एतेन यत्केचिज्जडं प्रधानमेवाक्षरमिति पूर्वपक्षयंति तदपि निरस्तम्

अधिकरणोपसंहार:

तात्पर्यचन्द्रिका

एतेन यत्केचिज्जडं प्रधानमेवाक्षरमिति पूर्वपक्षयंति तदपि निरस्तम् । जडस्य शास्तृत्वद्रष्टृत्वादेरयोगेन पूर्वपक्षानुदयात् । यच्च श्रुतावाकाशशब्दः प्रधानपर इत्युपेत्य सूत्रेंऽबरशब्दो भूताकाशपरः । तथाचांबरस्य अन्तः अवधिः कारणमिति अंबरान्तपदं प्रधानपरमित्युक्तम् । तन्न । सूत्रे श्रुत्यनुसारित्वस्यैव न्याय्यत्वात् । अन्तपदन्तु अम्बरं अन्तो यस्येति व्युत्पत्त्या पृथिव्यादिपरं सत् तस्यापि प्रकृतिद्वारा ब्रह्मैवाश्रय इति सूचयितुम् । तथाच ‘‘पृथिव्यादिप्रकृत्यन्त’’मिति स्मृतिरपि सूत्रेणानुसृता भवति ।

टीकाक्षरार्थस्तु ।। सोमं राजानं जुह्वति । तं देवा भक्षयन्तीत्यादिवदिति ।। यथा ‘‘सोमं राजान’’मित्यादौ हूयमानभक्ष्यमाणसोमलताभिमानित्वाच्चन्द्रे हूयमानत्वादिव्यपदेशः तथाऽत्रापि सोममभिषुणोतीति वाक्यविहिताभिषवयुक्तसोमलताभिमानित्वाच्चन्द्रेऽभिषूयमाणत्वव्यपदेश इत्यर्थः । ‘‘एकोदेवो बहुधा निविष्टः’’ इत्यस्य शेषभूतं वाक्यं ‘‘यदाभारं तंद्रयते सभर्तुम् । निधायभारं पुनरस्तमेती’’ति । तस्यार्थमाह ।। सच यदा तं भारं भर्तुं नेच्छतीति ।। ‘‘यस्मिन्निदं संचविचैतिसर्व’’मिति श्रुतौ यच्छब्दस्य ‘‘यतः प्रसूते’’त्यादि यच्छब्दवत् ‘‘तदेव ब्रह्म परमं कवीनां’’ इत्युत्तरवाक्यस्थेन तच्छब्देनान्वय इत्याह ।। तदेव ब्रह्मेत्यर्थ इति ।। श्रुतावेधीत्यस्यावर्धतेत्यर्थः । मध्यम इत्याद्युक्तमिति ।। श्रुतौ मध्यमादिशब्दः स्थौल्यादेरप्युपलक्षक इत्यर्थः ।। तमोवाय्वादीनां सर्वात्मनेति ।। ‘‘अदुःखमसुख’’ मित्यादौ यथाऽसुखमित्यनेन बाह्यसुखनिषेधेऽप्यदुःखमित्यनेन दुःखमात्रनिषेधः तथाऽत्राप्यस्थूलमित्यादौ प्राकृतस्थौल्यादिनिषेधेऽप्यतमोऽवाय्वित्यादौ सर्वात्मना तमआदेर्निषेध इत्यर्थः ।।

प्रकाशिका

।। एतेनेति ।। अस्थूलमनण्वित्यादिनोक्तमक्षरं प्रधानजीवान्यतरदुत ब्रह्मेति संशये अक्षरशब्दस्य वर्णेषु रूढिसम्भवेऽपि ‘‘अह्नस्वमदीर्घ’’मित्यादिनिषेधायोगेन वर्णानां शङ्कानर्हत्वात् । प्रधानस्य च सर्वविकारास्पदत्वेनाकाशपृथिव्यादिधारणसम्भवात्प्रधानं वा चित एवाचिद्वस्त्वाधारत्वसम्भवाज्जीवो वेति प्राप्ते न तावत्प्रधानम् । त्रिकालवर्तिसकलवस्त्वाधारतयोच्यमानस्य भूताकाशत्वायोगेनाव्याकृतापरनामकप्रधानपरत्वात् ‘‘अक्षरे गार्ग्याकाश ओत’’ इत्युक्तप्रधानाधारत्वस्य प्रधानेऽनुपपत्तेः । नापि जीवः । द्वितीयसूत्रोक्तस्याप्रतिहताज्ञापरनामकस्य प्रशासनस्य जीवेऽनुपपत्तेः । अन्यभावस्य परमात्मनोऽन्यत्वस्यादृष्टं द्रष्ट्रित्यादिनाऽक्षरस्य व्यावृत्तेश्च परमात्मैवाक्षरमिति सिद्धान्तः । तत्र दूष्यांशमनुवदति ।। जडमिति ।। एवकारः परोक्तवर्णमात्रव्यावर्तकः । एतेनेत्युक्तमेवाह ।। जडस्येति ।। सूत्रार्थं च प्रत्याह ।। यच्चेति ।। श्रुत्यनुसारित्वस्येति ।। श्रुताविव सूत्रेप्यंबरशब्दस्यैव प्रधानपरत्वं वाच्यमित्यन्तपदं व्यर्थमित्यर्थः । आकाशस्य चित्प्रकृतित्वपक्षेप्येष दोषस्तुल्य इत्यत आह ।। अन्तपदं त्विति ।। तस्यापि पृथिव्यादेरपि । स्मृतिरिति ।।

पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।

विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ ।।

इति स्कान्दस्मृतिरित्यर्थः । एतेनाक्षरं प्रणवजीवान्यतरदिति प्राप्तेऽम्बरान्तधृत्यादेश्शिवधर्मत्वाच्छिव एवेति कस्यचित्प्रलपनं प्रत्युक्तम् । द्रष्टृत्वादेरयोगेन पूर्वपक्षानुदयात् । भाष्योक्तश्रुत्यादिनाऽम्बरान्तधृत्यादेर्विष्ण्वेकनिष्ठत्वेन शिव इति सिद्धान्तानुदयाच्चेति । टीकायां दुर्गमानि कानिचिद्वाक्यानि व्यनक्ति ।। टीकेति ।। भाष्ये शेषस्यानुदाहृतत्वात् ‘‘स च यदेत्यादिः’’कस्यार्थ इत्यज्ञानादाह ।। एकोदेव इति ।। भाष्येऽनुक्तमपि तदेव ब्रह्मेति कस्मादुच्यत इत्यत आह ।। यस्मिन्निति ।। टीकायामनुक्तेरेधीत्यस्यासभुवीत्यस्य रूपत्वाद्भवेत्यर्थत्वेऽन्वयायोगादाह ।। श्रुताविति ।। एधवृद्धावित्यस्य रूपमिति भावः ।। श्रुतौ मध्यमादिशब्द इति ।। ‘‘अस्थूलोऽनणुरमध्यमो मध्यम’’ इति श्रुतावित्यर्थः ।।

चन्द्रिकाबिन्दुः

सूत्र इति ।। श्रुतिस्थाकाशशब्दस्य प्रधानपरत्वेन तत्पर्याय प्रक्षेपपूर्वकं अक्षरमम्बरधृतेरित्येव वदेदिति भावः ।। सोमं राजानमिति ।। यद्यपि सोमं राजानमिति पदं सोमराजप्राप्तपुरुषे लक्षणया प्रवर्तते । तस्यैव पुरुषस्यान्यत्राहुतौ होम्यत्वं चोच्यत इत्यन्यत्र व्याख्यातत्वान्नेदमुदाहरणमुचितम् । तथापि लक्षणायाः प्रातीतिकार्थप्रतीत्यनन्तरभावित्वात् । आदौ सोमराजस्यैव होम्यत्वभक्ष्यत्वप्रतीतिर्भवति । तदपि प्रायेणोदाहरणम् । तत्र च अभिमन्यमानद्वारा सोमराजे होम्यत्वादिप्रतीतौ सत्यां अनन्तरं प्रकरणपर्यालोचनया सोमराजपदस्य चन्द्रलोकगतजीवपरत्वमङ्गीक्रियत इति स्वामिन आहुः ।। अतमोऽवाय्वित्यादाविति ।। वायुशब्दो भूतवायुपरः न तु प्राणपरः । तस्य परमात्मन्यङ्गीकृतत्वेन चिदानन्दात्मकपरमात्माभिन्नप्राणाद्वायुरजायतेत्यादिश्रुतिसिद्धस्य निषेधायोगादिति सम्प्रदायः ।

पाण्डुरङ्गि

सोमं राजानं जुह्वतीत्यादेः प्रातीतिकार्थमभ्युपेत्य व्याचष्टे ।। यथेति ।। यद्यपीदं वाक्यं चन्द्रलोकगतकर्म जीवपरम् । तथापि कर्मजीवस्य सोमे प्रवेशानङ्गीकारादधिष्ठानत्वेन चन्द्रस्यापि विवक्षितत्वादियमुक्तिरिति ध्येयम् । टीकायामेधीत्यस्याव्याख्यातत्वात्स्वयं व्याख्याति ।। श्रुताविति ।।

।। इति अक्षराधिकरणम् ।। ३ ।।