद्धराहित्यमेकस्मिन् कथमित्याशङ्क्य सदृष्टान्तमुपपादयति ।। दर्विहोमा इति ।। एकद्रव्यत्वोपाध्याक्रान्ते परस्परविरुद्धस्थौल्याणुत्वादित्वेनायमन्तरङ्गो दृष्टान्तः । परस्परविरुद्धस्थूलाणुसाधारणद्रव्यत्ववत् प्रकृतिविकृतित्वेति ।। साधारणधर्माभावात् । एकस्पर्शत्वोपाध्याक्रान्ते परस्परविरुद्धधर्मद्वयराहित्ये दृष्टान्तमाह ।। वाय्वादिस्पर्शस्येति ।। अप्राकृतस्थौल्याद्युपेते ब्रह्मणि प्राकृतस्थौल्याणुत्वपरस्परविरुद्धधर्मद्वयराहित्येऽत्यन्तरङ्गं दृष्टान्तमाह ।। अप्राकृतस्येति ।

ननु ब्रह्मणि प्रतियोगिनिरपेक्षे स्थूलत्वाणुत्वे वक्तव्ये । अग्नीषोमीये तु पशुगणापेक्षया प्रकृतित्वं दर्शाद्यपेक्षया विकृतित्वमित्यतो दृष्टान्तान्तरमाह ।। अवघातादीनामिति ।। ननु स्विष्टकृतोऽपि न ममेति यागत्वावच्छेदेनादृष्टार्थता अग्नौ प्रक्षेपावच्छेदेन शिष्टप्रतिपत्तिरूपतया दृष्टार्थतेति अवच्छेदकभेदेन विरुद्धोभयवत्त्वम् । ब्रह्म तु न तथेत्यतो दृष्टान्तान्तरमाह ।। अन्यत्र कामाधिकारेत्यादिना ।। नित्यपदं नैमित्तिकपरम् । जातेष्टिरपि जनननिमित्ता । ननु पूतत्वकामनापुत्रजननयोरवश्यं समावेशेन भवितव्यमिति न निर्बन्धः । पुत्रजननाख्यनिमित्तमात्र एव तदनुष्ठानसम्भवात् । अन्यथा प्रत्यवायात् । कामना तु दैवात् समाविशतीति । ब्रह्मणि तु अणुत्वमहत्त्वे अवश्यवक्तव्ये । अतो दृष्टान्तान्तरमाह ।। व्रीह्यादीनामिति ।। एवमत्र चन्द्रिकायां न्यायामृतादावनेकदृष्टान्तकथने उत्तरोत्तरस्वारस्यमेव निमित्तमूह्यमिति स्वामिनः ।

पाण्डुरङ्गि

।। दर्शपूर्णमासादीनामित्यादि ।। दर्शपूर्णमासाग्निहोत्रज्योतिष्टोमानां सर्वांगोपदेशेन केवलप्रकृतित्वेपि आग्नेयं कृष्णग्रीवमालभेत सोम्यं चरुं बभ्रुमाग्नेयं कृष्णाग्रीवं पुरोधाय स्पर्धमान इत्यादि पशुगणानां शाक्यानामयनादिसंवत्सरसत्राणां केवलविकृतित्वेपि अग्नीषोमीयपशुद्वादशाहादीनां यथाप्रकृतित्वेपि विकृतित्वं अवघातादीनां वैतुष्यादिदृष्टमात्रार्थत्वेपि प्रोक्षणसंमार्जनादीनां द्रव्यगतादृष्टमात्रार्थत्वेपि यथास्विष्टकृदुत्तमप्रयाजादीनामंशभेदेनोभयार्थत्वं ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यैन्द्राग्नक्षामवत्यादौ कामाधिकारनैमित्तिकाधिकारयोरन्यतरमात्रसत्त्वेपि यथावा जातेष्टौ यस्मिन् जात एतामिष्टिं निर्वपति पूत एव सतेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीत्यधिकारद्वयसंवलनं व्रीहिभिर्यजेत सोमेन यजेतेत्यादिना व्रीहिसोमादीनां क्रत्वर्थत्वमात्रत्वेपि गोदोहनेन पशुकामस्य प्रणयेदेकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्येत्यादिना गोदोहनैकविंशत्यनुवचनादीनां पुरुषार्थत्वमात्रत्वेपि यथा च दध्नाजुहोति दध्नेंद्रियकामस्य जुहुयात् खादिरो यूपो भवति खादिरं वीर्यकामस्य यूपं कुर्यादित्यादिना दधिखादिरत्वादीनामुभयार्थत्वं तथा प्रकृतेपीति । कामाधिकारनित्याधिकारयोरिति पाठे नित्यशब्दो नैमित्तिकपरः । जातेष्टेः शुद्धकाम्यत्वे पुत्रे जात इति पुत्र जननरूपनिमित्तश्रवणविरोधाच्छुद्धनैमित्तिकत्वे च पूत एव तेजस्व्यन्नाद इति पूतत्वादिफलश्रवणविरोधात्संवलिताधिकारोंगीकृतो न तूभयबहिर्भाव इति भावः ।