अन्ये तु

पराभिमताध्यायपादविषयस्य असामन्जस्यप्रदर्शनम्

तात्पर्यचन्द्रिका

अन्ये तु आद्यपादे स्वपक्षस्य साङ्ख्यादिस्मृतिभिस्तदुन्नीततर्कैश्च विरोधपरिहारः । द्वितीये साङ्ख्यादिमतानां दुष्टत्वोक्तिः । तृतीये पूर्वभागे पञ्चमहाभूतश्रुतीनां उत्तरभागे तु जीवश्रुतीनां चतुर्थे लिङ्गशरीरश्रुतीनां परस्परविरोधपरिहार इति पादार्थानाहुः । तन्न । आद्ये तृतीये च पाद एकोपाध्यभावात् । आद्येऽपि ‘‘इतरेषां चानुपलब्धेः । एतेन योगः प्रत्युक्तः । स्वपक्षदोषाच्च । एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः’’ । इत्यादौ परमतानां दुष्टत्वोक्तेस्त्वयापि स्वीकृतत्वाच्च । नन्वाद्ये तेषां दुष्टत्वोक्तिः । स्वपक्षस्य तैर्विरोधनिरासार्थेति चेन्न । द्वितीयेऽपि तदुक्तेस्तदर्थत्वात् । अन्यथा द्वितीयस्याविरोधाध्यायासङ्गतिः स्यात् । किञ्च यथाऽद्यपादस्थे ‘‘दृश्यते त्वि’’ त्यत्र विलक्षणयोरपि ब्रह्मप्रपञ्चयोर्वृश्चिकगोमययोरिव कार्यकारणभाव इत्येतदर्थप्रतिपादके स्वपक्षे तर्कविरोधपरिहारः । तथा द्वितीयेऽपि ‘‘महद्वीर्यवद्वे’’तिसूत्रे ‘‘यथा व्द्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकादि जायते । नाणु नापि ह्रस्वम् । एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्जनीष्यत’’ इति त्वया भाषितत्वेन तत्रापि तर्कविरोधपरिहारोऽस्त्येव । तृतीयस्य पूर्वभागेऽपि ‘‘अन्तरा विज्ञानमनसी’’ इत्यत्र त्वन्मते ‘‘एतस्माज्जायते प्राणो मनः सर्वेंद्रियाणि चे’’ति प्राणमनआदिविषयश्रुत्यविरोधस्याप्युक्तत्वेन न भूतश्रुत्यविरोध एवेति नियमः । ननु ‘‘अन्नमयं हि सोऽम्य मन आपोमयः प्राणस्तेजोमयी वा’’ गितिश्रुतेर्मनआदीनि भूतान्येवेति तद्विचारो भूतविचार एवेति चेत्तर्हि चतुर्थे ‘‘तथा प्राणाः । सप्तगतेर्विशेषितत्वाच्च । अणवश्चे’’ त्यादिबह्वधिकरणैः कृत इन्द्रियविचारोऽपि तृतीयस्य पूर्वभागे स्यात् । चतुर्थेऽपि ‘‘संज्ञामूर्तिक्लृप्ति’’ रित्यत्र ‘‘अनेन जीवेने’’ त्यादिवाक्ये जीवस्य कर्तृता नोच्यते । किन्तु ब्रह्मण इति त्वया सिद्धान्तितत्वान्न लिङ्गशरीरस्यैव विचार इति नियमः । किञ्च तृतीय चतुर्थयोरप्याद्यवत्स्वपक्षविरोधपरिहाररूपत्वादाद्यानन्तर्यं स्यात् । द्वितीयस्य तु परपक्षदूषणरूपत्वादन्त्यता स्यादिति ।।

केचित्तु आद्यपादे स्वपक्षे कारणविषयदोषोद्धरः । द्वितीये परपक्षे कारणविषयदोषक्तिः । तृतीयचतुर्थपादयोस्तु स्वपक्षे कार्यविषयदोषोद्धार इति पादार्थानाहुः । तन्न । आद्यपादेऽपि ‘‘स्वपक्षदोषाच्चे’’ त्यादौ परपक्षे दोषोक्तेः । द्वितीयेऽपि ‘‘उत्पत्त्यसम्भवा’’ दित्यत्र पञ्चरात्राप्रामाण्यरूपस्वपक्षदोषोद्धारस्य त्वयापि स्वीकृतत्वाञ्च । द्वितीये तु ‘‘समवायाभ्युपगमाच्चे’’त्यादिषु बहुसूत्रेषु परपक्षे कारणादन्यत्रापि दोषोक्तेश्च । तृतीयेऽपि ‘‘नात्मा प्रकरणात् ज्ञोत एव उत्क्रान्तिगत्यागतीना’’मित्यादावकार्यभूतजीवविषयकदोषोद्धाराच्च । तृतीयचतुर्थयोर्भेदानुक्तेश्च । परपक्षे कार्यविषयकदोषोक्तयर्थं पादान्तरापाताच्च । तृतीयचतुर्थयोः स्वमतदोषोद्धारकत्वसाम्येनाद्यानन्तर्यापाताच्चेति न परोक्ता पादव्यवस्था युक्ता ।।

प्रकाशिका

‘‘नान्यथा तददृष्टे’’रिति पूर्वाध्यायभाष्यमत्रापि संयोज्य परमतद्वयोक्तार्थदूषणपरतया योज्यमिति भावेन ‘‘स्वपक्षे स्मृतिन्यायविरोधपरिहारः प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं प्रतिवेदांतं च सृष्ट्यादिप्रक्रियाया अविगीतत्व’’मित्याद्यद्वैतिभाष्यं हृदि कृत्वा परमतं तावदनूद्य निराह ।। अन्ये त्विति ।। पञ्चमहाभूतेति ।। ‘‘केचिदाकाशस्योत्पत्तिमामनंति केचिन्न तथा जीवस्य प्राणानां चैव’’मित्यादि तत्रत्यतदीयभाष्यादवगम्यत इति भावः ।। लिङ्गेति ।। प्राणादेर्लिङ्गशरीरात्मकत्वादिति भावः ।। आद्य इति ।। ननु सिद्धान्तेऽप्येष दोषस्तुल्यः । यदाहुः ‘‘आदौ यौक्तस्तत्रापि च स्मृते’’रिति ।। तृतीये च ‘‘जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोधमपाकरोती’’ति चेति चेन्मैवम् । वक्ष्यमाणदिशा ‘‘स्मृत्यनवकाशदोषे’’त्यत्र यौक्ताविरोधस्य सत्त्वात् । तृतीये चाभिधेयबहिर्भावेन श्रुत्यविरोधित्वेनैकीकरणात् । न चैवं परस्यापि सुवचम् । तुरीयसाङ्कर्यापातात् । सिद्धान्तेऽभिधेयबहिर्भावेन श्रुत्यविरोधित्वेनैव तस्यैकीकरणायोगात् । तदन्तर्भावे तूक्तोदोष इति भावः ।।

त्वयापीति ।। एतच्चाग्रे स्पष्टयिष्यते । तथा च द्वितीयसाङ्कर्यमाद्यस्येति भावः । अनेकोदाहरणेन प्रायिकत्वपरिहारोऽपि प्रत्युक्तः ।। तर्केति ।। ब्रह्मजगती नोपादानोपादेयभाववती । चेतनाचेतनत्वादिना विलक्षणत्वादित्यादितर्केत्यर्थः ।। इन्द्रियविचारोऽपीति ।। तेषामपि भौतिकत्वादिति भावः । परस्परसाङ्कर्यान्मतांतरोक्तमपि पादाभिधेयमयुक्तमित्याह ।। केचित्त्विति ।। अधिकरणशरीराणि त्वग्रे व्यक्तानि ।। स्वपक्षेति ।। ‘‘न केवलं ब्रह्मकारणवादस्य निर्दोषतयैवैतत्समाश्रयणीयम् । प्रधानकारणवादस्य दुष्टत्वाच्चे’’त्यादिना त्वद्भाष्ये परपक्षे दोषोत्कीर्तनपरतया व्याख्यातत्वादिति भावः । आदिपदेन ‘‘तर्काप्रतिष्ठाना’’दित्यादिग्रहः । ‘‘कपिलपातंजलतर्काणामन्योन्यव्याघातात्तर्कस्याप्रतिष्ठितत्वा’’ दित्यादेस्त्वया भाषणादिति भावः ।।

चन्द्रिकाविवृतिः

तृतीयचतुर्थपादयोः साङ्कर्यं दर्शयितुमादौ किञ्चित् दूषणमाह ।। तृतीयस्य पूर्वभागेऽपीति ।। ननु प्रायिकत्वाल्लिङ्गशरीरविषयश्रुतिविरोधपरिहारस्य पादव्यवस्थेत्याशङ्क्याह ।। बह्वधिकरणैरिति ।। इन्द्रियादिविचारोऽपि न प्रायिकः । अतो न व्यवस्था । एवमन्यत्रापि पादकृत्यमूह्यम् ।। स्वपक्षे कारणेति ।। कारणं ब्रह्मादि स्वपक्षे कार्यं जगत् ।। कारणादन्यत्रापीति ।। समवायादिनिराकरणस्य कृतत्वादिति भावः ।