यद्वैकस्यानेकत्वमपि तत्र सिद्धान्ते व्युत्पाद्यम्

सूत्रक्रमयोजनानिरूपणम्

तात्पर्यचन्द्रिका

यद्वैकस्यानेकत्वमपि तत्र सिद्धान्ते व्युत्पाद्यम् । अत एव तत्र ‘‘बहुरूपत्वादधिकरणत्वाधेयत्वादि तस्यैव युज्यत’’ इति न्यायविवरणेऽनेकत्वसङ्ख्योक्त्यर्थ आदिशब्दः । अत्र तु कर्मबन्धरहितस्यापि भोक्तृत्वमात्रमिति भेदः । तत्राद्यपक्षे न सङ्ख्येति सूत्रे सङ्ख्योपसंग्रहशब्दोक्तैकस्यानेकत्वानुपपत्तिः पूर्वपक्षेऽभ्युच्चययुक्तिः । अपि शब्दोक्ताधाराधेयभावानुपपत्तिस्तु मूलयुक्तिः । द्वितीयपक्षे तु गुहां प्रविष्टाविति सूत्रे आत्मानौ हीति द्विवचनेनात्मान्तरात्माख्यरूपद्वयोक्तिः सिद्धान्तेऽभ्युच्चययुक्तिः । आदेयं मातीति व्युत्पत्त्याऽऽत्मशब्दोक्तं शुभभोक्तृत्वं मूलयुक्तिः । यद्वा अत्र भोक्तृत्ववदनेकत्वे व्युत्पादितेऽपि न तत्र केवलमाधाराधेयभावानुपपत्तिशङ्का । किन्तु द्वित्वयुक्तस्यास्तु ब्रह्मत्वं गुहाप्रविष्टत्वादिलिङ्गात् । पञ्चत्वयुक्ते तु न ब्रह्मलिङ्गाद्यस्तीत्येकस्यानेकत्वानुपपत्तिरूपसामान्यन्यायस्यानपवाद इति शङ्का ‘‘प्राणस्य प्राण’’मित्यादिब्रह्मलिङ्गानि सन्तीत्यादि समाधानं चेत्याद्यूह्यम् । ‘‘नाणुरतच्छते’’रित्यत्र तु ‘‘व्याप्ता ह्यात्मानश्चेतना’’ इति वाक्ये ब्रह्मलिङ्गाभावादनपोदितेन बहुत्वेन जीवस्य प्राप्तत्वाद्व्याप्त्यणुत्वश्रुत्योर्विरोधे शङ्किते ‘‘स आत्मेदं सृजती’’त्यादिपूर्ववाक्ये ब्रह्मलिङ्गसद्भावात् ‘‘तदयं प्राणोऽधितिष्ठती’’त्यत्रैकवचनेन निर्दिष्टे ‘‘आतेन यात’’मिति द्विवचनवदत्रापि ‘‘स आत्मे’’त्येकवचननिर्दिष्टे ‘‘व्याप्ता आत्मान’’ इति बहुवचनम् । ततो न विरोध इति वक्ष्यत इति न तेनापि गतार्थता । सुखदुःखहेतुत्वरूपं गौणं छायातपत्वं प्रतियोगिभेदेनाविरुद्धम् । अत्र च सूत्रे यद्यपि समन्वेतव्यमृतपातृत्वमृतं पिबन्ताविति साक्षादेव वक्तव्यम् । तथापि गुहाप्रविष्टत्वरूपहेतुमपि वक्तुमृतपातृत्वसमानाधिकरणगुहाप्रविष्टत्वोक्तिद्वारा तदुक्तिः । यद्यपि चात्र तत्तु समन्वयादित्यतोऽनुषक्तस्य तच्छब्दस्य पूर्वत्रानन्दमयस्तद्ब्रह्मेत्यादिरूपेणान्वय-वदुत्तरत्राप्यन्तरस्तद्ब्रह्मेत्यादिरूपेणान्वयवच्चात्राप्यन्वयः सिद्धः । तथापि सूत्रे श्रौतद्विवचनस्य गतिं वक्तुमात्मान्तरात्माख्यरूपद्वयवाचिद्विवचनान्तात्मशब्द प्रयोगः । अत्र च विषयवाक्यक्रमात्सूत्रक्रमः ।

प्रकाशिका

ननु तत्र टीकायां न्यायविवरणे च ‘‘आधाराधेयत्वादी’’त्यादि पदास्वारस्यम् । टीकायां बहुत्वानुपपत्त्या पूर्वपक्षकरणं चास्वरसमित्यतस्सर्वस्वारस्यायाह ।। यद्वेति । कथं तर्ह्यपौनरुक्त्यमित्यत आह ।। अत्र त्विति ।। पक्षद्वयेऽप्युभयत्रानेकत्वोक्तेरपौनरुक्त्यं स्पष्टयति ।। तत्राद्येति ।। सङ्ख्योपसंग्रहादपि न विरोध इत्युक्त्या पूर्वपक्षे सङ्ख्यानुपपत्तिरर्थादुक्तेत्यर्थः ।। अभ्युच्चयेति ।। यथा परमते ईक्षतिनये प्रायपाठे निरस्तेऽपीत्यभ्युच्चयत्वेनात एव प्राण इत्यत्र तदुक्तिः । यथा वा सर्वत्रेतिनये स्वमते हेत्वन्तरेण पूर्वपक्षे चक्षुर्मयत्वादेरभ्युच्चयत्वेनोक्तिः । तथैव सुधायामुक्तेः । तथेहापीत्यर्थः । ‘‘प्राणादयो वाक्यशेषा’’दिति तत्रत्यगुणसूत्रव्यावर्त्यपूर्वपक्षानुरोधेन पक्षान्तरमाह ।। यद्वाऽत्र भोक्तृत्ववदिति ।। किं त्वित्यस्यानपवाद इत्यन्वयः । अत एव टीकायां ऋतं पिबन्तावित्यादाविव स्वगतभेद शून्यस्यापि परमात्मनो बहुरूपत्वेन बहुत्वोक्तिः किं न स्यादिति चेन्न । प्रतिशरीरमात्मान्तरात्मेतिवद्बहुत्वे मानाभावा’’दित्युक्तमिति भावः । प्राणादीनां प्राणत्वादिप्रदत्वलिङ्गानीत्यर्थः ।। इत्यादीति ।। आदिपदेनाधाराधेयभावोऽपि रूपभेदाद्युज्यत इति समाधानं गृह्यते ।। इत्याद्यूह्यमिति ।। अत्रैकस्यानेकत्व आत्मान्तरात्मेतिवत्तत्र प्रतिशरीरं बहुत्वे मानं नेति शङ्कायां शरीरान्तर्गताकाशप्राणादिपञ्चजननियामकत्वेन तेषु नानाभावस्य न्यायप्राप्तत्वाद्बहुत्वं सिद्धमिति समाधानमूह्यमित्यर्थः ।

ननु द्वितीयस्य तृतीयपादे ‘‘उत्क्रान्तिगत्यागतीना’’मिति नये जीवः किं व्याप्तोऽथाणुरिति संशये ‘‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्चे’’ति श्रुतेर्बहुवचनावरुद्धाया ईश्वरविषयत्वायोगेन जीवविषयत्वावश्यंभावेन श्रुतिबलाद्व्याप्त इत्याशङ्कातन्निरासयोर्नाणुरतच्छतेरिति चेन्नेतराधिकारादिति गुणसूत्रेण कृतत्वात्तेन पौनरुक्त्यमित्यत आह ।। नाणुरिति ।। अनपोदितेनेति ।। अत एव तत्र टीका ‘‘न चेश्वररूपबाहुल्यार्था । बाधकं विना श्रुतेर्बाधायोगा’’दितीति भावः । ‘‘अणुर्ह्येष आत्मा यं वा एते सिनीतः पुण्यं चापुण्यं चे’’त्यणुत्वश्रुतिर्ज्ञेया । ऐतरेयके ‘‘अथ देवरथ’’ इत्युपक्रम्य ‘‘तदयं प्राणोऽधितिष्ठती’’त्युक्त्वा ‘‘तदुक्तमृषिणा आतेन यातं मनसो जवीयसे’’ति द्विवचनान्तमन्त्र उदाहृतः । एवं द्विवचनं न बाधकमित्युक्त्वा तत्प्रसङ्गप्राप्तपौनरुक्त्यं च व्युदस्तम् । अधुना प्रागुक्तं छायात्वमपि न बाधकम् । तस्या विद्याश्रयत्वरूपत्वाभावात् । किन्तु यथा छाया प्राणिनां सुखहेतुस्तथा विदुषां सुखहेतुत्वादातपवदज्ञानां दुःखहेतुत्वाच्छायातपावित्युच्येते रूपविशेषावित्याशयेन टीकोक्तमेवाह ।। सुखेति ।। ‘‘स छायेव विदुषां प्रभुः । आतपः पापिना’’मिति तद्भाष्योक्तस्मृतेः । परपक्षेऽपि छायातपशब्दयोरविद्याविद्यावद्वाचकत्वाभावादिति भावः । तदुक्तं तत्वप्रदीपे ‘‘अमरासुराणां छायातपरूपाविति योजनायोगादमराणामाह्लादकावसुराणां तापकावित्यर्थ’’ इति । एतेन ‘‘छायातपत्वं चान्यत्र व्याख्यात’’मिति न्यायविवरणटीका विवृता अतो बाधकाभावाद्गुहाविष्टत्वादिसाधकभावात्पिबन्तावीश्वररूपविशेषावेवेति स्थितम् । सूत्राक्षरासामंजस्यमाशंक्याह ।। अत्रेति ।। ऋतं पिबन्तावित्येवोक्तौ न लिङ्गोक्तिस्स्यादिति भावः । यद्यपि ऋतं पिबन्तावित्युक्तौ ऋतपातृत्वद्वित्वरूपपूर्वपक्षयुक्त्योस्सूचनमस्ति तथापि पूर्वपक्षयुक्तितोऽपि सिद्धान्तयुक्तिसूचनस्य ज्यायस्त्वादिति भावः । धर्मिनिर्देशे प्रयोजनमुक्त्वा साध्यनिर्देशस्यापि तदाह ।। यद्यपीति ।। विच्छेदशङ्कानिवृत्त्यर्थमुक्तं पूर्वत्रोत्तरत्रापीति ।। द्विवचनस्य गतिं वक्तुमित्युपलक्षणम् । ‘‘आदेयमुपादेयं सुखं मात्यनुभवती’’त्युत्तरनयसुधोक्तनिर्वचनेन ऋतं पिबन्ताविति प्रातिपदिकार्थोक्तिद्वाराऽनशनश्रुतेर्गतिं वक्तुं चेत्यपि ध्येयम् ।। अत्रेति ।। पूर्वं ऋतं पिबन्ताविति वाक्यम् । उत्तरं तु यस्सेतुरिति वाक्यमिति तत्क्रमात्क्रमः । यद्यपि श्रुतिरूपसाधकोक्तिपरत्वाद्द्वितीयस्य प्राथम्यमुचितं तथापि तस्योत्तरवाक्यगतत्वेन विषयवाक्यगतत्वाभावात्क्रम इति भावः ।

चन्द्रिकाबिन्दुः

न्यायविवरणस्थादिशब्दानुसारेण पक्षान्तरमाह । यद्वेति ।। अभ्यधिकाशङ्कया तत्प्रवृत्तिरिति पक्षान्तरमाह ।। यद्वेति ।। प्रतियोगिभेदेन सज्जनदुर्जनलक्षणप्रतियोगिभेदेन ।। विषयवाक्यक्रमादिति ।। ऋतं पिबन्ताविति प्रथमवाक्यं, यस्सेतुरिति द्वितीयवाक्यम् ।

पाण्डुरङ्गि

नन्वेतदयुक्तम् । तथा सति न सङ्ख्योपसङ्ग्रहादपीति सूत्रोक्ताया एकस्यानेकत्वानुपपत्तिरूपयुक्तेरुक्तिस्तत्र न स्यात् । किं च बहुरूपत्वादधिकरणाधेयत्वादिकमिति न्यायविवरणेऽनेकत्वसङ्ख्योक्त्यर्थादिशब्दानुपपत्तिश्च स्यादित्यस्वरसादाह ।। यद्वेति ।। ननु प्रथमपक्षे न सङ्ख्योपसङ्ग्रहादित्यस्यास्वारस्यमुक्तरीत्या द्वितीये तु गुहां प्रविष्टावित्यस्येत्यत उभयानुसाराय पक्षान्तरमाह ।। यद्वेति ।। छायात्वं ब्रह्मणो न युक्तं जीववदविद्याश्रयत्वाभावादिति पूर्वपक्षोक्तं बाधकं परिहरति ।। सुखेति ।। प्रतियोगिभेदेन विद्वदविद्वद्रूपप्रतियोगिभेदेनेत्यर्थः ।