पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु । भूमा मुख्यवायुरेव । ‘‘प्राणो वा आशायाभूया’’निति प्राणशब्देनोपक्रमात् । भूम्नो ब्रह्मत्वं हि द्वेधा भवेत् । प्राणो वायुरेव भूमा तु ब्रह्मेति प्राणभूम्नोर्भेदेन वा प्राणो भूमा च ब्रह्मैवेति तयोरभेदेन वा । नाद्यः । प्राणादुत्तममनुक्त्वा भूम्न आम्नानात् यदि हि नामादिभ्यो वागादिवत्प्राणाद्भूमाऽन्यः स्यात्तदा ‘‘अस्ति भगवो नाम्नो भूय’’ इत्यादिप्रश्नवत् ‘‘वाग्वाव नाम्नो भूयसी’’त्यादिप्रतिवचनवच्च अस्ति भगवः प्राणाद्भूय इति प्रश्नः भूमा वाव प्राणाद्भूयानिति प्रतिवचनं च स्यात् । भूम्नः सर्वोत्तमत्वार्थमेव नामवागादितारतम्यस्य प्रक्रान्तत्वात् । न च यदर्थमन्यत्प्रक्रान्तं तदनुक्तिर्युक्ता । अत एव टीकायां ‘‘तारतम्यमाशावसानमुक्त्वे’’ त्युक्तम् । तदुक्तं न्यायविवरणे ‘‘प्राणो वा आशायाभूयानित्युक्त्वा प्राणाद्भूयसोऽनुक्ति’’रिति । विष्णुसमाख्या तु प्राणोपक्रमाद्दुर्बला ।

न द्वितीयः । ‘‘अत एव प्राण’’ इत्युक्तरीत्या प्राणशब्दस्य ब्रह्मपरत्वसम्भवेऽपीह ‘‘उत्क्रान्तप्राणा’’निति प्राण उत्क्रमणश्रवणात्तस्य च पूर्णे ब्रह्मण्ययोगात् । तदुक्तं भाष्ये ‘‘उत्क्रान्तप्राणानित्यादितल्लिङ्गा’’दिति । वायोर्भूमत्वे तु तद्युक्तम् । न हि देशतः पूर्णत्वं भूमत्वम् । ‘‘वाग्वाव नाम्नो भूयसी । वाग्वाव ऋग्वेदं विज्ञापयति यजुर्वेदं स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते’’ इत्यादिषु वाङ्मनःसङ्कल्पादिवाक्येषु पूर्वत्र सर्वत्र भूयस्त्वस्य गुणज्यैष्ठ्यरूपतया भूमेत्यत्रापि तस्यैव वक्तव्यत्वात् । अत एव टीकायां ‘‘प्राणस्योत्तमत्व’’मित्युत्तमशब्दः । आनन्दमय उक्तमानन्दस्य पूर्णत्वं च न देशतः,किंतु नीलतमत्वविद्वत्तमत्वादिवत्सर्वस्मात्सजातीयादुत्कृष्टत्वम् । अन्यथा ‘‘ते ये शतं मानुषा आनन्दाः, स एको मनुष्यगन्धर्वाणामानन्द’’ इत्याद्ययोगात् । न हि मानुषाद्यानन्देभ्यो मनुष्यगन्धर्वाद्यानन्दा देशतः शतगुणिताः । एवंविधपूर्णानन्दत्वं चाणोरपि वायोर्युक्तमिति युक्तष्टीकोक्त आनन्दमयाक्षेपः ।

न च भूम्नः ‘‘स एवाधस्तात्स उपरिष्टात्स पश्चा’’दिति वाक्यशेषस्थसर्वगतत्वविरोधेनोत्क्रमणं गौणमिति युक्तम् । श्रौतोत्क्रमणविरोधेन अधस्तादुपरिष्टादित्याद्यनेकपदसमभिव्याहाररूपवाक्यगम्यसर्वगतत्वस्यैव गौणत्वात् । ब्रह्मणस्तु सर्वगतत्वं श्रुत्यन्तरादिसिद्धम् । एवं च पूर्णानन्दत्वादिरूपं सिद्धान्ते हेतूकृतं सम्प्रसादादिकं पूर्वपक्षिणा वायौ शङ्क्यत इति न भूम्नो ब्रह्मता ।

न च वाच्यं ‘‘अन्यभावव्यावृत्ते’’रित्यत्र ब्रह्मणो महत्त्वेऽप्यणुत्वं वक्ष्यते । अणुत्वमेव च क्रियावत्त्वे तंत्रम् । न तु महत्त्वाभावविशिष्टम् । न वा महत्त्वाभावः । गौरवादिति । महत्त्वमेवाक्रियत्वे तन्त्रम् । न त्वणुत्वाभावविशिष्टम् । न वाऽणुत्वाभाव इत्यपि सम्भवात् । सर्वत्रप्रसिद्धेत्यत्र तु सर्वगतस्यापि व्योमदृष्टान्तेनैकदेशगतत्वमुक्तम् । न तु सक्रियत्वम् । ‘‘ज्योतिर्दर्शना’’दित्यत्र तु ‘‘स समानः सन्नुभौ लोकावनुसंचरती’’त्युक्तं यत्कर्मवशेनोभयलोकसंचरणं तत्कर्मातीतस्य ब्रह्मणो न युक्तमिति शङ्का । नेदं संचरणं कर्मवशात् । किं तु स्वेच्छयेति परिहारश्च । न तु पूर्णस्य क्रियानुपपत्त्या शङ्कातत्परिहारौ । अत एव तत्र पूर्वपक्षे टीका ‘‘जीवस्य हि कर्मवशादुभयलोकसंचरणं युक्त’’मिति । सिद्धान्तन्यायविवरणं च ‘‘लोकसंचरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्या’’दिति । न च ‘‘शास्त्रदृष्ट्ये’’ति न्यायेनान्तर्यामिगता क्रिया । ‘‘एष म आत्मांऽतर्हृदये ज्यायान्पृथिव्या’’ इत्यादिश्रुत्या तस्यापि सर्वगतत्वात् । यदि च सर्वगतस्यापि क्रिया तदा ‘‘उत्क्रान्तिगत्यागतीना’’मित्यत्र जीवस्य सक्रियत्वेनाणुत्वोक्तिरयुक्ता स्यादिति ।

प्रकाशिका

प्राणभूम्नोर्भेदपक्षेऽभेदपक्षे चानुक्तिरुत्क्रमणलिङ्गं च क्रमेण पूर्वपक्षप्रापके इति भावेन ‘‘मुख्यप्राणोऽयं भूमेति पूर्वपक्ष’’ इत्यादिटीकां विवृण्वन्पूर्वपक्षयति ।। पूर्वपक्षस्त्विति ।। नामेत्यारभ्याभिधायेत्यन्तटीकायास्तात्पर्योक्तिराशाया भूयानिति । ‘‘प्राणशब्देनोपक्रमा’’दिति टीकायामेवमनुक्त्वाऽन्यथोक्तेरुपयोगोऽग्रे स्पष्टः । ‘‘तदुत्तममनुक्त्वा भूम्न आम्नातत्वा’’दिति टीका प्राणभूम्नोर्भेदपक्ष एव योज्येति भावेन विकल्पयति ।। भूम्न इति ।। ‘‘तदुत्तम’’ मित्यादिटीकां योजयति ।। नाद्य इत्यादिना ।। ननु प्राणाद्भूयसोऽनुक्तिर्न प्राणस्य भूमत्वसाधिका । विद्यमानस्यापि प्राणादुत्तमस्यानुक्तिसम्भवात् । अतोऽप्रयोजको हेतुरित्यत आह ।। भूम्न इति ।। एवं भूयसोऽनुक्तेर्निरवकाशत्वमुपपाद्य टीकारूढं करोति ।। अत एवेति ।। भूम्नस्सर्वोत्तमत्वार्थं तारतम्यस्य प्रक्रान्तत्वादेवावश्यवक्तव्यत्वस्फोरणाय तथोक्तमित्यर्थः । भाष्येऽप्रतीतावपि टीकायामेवमुक्तेर्मूलमाह ।। तदुक्तमिति ।। ‘‘न च विष्णोरपि भूमत्वस्ये’’त्यादिटीकार्थमाह ।। विष्णुसमाख्या त्विति ।। ननु समाख्यापि साभ्यासत्वादिना प्रबलेति चेन्न । निरवकाशानुक्तिसाहित्येन प्राणोपक्रमस्य ततोऽपि प्राबल्यमित्याशयात् ।

ननु ‘‘प्राणो वा आशाया भूयानित्युक्तप्राणस्य अत एव प्राण इत्युक्तरीत्या विष्णुपरत्वा’’ दित्यादिटीकां व्याचष्टे ।। न द्वितीय इत्यादिना ।। इहेति ।। विषयवाक्ये ।। उत्क्रमणश्रवणादिति ।। तथा च तत्रेवात्र निरवकाशविष्णुलिङ्गाभावात्प्रत्युत विपरीतलिङ्गभावान्न तन्न्यायविषयत्वमस्येति भावः । पूर्णे देशादितो व्याप्ते देहादुत्क्रमणायोगादित्यर्थः । भाष्यं तद्व्याख्यानं चोक्तदिशा द्वितीयपक्षनिरासपरमिति भावेनाह ।। तदुक्तमिति ।। ननु ‘‘उत्क्रान्तिगत्यागतीना’’मित्यादौ वक्ष्यमाणदिशा वायोरप्यणुत्वात्कथं तस्य भूमत्वं पूर्णसुखत्वं वा स्यादित्यतः ‘‘तस्य च वायावेव सम्भवा’’दिति टीकां विवृण्वन्नाह ।। वायोरिति ।। ‘‘वाग्वाव ऋग्वेद’’मित्यादि गुणकथनम् । ‘‘स यदा मनसे’’ति मनःप्रकरणगतवाक्यम् । नन्वत्र भूम्नस्स एवाधस्तादित्यादिना सर्वगतत्वेन श्रुतस्य वायुत्वे वायोरपि सर्वगतत्वापत्त्या ब्रह्मणीव वायावप्युत्क्रमणमयुक्तम् । तत्रोपचरितं चेद्ब्रह्मण्यपि तथोपेत्य भूमत्वमुच्यतामिति भावेनाशङ्क्य निराह ।। न च भूम्न इति ।। गौणमिति ।। मनोगतमेवात्र भातीत्यर्थः ।। श्रौतेति ।। उत्क्रान्तेति पदश्रुत्या प्रतीतेत्यर्थः । ब्रह्मणोऽप्यत्रोक्तं सर्वगतत्वं सङ्कुचितमुपेत्योत्क्रमणं च मुख्यमङ्गीकृत्य भूमत्वमुच्यतामित्यत आह ।। ब्रह्मणस्त्विति ।। ‘‘सर्वगतं सुसूक्ष्मं अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’’ इत्यादिश्रुत्यन्तर इत्यर्थः । एतेन ‘‘सर्वगते हरावसम्भवा’’दिति टीका विवृता । नन्वथापि तत्सुखमित्युक्तपूर्णसुखत्वाध्युपदेशादिना भूमा विष्णुः किं न स्यादित्यत आह ।। एवं चेति ।। अधिकरणान्तरन्यायैरेवोत्क्रमणस्यापि भगवति सिद्धेर्न तेनेह पूर्वपक्षोदय इति भावेनाशङ्क्य निराह ।। न चेत्यादिना ।। इत्यत्रेति ।। उत्तराधिकरणगुणसूत्र इत्यर्थः । न त्विति ।। येन ब्रह्मणि महत्त्वस्यापि भावात्क्रियावत्त्वं न स्यादिति वाक्यशेषः ।। गौरवादितीति ।। न च वाच्यमिति पूर्वेणान्वयः । अभावघटितत्वादिति भावः ।। इत्यपि सम्भवादिति ।। तथा च ब्रह्मणि सत्यप्यणुत्वेन तेनोत्क्रमणादिक्रियावत्त्वसिद्धिः । महत्त्वस्याक्रियत्व प्रयोजकस्याकाशादाविव भावादिति भावः ।। उक्तमिति ।। ‘‘अर्भकौकस्त्वा’’दित्यादिगुणसूत्रेणेत्यर्थः ।। ज्योतिरिति ।। अत्र सिद्धक्रियावत्त्वमुपेत्यैव विशेषशङ्कया तत्प्रवृत्तमित्यर्थः । पूर्णस्य देशतो व्याप्तस्य ।। अन्तर्यामिगता क्रियेति ।। प्राणसंवादादिलिङ्गवदिति भावः ।।

तस्यापि सर्वगतत्वादिति ।। ‘‘तत्प्राण उत्क्रान्तेऽपद्यते’’त्यादिप्राणोत्क्रमणादि त्वत्रत्यन्यायेनान्तर्यामिगतत्वेन तत्राभिमतम् । न तु तत्रैव तत्सिद्धमिति भावः । एतेन ‘‘सर्वगते हरावसम्भवा’’दिति टीकावाक्यं अणुत्ववत्यपि हरौ सर्वगतेऽसम्भवादिति व्योमवदेकदेशगतेऽपि हरौ सर्वगतेऽसम्भवादिति अन्तर्यामिण्यपि सर्वगते हरावसम्भवादित्यादि रूपेण व्याख्यातं भवति ।। उत्क्रान्तीति ।। द्वितीयस्य तृतीयपादे ‘‘उत्क्रान्तिगत्यागतीना’’मित्यत्र जीवः किं व्याप्तोऽणुर्वेति सन्देहे ‘‘व्याप्ता ह्यात्मान’’ इति श्रुतेर्व्याप्त इति प्राप्ते ‘‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छती’’त्युत्क्रमणगमनागमनरूपक्रियादर्शनाद्व्याप्तस्य तदयोगादणुरेव । व्याप्तत्वश्रुतेः परमात्मविषयत्वमिति वक्ष्यमाणत्वात्तद्विरोधस्स्यादित्यर्थः ।

पाण्डुरङ्गि

उत्क्रमणानुक्तयोरेकत्राऽसम्भवात्पक्षभेदेन व्यवस्थापनायाह ।। भूम्नो ब्रह्मत्वं हि द्वेधा भवेदित्यादिना ।। प्राणभूम्नोरभेदपक्ष इत्यादिनैतद्विवेकं स्वयमेव करिष्यति । ननु सर्वगतत्वेन ब्रह्मण उत्क्रमणायोगेन तस्य भूमत्वानङ्गीकारे वायोरेव सर्वगतत्वापत्त्योत्क्रमणानुपपत्तिरित्यत आह ।। वायोरिति ।। ननु वायोरणुत्वेन तस्यैवानन्दमयत्वमिति टीकोक्ताक्षेपानुपपत्तिः । आनन्दमय उक्तस्य देशतः पूर्णत्वस्याणौ वायावसम्भवादित्यत आह ।। आनन्दमय इति ।।