‘‘परात्तु तच्छते’’रिति ..

अंशाधिकरणम्

तात्पर्यचन्द्रिका

जीव: ब्रह्मणोंsश इति प्रतिपादनम्

ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ।।

‘‘परात्तु तच्छते’’रिति पूर्वोक्तो जीवेश्वरयोरुपजीव्योपजीवकत्वरूपः सम्बन्धः समर्थ्य इति वा पूर्वोक्तस्य जीवानामस्वतन्त्रकर्तृत्वस्य निर्वाहाय भिन्नांशत्वमुच्यत इति वा सङ्गतिः । अत्र जीवानां ब्रह्मांशत्वं निर्णेतुमशक्यमुत शक्यमिति चिन्ता । तदर्थमंशत्वविधिनिषेधौ किमेकरूपांशत्वविषयावुत विधिर्भिन्नांशत्वविषयो निषेधस्तु स्वरूपांशत्वविषय इति । सन्देहटीकायां तु सन्देहात्मकपूर्वपक्षकोटिकीर्तनेन तद्विरुद्धा सिद्धान्तकोटिरर्थलब्धेति पृथङ्नोक्ता । अत्र भाष्ये सन्देहकारणं श्रुतिविगानमेवोक्तम् । न तु पूर्वपक्षेऽनंशत्वनिर्णये हेतुरुक्तः । न्यायविवरणेऽपि नानाश्रुतेरप्रामाण्यमित्येव पूर्वपक्षयित्वा प्रामाण्येनैव सिद्धान्तितम् । अनंशत्वेन पूर्वपक्षकरणं सिद्धान्ताविरुद्धं च । सिद्धान्तेऽपि मुख्यांशत्वाभावात् । अतः टीकाकारोऽप्यनध्यवसायेनैव पूर्वपक्षमाह ।। निर्णयो न युज्यत इति पूर्वपक्ष इति ।। सिद्धान्ते त्वयं भावः । जीवस्य ब्रह्मांशत्वं अत एव तदुपजीवकत्वेन तच्छेषत्वरूपः सम्बन्ध एव मुमुक्षुणाऽवश्यं ज्ञेयः । भाष्योक्तास्वंशत्वपरासु ‘‘अंशो ह्येष परस्य नाना ह्येनं व्यपदिशन्ति । पितेति पुत्रेति भ्रातेति सखेति चे’’त्यादिश्रुतिषु, ‘‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः । बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन त्वि’’त्यादिस्मृतिषु च ‘‘अवः परेण पितर’’मित्यादिभाष्योक्त श्रुतिस्मृतिसिद्धपितृत्वपुत्रत्वस्वामित्वभ्रातृत्वसखित्वादिप्रकारैर्भगवत उपजीव्यत्वरूपसम्बन्धव्यपदेश एव जीवस्यांशत्वे हेतुरुक्तः । ‘‘नैवांशो न सम्बन्ध’’ इत्याद्यनंशत्वश्रुतिषु चानंशत्वे सम्बन्धाभावो हेतुरुक्तः । टीकायामपि ‘‘तत्संबन्धित्वमेवांशत्व’’मित्युक्तम् । परैरपि ‘‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः । य आत्मानमन्तरो यमयतीत्यादिसम्बन्धव्यपदेश एव नानाव्यपदेश’’ इत्युक्तम् । परं तु तन्मते सम्बन्धो मिथ्या । न च श्रुत्यैव श्रौतांशशब्दार्थ उक्तेऽप्यन्योर्थो युक्तः । न च कस्यापि मते जीवस्य तंत्वादिवदंशत्वमस्ति । नियतं च तंत्वादेरंशस्यांशिनं प्रति शेषत्वम् । तस्मात्पुत्रः पितुरिव भृत्यादिः स्वाम्यादेरिव च जीवोऽपीश्वरपोष्यत्वादिना तद्गर्भवासित्वेन तदंतर्भूतत्वादीश्वरस्यांशः। ‘‘यो नः पिता पतिं विश्वस्यात्मेश्वर’’मित्यादिश्रुतेः । ‘‘पितासि लोकस्य चराचरस्य पितामहस्य जगतो माता धाता पितामाहः । गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत् । पितेव पुत्रस्य सखेव सख्युः पिता माता सुहृद्बंधुर्भ्राता पुत्रस्त्वमेव मे’’ इत्यादिस्मृतेश्च । भगवतः पुत्रत्वमपि पुन्नाम्नो नरकात्त्राणकर्तृत्वादुपजीव्यत्वेनैव । जीवस्य व्यञ्जकत्वरूपं पितृत्वमप्यभिव्यक्तेन भगवता संरक्ष्यत्वादुपजीवकत्वेनैव ।

प्रकाशिका

‘‘जीवस्येश्वरसम्बन्धित्वव्यपदेशा’’दिति टीकासूचितामाह ।। परात्त्विति ।। ‘‘किमीश्वरांशो न वे’’ति संशयटीकां ‘‘इति निर्णयो न युज्यत’’ इत्युत्तरटीकानुरोधेन व्यनक्ति ।। अत्र जीवानामिति ।। विधिनिषेधाविति ।। ‘‘अंशा एव हीमे जीवा’’ इति विधिः । ‘‘नैवांश’’ इति निषेधः ।। सिद्धान्तकोटिरिति ।। एतेन ईश्वरांश एवेति टीका योज्येति दर्शितम् । बीजोक्तिपूर्वं टीकां व्याचष्टे ।। अत्र भाष्य इति ।। अत्र तत्वप्रदीपे ‘‘अन्यथा चे’’ति सौत्रांशस्य ‘‘नानाव्यपदेशादन्यथा चे’’ति पूर्वेणान्वयमुपेत्य पितृपुत्रत्वादिनानाप्रकारसम्बन्धव्यपदेशात्सम्बन्धराहित्येन च व्यपदेशादित्यर्थ उक्तः । टीकायां तु ‘‘अन्यथा चापि दाशकितवादित्व’’मित्युत्तरेणान्वयमुपेत्य भेदेनाभेदेन चाध्ययनमर्थ उक्तः । तद्योजनाद्वयमप्यत्र युक्तमेव । योजनाद्वयेऽपि भाष्ये स्वारस्यदर्शनात् । तत्र सम्बन्धतद्राहित्याभ्यां व्यपदेशरूपाद्यहेतावंशत्वरूपं साध्यं नित्यमुपजीवकत्वरूपम् । भेदाभेदाभ्यामध्ययनरूपद्वितीयहेतौ ब्रह्मांशत्वं नाम ततो न्यूनत्वे सति किंचित्तत्सदृशत्वमिति भावेन तत्वप्रदीपरीत्या टीकां नयन्नाद्यपक्षं तावद्विवृणोति ।। जीवस्येत्यादिना किं चेत्यतः प्राक्तनेन ग्रन्थेन ।। सम्बन्ध एव न त्वभेद इत्यर्थः । एतेनांशत्वरूपव्यक्तीकरणेन ‘‘अंशो भवत्येवे’’ति टीकास्थांशशब्दो विवृतः । ‘‘मां रक्षत्वि’’त्यादिटीकार्थमाह ।। भाष्येति ।। ‘‘परस्य नाने’’त्युपयुक्तांशमात्रानुवादो न समग्रस्येति न भाष्योक्तविसंवादश्शङ्क्यः । ‘‘समस्तसूत्रार्थे स्मृतिं चाहे’’ति टीकोक्तेरत्राद्यपक्षे सङ्गतांशं तावदुदाहरति ।। पुत्रेति ।। अत एव सुधायां सौत्रांत्यभागार्थ एव ‘‘यथोक्त’’मित्यादिना ‘‘यतो भेदेने’’त्यादिरेव सन्मतित्वेनोदाहृतो न तु ‘‘पुत्रे’’त्यादि पूर्वभागोऽपीति भावः ।। श्रुतिस्मृतिसिद्धेति ।। एतेन भाष्ये ‘अवः परेणे’’त्याद्युक्तेः पितृत्वादिसिद्धावुपयोगो ‘‘नाना ह्येन’’मित्यादेस्तेन प्रकारेण व्यपदेशसिद्धावुपयोगो दर्शितः । एवकारेणाभेदादिव्यपदेशो निवार्यते । अयमेव हेतुरभिमतो न त्वभेद इत्यत्र ज्ञापकमाह ।। नैवेति ।। भाष्योक्तश्रुतिषु चेत्यर्थः । ननु तदारम्भकत्वं तदेकदेशत्वं वा तदंशत्वं मुख्यम् । न तु सम्बन्धित्वमेवांशत्वमित्यत आह ।। श्रुत्येति ।। ‘‘नाना ह्येन’’मित्यादिश्रुत्यैवेत्यर्थः । मुख्यांशत्वं तु न सम्भवति । ब्रह्मणो नारब्धत्वात् । घटादिवत्प्रदेशवत्त्वाभावाच्चेति भावः । अस्मदुक्तं तु तत्राप्यस्तीत्याह ।। नियतं चेति ।। तंत्वादेः पटाद्यारम्भकस्येत्यर्थः । तस्मात् आरम्भकत्वतदेकदेशत्वादिरूपमुख्यांशत्वस्यासम्भवात् । एवं रूपस्यैव श्रुत्यादिसिद्धत्वाच्चेत्यर्थः । ईश्वरस्य पितृत्वपोषकत्वस्वामित्वादौ श्रुतिमाह ।। यो नःपितेति ।। ‘‘पतिं विश्वस्यात्मेश्वरशाश्वतशिवमच्युतम् । नारायणं महाज्ञेयं’’ इति नारायणोपनिषदि । ‘‘पितासी’’त्यादि गीता । उपजीव्यत्वाद्यसिद्धिमाशङ्क्य निराह ।। भगवत इति ।।

Load More