युक्ते रूपविशेषाद्य्वक्तयव्यक्ती

प्रकृत्यधिकरणम्

ब्रह्मण: स्त्रीत्वनिषेधात् न प्रकृत्यादिशब्दवाच्यत्वमिति पूर्वपक्षनिरूपणम् सिद्धान्ते स्त्रीशब्दा अपि ब्रह्मवाचका इति समर्थनम्

।। ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ।।

युक्ते रूपविशेषाद्य्वक्तयव्यक्ती । स्त्रीत्वपुंस्त्वे त्वेकस्मिन्न युक्ते इत्याक्षेपादनंतरसङ्गतिः । अत्र प्रकृत्यादिशब्दाः किमन्यपराः किं वा ब्रह्मपरा इति चिन्ता । तदर्थं स्त्रीलिङ्गस्य ब्रह्मणि किमर्थसाधुत्वं न युक्तमुत युक्तमिति । तदर्थं किं प्रसिद्धमेव स्त्रीत्वमर्थसाधुत्वनिमित्तमुतान्यदिति । पूर्वपक्षस्तु । ‘‘एषा ह्येव प्रकृतिरविकृति’’रित्यादिवाक्यस्थप्रकृत्यादिशब्दवाच्यो न विष्णुः । तेषामन्यत्र प्रसिद्धत्वात् । स्त्रीलिङ्गत्वाच्च । परमपुरुषे च स्त्रीत्वायोगात् । न च रूपविशेषापेक्षया स्त्रीत्वम् । ‘‘नैनं वाचा स्त्रियं ब्रुव’’न्निति स्त्रीत्वनिषेधात् । न च तत्केवलस्य लौकिकस्य वा स्त्रीत्वस्य निषेधेनाहेयत्वपरम् । अन्यथा ‘‘नैनमस्त्री पुमान्ब्रुव’’न्नित्युत्तरवाक्यविरोधादिति वाच्यम् । तथात्वे पुंरूपे स्त्रीशब्दाप्रयोगापातात् । ब्रह्मणि नपुंसकलिङ्गब्रह्मादिशब्दप्रयोगस्तु नपुंसकलिङ्गस्यार्थसाधुत्वाभावेऽपि कलत्रादिशब्देष्विव प्रयोगसाधुत्वाद्युक्तः । न च प्रकृत्यादिशब्दे स्त्रीलिङ्गस्य चित्प्रकृत्यादावर्थसाधुत्वे सम्भवति देवताखट्वादिशब्देष्विव प्रयोगसाधुत्वं युक्तम् । ‘‘अरुणया क्रीणाति पशुना यजेते’’त्यादावपि तत्प्रसङ्गात् । ‘‘चित्रया यजेत पशुकाम’’ इत्यादौ तु पुंपशौ प्राप्ते स्त्रीत्वं चित्रत्वं पशवः फलं चेत्यनेकविधाने वाक्यभेददोषाल्लिङ्गस्य प्रयोगसाधुत्वमाश्रित्य चित्रशब्दस्य यागनामतोक्ता । न चेह तथा चित्प्रकृतिपरत्वे दोषोऽस्ति । किं च लिङ्गस्य प्रयोगसाधुत्वेऽपि स्त्रीत्यादिशब्दानामपीह विषयत्वात्कथं तेषां परमपुरुषे वृत्तिः । एतेन ‘‘स्वर्गकामो यजेत ब्राह्मणो न हंतव्य’’ इत्यादौ पुल्लिङ्गं यथा न विवक्षितं स्त्रिया अपि पुंसा सहाधिकारादेः षष्ठादौ स्थितत्वात् । तथाऽत्रापि लिङ्गं प्रत्ययार्थत्वात्प्रातिपदिकार्थत्वेऽप्युद्देश्यविशेषणत्वादविवक्षितम् । उक्तं हि

यो ब्राह्मण इति ह्युक्ते हननप्रतिषेधतः ।

ब्राह्मणे प्रतिषेधे वा लिङ्गं नान्यद्वितीयते ।।

इतीति निरस्तम् । ‘‘ब्राह्मणो न हंतव्य’’ इत्यादाविव ‘‘एषा ह्येव प्रकृति’’ रित्यादावुद्देश्यविशेषणत्वाभावात् । प्रत्युत ‘‘पशुना यजेते’’त्यत्र पशुगतपुंस्त्ववद्विधेयविशेषणत्वेन विवक्षितत्वात् । ब्राह्मणत्वस्य ब्राह्मणप्रातिपदिकार्थत्ववत्स्त्रीत्वस्य स्त्रीत्यादिप्रातिपदिकार्थत्वेन ब्राह्मणत्ववदुद्देश्यविशेषणत्वासम्भवाच्च । नपुंसकमित्यादिशब्दानां ब्रह्मणि ‘‘ज्योतिरुपक्रमा’’दिति न्यायेन यौगिकत्वेऽपि ‘‘तदधीनत्वा’’दिति न्यायेन स्वातन्त्र्यनिमित्तकत्वेऽपि प्रसिद्धस्य नपुंसकत्वस्य तद्गतत्वं निमित्तीकृत्य ब्रह्मणि प्रवृत्तिरिह पूर्वपक्षे न्यायसाम्येनाक्षिप्यते । एवं गायत्र्यधिकरणादेरप्याक्षेपः । यद्वा तत्पूर्वपक्षे छन्दस्यपि स्त्रीलिङ्गं प्रयोगसाधु । अत्र तु चित्प्रकृतावर्थसाध्विति वैषम्यान्न तस्याक्षेप इति ।

प्रकाशिका

अत्र सूत्रे प्रकृतिशब्दस्य प्रधानस्त्रीनामतया प्राधान्येनान्योपलक्षकतयोपादानात्स्त्रीलिङ्गाः प्रकृत्यादिशब्दा उदाहरणमिति प्रागेव व्यक्तम् । अत्र तत्वप्रदीपे ‘‘यद्यपि परत्वावरत्वादिकमपेक्षाभेदादेकत्र युगपदुपलभ्यते । एकत्र बहुभावः कार्यकारणभावश्च कथंचिद्युज्यते । न तथा स्त्रीपुंभावो युगपदेकत्र दृष्ट’’ इत्युक्तम् । तद्विवृतिपूर्वकमाकाशनयेनैव सङ्गतिमाह ।। युक्ते इति ।। आकाशस्थाद्य्वक्तात्स्वरूपादेव वायूत्पत्तेः प्रागव्यक्तस्य वायुगतरूपस्य वायूत्पत्तौ व्यक्तरूपभेदाद्युज्यते व्यक्तयव्यक्तिभावः । न चैवं प्रकृते । ‘‘स्त्रियस्सतीस्ता उमे पुंस आहु’’रिति श्रुतेरेकस्मिन्नपि द्वयोस्सत्त्वादित्यर्थः । भिन्नाधिकरणत्वपक्षे तु सर्वशब्दानां वृत्तितारतम्यकथनमयुक्तम् । स्त्रीलिङ्गानां भगवति वृत्तेरयोगादित्याक्षेपादिति ध्येयम् । एवमेव पूर्वानंतर्ये वाच्ये तथोक्तिस्तु कारणत्वेनेत्यनेनास्यागतार्थत्वायेति । विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। ‘‘एषा प्रकृतिरविकृतिः । अदितिर्देवतामयी’’ इत्यादौ श्रुताः प्रकृत्यादिशब्दा इत्यर्थः ।। अन्यपरा इति ।। यद्यपि टीकायां प्रकृत्यादिशब्दवाच्यं विष्णुरन्यद्वेत्येव चिन्ता प्रदर्शिता । युक्ता चैवमेव चिन्ता । प्रवृत्तिनिमित्तवत्त्वेनार्थसाधुत्वचिन्ताया मुख्यवृत्तिहेतुत्वात् । तथापि वाच्यत्वसिद्धावपि तात्पर्यं नेत्यपि शङ्काया अवश्यं निराकार्यत्वात् निमित्तसद्भावेनार्थसाधुत्वे सति प्रागुक्तहेतुभिरत्रत्य प्रतिज्ञादृष्टान्तादिरूपहेतुना च तात्पर्यं सेत्स्यतीति भावेन परत्वचिन्तोक्तावपि प्रागुक्तदिशा मुख्यवृत्त्याऽन्यपरा ब्रह्मपरावेत्यत्र तात्पर्यं बोध्यम् । अत एवाग्रे वाच्यो नेत्युक्तिः ।

एतेन शक्तितात्पर्यनिर्धारणस्य समन्वयशब्दार्थत्वाट्टीकायां वाच्यत्वमात्रोक्तिरत्र तु तत्परत्वमात्रोक्तिः कथमित्यपि प्रत्युक्तम् । ग्रन्थद्वयेऽप्युभयत्र तात्पर्यादिति । एवमाद्यसूत्रोपयुक्तचिन्तामुक्त्वा ‘‘योनिश्चही’’त्यन्तिमसूत्रोपयुक्तचिन्ताद्वयमाह ।। तदर्थमिति ।। अर्थसाधुत्वमिति ।। अस्त्रीत्वेऽपि ब्रह्मशब्दस्येव शब्दसाधुत्वमात्रेण प्रयोगस्याग्रे निरस्यत्वादर्थसाधुत्वं न युक्तमुत युक्तमित्येव चिन्तोक्ता ।। अन्यदिति ।। सूतिहेतुत्वरूपमित्यर्थः । फलफलिभावो व्यक्तः । अत्र यद्यपि प्रसिद्धस्य निमित्तत्वेऽपि तस्य ब्रह्मण्यभावेऽपि स्वातन्त्र्यनिमित्तेन ब्रह्मपराः स्युरेव । तथापि स्वातन्त्र्ये सत्येव तद्गतत्वमुपेत्यैव चिन्ताप्रवृत्तेः प्रागेवोक्तत्वादेवमुक्तम् । पूर्वपक्षटीकां व्यनक्ति ।। एषा ह्येवेति ।। ‘‘आत्मकृते’’रिति सूत्रव्यावर्त्यहेतुमाह ।। तेषामिति ।। टीकोक्तहेतुमाह ।।

स्त्रीति ।। ‘‘परमपुरुषे चे’’त्यादिटीकार्थमाह ।। परमेति ।। रूपविशेषेति ।। नारायणीरूपाद्यपेक्षयेत्यर्थः । एनं स्त्रियं ब्रुवन्न वदतीत्यर्थः । केवलस्य पुंस्त्वविनाकृतस्य । तथा च रूपविशेषे स्त्रीत्वं युक्तमिति भावः । अस्त्रीपुमान् अस्त्रीपुमांसं वदन्न वदतीत्युभयनिषेध निंदनेनोभयसमाहारस्यानुमतत्वादिति भावः ।। अप्रयोगेति ।। ‘‘पावमान्य इत्याचक्षत एतमेव सन्त’’मित्यादौ दर्शनात्स्त्रीशब्दाप्रयोगोऽनिष्ट इति भावः । ‘‘न च नपुंसक शब्दप्रवृत्तिव’’दित्यादिटीकायां स्त्रीत्वाभावेऽपि स्त्रीलिङ्गशब्दवृत्तिं नपुंसकशब्दवृत्तिवदाशङ्क्य ‘‘नियामकविशेषाभावेन कल्पनायोगा’’दित्यनेनाद्यादिसूत्रत्रयोक्तहेतुव्यावर्त्यहेतुरुक्तः । स तूपलक्षणमिति भावेन वा नियामकाभावेऽपि तथात्वमित्यतो वा तां टीकां व्यनक्ति ।। ब्रह्मणीत्यादिना दोषोऽस्तीत्यन्तेन ।। कलत्रेति ।। भार्यादाविति शेषः । तथैवास्तु प्रकृत इत्यत आह ।। न चेति ।। अस्त्वित्यत आह ।। अरुणयेति ।। ‘‘अरुणया पिङ्गाक्ष्यैक हायन्यागवासोमं क्रीणाती’’त्यादावपि शब्दसाधुत्वे पुंगवस्यैव क्रयहेतुतापत्त्या याज्ञिकानुष्ठानविरोधः । ‘‘पशुना यजेते’’त्यत्र स्त्रीपशुनापि यागः स्यादित्यर्थः । अत एव चतुर्थाद्यपादे ‘‘तथा च लिङ्ग’’मिति षष्ठनये एकत्ववत्पशुगतं लिङ्गं विवक्षितमित्युक्तम् । कथं तर्ह्याद्यस्य चतुर्थपादे चित्राज्याधिकरणे चित्राशब्दस्य यागनामत्वमुक्तमित्यत आह ।। चित्रयेति ।। पशवः फलं चेति सामानाधिकरण्यम् । ‘‘यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्ध’’ इत्यधिकरणे चिन्तितं ‘‘अग्नीषोमीयं पशुमालभेते’’ति विहितपशुयागमात्रं यजेतेत्यनेनानूद्य तस्मिन्पशौ चित्राशब्देन चित्रत्वस्त्रीत्वे विधीयेते उत ‘‘दधिमधुघृतमापोधानास्तंडुलास्तत्संसृष्टं प्राजापत्य’’मिति प्रकृतो यागः पशुफलाय विधीयते । चित्राशब्दस्य चित्रद्रव्यवाचकत्वात्तत्रैव नामत्वमिति विशये चित्रगुणकद्रव्ये रूढत्वादेकपदोपात्ततया चित्रत्वस्त्रीत्वयोरुभयविशिष्टैककारकविधानेनावाक्यभेदात्पशुकामपदस्यापि साधनकामनानु वादादिति प्राप्ते प्रत्येकं स्त्रीत्वादिविधाने वाक्यभेदादुभयविशिष्टकारकविधानेऽपि गौरवदोषस्य सत्त्वात् यागनामत्वमिति सिद्धान्त इति ।। पुंपशाविति ।। अग्नीषोमीययागानुवादात्तत्र च पशुशब्देनाग्नीषोमीयमिति निर्देशबलात्पुंपशोः प्राप्तौ सत्यामित्यर्थः । वाक्यभेदेति गौरवस्याप्युपलक्षणम् । न चेहेति ।। ‘‘नामानि सर्वाणी’’ति श्रुतिविरोधो दोष इति चेन्न । ‘‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासा’’वित्यादाविव ‘‘सर्वनाम्नः सङ्कोचोपपत्ते’’रिति टीकायामेव व्यक्तमिति भावः ।।

स्त्रीत्यादीति ।। अत्र प्रातिपदिकार्थस्यैव सत्त्वादिति भावः । ननु ‘‘ताश्चेन्द्रधर्मना सत्यसंश्रयाच्छ्रिय ईरिता’’ इत्युक्तयाऽन्यत्र श्रीशब्दस्य योगेन वृत्तिवदिहापि स्तृणात्याच्छादयतीति स्त्रीशब्दार्थोऽस्त्विति चेन्न । प्रसिद्धप्रवृत्तिनिमित्तस्य तद्गतत्वेनेहाभिप्रेतत्वात् । व्यक्तमेतद्ग्रन्थ एवाग्रे ।। षष्ठादाविति ।। षष्ठस्याद्यपादे ‘‘लिङ्गविशेषनिर्देशात्पुंयुक्तमैति शायन’’ इति तृतीयेऽधिकरणे पुंस एवाधिकार उत स्त्रियोऽपीति संशये तत्र पुल्लिङ्गनिर्देशात्पुंस एवाधिकार इति प्राप्ते गृहैकत्ववदुद्देश्यविशेषणत्वाल्लिङ्गं न विवक्षितमिति स्त्रिया अप्यधिकार इति स्थिते ‘‘स्ववतोस्तु वचनादैकधर्म्यं स्या’’दिति चतुर्थेऽधिकरणे दम्पतिभ्यां पृथक्कार्यं सह वेति संशये यजेतेत्याख्यातप्रत्ययगतायास्सङ्ख्याया उद्देश्यगतत्वाभावेन विवक्षाया वारयितुमशक्यत्वादेकैककर्तृकत्वाद्दंपतिभ्यां पृथगेव कर्मानुष्ठेयमिति प्राप्ते कर्मणि तत्र तत्र पत्न्नयवेक्षणं यजमानावेक्षणमित्युभयोरप्याम्नानादसहायकर्तृत्वे कर्मवैगुण्यप्रसङ्गादाख्यातप्रत्ययोपात्तैकत्वसङ्ख्याया दम्पत्योरेकमेव कर्तृत्वमिति तदभिप्रायेणाग्नीषोमौ देवतेतिवदुपपत्तेर्दंपत्योस्सहाधिकार इत्युक्तेरिति भावः । ननु स्त्र्यादिप्रातिपदिकार्थत्वाद्ग्रहस्वरूपवद्विवक्षितमेवेत्यत आह ।। प्रातिपदिकेति ।।

‘‘प्रकृत्यार्थोऽपि खल्वेतदुद्देश्यस्य विशेषणम् ।

 सङ्ख्यया तुल्यनीतित्वान्न विवक्षां प्रपद्यत’’

इति शास्त्रदीपिकायामेवोक्तेरिति भावः ।। उक्तं हीति ।। आद्ये तृतीयपादे शिष्टाकोपनये ‘‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेर’’न्निति सूत्रवार्तिक उद्देश्यविशेषणत्वादविवक्षितमित्येतदुक्तमित्यर्थः । यो ब्राह्मण इति ह्युक्ते यो ब्राह्मण इत्युद्देश्यतयोक्ते ब्राह्मणे । लिङ्गं पुल्लिङ्गम् । अन्यत् अन्यत्वेनार्थान्तरत्वेन । न विधीयते । कुतः । हननप्रतिषेधतः यो ब्राह्मण इति ब्राह्मणमुद्दिश्य हननस्य प्रतिषेधात् । वा अथवा । यद्ब्राह्मणहननं तन्न कुर्यादिति ब्राह्मणहननोद्देशपक्षेऽपि । प्रतिषेधे कर्मणि घञ् । प्रतिषिध्यमाने ब्रह्महनने । लिङ्गं न विधीयते पुंकर्मकं हननमित्येवं न विधीयते । पक्षद्वयेऽपि लिङ्गविधानाङ्गीकारे यो ब्राह्मणस्स न हंतव्यः स च पुमान् यद्ब्राह्मणहननं तन्न कुर्यात् अकार्यं च ब्रह्महननं पुंविषयमिति वाक्यभेदप्रसङ्गात् । अत उद्देश्यविशेषणत्वादविवक्षितं लिङ्गमिति । हननं प्रतिषेधत इति पाठान्तरमप्याश्रित्यार्थान्तराण्यपि राणकेऽभिहितानि ।। एषेति ।। एषेत्यनूद्य प्रकृतिरित्यादेर्वा एषा प्रकृतिरित्यनूद्याऽविकृतिरित्यादेर्वा विधानादिति भावः ।।

पुंस्त्ववदिति ।। चतुर्थस्याद्यपादे ‘‘तथा च लिङ्ग’’मिति षष्ठेऽधिकरणे पशुगतं लिङ्गं विवक्षितं न वेति सन्देहे अलिङ्गे विपरीतलिङ्गे वृक्षादौ मक्षिकादौ च शब्दप्रयोगादशब्दार्थत्वादविवक्षितमिति प्राप्ते सिंहः सिंहीत्यादावनन्यथासिद्धलिङ्गप्रतीतेस्तस्य शब्दवाच्यत्वकल्पनां विनाऽनुपपत्तेश्शब्दार्थत्वाद्विधेयगतत्वेनैकत्ववल्लिङ्गं विवक्षितमित्युक्तम् । तद्वदित्यर्थः ।। प्रातिपदिकार्थत्वेनेति ।। अत एव तृतीये चमसाधिकरणे ग्रहत्वस्य प्रातिपदिकार्थत्वेन विवक्षितत्वान्न चमसादीनां संमार्ग इत्युक्तं ‘‘संस्काराद्वा गुणानामव्यवस्था स्या’’दित्यत्रेति भावः । ‘‘न च नपुंसकशब्दवृत्तिवत्परमात्मनि स्त्रीशब्दप्रवृत्तिः । नियामकविशेषाभावेन कल्पनायोगा’’दिति टीकायां नपुंसकेति शब्दो नपुंसकशब्दः तद्वदिति विग्रहमाश्रित्य परिहारे च दृष्टान्ते दार्ष्टान्तिके च कल्पनायोगादित्येतट्टीकार्थमाह ।। नपुंसकमित्यादीति ।। यौगिकत्वेऽपीत्यादिना गतार्थतापरिहारो दर्शितः ।। न्यायसाम्येनेति ।। तेन ‘‘कारणस्त्रीनिषेधिना’’मिति विषयमालायां स्त्रीति विषयोपाध्युक्तिरुपलक्षणमिति सूचितम् । एतेन प्रकृतिः स्त्रीत्यादिशब्देष्वपि योगेन स्वातन्त्र्यरूपनिमित्तेन वा हरौ वृत्तिः प्रत्युक्ता । ‘‘न चास्त्रीभूतस्यापि स्त्रीनियामकत्वेने’’त्यादिटीका तु प्रागेव द्वेधा व्याख्यातेति स्वातन्त्र्यनिमित्तकत्वेऽपीत्युक्तेष्टीकाविरोधो न शङ्क्य इति भावः । ननु छन्दोनये स्त्रीलिङ्गगायत्रीशब्दप्रवृत्तिर्हरावुक्ता । तद्वत्स्यादत्रापीत्यतो द्वेधा समाधिमाह ।। एवमिति ।। न तस्येति ।। एतेन टीकायां तदाक्षेपाप्रदर्शनस्य बीजमुक्तं भवति ।

चन्द्रिकाबिन्दुः

आद्यसूत्रद्वये प्रतिज्ञासिद्धेरित्याद्याद्यसूत्रद्वये प्रकृतिश्च प्रतिज्ञा कारणत्वेन चाकाशादिष्विति सूत्रमारभ्य अवस्थितेरिति काशकृत्स्न इति सूक्तनवकमप्येकमधिकरणमिति मतमवलम्ब्य एकस्य ब्रह्मणः अवान्तरकारणत्वमूलकारणत्वाद्युपपत्यर्थमुपात्तव्यक्तयव्यक्तिघटकरूपविशेषौ अनूद्यानन्तरसङ्गतिं दर्शयति ।। युक्ते रूपविशेषादित्यादिना ।। उतान्यदिति ।। स्वदेहात् अव्यवधानेन प्राणिसूतिकर्तृत्वमित्यर्थः ।। तेषामन्यत्र प्रसिद्धत्वादिति ।। इयं च युक्तिः टीकाया अङ्गीकारे नैनमस्त्रीति वाक्ये अस्त्रीति वदन्नपि न वदति,अपुमानिति वदन्नपि न वदतीति स्त्रीत्वनिषेधवादिनोऽपि निन्दा स्यात् । तेन ज्ञायते केनचित्प्रकारेण स्त्रीत्वमस्तीति स्वामिनः । निमित्ताभावेऽपि प्रकृत्यादिशब्दः अर्थं विनैव शब्दसाधुत्वमात्रतया प्रवर्तते । यथा नपुंसकलिङ्गशब्द इत्याशङ्क्याह ।। ब्रह्मणि नपुंसकलिङ्गेति ।। प्रयोगसाधुत्वमिति ।। चित्प्रकृत्यादौ अर्थसाधुत्वस्य वक्तुं शक्यत्वादिति भावः । अर्थसाधुत्वे सम्भवत्यपि प्रयोगसाधुत्वाश्रयणे बाधकमाह ।। अरुणयेति ।। अरुणापदेन पुंगवस्यापि ग्रहणं पशुपदेन स्त्रीपशोरपि ग्रहणं स्यादिति भावः ।। लिङ्गस्य प्रयोगसाधुत्वेऽपीति ।। लिङ्गस्य प्रातिपदिकार्थत्वेन गुणे त्वन्याय्यकल्पनेति न्यायेन प्रकृत्यादिशब्दे कथंचित् अवगतिसम्भवेऽपि यत्र स्त्रीशब्दादौ स्त्रीत्वं प्रातिपदिकार्थः तेषां स्त्र्यादिशब्दानां ब्रह्मणि वृत्तिर्दुर्निरूपेति भावः ।। यो ब्राह्मण इति ।। ह्युक्त इति ।। यो ब्राह्मण्यानागुरेदित्यस्यानुवादोऽयम् । अयमर्थः ब्राह्मणो न हन्तव्य इत्युक्ते पुनर्ब्राह्मणशब्दे वा, निषेधपरे न हन्तव्य इति शब्दे वा न ब्राह्मणीरूपस्त्रीव्यक्तिसङ्ग्रहाय ब्राह्मणी न हन्तव्या इति अन्यत् स्त्रीलिङ्गं न विधेयम् ।। हननप्रतिषेधतः ।। ब्राह्मणो न हन्तव्यः अपगुरणीय इत्यादीनामेव अलं प्रतिषेधत्वभावात् । कुत्रचिद् व्यक्तिविशेष एव ब्राह्मणो न हन्तव्य इति निषेधस्याव्याप्तिः । निषेधस्य ब्राह्मणपुंव्यक्तिमात्रविषयत्वेऽपि पुनः ब्राह्मणी न हन्तव्येति लिङ्गमावश्यकमिति भावः । अस्य श्लोकस्यार्थः वार्तिकात् सम्यग् बोद्धव्यः ।। उद्देश्यविशेषणत्वाभावादिति ।। प्रकृतित्वादीनामेव विधेयत्वादिति भावः । ननु ब्राह्मणो न हन्तव्य इत्यत्र ब्राह्मणत्वं नोद्देश्यविशेषणं येनाविवक्षाप्रसक्तिः । किन्तु आकृतिवाचकत्वपक्षे ब्राह्मणत्वादिकमुद्देयमेवेत्यत आह ।। ब्राह्मणत्वस्येति ।। ननु ज्योतिरधिकरणन्यायेन योगेन नपुंसकमित्यादिशब्दानामिव स्त्र्यादिशब्दानामपि ब्रह्मणि समन्वयः व्युत्पादितप्राय एव । तथा चेदमधिकरणं गतार्थमित्यत आह ।। नपुंसकमित्यादिशब्दानामिति ।। ननु गायत्र्यधिकरणे स्त्रीलिङ्गशब्दसमन्वयस्य कृतत्वाद्व्यर्थमिदमधिकरणमित्यत आह ।। एवं गायत्रीति ।। तत्पूर्वपक्ष इति ।। गायत्र्यधिकरणपूर्वपक्षे लिङ्गसाधुत्वं लिङ्गस्यास्तीति अधिकाशङ्कापत्तिरिति न गतार्थता ।

पाण्डुरङ्गि

ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ।। अनन्तरसङ्गतिरिति ।। वैषम्यरूपानंतरसङ्गतिरित्यर्थः ।। अन्यथेति ।। सर्वथा स्त्रीत्वनिषेध इत्यर्थः ।। तथात्व इति ।। रूपविशेषापेक्षया स्त्रीत्वम् । तथा च यदि रूपविशेषापेक्षया स्त्रीत्वं परमात्मनस्तदा स्त्रीरूप एव स्त्रीवाचकशब्दप्रयोगापत्त्या पुंरूपे स्त्रीवाचकशब्दप्रयोगो न स्यादित्यर्थः । नन्वेवं स्त्रीलिङ्गस्यार्थसाधुत्वाभावाद्ब्रह्मणि प्रयोगाभावे नपुंसकलिङ्गस्यापि तदभावात्प्रयोगो न स्यादित्यत आह ।। नपुंसकेति ।। नन्वेवं नपुंसकलिङ्गवदेव ब्रह्मणि स्त्रीलिङ्गशब्दप्रयोगः शब्दसाधुत्वादेवास्त्वित्यतो वैषम्येण परिहरति ।। न चेति ।। तत्प्रसङ्गादिति ।। तथा चारुणयेत्यत्रार्थसाधुत्वाभावेन शब्दसाधुत्वाभ्युपगमे वृषभस्यापि सोमक्रयसाधनता स्यात् । पशुना यजेतेत्यत्र प्रयोगसाधुत्वमात्रत्वे पशुशब्दस्य मेषीपरता स्यात् । तथा च मीमांसाविरोधः स्यादिति भावः । अधिकारादेरित्यत्रादिपदेन ब्राह्मण्या अहिंसनस्य सङ्ग्रहः ।। उद्देश्यविशेषणत्वाभावादिति ।। स्वयमुद्देश्यत्वेन विशेषणत्वाभावादित्यर्थः । नन्वेतदधिकरणं व्यर्थम् । स्त्रीलिङ्गादि शब्दानां ज्योतिरुपक्रमादिति न्यायेन यौगिकत्वसिद्ध्या तदधीनत्व न्यायेन स्वातन्त्र्यनिमित्तकत्वेन ब्रह्मपरतायाः सिद्धत्वात् । न च प्रसिद्धस्त्रीत्वस्य तद्गतत्वं निमित्तीकृत्य ब्रह्मणि वृत्तिसिद्ध्यर्थमिदमधिकरणं सार्थकमिति वाच्यम् ।

तथात्वे ज्योतिरित्यनेन नपुंसकमित्यादिशब्दानां यौगिकत्वेऽपि तदधीनत्वादित्यनेन स्वातन्त्र्यनिमित्तकत्वेऽपि प्रसिद्धस्य नपुंसकत्वस्य ब्रह्मणि वृत्तिसिद्ध्यर्थमधिकरणान्तरस्यापि कर्तव्यतापत्तेरित्यत आह ।। नपुंसकमित्यादिशब्दानामिति ।।

Load More