न च भेदपक्षे प्राणाद्भूयसोऽनुक्तिर्बाधिका
भूम्न: विष्णुत्वे बाधकनिरास:
तात्पर्यचन्द्रिका
न च भेदपक्षे प्राणाद्भूयसोऽनुक्तिर्बाधिका । पूर्वपक्षेऽपि प्राणस्य विष्णुतो भूयस्त्वानुक्तेर्बाधकत्वात् । विष्णोरधमत्वे हि नामादिदेवेभ्य इव प्राणस्य विष्णुतोऽपि भूयस्त्वं प्रश्नोत्तराभ्यामुच्येत । तदुक्तं न्यायविवरणे ‘‘प्राणस्य विष्णोः सकाशाद्भूयस्त्वानुक्ति’’रिति । न चैवमनुक्तयोः साम्यम् । ‘‘एवं विजानन्नतिवादी’’ति प्राणज्ञानिनोऽतिवादित्वमुक्त्वा ‘‘एष तु वा अतिवदति यः सत्येनातिवदती’’ति सत्याख्यभूमज्ञानिनस्तुशब्देन विशेषोक्तया भूम्नः प्राणादप्यतिशयस्योक्ततया अस्ति भगवः प्राणाद्भूय इति प्रश्नादेरध्याहार्यत्वेनानुक्तेरन्यथाप्युपपत्तेः । अत एव ‘‘गत्यन्तरविवर्जिताः’’ इत्यनुव्याख्याने सिद्धान्तीयानुक्तेर्निरवकाशत्वमुक्तम् । एतच्च ‘‘व्यतिहारो विशिंषन्ती’’त्यत्र सूत्रकृदेव वक्ष्यति ।। न चैवमिह पूर्वपक्षानुदयः । व्यतिहार इत्यत्रोक्तोऽध्याहारो न युक्तः । तुशब्दस्य ‘‘विज्ञानं त्वेव विजिज्ञासितव्य’’मिति सत्यानन्तरमुक्तेषु विज्ञानादिष्विवाभेदेऽप्युपपत्तेः । विज्ञानादीनां च सत्याभेदः ‘‘सैव हि सत्यादय’’ इत्यधिकरणसिद्ध इति प्राप्ते श्रुत्यन्तरे प्राणादेकस्यैवाधिकस्योक्तेरेष त्वित्यत्र तुशब्दोऽध्याहारकल्पकः । विज्ञानं त्वित्यादौ तु सत्याख्यब्रह्मण्येव धर्मान्तराभिप्रायत्वान्न तत्कल्पक इति सिद्धान्तस्येहाभिप्रेतत्वात् । अत एव प्राणाद्भूम्नो भूयस्त्वोक्तिरूपासिद्धान्तयुक्तिरधिकरणान्तरव्युत्पाद्यत्वादि हानुव्याख्याने ‘‘अनुक्तिश्चे’’ति चशब्देनोक्ता । प्राणस्य विष्णुतो भूयस्त्वानुक्तिस्तु ‘‘अनुक्ति’’रिति स्वशब्देनोक्ता । तदुक्तं न्यायविवरणे ‘‘प्राणस्य विष्णोस्सकाशाद्भूयस्त्वानुक्तिः । चशब्देनैष तु वा अतिवदति यः सत्येनातिवदतीति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्चे’’ति । प्राणस्य विष्णोः सकाशाद्भूयस्त्वानुक्तिस्त्वनन्यथासिद्धा । प्रश्नाद्यध्याहारकल्पकाभावात् ।
प्रकाशिका
एवं साधकोक्तया भूमा विष्णुरित्युक्त्वा पूर्ववाद्युक्ते भूयस्त्वानुक्तयुत्क्रमणरूपे बाधके निराचिकीर्षुरनुक्तिं तावदनूद्य न्यायविवरणोक्तदिशा साम्येन तावदापादयति ।। न चेत्यादिना ।। विष्णुतो भूयस्त्वानुक्तेर्निरवकाशतामाह ।। विष्णोरिति ।। उच्येतेति ।। त्वन्मते तस्य सर्वोत्तमत्वार्थमेव नामवागादितारतम्यस्य प्रक्रान्तत्वात् । तथा च प्राणस्यैव सर्वोत्तमत्वे विष्णुतो भूयस्त्वमाशानन्तरं विष्णुर्वावाशाया भूयानित्युक्त्वा पश्चादस्ति भगवो विष्णोर्भूयानिति प्रश्नः प्राणो वाव विष्णोर्भूयानिति प्रतिवचनं च स्यात् । प्रश्नादिनाऽवश्यवक्तव्यस्य भूयस्त्वस्यानुक्तौ हेत्वन्तराभावात्तदन्यथानुपपत्त्या न प्राणस्य सर्वोत्तमत्वं शङ्क्यम् । किन्तु भूम्न एव तथात्वं वाच्यमिति भावः । प्राणस्य विष्णुतो भूयस्त्वानुक्तिरूपयुक्तेष्टीकाकारैरत्र न्यायविवरणे सुधायां चाव्याख्यातत्वादत्र तां स्वयं व्याख्याय मूलारूढां करोति ।। तदुक्तमिति ।। न्यायविवरणपाठो मुख्यप्राणस्येति । नन्वेवं भूम्नोऽपि प्राणाद्भूयस्त्वानुक्तयन्यथानुपपत्त्या न सर्वोत्तमत्वमिति सुवचम् । तथा च कथं निर्णय इति भावेनाशङ्क्य निराह ।। न चेति ।। ‘‘एष तु वातिवदती’’त्यादिटीकोक्तं समाधिं व्यनक्ति ।। एवमिति ।। प्राणपकरणे ‘‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति । तं चेद्ब्रयुरतिवाद्यसीति । अतिवाद्यस्मीति ब्रूयान्नापह्नुवीते’’त्युक्त्वा एष तु वेत्याद्याम्नायते । ननु सत्यस्यातिशयितत्वे भूम्नः किमायातमित्यत उक्तं सत्याख्येति । तयोरभेदश्च ‘‘सै व हि सत्यादय’’ इत्यत्र वक्ष्यत इति भावः ।। प्रश्नादेरिति ।। भूमा वाव प्राणद्भूयानितिपरिहारस्य चेत्यादिपदार्थः । ननु यथा पूर्ववादिना सिद्धान्तिनं प्रत्युक्ता प्राणाद्भूयस्त्वानुक्तिर्गत्यन्तरयुक्ता तथा सिद्धान्तिना पूर्ववादिनं प्रत्युक्ता प्राणस्य विष्णुतो भूयस्त्वानुक्तिरपि तथा स्यात् । एवं च पुनर्निर्णयो न स्यादित्यतो नैवमिति भावेनाह ।। अत एवेति ।। पूर्ववाद्युक्तानुक्तेस्सावकाशत्वादेव साम्यनिरासाय सिद्धान्तिनोक्तानुक्तेर्निरवकाशत्वं–
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अनुक्तिरन्वयाभावो विपरीतश्रुतिभ्रमः ।
लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।
बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात्तथा गतिः ।।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।
ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ।।
‘‘सिद्धान्तयुक्तयोज्ञेया’’ इत्यनुव्याख्यान उक्तमित्यर्थः । विवरिष्यते चैतदग्रे । नन्वेवं निरवकाशानुक्तेरेव सिद्धान्तन्यायत्वोक्तेः पूर्वपक्षानुक्तेरन्यथोपपत्तिरूपन्यायस्य टीकायां कुतो व्युत्पादनं कृतम् । तथा सति न्यायभेदेनाधिकरणभेदस्स्यात् । व्यतिहारो विशयन्ति इत्यस्य व्यर्थतापत्तेश्चेत्यतस्तत्रोक्तस्यैवात्र शिष्यहितायोक्तिरिति भावेनाह ।। एतच्चेति ।। पूर्वपक्षीयानुक्तेरुक्तरीत्या सावकाशत्वमित्यर्थः । तृतीयस्य तृतीयपादे द्वाविंशाधिकरणे विष्णुः प्राणादुत्तमो न वेति संशये छान्दोग्ये प्राणस्यैव सर्वोत्तमत्वेनोक्तत्वात्प्राणाद्भूयसोऽन्यस्य प्रश्नप्रतिवचनाभ्यामनुक्तेः प्राण एव सर्वोत्तम इति प्राप्ते प्रकरणान्तर इव प्रश्नप्रतिवचनयोर्व्यतिहारोऽध्याहारः कार्यः । एष तु वा अतिवदतीति तुशब्देन विशेषणाद्विष्णुरेव सत्यशब्देनोत्तमतयोच्यत इति वक्ष्यतीत्यर्थः । तेन गतार्थत्वमाशङ्क्य तदाक्षेपेणास्य प्रवृत्तिरित्याह ।। न चैवमित्यादिना ।। सैव हीति तदुत्तराधिकरणे प्राणात्सत्यशब्दितो विष्णुरेक एवोत्तम उत बहव इति संशये सत्यादुपरि विज्ञानमतिश्रद्धानिष्ठाकृतिसुखभूमाहङ्कारात्मनामुक्तत्वाद्बहव इति प्राप्ते सत्यं भगवो विजिज्ञास इति सत्यनामकभगवद्गुणजिज्ञासायां विज्ञानाद्युक्तेर्दाक्षायणयज्ञाद्युक्तेरिव प्रकृतस्यैव गुणकथनपरत्वेनैवोपपत्तेः सैव परदेवता सत्यादय इति वक्ष्यमाणत्वादिति भावः । श्रुत्यन्तरे तैत्तिरीयादौ । अत एवेत्युक्तं व्यनक्ति ।। अधिकरणान्तरव्युत्पाद्यत्वादिति ।। अनुव्याख्याने न्यायसङ्ग्रहानुव्याख्याने । इदानीं ‘‘गत्यन्तरविवर्जिता’’ इत्युक्तसिद्धान्तीयानुक्तेर्निरवकाशत्वं व्यनक्ति ।। प्राणस्येति ।।
पाण्डुरङ्गि
अनुक्तेरन्यथाप्युपपत्तेरिति ।। गम्यमानत्वादप्रयोग इति तु शब्दकार्यप्रश्नप्रतिवचनानुक्तेः अन्यथा विष्णोः प्राणोत्तमत्वाभावं विनापि उपपत्तेरिति भावः ।। व्यतिहार इत्यत्रोक्त इति ।। एष्यदधिकरणपूर्वपक्षप्रवृत्तिदशायां एतदधिकरणसिद्धान्तोन्मेषेऽपि एतदधिकरणपूर्वपक्षदशायामे एष्यदधिकरण सिद्धान्तानुन्मेषेण तेनास्य गतार्थतायाः वक्तुमशक्यत्वादिति न्यायस्य विपक्षे बाधकोक्तया पूर्वमेवानेकश उपपादितत्वादभ्युपगमवादेन वाऽत्रैवमुक्तिरिति ज्ञातव्यम् ।