यच्चोक्तमुभाभ्यां आद्यसूत्रेऽधिदैवादिषु..
उभयमते सूत्राक्षरार्थानुपपत्ति निरूपणम्
तात्पर्यचन्द्रिका
यच्चोक्तमुभाभ्यां आद्यसूत्रेऽधिदैवादिषु योऽन्तर्यामी स परमात्मेत्यन्वय इति । तन्न । तथात्वे अधिदैवादिष्वित्यस्य वैयर्थ्यात् । विषयवाक्यसूचनस्यान्तर्यामिपदेनैव सिद्धेः । अन्यथा ‘‘अन्तस्तद्धर्मे’’त्यादावादित्यादिष्वन्तरिति साध्यं निर्दिश्येत । तस्मादधिदैवादिप्रकरणेषु तद्धर्मव्यपदेशादिति यथाश्रुत एवान्वयः । वरं हि वैयर्थ्यादपि लक्षणा । एवं हि न केवलं तद्धर्मव्यपदेशमात्रम् । किं तु तस्याभ्यासोऽप्यस्तीत्युक्तं भवति । यच्च द्वितीयसूत्रे तद्धर्माभिलापो नाम प्रधानधर्मविरुद्धधर्माभिलाप इत्युक्तम् । तन्न । आद्यसूत्रस्थेन तद्धर्मव्यपदेशादित्यनेन पुनरुक्तेः । ब्रह्मधर्मो हि प्रधानधर्मविरुद्ध एव । तस्मान्त्रिगुणत्वादिधर्माभिलापाभावादित्येवार्थः । किं च ‘‘भेदव्यपदेशात् । भेदव्यपदेशाच्चान्यः । सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्’’ इत्यादिकमतीतं ‘‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयत’’ इति वर्तमानं ‘‘विशेषणभेदव्यपदेशाभ्यां च नेतरौ । भेदव्यपदेशा’’दित्यादि चागामिभेदप्रतिपादकम् ।
औतिभिर्व्याक्रियते कथमद्वैतदूषकम् ।
सूत्रजातं स्वसिद्धान्ततया लज्जां विनैव तु ।। १ ।।
यदि मिथ्यार्थवादीनि सूत्राणीत्येव कीर्तनम् ।
सूत्रव्याख्या तर्हि वेदबोध्यमिथ्यात्वबोधकः ।। २ ।।
बौद्धागमोऽपि वेदस्य व्याख्यारूपः प्रसज्यते ।
बौद्धोऽपि ब्रह्मसूत्राणि व्याख्यायान्ते भवानिव ।। ३ ।।
मिथ्यैषोऽर्थः किं तु तत्वं शून्यमेवेति कीर्तयेत् ।
असद्वेत्यादिवचनं तस्य स्यात्तत्ववेदकम् ।। ४ ।।
अपौरुषेयभावेन प्रयुक्ता च प्रमाणता ।
व्यावहारिकमात्रेण नार्थेन परितुष्यति ।। ५ ।।
असकृत् श्रुतिभिःसूत्रे भेदे यत्नेन साधिते ।
मिथ्यार्थतां कथं ब्रूयात्सूत्राणां भाष्यकृत्स्वयम् ।। ६ ।।
सौगता वेदबाह्या हि वेदाप्रामाण्यवादिनः ।
अवैदिका इति ज्ञात्वा वैदिकैः परिवर्जिताः ।। ७ ।।
वेदान्प्रविश्य वेदानामप्रामाण्यं प्रसाधयन् ।
मायी तु यत्नतस्त्याज्यो वैदिकैर्हितशत्रुवत् ।। ८ ।।
टीकाक्षरार्थस्तु स्पष्टः ।।
प्रकाशिका
एवमधिकरणप्रमेयं परमते निरस्य मायिमते रामानुजमते च सूत्राक्षरार्थानुपपत्तिमाह ।। यच्चेति ।। केषांचिदधिकरणशरीरं परमतादनतिभिन्नत्वान्न पृथग्दूषितम् । तथा हि । प्रधानस्य वाक्यशेषोक्तद्रष्टृत्वाद्ययोगेन शङ्कितुमयोग्यत्वादयमन्तर्यामी ऐश्वर्ययोगविशेषनिमित्तप्रकृष्टादृष्टवान् जीवविशेषः परमात्मा वेति सन्देहे वाक्यशेषे ‘‘द्रष्टा श्रोता मन्ते’’ति करणजन्यदर्शनश्रवणमननादिरूपज्ञानवत्ताश्रवणात्तस्य च जीव एव सम्भवात् । द्रष्टेत्यादेः करणजन्यज्ञानपरत्वमनङ्गीकृत्य रूपादिसाक्षात्कारमात्रपरत्वेऽङ्गीक्रियमाणे रूपादिसाक्षात् कारस्य जीवपरयोस्साधारण्येनास्मिन्प्रकरणे ‘‘नान्योऽतोऽस्ति द्रष्टे’’ति द्रष्ट्रन्तरनिषेधायोगात्करणायत्तज्ञान परत्वाज्जीवस्यैतादृशद्रष्टृत्वेन निषेधायोगात्तद्बलेन जीवएवान्तर्यामीति प्राप्ते ‘‘आत्मनि तिष्ठन्नात्मनोऽन्तरोऽयमात्मा न वेदे’’त्यादिषु पृथिव्यादिसर्वभूतान्तः प्रवेशसर्वनियमनसर्वशरीरकत्वादितद्धर्मोपदेशात्परमात्मैव । द्रष्टेत्यादिवाक्यशेषस्तु रूपादिसाक्षात्कारमात्रपरो न करणायत्तज्ञानपरः । स च ‘‘पश्यत्यचक्षुः स शृृणोत्यकर्ण’’ इत्यादिना परस्यैव । नान्योऽतोऽस्तीति द्रष्ट्रन्तरनिषेधस्तु स्वातन्त्र्येण द्रष्टन्तरनिषेधपर इति सिद्धान्त इति । अत्र प्रधानपूर्वपक्षस्य प्रागेव समर्थनेन तत्त्यागोऽयुक्तः । अन्यथा न च स्मार्तमिति प्रधानप्रत्याख्यानायोगः ।
यदत्रोक्तं श्रुतप्रकाशे न च स्मार्तमिति दृष्टान्त एवोपन्यस्तो न प्राधान्येन । अत एव न च स्मार्तमतद्धर्माभिलापात् शारीरश्चेत्येवमन्तमेकं सूत्रमिति । तन्न । दृष्टान्तत्वद्योतकाभावात् । अन्यथा नानुमानमतच्ब्दात्प्राणभृच्चेत्यादावपि तथात्वापत्तिः । दृष्टान्तोपादानस्य वैयर्थ्याच्च । न च शारीरस्स्मार्तवदित्यादिविन्यासापाताच्च । प्रधानशङ्कानुदयादेवं कल्पनमिति चेन्न । तच्छङ्कोदयस्य मूल एवोक्तत्वात् । शारीरश्चेति चशब्दास्वारस्याच्च । अस्यापि जीवमात्रनिरासपरत्वे योगविभागायोगेन अतद्धर्माभिलापाच्छारीरश्चोभयेऽपि हि भेदेनैनमधीयत इत्येकवाक्यतयैव विन्यासः स्यादिति । नन्वधिदैवादिचिह्नितेषु वाक्येष्विति विषयसूचनार्थं तदित्युक्तमित्यत आह ।। विषयेति ।। ननु भवन्मतेऽप्यधिदैवादिप्रकरणेष्विति प्रकरणलक्षकत्वाल्लक्षणादोष इत्यत आह ।। वरं हीति ।। अत एव ‘‘एकादश वै पशोरवदानानि । तानि द्विरवद्यती’’ति वाक्यवैयर्थ्यपरिहाराय ‘‘यद्यपि चतुरवत्ती यजमानः पञ्चावत्तैव वपाकार्ये’’त्यत्र वपाशब्दे पाशुकहविर्मात्रलक्षणेति स्वीकृतं मीमांसकैरिति भावः । अत्र सूत्र एवमपि न वैयर्थ्यानिस्तार इत्यत आह ।। एवं हीति ।। अत्राधिदैवाधिलोकादिष्विति पाठः कैश्चित्कल्पित एव न वास्तव इति ध्येयम् ।। इत्युक्तमिति ।। उभाभ्यामिति वर्तते ।। तस्मादिति ।। अत्र समासोपपत्तिस्त्वतच्छब्दादित्यत्र वक्ष्यत इति भावः । तृतीयसूत्रं मायिमतेऽनुपपन्नमिति वदन्प्रसङ्गादतीतानागतभेदसूत्राणि सर्वाण्यप्ययुक्तानीत्याह ।। किं चेति ।। भेदप्रतिपादकमित्यस्य सूत्रजातमिति श्लोकगतेनान्वयः । इत्यादि चेत्यपि तेनैवान्वेति । का कथं तेत्यत उक्तमद्वैतदूषकमिति । मिथ्याभेदपरत्वेनाद्वैताविरोधित्वात्का लज्जाप्रसक्तिरित्यत आह ।। यदीति ।।
ननु यथाऽर्थवादानां मिथ्यार्थावलम्बनेन प्राशस्त्यतात्पर्यात्प्रामाण्यं तद्वत्सूत्रादीनि सर्वाणि मिथ्यार्थवादीन्यपि तात्विकशुद्धचैतन्यतात्पर्यविषयोपेतानि भविष्यन्ति । नैवं बौद्धमत इत्यत आह ।। बौद्धोऽपीति ।। ननु न तस्य तथा वचने तत्वावेदकं वचनं मानमस्ति मम त्वस्ति सदेवेत्यादिकमित्यत आह ।। असद्वेत्यादीति ।। ननु तेनासदर्थकत्वमागमादेरुच्यते । मया तु व्यावहारिकसदर्थकत्वमित्यत आह ।। अपौरुषेयेति ।। अयुक्तं च मिथ्यार्थकथनमित्याह ।। असकृदिति ।। तन्मतदूषणस्य फलमाह ।। सौगता इति ।। प्रविश्य विचार्य । ननु ‘‘अस्माया मेधास्रजो विनि’’रिति मायावीति भाव्यम् । सत्यम् । ‘‘व्रीह्यादिभ्यश्चे’’ति इनि प्रत्यये मायीति साधु ।। स्पष्ट इति ।। उपन्यासमुखेन विवृत इत्यर्थः ।
एतेनात्रान्तर्यामी नारायणश्चतुर्मुखो वेति पूर्वपक्षं कृत्वा अधिदैवादिषु श्रूयमाणोऽन्तर्यामी शिव एव । सर्वान्तरत्वरूपधर्मस्याथर्वशिरसि ‘‘ते देवा रुद्रमपृच्छ’’न्निति प्रस्तुतरुद्रनिष्ठतया ‘‘सोंऽतरादन्तरं प्राविश’’दिति श्रवणादिति केनचित्प्रलपितं प्रत्युक्तम् । सूत्रोपात्तप्रधानपक्षत्यागायोगात् । ‘‘दिव्यो देव एको नारायण’’ इति मूलोक्तसमाख्याविरोधेन तत्र तत्र भाष्योदाहृतानेकवचनविरोधेन शिवान्तर्यामित्वस्य बाधितत्वाच्च ‘‘सोंऽतरादन्तरं प्राविश’’दित्यथर्वशिरोवाक्येऽपि न शिवस्यान्तर्यामित्वमुच्यते । किं तु स इति प्राक्प्रकृतरुद्रान्तर्यामिणं नारायणमेव परामृश्यान्तरादन्तरं प्राविशद्दिशश्चैवान्तरेति नारायणस्यैवान्तर्यामित्वमुच्यते । ‘विश प्रवेशने’ इति धातुनिष्पन्नविष्णुशब्दार्थस्य ‘‘सर्वा दिशो विष्टोऽस्मी’’त्यैतरेयभाष्योक्तदिशा प्राविशदित्यनेन ज्ञापनाच्च । अन्यथा ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’’ इत्यादिविरोधापत्तेः । विस्तरस्तु गुरुपादकृतपरतत्वप्रकाशिकायां ध्येयः । सूत्रास्वारस्यं च रामानुजमत इव ज्ञेयम् ।।
चन्द्रिकाबिन्दुः
ननु तर्हि भवत्पक्षेऽधिदैवादिष्विति पदस्य तत्र करणपरत्वाङ्गीकारेण लक्षणदोष इत्यत आह ।। वरं हीति ।। एवं हि प्रकरणसूचने ब्रह्मधर्मस्याभ्यासः सूचित इति भावः । ननु वेदानामपौरुषेयत्वेन प्रामाण्यस्य सिद्धत्वान्न मया सर्वथा अप्रामाण्यमुच्यते भेदसूत्राणां किन्त्वद्वैतश्रुतिबलाद्व्यावहारिको विषयो दीयत इत्यत आह ।। अपौरुषेयभावेनेति ।।
पाण्डुरङ्गि
ननु च भवत्पक्षेऽप्यधिदेवादिष्वित्यस्य यथाश्रुतस्यानन्वयः । प्रकरणेष्वित्युक्तावपि लक्षणा स्यादित्यत आह ।। वरं हीति ।। लक्षणाप्रयोजकं प्रयोजनं चाह ।। एवं हीति ।।
।। इति अन्तर्याम्यधिकरणम् ।। ५ ।।