पूर्वोक्ताधिकसद्गुणत्ववत्प्राणस्य विभुत्वमप्यस्त्विति पूर्वपक्षोदयात्सङ्गतिः

अण्वाधिकरणम्

तात्पर्यचन्द्रिका

।। ॐ अणुश्च ॐ ।।

पूर्वोक्ताधिकसद्गुणत्ववत्प्राणस्य विभुत्वमप्यस्त्विति पूर्वपक्षोदयात्सङ्गतिः । अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणमुत नेति । तदर्थं मुख्यप्राणस्याणुत्वश्रुतिरप्रमाणमुत नेति । तदर्थमणुत्वश्रुतिः प्रबलव्याप्तत्वश्रुतिबाधितोत नेति । तदर्थं व्याप्तत्वश्रुतिः किमान्तरमुख्यप्राणरूपाभिप्राया किं वा बाह्यमुख्यवायुरूपाभिप्रायेति । अन्ये तु ‘‘सम एभिस्त्रिभिर्लोकै’’रिति प्राणस्य सर्वगतत्वश्रुतिराधिदैविकेन हिरण्यगर्भप्राणात्मना । आध्यात्मिकेन तु परिच्छिन्नत्वमित्याहुः । तन्न । हिरण्यगर्भस्य तद्बुद्धेर्वा परिच्छिन्नत्वेन सर्वगतत्वोक्तययोगात् । केचित्तु सर्वप्रवृत्तिहेतुत्वात्प्राणस्य सर्वगतत्वोक्तिरित्याहुः । तन्न । ‘‘अन्तर्वा अणुर्बहिर्महानिति श्रुत्युक्तसमाधौ सति मनआदिसाधरणेन सर्वप्रवृत्तिहेतुत्वेन सर्वगतत्वोक्तेरयोगात् ।। अण्वधिकरणम् ।। ९ ।।

प्रकाशिका

ॐ अणुश्च ॐ ।। तदर्थं मुख्यप्राणस्याणुत्वश्रुतिरिति ।। तदप्रामाण्ये हि ‘‘तत्सामान्या’’दिति न्यायेन ब्रह्मणि समन्वितश्रुतिमात्राप्रामाण्यं भवतीति भावः ।। अन्ये त्विति ।। अणुश्च मुख्यप्राण इति सूत्रार्थः । ‘‘समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेणे’’ति विभुत्वमपि श्रूयत इत्यत आह ।। सम इति ।। हिरण्यगर्भप्राणात्मना सर्वगतत्वश्रुतिरित्यर्थः ।। आध्यात्मिकेनेति ।। प्राणात्मनेत्यन्वयः । ‘‘समः प्लुषिणे’’त्याद्युक्तपरिच्छिन्नत्वमित्यर्थः । सौत्राणुशब्देनापि तस्यैव विवक्षितत्वेन भाषणादिति भावः । बुद्धिव्याप्त्यापि न सर्वगतत्वश्रुतिरिति भावेनोक्तं तद्बुद्धेर्वेति । सर्वगतत्वश्रुतिगतिं मतान्तरोक्तां निराह ।। केचित्त्विति ।। इति श्रुतीति ।। भाष्योक्तश्रुत्युक्तेत्यर्थः ।। छ ।। अण्वधिकरणम् ।। ९ ।।

चन्द्रिकाविवृतिः

।। ॐ अणुश्च ॐ ।। बाह्यमुख्यवायुरूपेति ।। ब्रह्माण्डमहदादिशरीरव्यापिप्रकाशांशवद्रूपाभि-प्रायेत्यर्थः । हिरण्यगर्भस्य परिच्छिन्नत्त्वे हेतुमाह ।। तद्बुद्धेः परिच्छिन्नत्त्वेनेति ।। मन आदिसाधारणेनेति ।। तथा च सर्वप्रवृत्तिहेतुत्त्वं न व्याप्तत्वोक्तिकारणम् । मनसि व्यभिचारादित्यभिप्रायः ।।