अत्र च श्रुत्युपसर्जनक प्रागभावकर्तृत्वसाधकयुक्तिविरोधो निरस्यते

असदधिकरणम्

तात्पर्यचन्द्रिका

विश्वप्रागभाव: विश्वकर्ता इति पूर्वपक्षनिरूपणम्

।। ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ।।

अत्र च श्रुत्युपसर्जनक प्रागभावकर्तृत्वसाधकयुक्तिविरोधो निरस्यते । न तु समयप्राप्तमसत्कारणत्वम् । तस्य द्वितीये निरसिष्यमाणत्वात् । नापि श्रुतिमात्रप्राप्तम् । तस्य तृतीय एव सङ्गतेः । नापि युक्तयुपसर्जनकश्रुतिप्राप्तम् । तस्य चतुर्थ एव सङ्गतेः । नापि समप्रधानश्रुतियुक्तिभ्यां प्राप्तम् । तस्य तृतीयेऽपि सङ्गतेः । नापि युक्तिमात्रप्राप्तम् । पूर्वाधिकरणे दृढयुक्तिविरोधे निरस्त इह युक्तिमात्रेण पूर्वपक्षानुदयात् । नापि युक्तयादिप्राप्तं प्रागभावस्य कारणत्वमात्रम् । तस्य ब्रह्मकर्तृत्वाविरोधित्वेनानिरस नीयत्वात् । तदुक्तमनुव्याख्याने ‘‘अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी’’ति । अत्र ह्यल्पत्वबहुत्वे गुणप्रधानत्वे । अन्यथा ‘‘श्रुतिगुणयुक्तय’’ इत्यनुव्याख्यानविरोधादिति सुधायामुक्तम् । एवं चेह श्रुतिसूत्रभाष्येष्वसच्छब्दः शतृप्रत्ययस्यासत् अभवनमिति छान्दसेन भावसाधनत्वेन वाऽसदसत्वमिति भावप्रधानत्वेन वाऽभावपरः । अत एव टीका ‘‘अत्र सर्वत्रासच्छब्देन प्रलयवर्ती प्रागभावोऽभिधीयते । कारणशब्देन च कर्ते’’ति । एवं च ‘‘इति चेन्न निषेधैकस्वरूपस्य न कर्तृते’’त्यनुव्याख्यानेनात्रत्यभाष्यस्याविरोधः । न च श्रुतेरुपसर्जनत्वे टीकायां मूलत्वोक्तिविरोधः । राजसेनावच्छतेर्मूलत्वेन वस्तुतः प्राधान्येऽपि ब्रह्मणः कर्तृत्वनिषेधेनाभीरसेनावद्युक्तेरेवाग्रेसरत्वेन कार्यतः प्राधान्यात् । अत एवोत्तरटीका ‘‘श्रुतिविरोधपरिहारस्य युक्तिविरोधपरिहाराङ्गत्वा’’दिति । अत्र श्रुत्यसहितयुक्तयविरोधाय मृदादिशब्दानामन्यार्थतायां श्रुतिसहितयुक्तयविरोधायासदादिशब्दानामन्यार्थतेति किमु वाच्यमिति पूर्वसिद्धान्तन्यायेन पूर्वपक्षोत्थानादनंतरसङ्गतिरगतार्थता च । अत्र विष्णोर्जगत्कर्तृत्वं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं विश्वप्रागभावः किं विश्वकर्तोत नेति । तदर्थं प्रागभावस्य कर्तृत्वसाधिका वक्ष्यमाणयुक्तिः किं श्रुतिसंवादिन्युत नेति । तदर्थं ‘‘असद्वा इदमग्र आसीत् तदसदेव सन्मनोऽकुरुते’’ त्यादिश्रुतिः किं प्रागभावस्य सङ्कल्पप्रतिपादिकोतान्यपरेति । पूर्वपक्षमाह ।। तत्र पूर्वपक्षयतीति ।। अयं भावः । विश्वप्रागभावस्तावद्विश्वहेतुः । घटं प्रति घटप्रागभावस्येवानन्यथासिद्धनियतपूर्वक्षणवर्तित्वात् । अन्यथा उत्पन्नो घटः पुनरुत्पद्येत । प्रागभावस्य हेतुत्वे तु तदभावादेव नोत्पन्नस्योत्पत्तिः । प्रागभावस्याहेतुत्वे च पाकजरसादीनां भेदो न स्यात् । कार्यभेदस्य कारणभेदाधीनत्वात् । प्रागभावादन्यस्य च कारणस्य तत्राभेदात् । श्रूयते च ‘‘असद्वा इदमग्र आसी’’दिति प्रागभावस्य हेतुता । न ह्यत्रासच्छब्दः शून्यपरः । असतो नियतप्राक्सत्वरूपहेतुत्वायोगात् । आसीदिति सत्त्वोक्तिविरोधाच्च । एवं च सिद्धे प्रागभावस्य हेतुत्वे प्रागभावान्तरेऽदृष्टमपि विश्वप्रागभावस्य कर्तृत्वं विमता भावाः प्रलयेऽसन्तः भावत्वात् कार्यवदित्यनेन प्रलये भावमात्रासत्त्वसिद्धेः कार्यस्य च सकर्तृकत्वनियमात्परिशेषात्सेत्स्यति । लघु च क्लृप्तस्य प्रागभावस्य कर्तृत्वमात्रकल्पनमीश्वरतत्कर्तृत्वादिकल्पनात् । दृश्यते चाचेतनेऽपि कर्तरि विहिततृतीयादि । अशरीरत्वेऽपीश्वरस्येवोपादानत्वेऽपि ब्रह्मण इव च जीवस्यापि चेतनत्वेऽपीश्वरमात्रस्येवाभावत्वेऽपि विश्वप्रागभावस्य कर्तृत्वमस्तु । ‘‘तदसदेव सन्मनोऽकुरुते’’ति श्रुतावसच्छब्दार्थस्य विश्वप्रागभावस्य मनश्शब्देन वा कर्त्रर्थलकारेण वा ज्ञानेच्छाद्युक्तेश्च । शब्दगम्यो ह्यर्थो यथाशब्दमङ्गीकार्यः । (भावविशेषस्य कर्तृत्ववच्चाभावविशेषस्य तदस्तु इति) कथमन्यथाऽद्वैतिमत इच्छाद्युपाधिभूतं मनः प्रति ब्रह्मणः कर्तृत्वमिति ।

प्रकाशिका

अत्र टीकायामधिकरणोपाधेरस्पष्टत्वात्तुच्छकारणताशङ्काप्रतीतेश्च अगतार्थत्वायाधिकरणोपाधिमनुव्याख्यानोक्तं विवृण्वन्नाह ।। अत्र चेति ।। पदप्रयोजनानि स्वयमेव व्यनक्ति ।। न त्विति ।। अल्पत्वबहुत्वे गुणप्रधानत्वे इति व्याख्यायां बीजं सुधाभिप्रेतं स्वयमाह ।। अन्यथेति ।।

स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।

एवं चतुर्विधा नैव विरुध्यन्तेऽन्वयं प्रति ।।

इति प्रथमपादेन निर्णीतेऽपी’’ति समयपादीयानुव्याख्याने श्रुतिगुणयुक्तिपदोक्ति विरोधादित्यर्थः । एतच्च पादान्ते स्वयमेव व्याकरिष्यति ।। प्रागभावकर्तृत्वेत्युक्तं प्रमेयं सूत्राद्यारूढं करोति ।। एवं चेति ।। उक्तस्यैवैतदधिकरणप्रमेयत्वे सतीत्यर्थः । अस भुवीत्यस्य ‘‘लटश्शतृशानचावप्रथमासमानाधिकरणे’’ इति शतृप्रत्यये ‘‘श्नसोरल्लोप’’ इत्यकारलोपे सदिति रूपम् । तस्य नञ्समासेऽसदिति भवति । ननु ‘‘लः कर्मणि च भावे चे’’ति विहितकर्त्रर्थकलट्प्रत्ययस्यैव शतृप्रत्ययविधानात्कथमभावार्थत्वमित्यत आह ।। छान्दसेनेति ।। एतेन ‘‘असच्छब्दोऽत्र भावसाधन’’ इति सुधा विवृता ।। भावेति ।। ‘‘द्व्येकयोर्द्विवचनैकवचने । मुक्तोपसृप्यव्यपदेशा’’दित्यादाविवेति भावः ।। निषेधैकेति ।। तुच्छस्य निस्स्वरूपत्वेन निषेधस्वरूपत्वोक्तयाऽभावपरत्वप्रतीतेरिति भावः ।

अत्रैके चोदयन्ति । श्रुत्यादौ सर्वत्रासच्छब्देन शून्यमेवाभिमतम् । न तु प्रागभावः । भाष्ये ‘‘श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते । समयस्योपरि निषेधा’’दित्युक्तेः । न हि प्रागभावकर्तृत्वप्रापकस्समयोऽस्ति । टीकायामपि ‘‘शशविषाणादीनां किंचित्प्रति कारणत्वं सम्भवती’’त्याद्युक्तेश्चेति । अत्र समाधिमाहुः । तुच्छमिति पूर्वपक्षे नियतप्राक्सत्वरूपहेतुत्वायोगात् । ‘‘आसी’’दिति सत्त्वोक्तिविरोधाच्च । तुच्छकारणत्वप्रापकसमयाभावेन भाष्यास्वारस्यस्य तुल्यत्वाच्च । अत एव शून्यमित्यपि पूर्वपक्षो न युक्तः । हेतुत्वाद्ययोगात् । तस्य तत्त्वतया शून्यवाद्यङ्गीकारेण सस्वरूपत्वाङ्गीकारे च ‘‘न हि शशविषाणे’’त्यादि टीकानुपपत्तेः । भाष्यं तु समयप्राप्तं शून्यमेवात्राशङ्क्य निषिध्यत इति कुतो नेत्यतः प्रवृत्तमित्युपपन्नम् । टीकायां तथैवावतार्य व्याख्यातत्वात् । ‘‘शशविषाणे’’त्यादिटीकापाठपक्षेऽपि यथा शशविषाणादेर्न कारणत्वं तथा प्रागभावस्यापि न कर्तृत्वमिति दृष्टान्तपरतया युज्यते । शास्त्रयोनिसूत्रे ‘‘न हि धर्मादिनिश्चयोऽनुमानेने’’ति वाक्यवत् । न हि तत्र तदनुरोधेन धर्मस्य पूर्वपक्षे विषयत्वमस्ति । शून्यमिति पक्षेऽपि शशविषाणादीत्यादिवाक्यायोगाच्च । न हि शून्यं तुच्छवन्निस्स्वरूपमिति शून्यवादिनोपेयते । तत्त्वमित्यङ्गीकारात् । अत एव ‘‘नासत’’ इत्यत्र सुधायां ‘‘अत्र सर्वत्रासत्त्वमापाद्य’’मित्युक्तम् । एवं चाभावपरसुधावाक्यान्यप्यनुकूलितानि भवन्ति । ‘‘प्रागभावोऽभिधीयत’’ इति पूर्वोक्तटीकावाक्यं चानुकूलितं भवति । तथा ‘‘न ह्यभावरूपस्य धर्मिणः कारणत्वं दृश्यत’’ इत्यादिसिद्धान्तस्थिततत्वप्रदीपवाक्यान्यप्यनुकूलितानि भवन्तीति ।। पूर्वसिद्धान्तन्यायेनेति ।। इयं च ‘‘प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयत्वोपपत्ते’’रिति सुधोक्तया लब्धा । ‘‘न विलक्षणत्वा’’दित्यत्र केवलयुक्तिविरोधः । अभिमानीत्यत्र तु दृढयुक्तिविरोधो निरस्तः । अत्र तु श्रुतिसंवादेन सुदृढयुक्तिविरोधो निरस्यत इति सोपानारोहणन्यायेनावान्तरसङ्गतिस्स्पष्टेति तदनुक्तिः । तदुक्तं सुधायां ‘‘इह पुनर्वेदवाक्यसंवादेन सुदृढया युक्तया विरुद्धत्वा’’दित्यादि । विषयसंशयटीकां व्यनक्ति ।। अत्र विष्णोरिति ।। कर्तृत्वमिति ।। तन्निर्वाहश्चिंताफलमिति सूचितम् । यतो वेत्यादिश्रुत्युक्तमिति शेषः । लयवृत्तिविश्वप्रागभावो महदादिकार्यहेतुः । अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात् । पटप्रागभाववदिति परिशेषसध्रीचीना भाव कर्तृत्वसाधकयुक्तिविरुद्धमित्यर्थः । यदि श्रुतिः प्रागभावस्य तथात्वपरा तदा तत्संवादेन युक्तेर्बलवत्त्वात्तया प्रागभावस्य कर्तृत्वसिद्धिसम्भवेन श्रौतं कर्तृत्वं विरुद्धम् । यदि त्वन्यपरा तदा तदसंवादियुक्तिमात्रस्य ‘‘यतो वे’’त्यादिश्रुतिविरुद्धतया प्रागभावकर्तृत्वसाधनासामर्थ्येन स्वयं दुष्टतया श्रौतं ब्रह्मकर्तृत्वं न युक्तिविरुद्धमिति स्पष्टमिति भावः । टीकायां प्रागभावकर्तृत्वसाधकयुक्तेरस्फुटत्वात्सुधोक्तमेव तात्पर्यविवरणेनाह ।। अयं भाव इत्यादिना ।। समुदायाभिप्रायमेकवचनम् । प्रागभावानामनेकत्वात् ।।

घटं प्रतीति ।। एतेन यो यतस्तादृशपूर्ववर्ती स तत्कारणम् । यथा घटप्रागभाव इति सामान्यव्याप्तिरित्युक्तं भवति । दृष्टान्ते साध्यवैकल्यमाशङ्क्याह ।। अन्यथेति ।। सुधायां प्रागभावस्य कारणत्वं तस्यैव परिशेषेण कर्तृत्वं च प्रसाध्य युक्तेः ‘‘सदेवे’’ त्यादिश्रुतिविरोधपरिहाराय प्राबल्यसिद्ध्यर्थं ‘‘असदेवे’’त्यादिश्रुती उक्ते । तत्र हेतुत्वे ‘‘असदेवेद’’मिति श्रुतिः । कर्तृत्वे च ‘‘असदेव सन्मनोऽकुरुते’’ति श्रुतिस्संवादिनीति भावेनाह ।। श्रूयते चेति ।। एतेन टीकायां श्रुत्या पूर्वपक्षो युक्तिमूलतयेति भाव उक्तो भवति । श्रुतावसच्छब्दादभावलाभः प्रागेवोक्त इति भावः । ननु प्रागभावकर्तृत्वमीश्वरकर्तृत्वाप्रतिकूलमित्यादिसुधोक्तशङ्कां हृदि कृत्वा ‘‘स्यादेतदेवं यदीश्वरादीनां प्रलये सत्त्वमेव स्या’’दित्यादिसुधोक्तमेव व्यनक्ति ।। एवं चेति ।। हेतुत्वे सिद्धे सतीत्यर्थः ।। कर्तृत्वमिति ।। परिशेषात्सेत्स्यतीत्यन्वयः । तमेवाह ।। विमता इति ।। परिशेषानुमानेऽनुकूलतर्कमाह ।। लघु चेति ।। ननु विश्वप्रागभावानां प्रतियोगिभेदेनानेकत्वादेकस्येश्वरस्यैव कर्तृत्वमस्त्वित्यत उक्तम् ।। क्लृप्तस्येति ।। ‘‘तथापि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चे’’दिति सुधोक्तशङ्कां हृदि कृत्वाऽऽह ।। प्रागभावान्तर इति ।। अदृष्टं कथं कल्प्यमित्यतः ‘‘अलौकिकार्थस्य यथागमं ग्राह्यत्वा’’दिति सुधोक्तिरुपलक्षणं मत्वाऽऽह ।। दृश्यते चेति ।। चैत्रेण स्थीयत इत्यादौ ‘‘कर्तृकरणयोस्तृतीये’’ति विहितकर्त्रर्थकतृतीया कर्तृत्वाभावेन स्यादित्यर्थः । न तृतीयादियोगित्वमात्रं कर्तृत्वम् । किं त्विच्छादियोगित्वमेव प्रकृतोपयुक्तमित्यत आह ।। अशरीरत्वेऽपीति ।। चेतनत्वेऽपि जीवस्य कर्तृत्वं नास्ति । किं तु ब्रह्मण एव । तद्वदिति भावः । तत्र श्रुतिबलात्तथात्वमुपेयत इत्यत आह ।। तदसदेवेति ।। एतेन टीकायामादिपदेनेयं श्रुतिरुक्तपरिशेषमूलतया ग्राह्येति सूचितम् ।। कर्त्रर्थेति ।। ‘‘लः कर्मणि च भावे चाकर्मकेभ्य’’ इत्यत्र चकारात्कर्तर्यपि लकारविधानादिति भावः ।। मनः प्रतीति ।। ततः प्राङ्मनसोऽभावेन तन्निमित्तेच्छाभावादिति भावः । एतेन ‘‘अलौकिकार्थस्य यथागमं ग्राह्यत्वा’’दिति सुधा विवृता ।

चन्द्रिकाविवृतिः

श्रुत्युपसर्जनप्रागभावकर्तृत्वसाधकयुक्तिविरोध इत्यत्र प्रविष्टानां विशेषणानां कृत्यं दर्शयति ।। ननु समयप्राप्तमित्यादिना ।। तस्य तृतीयेऽपीति ।। युक्तिविरोधपरि-हारात्मकत्वेन प्रथमे सङ्गतावपि श्रुतिविरोधपरिहारात्मकत्वेन तृतीयेऽपि सङ्गतिरस्ति ।। तथा च प्रथमपाद एव निवेशे कारणं नास्तीति भावः ।। नापि युक्त्यादीति ।। आदिशब्देन श्रुतिप्रत्यक्षयोरपि ग्रहणम् । इदं च कर्तृत्वपदव्यावर्त्यस्फोरणमिति ध्येयम् ।। छान्दसेनेति ।। शतृप्रत्ययस्य कर्तर्येव विहितत्वादिति भावः ।। मूलत्वोक्तीति ।। श्रुतेर्युक्तिमूलत्वे प्राधान्यस्यैव प्राप्तेरिति भावः ।। नानारसेनवत् पापकारादिसेनावत् । आभीरसेनावदिति पाठे महाशूद्रसेनावदित्यर्थः ।। सुधानुसारेणैव टीकापूर्वपक्षाभिप्रायमाह ।। विश्वप्रागभावस्तावदिति ।। प्रायकालीनभावस्यैव कर्तृकत्त्वमस्त्वित्यत आह ।। विमता इति ।। नैय्यायिकवेदान्तिस्वमतानुसारेण विरुद्धस्थलानि कर्तृत्त्वविषये दर्शयति ।। अशरीरत्वेऽपीत्यादिना ।। कर्त्रर्थलकारेणेति ।। कर्तृत्त्वोक्तया तदुपयुक्तज्ञानेच्छादिलाभ इति भावः । ननु श्रुत्त्युक्तमपि कथं प्रागभावस्याचेतनत्त्वात्कर्तृत्त्वमङ्गीकर्तव्यमित्यत आह ।। शब्दगम्यो हीति ।। इच्छाद्युपाधीति ।। मनसः पूर्वं इच्छाद्यभावादिति भावः ।