टीकायां तत्फलतयेति पाठः साधुः
स्वरीत्या अथशब्दस्य अधिकारानन्तर्यार्थत्ववर्णनम्
तात्पर्यचन्द्रिका
टीकायां तत्फलतयेति पाठः साधुः । न तु तत्परतयेति । विघ्नोत्सारणासाधारण-कारणरूपस्य विष्णुस्मरणाथशब्दोच्चारणादेर्मङ्गलस्याशब्दार्थत्वेन तत्परत्वायोगात् । प्रशस्तरूपमङ्गलात्मकस्य ब्रह्मणोऽथशब्दावयवाकारार्थत्वेऽपि तस्येहाप्रस्तुतत्वात् । ‘‘तस्याभिधेयमर्थमाह’’ इत्युत्तरग्रन्थाननुगुणत्वात् । ‘‘मङ्गलप्रयोजनक’’ इति सुधाग्रन्थविरोधाच्च । ‘‘मङ्गलोक्त्यादेः’’ इति टीकाया अपि विघ्ननिवर्तक-शब्दोच्चारणादेरित्येवार्थः । अन्यथा ‘‘शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिक-त्वात्’’ इति सुधाविरोधात् । तत्परतयेति पाठेऽप्ययमेवार्थोऽनुसन्धेयः । एवं च ‘अथशब्दो मङ्गलार्थः’ इति भाष्यस्य, अथशब्दो विघ्नोत्सारणासाधारणकारणा-त्मकानुष्ठेयविष्णुस्मरणाथशब्दोच्चारणरूपमङ्गलप्रयोजनकः, प्रशस्तरूपाननुष्ठेय-रूपविष्ण्वभिधायकश्चेत्यर्थद्वयं द्रष्टव्यम् ।
द्वितीयमाक्षिपतीति ।। अवश्यवक्तव्यार्थत्वार्थाधिक्ययोस्तदभावयोश्च लोके शब्दान्तरेषु दर्शनादथशब्दे तत्सन्देहेन प्रश्नमात्रमाद्यतृतीययोः । द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दे तदाक्षेप इति भावः ।
कथंशब्दमाक्षेपपरतया व्याख्याय प्रश्नपरतयापि व्याचष्टे ।। तृतीयेऽपि पृच्छतीति ।। इति न्याय इति ।। सामान्यव्याप्तिरेवानुसन्धेया । यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात् । न तु यः शब्द इति विशेषव्याप्तिः । दृष्टान्ताभावादिति भावः । अत इत्यस्यातःशब्दपरत्वं, हेतुपरत्वम्, असकृदावृत्तिं ‘तृतीयः, उदाहृत’ इत्यनयोरावृत्तिं प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चाभिप्रेत्य व्याचष्टे ।। अतश्च तृतीयतयेति ।। महतश्चतुर्मुखादिति ।। महत्तत्वाभिमानिनश्चतुर्मुखादित्यर्थः ।।
अयं वै लोकः प्रथमा महानाम्नीति ।। ‘‘विदामघवन्’’ इत्यादिका ऋक् पृथिवीलोकस्थविष्णुवाचिकेत्यर्थः ।। अरुच्येति ।। सच्छूद्रस्य देहान्तरे वैदिकब्रह्मविद्याधिकारेऽपि नैतद्देहेऽधिकारः । देहान्तरेऽधिकारश्च नेदानीं प्रवृत्त्युप-योगीत्यरुच्येत्यर्थः । अध्ययनबललब्धाऽपीति ।। ‘‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यत’’ इत्यादेरित्यर्थः ।। अन्याय्याध्ययनेति ।। अभक्तानधिकारि-कृतत्वमन्यायत्वम् । भक्तिपूर्वकाध्ययन(वत्त्व)मिति ।। शमादिकमप्यत्र विवक्षितम् ।। उत्तरोक्ताप्राचुर्येणेति ।। पूर्वपूर्वस्मिन्निति शेषः । ततश्चायमर्थः समानाधि-करणानां वेदाध्ययनशमादिविष्णुपादैकसंश्रयत्वादीनां मध्ये यस्य शमादिविष्णु-पादैकसंश्रयत्वादिके अप्रचुरे अध्ययनं तु प्रचुरं सोऽधमः । यस्य विष्णुपादैकसंश्रय-त्वादिकमेवाप्रचुरमध्ययनशमादिके तु प्रचुरे स मध्यमः । यस्य तु विष्णुपादैक-संश्रयत्वादिकं प्रचुरमध्ययनशमादिके त्वप्रचुरे स उत्तम इति ।। यतो नारायण-प्रसादमृते न मोक्ष इत्यादि ।।
प्रकाशिका
एवमथशब्दार्थं समर्थ्य ‘‘यतो नारायणप्रसादमृते न मोक्ष’’ इत्यन्ताथशब्दार्थप्रपञ्चनपरभाष्यटीकाक्षराणि दुर्घटार्थानि योजयति ।। टीकायामिति ।। तत्परतयेति क्वाचित्कपाठस्य लेखकदोषत्वं मन्वान आह ।। तत्फलतयेति ।। योगरूढि-गौणलक्षणाभेदभिन्नमुख्यामुख्यवृत्तिव्यतिरेकेण तात्पर्यवृत्त्यभावस्य कर्मनिर्णयादौ समर्थितत्वेन शब्दवृत्तिविषयस्यैव तात्पर्यवृत्तिविषयतया मङ्गलस्य पूर्वोक्तरीत्या शब्दार्थत्वाभावेनाथशब्दस्य तत्परताऽसम्भवादित्यर्थः ।
ननु ‘‘अकारः परब्रह्माभिधायकः’’ इति भाष्योदाहृतस्मृतेरकारस्य विष्णुवाचित्वा-त्तस्य च ‘‘मङ्गलानां च मङ्गल’’ इति स्मृत्या परममङ्गलरूपत्वात्तत्परतयेति पाठ उपपद्यत इत्यत आह ।। प्रशस्तेति ।। नन्वेवं सिसृक्षोरिति भाष्यावतारिकायां मङ्गलोक्त्यादे-रित्ययुक्तम् । तत्र मङ्गलस्योक्तिरभिधानं तस्य शब्दान्तरेणापि सम्भवादित्यर्थप्रतीतेरित्यत आह ।। मङ्गलोक्त्यादेरिति ।। इति पाठेऽपीति ।। तत् मङ्गलं परं मुख्यं फलं यस्य तत्त्वेनेत्यर्थ उक्तो भवति । भाष्ये उदाहरिष्यमाणप्रमाणानुसारान्मङ्गलार्थ इति भाष्यं द्वेधा व्याचष्टे ।। एवं चेति ।। मङ्गलस्य फलत्वे सतीत्यर्थः ।। अनुष्ठेयेति ।। अथशब्देन जायमानविष्णुस्मृत्यादेः कृतिसाध्यत्वादिति भावः ।। अननुष्ठेयेति ।। विष्णोरकृति-साध्यत्वादिति भावः । विष्णुवाचित्वोक्तिश्च मङ्गलफलकत्वोपपादनायेति ध्येयम् ।
उक्तं च तत्वप्रदीपे ‘‘अथशब्दः श्रवणकीर्तनाभ्यां मङ्गलफलः । विष्णोः परम-मङ्गलस्य वाचकत्वेनातिप्रियत्वात्’’ इति । एतेन क्वचित्तत्परतयेति पाठस्य मङ्गल-रूपविष्णुपरतयेति अर्थः क्वचित्तत्फलतयेति पाठस्य मङ्गलफलकतयेत्यर्थ उक्तो भवतीति केचिदाहुः । एतेन यत्तु केनचिदुक्तं भाष्ये ‘‘मङ्गलार्थोऽधिकारानन्तर्यार्थश्च’’ इति चशब्दोऽनुपपन्नः । तुल्यार्थे हि समुच्चयः । यथा गोशब्दः सास्नावदर्थो जलार्थश्चेति । न चेह मङ्गलं वाच्यम् । येन चकारोपपत्तिः । मङ्गलफलक आनन्तर्यवाचक इत्येतावत एव सामञ्जस्यादिति तन्निरस्तम् । मङ्गलरूपविष्ण्वर्थकत्वस्यापि वर्णनात् । सकृत् श्रुतस्याप्यथशब्दस्य तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणेनार्थद्वयोपपत्तेः । न केवलं मङ्गलफलकः किं त्वानन्तर्यवाचकश्चेति चशब्दोपपत्तेश्चेति । आद्यतृतीययोराक्षि-पतीत्यनुक्त्वा द्वितीये तथोक्तौ को हेतुरत आह ।। अवश्येति ।। ‘‘कथमुत्तमता’’ इति भाष्यस्थ कथंशब्दस्याक्षेपार्थत्वेन व्याख्यानात् ‘‘तृतीये पृच्छति’’ इति कस्यार्थ इति न ज्ञायते अत आह ।। कथंशब्दमिति ।। ‘‘सिसृक्षोः’’ इति भाष्यव्याख्यानावसरे ‘‘यत्स्वजातौ प्रथमं हरेर्निस्सरति तत्तत्रोत्तममिति न्यायोऽनुसन्धेयः’’ इत्युक्तम् । तत्रैवमेव व्याप्त्यनुसन्धानविधानेऽभिप्रायमाह ।। इति न्याय इतीति ।। ‘‘तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः’’ इति भाष्येऽतश्च तृतीयोऽपि प्राथमिक इति टीकोक्ताशेषार्था-प्रतीतेराह ।। अत इत्यस्येति ।। यद्यप्यत इत्यस्यातःशब्दपरत्वं हेतुपरत्वं चेति सकृदावृत्तिरेव भाति तथापि यतस्तृतीयतयोदाहृत इत्यत्र, उत्तम इत्यत्र च विशेष्या-काङ्क्षायामतश्शब्दपरस्यात इत्यस्यान्वयादसकृदावृत्तिमित्युक्तम् ।। वचनेति ।। एक-वचनान्तत्वेनेत्यर्थः ।
महतो महत्त्वगुणयुक्तादिति भ्रान्तिं निरस्यति ।। महत्तत्वेति ।। यद्यपि ‘‘आन्महतः समानाधिकरणजातीययोः’’ इति स्मृतेर्महातत्वेति वाच्यं तथापि प्रमेयदीपिकायां ‘‘महत आदिति स्थानिनः पूर्वमुद्देशे कार्ये आन्महत इति निर्देशाद्वा, जातीयसमानाधिकरणयो-रित्यल्पाच्तरस्य पूर्वमुद्देशे कार्ये व्यत्यासेन निर्देशाद्वा ज्ञापकादात्त्वमनित्यम्’’ इत्युक्ततया वा, द्वितीये चक्षिङः ख्याञ् इत्यत्र सञ्ज्ञाच्छन्दसोर्बहुलमिति वचनाद्वा महत्तत्वेति साधु । तथैव सुधोक्तेः । वाच्यवाचकभावस्य स्फुटमप्रतीतेराह ।। विदामघवन्नित्यादिकेति ।। परमैश्वर्यादिसम्पन्नमहार्थप्रतिपादकत्वेन महच्छब्दितेन्द्रादिनामास्यामस्तीति महानाम्नी संज्ञिता विदामघवन्नित्यादिका ऋक्, अयं लोकशब्दाभ्यामभिधीयमानविष्णुवाचिकेति भावेन ‘‘अयं वै लोकः प्रथमा महानाम्नी’’ इत्यादिब्राह्मणं प्रवृत्तमित्यर्थः । सच्छूद्रस्य मोक्षहेतुज्ञानावश्यंभावेन ब्रह्मविद्याधिकारित्वात्कथमरुचिरित्यत आह ।। सच्छूद्रस्येति ।। देहान्तरे विप्रदेहे । कथमध्ययनेन विष्णुभक्तेर्लाभ इत्यत आह ।। अवैष्णवस्येति ।। भक्तिपूर्वकाध्ययनमुपलक्षणमित्याह ।। शमादिकमिति ।। आकाङ्क्षितं पूरयति ।। पूर्वपूर्वस्मिन्निति ।। निष्कर्षति ।। ततश्चेति ।।
चन्द्रिकाबिन्दु
विष्णुस्मरणाथशब्देति । एतच्चानुष्ठेयं मङ्गलम् । अशब्दार्थ-त्वादिति ।। शब्दार्थत्वाभावादित्यर्थः । प्रशस्तरूपेति ।। ब्रह्मणो मङ्गलत्वं प्रशस्तरूपत्वेन न तु विघ्नोत्सारणसाधारणकारणत्वेन । तस्यासाधारणकारणत्वादिति भावः । अप्रस्तुत-त्वादिति ।। मङ्गलमाचरतीति मङ्गलाचरणस्य कर्तव्यत्वादिना अनुष्ठेयमङ्गलस्यैव प्रस्तुत-त्वेन प्रशस्तब्रह्मलक्षणमङ्गलस्य टीकायामविवक्षितत्वादित्यर्थः । भाष्यस्यार्थद्वयमभिप्रेत्याह ।। एवं चेति ।। ‘‘मङ्गलार्थः’’ इत्यत्रार्थशब्दः प्रयोजनाभिधेयवाचक इति भावः । विष्ण्वभिधायकश्चेति ।।
ननु पूर्वं ‘‘प्रशस्तरूपब्रह्मणः’’ इत्यादिग्रन्थे अप्रस्तुतत्वयुक्त्या विष्ण्वर्थकत्वं अकारस्य नाङ्गीकर्तव्यमित्युक्तमिति चेत्, अत्र स्वामिनः, टीकानुसारेण अनुष्ठेयमङ्गलस्य प्रस्तुतत्वात्तद्व्यतिरिक्तमङ्गलस्य टीकायामप्रस्तुतत्वादित्युक्तम् । इदानीं तु यथाश्रुतभाष्यानुसारेण अकारस्य विष्णुरूपमङ्गलाभिधायकत्वेऽपि न विरोधः । अत एवात्राननुष्ठेयत्वं मङ्गलविशेषणं दत्तमित्याहुः ।
ननु टीकाकारेण कृतं विष्णुवाचकत्वमकारस्याङ्गीकृत्य तत्स्मरणलक्षणमङ्गलपरतया व्याख्यानं स्वयं किमिति करोतीति चेत्, अत्र स्वामिनः– ‘अकारस्सर्ववागात्मा’ इत्यादिभाष्योदाहृतप्रमाणेनाथशब्दस्यावश्यवक्तव्यार्थत्वप्रतिपादनपरेण विष्णुस्मरणलक्षण-मङ्गलाभिप्रायेण अकाराद्यर्थकथनात् । अन्यथा तत्कथनवैय्यर्थ्यात् । अथशब्द-स्योच्चारणादितो मङ्गलत्वं वदतापि टीकाकारेण अस्य विष्ण्वाद्यर्थकत्वमकारादेरङ्गी-कृतमेव । अन्यथा तदुच्चारणस्य मङ्गलत्वं न वदेदित्याहुः ।
सच्छूद्रस्येति ।। देहविशेषावच्छिन्नाधिकारस्य प्रवृत्त्युपयुक्तस्य लक्ष्यत्वमिति भावः । अभक्तानधिकारीति ।। अत्राध्ययनं नाम भक्तिशमदमत्रिवर्णत्ववत्कृतगुरूच्चारणा-नूच्चारणमेव । ‘‘अध्ययनबललब्धापि विष्णुभक्तिः’’ इत्यत्र भक्तिरित्युपलक्षणं, शमदमादिकमपि ग्राह्यमेव । एवं चान्यायाध्ययनलक्षणे तत्प्रति अभक्तानधिकारि-विशेषणम् । अनधिकारित्वं शमादित्रिवर्णत्वरहितत्वमिति भावः । उत्तरोक्ताप्राचुर्ये-णेत्यस्य, उत्तरं च उक्तं च, तयोरप्राचुर्येणेत्यर्थः । तथा च अधमे उत्तरयोः शमादि-विष्णुपादैकसंश्रयत्वयोरप्राचुर्यं, मध्यमे उत्तरस्य विष्णुपादैकसंश्रयत्वस्य अप्राचुर्यं, अध्ययनशमयोस्तु प्राचुर्यम् । उत्तमे उत्तरयोः पूर्वोक्तयोः अध्ययनशमयोरप्राचुर्यं विष्णुपादैकसंश्रयत्वस्य प्राचुर्यमित्यभिप्रेत्याह समानाधिकरणानामिति ।। भावबोधे तु प्रकारान्तरेणार्थद्वयमुक्तम् । उत्तरोक्तपदमनन्तरोक्तपदमध्याहृतपदोक्तमपि अनन्तरोक्तत्वा-दुत्तरोक्तमित्याहुः । विष्णुपादैकसंश्रयत्वादीति ।। आदिपदेन वैराग्यं ग्राह्यम् ।
पाण्डुरङ्गि
अशब्दार्थत्वेनेति ।। अथेत्युक्ते अथशब्दोच्चारणत्वप्रकारकस्य विष्णुस्मरणत्वप्रकारकस्य बोधस्याजननेन तस्याथशब्दवाच्यत्वाभावेनेत्यर्थः ।। अकारेति ।। ‘‘अ इति ब्रह्म’’ इति श्रुतिमभिप्रेत्यैतदुक्तमिति न ‘‘तथौ प्राणात्मकौ प्रोक्तौ’’ इत्यादिविरोधः । तस्य प्रशस्तरूपमङ्गलात्मकस्य विष्णोः । इह ग्रन्थे । विघ्नोत्सारणा-साधारणकारणत्वस्य ग्रन्थारम्भे प्रस्तुतत्वेन प्रशस्तरूपमङ्गलात्मकस्याप्रस्तुतत्वादित्यर्थः । ननु साधारणस्यापि विष्णोर्मङ्गलादिनिष्ठस्य विघ्नोत्सारणासाधारणकारणत्वस्यापि सत्त्वा-त्कथं तस्याप्रस्तुतत्वम् । तथा च तत्परतयेति पाठोऽपि युक्त एवेत्यत आह ।। तस्याभि-धेयमिति ।। न तावतापि तस्याभिधेयत्वनिषेधः । विशेषविधेः शेषनिषेधनान्तरीयकत्वं च विष्णावेवाथशब्दार्थत्वप्रतिपादक ‘अः’ इत्यादि श्रुतिविरोधादयुक्तमित्यत आह ।। मङ्गलप्रयोजनक इतीति ।। ननु तत्परतयेति पाठः साधुः । टीकायामेवोत्तरत्राथशब्दस्य मङ्गलप्रतिपादकताया वक्ष्यमाणत्वादित्यत आह ।। मङ्गलोक्त्यादेरिति टीकाया अपीति ।। नन्वेवं तत्परतयेत्यपि मूलकोशेषु पाठो दृश्यते तस्य का गतिरित्यत आह ।। तत्परतयेति पाठेऽपीति ।। अयमेवेति ।। परशब्द उद्देश्यपर इति भावः ।
नन्वेवं भाष्ये उत्तरत्र ब्रह्मणोऽथशब्दार्थत्वस्य वक्ष्यमाणत्वात्तद्विरोध इत्यतः सुधादे-रनुष्ठेयमङ्गलाभिप्रायकत्वात् भाष्यस्य चाननुष्ठेयमङ्गलपरत्वात् न विरोध इति भावेनाह ।। एवं चेति ।। सुधायां तु प्रसिद्धलौकिकमङ्गलस्यैवाथशब्दवाच्यत्वमभिप्रेतमिति भावः । एवं च ‘‘तथौ प्राणात्मकौ प्रोक्तौ’’ इत्यादि प्रमाणार्थस्यापि ‘‘अथशब्दो मङ्गलार्थः’’ इति भाष्येण, ‘‘परस्य ब्रह्मणो विष्णोः प्रसादात्’’ इति प्रमाणार्थस्यापि ‘‘अतःशब्दो हेत्वर्थः’’ इति भाष्येण सङ्ग्रह इत्यप्युक्तं भवति । शब्दान्तरस्य स्वरूपोत्तमत्वादर्शना-दित्युक्त्या अवश्यवक्तव्यार्थत्वार्थाधिक्ययोर्दर्शनादिति सूचितं तत्स्पष्टयति ।। अवश्य-वक्तव्यार्थत्वेति ।। अयं भावः । प्रश्नस्य सन्देहमूलत्वेन सन्देहस्य च कोटिद्वय-प्रसिध्द्यादिमूलकत्वेन शब्दान्तरेऽवश्यवक्तव्यार्थत्वार्थाधिक्ययोस्तदभावयोश्च दर्शनेन कोटिप्रसिद्धिसत्वेन तन्मूलकसन्देहसम्भवेन तन्मूलकप्रश्नसम्भवेऽपि स्वरूपोत्तमत्वतद-भावयोरदृष्टत्वेन कोट्यप्रसिध्द्या सन्देहासम्भवेन तन्मूलकप्रश्नस्यासम्भवेन द्वितीये आक्षेपः, प्रथमतृतीययोः प्रश्नमात्रमिति । मूले कथमित्यस्यैकस्यैव शब्दस्य श्रवणात्तस्य च द्वितीयमाक्षिपतीत्यादिनाऽवतारितत्वात् तृतीये पृच्छतीत्यवतार्यं न प्रतीयते । न च तदेव पुनरपि व्याख्यायत इति वाच्यम् । व्याख्यानान्तरज्ञापकाथशब्दादेरभावादित्यत-स्तदुपपादयति ।। कथंशब्दमिति ।।
ननु ‘‘यत्स्वजातौ प्रथमं निस्सरति तत्तत्रोत्तमम्’ इति सामान्यव्याप्तिरेवानुसन्धेयेति टीकायामुक्तम् । तत्कुतः । विशेषव्याप्तेरेव सम्भवात् । न च विशेषव्याप्तौ दृष्टान्ताभावः । आगमगम्यव्याप्तौ दृष्टान्तानपेक्षणात् । सामान्यव्याप्त्यभिधावपि तदभावाच्चेत्यतस्तद्वाक्यं व्याचष्टे ।। सामान्यव्याप्तिरेवेति ।। महत्तत्वाभिमानिन इति ।। न चात्र महच्छब्दः पूज्यत्वार्थकः किं न स्यादिति वाच्यम् । तत्वप्रकरणविरोधात् । तत्वोत्पत्त्य-सिद्ध्यापाताच्चेति भावः ।। नैतद्देह इति ।। अनेन प्रायिकत्वादित्यत्राधिकारस्येति शेष उक्तो भवति । उत्तरोक्तस्य शमादेरुत्तरस्मिन्मध्यमादौ प्राचुर्यसत्त्वादाह ।। पूर्वपूर्व-स्मिन्निति ।। अधमनिष्ठाध्ययनापेक्षया मध्यमादावध्ययनादेः प्राचुर्यात्कथं तस्य तत्रा-प्राचुर्यमित्यत आह ।। ततश्चेति ।। एतेन पूर्वस्मिन्नधमे उत्तरोक्तयोः पूर्वस्मिन्मध्यमे उत्तरोक्तस्योत्तरस्मिन्नुत्तमे चोक्तयोः पूर्वोक्तयोः अप्राचुर्यमिति उत्तरोक्तात् पूर्वोक्त-योरप्राचुर्यमिति वा तन्त्रेण योजनोक्ता भवति । अत्रोत्तरोक्तेति ग्रन्थस्वारस्येनास्यार्थ-स्याभिधानादधमोत्तमयोस्तत्रोक्तमात्रप्राचुर्येऽपि सङ्गृहीताद्यप्राचुर्येण, मध्यमे तु सङ्गृहीतो-क्तयोः प्राचुर्येणानुत्कृष्टस्याप्राचुर्येण वचनमुपपन्नमिति द्रष्टव्यम् । एवमथशब्दस्य परोक्तार्थनिरासेन भाष्यकृदुक्तोऽर्थः साधितः ।