नन्वसत्यमपि प्रतिबिम्बं बिम्बस्य, स्वाप्नार्थश्च शुभाशुभयोः..
३२. असतः साधकत्वाभावे बाधकोद्धारः
न्यायामृतम्
नन्वसत्यमपि प्रतिबिम्बं बिम्बस्य, स्वाप्नार्थश्च शुभाशुभयोः, स्फटिकलौहित्यं चोपाधिसन्निधानस्य, रेखारोपितवर्णश्चार्थस्य, वर्णदैर्घ्यादिकं च नगो नाग इत्यादावर्थभेदस्य, शङ्काविषं च मरणस्य, सवितृसुषिरादि चारिष्टादेः साधकं दृष्टमिति चेन्न । प्रतिबिम्बस्वरूपस्य त्वन्मतेऽपि सत्यत्वात् । स्वाप्नस्य च मन्मते सत्यत्वात् । त्वन्मतेऽपि पुरुषं कृष्णं कृष्णदन्तं पश्यतीत्यादिश्रुत्या ज्ञानमेव सूचकम् । अन्वयव्यतिरेकाभ्यां च स्वाप्नकामिन्यादिज्ञानमेवार्थक्रियाकारीत्युपपत्तेः । स्फटिकलोहित्यस्यापि प्रतिबिम्बत्वात् । रेखायाश्च वर्णे पदस्यार्थ इव सङ्केतितत्वेन रेखास्मारितवर्णस्यैवार्थबोधकत्वात् । अत एव रेखां दृष्ट्वा वर्णमुच्चारयन्ति । नगो नाग इत्यादौ दीर्घत्वादिकं स्वरूपसदेवार्थविशेषधीहेतुश्चेद्दीर्घध्वनिसाहित्यरूपं वा तद्व्यक्तत्वरूपं वा दीर्घत्वं वर्णगतं सत्यमेव हेतुः, न ध्वनिगतं वर्णेष्वारोपितं हेतुः । ज्ञातं सद्धेतुश्चेद्वक्ष्यमाणरीत्या सवितृसुषिरादिज्ञानमिवार्थावच्छिन्नं सत्यं ज्ञानमेव हेतुः ।
एतेन ‘‘यथा सत्यत्वाविशेषेऽपि चक्षुषा रूपज्ञानमेव जायते, न तु रसज्ञानं, तथैवासत्त्वाविशेषेऽपि वर्णदैर्ध्यादिना सत्यं ज्ञायते, न तु धूमाभासादिना’’ इति वाचस्पत्युक्तं निरस्तम् । शङ्काविषेऽपि शङ्कानिमित्तभयजन्या धातुव्याकुलतैव मरणहेतुः, न च विषम् । स्वाप्नमन्त्रोऽपि फलसंवादी चेत् स्वप्नप्रतीतत्वेऽप्यात्म-वत्सत्य एव स्वयंप्रतिभातवेदवददृष्टाद्भासते । भारतयुद्धादौ घटोत्कचादिभिः शक्ति-विशेषात्सृष्टमर्थक्रियाकारिगजादिकं सत्यमेव । सवितृसुषिररज्जुसर्पादिज्ञानमेव चारिष्टभयादिहेतुर्न त्वर्थः, सत्यप्यर्थे तदज्ञाने भयाद्यभावात् । न चैवमनुमितिं प्रत्यपि हेतुव्याप्त्यादिज्ञानमेव कारणं न तु हेत्वादीति वाच्यम् । तज्ज्ञानमात्रस्य हेत्वाभासेऽपि सत्त्वात् । १त्वन्मते वृत्तिरूपस्य तत्प्रतिबिम्बितचैतन्यरूपस्य वा ज्ञानस्यापि मिथ्यात्वाच्च । सत्यसर्पादेस्त्वभिसर्पणदंशनादिरेवार्थक्रिया न तु भयादिः ।
नन्वर्थानवच्छिन्नस्य ज्ञानस्य हेतुत्वेऽतिप्रसङ्गः । अवच्छिन्नस्य हेतुत्वेऽर्थोऽपि हेतुः स्यादिति चेन्न । घटावच्छिन्नस्य घटात्यन्ताभावध्वंसादेर्घटदेशकालभिन्न देश-कालादित्वेऽपि अवच्छेदकस्य घटस्य तदभाववद्, घटेच्छाब्रह्मज्ञानयोर्घट ज्ञान-वेदान्तसाध्यत्वेऽपि घटब्रह्मणोस्तदभाववद्, घटप्रागभावस्य घटं प्रति, विशेषदर्शना-भावस्य च भ्रमं प्रति, विहितनिषिद्धकरणाभावयोः प्रत्यवायादिं प्रति, स्वर्ग-कामनायाश्च यागं प्रति, अतीतादिस्मृत्यादेर्दुःखादिकं प्रति, असद्विषयकपरोक्ष-ज्ञानस्य च तद्व्यवहारं प्रति हेतुत्वेऽपि अवच्छेदकस्य घटस्य, विशेषदर्शनस्य, विहितनिषिद्धकरणयोः स्वर्गस्यातीतादेरत्यंतासतश्च तदभाववत्, चिकीर्षितघट-बुद्धेर्घटहेतुत्वेऽपि घटस्य तदभाववत्, ब्रह्माज्ञानस्य तदज्ञाननिवतर्कत्वेऽप्युदासीन-स्वभावस्य ब्रह्मणस्तदभाववत्, ब्रह्मज्ञानस्य जगत्प्रति परिणामिकारणत्वेऽपि ब्रह्मण-स्तदभाववच्चार्थावच्छिन्नस्य हेतुत्वेऽपि अवच्छेदकार्थस्य कुरूणां क्षेत्रे वसतीत्यत्र कुरूणामिव ताटस्थ्येनाहेतुत्वोपपत्तेः ।
तथा च–
रज्जुसर्पादिधीसाध्यभयादौ सर्पपूर्वकम् ।
फलेच्छासाध्ययागादौ फलवन्नैव कारणम् ।।
नन्वथापि मिथ्यार्थे ज्ञानं प्रति व्यावृत्तिधीहेतुत्वरूपव्यावतर्कत्वमस्तीत्यसतोऽपि हेतुतेति चेन्न । यतो व्यावृत्तिधीहेतुधीविषयत्वमेव व्यावर्तकत्वम् । सत्यपि दण्डे तदज्ञाने व्यावृत्त्यज्ञानात् ।
नन्वथाप्यवच्छेदकस्य मिथ्यात्वेऽवच्छिन्नस्यापि तन्नियमादसत्यस्य हेतुतेति चेन्न । तुच्छस्य ज्ञाने तुच्छाद्वैलक्षण्ये च तुच्छत्वस्य, प्रातिभासिकाद्वैलक्षण्ये च प्रातिभासिकत्वस्य, पञ्चमप्रकारायामात्मस्वरूपभूतायां वाऽनिर्वचनीयाज्ञाननिवृत्तौ च चतुर्थप्रकाररूपानिर्वचनीयत्वस्य, पारमार्थिकात्मस्वरूपे तद्भिन्ने वाऽनृतद्वैतस्या-भावे ततो व्यावृत्तौ चानृतत्वस्यादर्शनात् । तत्रावच्छेदकानामसदादीनां ताटस्थ्येऽ-त्रापि विषयस्तथास्तु । वस्तुतस्त्वर्थानवच्छिन्नमेव ज्ञानं हेतुः । न चातिप्रसङ्गः । विषयावच्छेदमनपेक्ष्य स्वत एव सर्पज्ञानस्यासर्पज्ञानाद्व्यावृत्तेः । तथा हि सर्पज्ञानमसर्पज्ञानात्तावद्व्यावृत्तम् । व्यावृत्तिश्च व्यावर्तकाधीना । न च विषय-स्तत्सम्बन्धो वा व्यावर्तकः । स्वरूपातिरिक्तद्विष्ठसम्बन्धाभावात् । असम्बद्धस्य चाव्यावर्तकत्वात् ।
अद्वैतसिद्धिः
ननु सत्त्वापेक्षया तुच्छविलक्षणत्वादेर्गौरवतरत्वेन साधकत्वेन कथं तन्त्रत्वमिति चेन्न । त्रिकालबाधविरहरूपस्य सत्त्वस्य लघुत्वाभावात् । जात्यादिरूपस्य तस्य मिथ्यात्वाविरोधि-त्वात् । उभयसिद्धे सद्विविक्ते साधकत्वदर्शनेन पारमार्थिकसत्त्वस्य साधकत्वाप्रयोजकत्वाच्च । तथा हि– प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति । तस्य बिम्बात्मना सत्त्वेऽपि प्रतिबिम्बा-कारेणासत्त्वात् परमार्थसत्त्वं न साधकत्वे प्रयोजकम् । एवं स्वाप्नार्थस्यासतोऽपि भावि-शुभाशुभसूचकत्वम् । यद्यपि तत्रत्यदर्शनस्यैव सूचकत्वम् । ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति’ इत्यादिश्रुतिबलात् । तथापि दर्शनमात्रस्यातिप्रसक्तत्वेन विषयोऽप्यवश्यमपेक्षणीय एव । एवं स्फटिकलौहित्यस्य उपाधिसन्निधानसाधकत्वं च । न च लौहित्यं स्फटिके न मिथ्या, किन्तु धर्ममात्रप्रतिबिम्ब इति न पृथगुदाहरणमिति वाच्यम् । धर्मिभूतमुखादिनैरपेक्ष्येण तद्धर्मभूत-रूपादिप्रतिबिम्बादर्शनात् । प्रतिबिम्बस्याव्याप्यवृत्तित्वनियमेन लौहित्यस्य स्फटिके व्याप्यवृत्तित्वप्रतीत्ययोगाच्च । लौहित्ये स्फटिकस्य त्वारोपे तस्य प्रतिबिम्बत्वम्, स्फटिके लौहित्यारोपे तु तस्य मिथ्यात्वमिति विवेकः । ‘‘स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा’’ इति लोहितिम्नो मिथ्यात्वं दर्शितं प्रतिबिम्बसत्यत्ववादिभिः पञ्चपादिका-कृद्भिः । एवं रेखातादात्म्येनारोपितानां वर्णानामर्थसाधकत्वम् । न च रेखास्मारिता वर्णा एवार्थसाधका इति वाच्यम् । आशैशवमयं ककारोऽयं गकार इत्यनुभवाद्, अभेदेनैव स्मरणाद् । विवेके सत्यपि दृढतरसंस्कारवशात् नारोपनिवृत्तिः । अत एव ककारं पठति लिखति चेति सार्वलौकिको व्यवहारः । वर्णारोपितदीर्घह्रस्वत्वादीनां च नगो नाग इत्यादावर्थविशेषप्रत्यायकत्वम् । न च वर्णेष्वारोपितध्वनिसाहित्यं तदभिव्यक्तत्वरूपं वा दैर्घ्यं प्रत्यायकम्, एवं ह्रस्वत्वादिकमपीति वाच्यम् । ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इत्यादिप्रत्ययात् ।
ननु आरोपितेन वर्णदैर्ध्यादिना कथं तात्त्विकार्थसिद्धिः? न ह्यारोपितेन धूमेन तात्त्विकवह्निसिद्धिरिति चेन्न । साधकतावच्छेदकरूपवत्त्वमेव साधकतायाः प्रयोजकम्, न त्वारोपितत्वमनारोपितत्वं वा । धूमाभासस्य त्वसाधकत्वं, साधकतावच्छेदकरूपव्याप्त्य-भावात्, नासत्त्वात् । अनाभासत्वग्रहश्च तत्र बहुलोर्ध्वतादिग्रहणवद्व्याप्तिग्रहणार्थमेवापेक्षितः। तदुक्तं वाचस्पतिमिश्रैः– ‘यथा सत्यत्वाविशेषेऽपि चक्षुषा रूपमेव ज्ञाप्यते न रसः तथैवासत्त्वाविशेषेऽपि वर्णदैर्ध्यादिना सत्यं ज्ञाप्यते, न तु धूमाभासादिना’ इति । दृष्टं हि मायाकल्पितहस्त्यादेः रज्जुसर्पादेश्च भयादिहेतुत्वं, सवितृसुषिरस्य च मरणसूचकत्वं, शङ्काविषस्य च मरणहेतुत्वम् । ‘‘ननु तत्र शङ्कैव भयमुत्पाद्य धातुव्याकुलतामुत्पादयतीति सैव मरणहेतुः, न तु शङ्कितं विषमपि । एवं सवितृसुषिरमायाकल्पितगजादीनामपि ज्ञानमेव तत्तदर्थक्रियाकारि, न त्वर्थोऽपि । तथा च सर्वत्रोदाहृतस्थलेषु ज्ञानमेव हेतुः । तच्च स्वरूपतः सत्यमेव । अन्वयव्यतिरेकावपि ज्ञानस्यैव कारणतां ग्रहयतः । न हि सन्निहितं सर्पमजानानो बिभेति । न च अर्थानवच्छिन्नस्य ज्ञानस्य हेतुत्वेऽतिप्रसङ्गादर्थावच्छिन्नमेव ज्ञानं हेतुः । तथा चार्थोऽपि हेतुरेवेति वाच्यम्, अर्थावच्छिन्नस्य ज्ञानस्य हेतुत्वेऽपि अवच्छेदकस्यार्थस्य ताटस्थ्येनाहेतुत्वोपपत्तेः (१) घटावच्छिन्नस्य तदत्यन्ताभावतद्ध्वंसादे-र्घटदेशकालभिन्नदेशकालादित्वेऽप्यवच्छेदकस्य घटस्य तदभाववत्, (२) घटेच्छाब्रह्मज्ञानयो र्घटज्ञानवेदान्तसाध्यत्वेऽपि घटब्रह्मणोः तदभाववत्, (३) घटप्रागभावस्य घटं प्रति जनक-त्वेऽपि घटस्याजनकत्ववत्, (४) विशेषादर्शनस्य भ्रमं प्रति जनकत्वेऽपि विशेषदर्शनस्य तदभाववत्, (५) विहिताकरणस्य प्रत्यवायजनकत्वेऽपि विहितकरणस्य तदभाववत्, (६) स्वर्गकामनायाः यागजनकत्वेऽपि स्वर्गस्य तदजनकत्ववत्, (७) अतीतादिस्मृत्यादे-र्दुःखादिजनकत्वेऽप्यतीतादेस्तदजनकत्ववत्, (८) असद्विषयकपरोक्षज्ञानस्य तद्व्यवहार-हेतुत्वेऽप्यसतस्तदभाववत्, (९) चिकीर्षित घटबुद्धेर्घटहेतुत्वेऽपि घटस्य तदहेतुत्ववत्, (१०) ब्रह्मज्ञानस्य तदज्ञाननिवर्तकत्वेऽप्युदासीनस्वभावस्य ब्रह्मणस्तदभाववत्, (११) ब्रह्माज्ञानस्य जगत्परिणामिकारणत्वेऽपि ब्रह्मणस्तदभाववच्च । न च– तथापि मिथ्यार्थे ज्ञानव्यावर्तकताऽस्तीत्यसतोऽपि हेतुत्वमिति – वाच्यम् । न हि व्यावृत्तिधीहेतुत्वं व्यावर्तक-त्वम् । किन्तु व्यावृत्तिधीहेतुधीविषयत्वमेव । सत्यपि दण्डे तदज्ञाने व्यावृत्त्यज्ञानात् । अथावच्छेदकस्य मिथ्यात्वे अवच्छिन्नस्यापि तन्नियमः । न । तुच्छज्ञाने तुच्छवैक्षण्ये च तुच्छत्वस्य, प्रातिभासिकाद्वैलक्षण्ये प्रातिभासिकत्वस्य, पञ्चमप्रकारायामात्मस्वरूपभूतायां वा अनिर्वचनीयाज्ञानस्य निवृत्तौ चतुर्थप्रकरानिर्वचनीयत्वस्य, पारमार्थिकात्मस्वरूपे तद्भिन्ने वा अनृतद्वैतस्याभावेऽनृतत्वस्य चादर्शनात् तत्रावच्छेदकानामसदादीनां ताटस्थ्येऽत्रापि तथा-स्त्विति– चेत् ।
अत्रोच्यते । यदुक्तं ताटस्थ्यलक्षणमुपलक्षणत्वमेव सर्वत्रावच्छेदस्येति, तन्न । विशेषणत्वे सम्भवत्युपलक्षणत्वायोगात् । विशेषणबाधपूर्वकत्वादुपलक्षणत्वकल्पनायाः । अन्यथा, ‘दण्डी प्रैषानन्वाह’, ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’ इत्यादावपि वेदे दण्डलौहित्या-देरुपलक्षणत्वात् तदभावेऽपि अनुष्ठानप्रसङ्गः । ‘सर्वादीनि सर्वनामानि’ इत्यत्र सर्वशब्दस्य सर्वनामसंज्ञा न स्यात् । ‘जन्याद्यस्य यतः’ इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात्, विशेषणार्थत्वेन तद्गुणसंविज्ञानबहुव्रीहिसम्भवेऽप्युपलक्षणार्थत्वेनातद्गुणसंविज्ञानब्रीहिस्वीकार-प्रसङ्गात् । एवं ‘असिपाणयः प्रवेश्यन्ताम्’ इत्यादिलौकिकप्रयोगेऽपि । प्रतिबिम्बादिज्ञानानां जनकत्वे च विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधाभावात् नोपलक्षणत्वपक्षो युज्यते । उदाहृतस्थलेषु सर्वत्र बाधकमस्त्येवेति विशेषः ।
तथा हि– प्रथमे घटदेशकालौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ताभावादौ ग्राह्यम् । घटस्यापि तत्सम्बन्धे तद्देशकालभिन्नदेशकालत्वमेव व्याहतं स्यात् । द्वितीये त्विष्टापत्तिः । क्वचिद्घटज्ञानस्य घटेच्छाजनकत्ववद् घटं प्रत्यपि जनकत्वात् । ब्रह्मणो वेदान्तसाध्यत्वे तु नित्यत्वविरोधः । तृतीये प्रागभाववद्घटस्य स्वजनकत्वे प्रतियोगिप्रागभावयोः समानकालीन-त्वापत्तिः । स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन् व्याहतत्वं च । चतुर्थे पञ्चमे च प्रतियोगितदभावयोः सहावृत्त्या भ्रमप्रत्यवाययोरनुपपत्तिप्रसङ्गः । षष्ठे कामनावत् कामना-विषयस्य यागजनकत्वे तस्य प्राक्सत्तया तत्कामनैव व्याहन्येत, सिद्धे इच्छाविरहात् । सप्तमे अतीतस्य जनकत्वे कार्याव्यवहितपूर्वकाले स्वस्वव्यापारान्यतरसत्त्वापत्तिः । अष्टमे असतो जनकत्वे निःस्वरूपत्वव्याघातः । नवमे चिकीर्षितघटज्ञानवत् स्वस्य जनकत्वे पूर्ववद् व्याघातः । दशमे उदासीनस्य ब्रह्मणो न निवर्तकत्वम् । स्वरूपतः उपहितस्यैव वृत्ति-विषयत्वेन तस्याविषयत्वात् । उपहितस्य च निवर्तकत्वमस्त्येव । एकादशे ब्रह्माज्ञानस्य परिणामिकारणत्वेऽपि न ब्रह्मणो जगत्कारणत्वम्, कार्ये जडत्वोपलम्भात् । एवंविधबाधक-बलेन तत्रोपलक्षणत्वस्वीकारात् । न च प्रकृते बाधकमस्ति । अव्यवहितदेशकालादि-वृत्तित्वस्य प्रातिभासिकसाधारणत्वात् । इदानीमत्र सर्प इत्यादिप्रतीत्यविशेषात् । न हि क्वचिद् बाधकबलेन मुख्यपरित्यागः कृत इति सर्वत्र तथैव भविष्यति । उत्कर्षाद्यनुविधा-नाच्च । तथा हि– स्वप्ने जागरे चोत्कृष्टकलधौतदर्शनाद् उत्कृष्टं सुखम् । उत्कृष्टसर्पादि-दर्शनाच्चोत्कृष्टं भयादि दृश्यते । विषयस्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात् । न ह्यकारणोत्कर्षः कार्यमनुविधत्ते इति न्यायात् । न च ज्ञानप्रकर्षादेव तत्प्रकर्षः, ज्ञानेऽपि विषयगतप्रकर्षं विहायान्यस्य प्रकर्षस्याभावात् । अथ ज्ञानगता जातिरेव प्रकर्षः, न चाक्षुषत्वादिना, सङ्करप्रसङ्गात् । विषयप्रकर्षेणैवोपपत्तौ चाक्षुषत्वादिव्याप्यनानाजात्यङ्गीकारे गौरवान्मानाभावाच्च ।
किञ्च ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतावच्छेदकमास्थेयम् । ज्ञानत्वेन जनकत्वे अतिप्रसङ्गात् । तथा च मिथ्यात्वावच्छिन्नत्वाकारेण ज्ञानस्य मिथ्यात्वाद् भ्रमस्थले ज्ञानमात्रस्य जनकत्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव । जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण च मिथ्यात्वे रूपान्तरेण सत्त्वमप्यसत्त्वात् नातिरिच्यते; अनुप-योगात् । तदुक्तं खण्डनकृद्भिः– ‘अन्यदा सत्त्वं तु पाटच्चरलुण्ठितवेश्मनियामिकजागरण-वृत्तान्तमनुसरति’ इति । स्वरूपेणापि तु भ्रमज्ञानस्य मिथ्यात्वमस्त्येव । स्वरूपतो बाधा-भावे विषयतोऽप्यबाधप्रसङ्गात् । न च गुणजन्यत्वमुपाधिः, तस्याप्यापाद्यत्वेन वह्न्यनुमाने वह्निसामग्र्या इव साधनव्यापकत्वेनानुपाधित्वात् । विषय इव मिथ्यात्वप्रयोजकदोषादि-समवहितसामग्र्या ज्ञानेऽपि अविशेषाच्च । तुच्छज्ञानतद्वैलक्षण्यादौ च तुच्छत्वादर्शन-मबाधकम् । अवच्छेद्यावच्छेदकयोः सर्वत्र सारूप्यनियमानभ्युपगमात् । प्रकृते चावच्छेदक इवावच्छेद्येऽपि मिथ्यात्वप्रयोजकरूपतुल्यत्वेन सारूप्योपपत्तेः । सर्वसाधारणं चैकं कारणत्व-मभ्युपगम्यैतदवोचाम । वस्तुतस्तु दण्डतन्त्वादिसाधारणमेकं कारणत्वं नास्त्येव । यत्र तव सत्वमवच्छेदकं (तत्र न) मम तुच्छविलक्षणत्वादिकम्, किन्तु कार्यतावच्छेदकं घटत्व-पटत्वादि, कारणतावच्छेदकं च दण्डतन्त्वादि । तद्भेदाच्च कारणत्वं भिन्नम् । यथा गोगवयसादृश्यमन्यद् भ्रातृभगिन्यादिसादृश्यमन्यत् । तत्र नैकमवच्छेदकम्, किन्तु गवयत्व-भगिनीत्वादिकमेव । तद्वदत्रापि दण्डत्वादिकमेव सत्त्वासत्त्वोदासीनमवच्छेदकं वाच्यम् । तथा च जनकत्वानुसारेण न सत्त्वासत्त्वसिद्धिः । तदुक्तं खण्डनकृद्भिः–
‘पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ ।
हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ।।’ इति
अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ।
नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ।।’ इति च ।
न चैवम् – अन्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः ।
नान्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः ।।’
इति तवापि समानमिति वाच्यम् । ममाधिष्ठाने स्वरूपत एव सत्ताङ्गीकारः । तव तु कारणे स्वरूपातिरिक्तसत्ताङ्गीकार इति विशेषात् ।
न्यायामृततरङ्गिणी
उभयसिद्धे सद्विविक्ते साधकत्वदर्शनात् पारमार्थिकसत्वस्य साधकतायां अप्रयोजकत्व-मिति शङ्कते ।। नन्विति ।। प्रतिबिम्बस्येति ।। अयं देशो बिम्बवान् उचितस्थले प्रतिबिम्बवत्त्वात् । इत्यादिक्रमेण बिम्बानुमापकत्वं प्रतिबिम्बे दृष्टमिति सम्बन्धः ।। लौहित्यं चेति ।। न च लौहित्यं स्फटिके न मिथ्या किन्तु धर्ममात्रप्रतिबिम्ब इति पृथगुदाहरणानुपपत्तिरिति वाच्यम् । धर्मिभूतमुखादिनैरपेक्ष्येण तद्धर्मभूतरूपादिप्रतिबिम्बा-दर्शनात् । लौहित्ये स्फटिकस्यारोपे तस्य प्रतिबिम्बत्वं, स्फटिके लौहित्यारोपेण तु तस्य मिथ्यात्वमित्यङ्गीकाराच्च । स्फटिकमणेरेवोपधाननिमित्तो लोहितिमेति लोहितिम्नो मिथ्यात्वं दर्शितं प्रतिबिम्बस्य सत्त्वमङ्गीकृत्य पञ्चपादिकायामित्याशयः ।। प्रति-बिम्बेति ।। न च प्रतिबिम्बस्य बिम्बात्मना सत्त्वेऽपि प्रतिबिम्बाकारेणासत्त्वमिति वाच्यम् । तयोरभेदे बिम्बाकारातिरिक्तस्य प्रतिबिम्बाकारस्याभावात् ।। सत्यत्वादिति ।। स्वच्छदर्पणादिषु प्रतिफलनेन परावृत्ता नयनरश्मयो ग्रीवास्थमुखेन सम्बद्धास्तदेव गृह्णन्ति । तत्रैव दर्पणस्थत्वग्रीवास्थमुखभिन्नत्वादिकं चारोपयन्ति । यथोक्तम् ।
दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।
व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।।
इति । लिङ्गलिङ्गिभावस्तु वृक्षशिंशुपादिवदिति परैरङ्गीकारादित्यर्थः ।। ज्ञानमेवेति ।। तच्च सत्यमित्यर्थः । ननु स्वाप्नकामिन्यादेः सुखहेतुत्वदर्शनात् स्वप्नपदार्थस्य साधकत्वं न तु तद्भानस्येत्यत आह ।। अन्वयेति ।। जाग्रत्यन्वयव्यतिरेकाभ्यां तज्ज्ञानस्य सुखहेतुत्व-दर्शनात्स्वप्नेऽपि तथात्वं कल्प्यत इत्यर्थः ।। स्फटिकलौहित्यस्यापीति ।। लौहितिम-विशिष्टजपाकुसुमस्य तदवयवसमुदायस्येत्यर्थः । तेन धर्मिभूतमुखादिनैरपेक्ष्येण तद्धर्मरूपादेः नीरूपस्य प्रतिबिम्बो न दृष्टचर इति चोद्यानवकाशः । ननु प्रतिबिम्बस्याव्याप्यवृत्तित्व-नियमाल्लौहित्यस्य स्फटिके व्याप्यप्रतीतिरयुक्ता । प्रतिबिम्बस्याभिमुख्य प्रतीतिनियमेन लौहित्यस्या(स्य)तिर्यक् प्रतीतिरप्ययुक्तेति चेत् मैवम् । प्रतिबिम्बस्यानेकविधत्वात् । अत एव गगनस्थितसवितुः स्वच्छदर्पणादौ व्यत्यस्तेनापि दर्शनम् । तस्य च तव मतेऽपि प्रतिबिम्बत्वात् ।
नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ।।
इति नभःस्थादित्यस्यैव उद्यत्त्वादिविशेषणवद्वारिस्थत्वेनापि विशेषणाच्च ।। रेखेति ।। लिपिभेदेन रेखाभेदग्रहेऽपि वर्णाभेदानुभवादिति भावः । नन्वाशैशवं रेखायामयं ककारोऽयं गकार इत्यभेदानुभवाहितदृढतरसंस्कारवशान्नारोपनिवृत्तिः । अत एव ककारं पठति लिखति चेति सार्वलौकिको व्यवहार इति चेत् मैवम् । दृढतरभेदप्रत्ययेन रेखावर्णयोर्ना-भेदारोपः, किन्तु कर्दमलेपने सति कृष्णं वस्त्रमितिवदुपचारमात्रत्वात् ।। दीर्घध्वनीति ।। ननु ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इत्यादिप्रत्ययात् न दीर्घध्वनिसाहित्यरूपं वर्णेषु दीर्घत्वमिति चेत् न । ध्वन्यग्रहे दीर्घत्वग्रहासिद्धेः । तवापि दैर्ध्यारोपार्थं ध्वनेरावश्यकत्वात् योग्यत्वाच्च तद्ग्रहोपपत्तेः । ननु शीतलं शिलातलं सुरभिजलमितिवत् उपाध्यग्रहेऽपि दीर्घत्वभ्रमो भविष्यति । न च योग्यत्वात्तद्ग्रहः । तथापि तन्नियमाभावादित्यत आह । तद्व्यक्तेति ।। वस्तुतो दीर्घो यो ध्वनिः तद्व्यक्तं यद्रूपं तदेव दीर्घत्वमित्यर्थः ।। सत्यं ज्ञानमिति ।। यथा च सर्वज्ञानस्य सत्यत्वं तथा वक्ष्यते ।। निरस्तमिति ।। चक्षुरादेः साधकत्वे क्लृप्ते रसादिषु तदभावेन योग्यत्वायोग्यत्वे कल्प्येते । असतस्तु सर्वसामर्थ्य-विधुरस्य कुत्रापि साधकत्वादर्शनात् सत एव तत्कल्प्यत इति विशेषः । ननु साधकता-वच्छेदकरूपवत्त्वमेव साधकतायां प्रयोजकं न त्वारोपितत्वम् अनारोपितत्वं वेति चेत् न । आरोपितार्थाङ्गीकारे दण्डत्वादिसाधकतावच्छेदकस्य तत्रापि सत्त्वेन तद्व्यावृत्त्यर्थमनारोपित-त्वस्यापि साधकतायां प्रयोजकत्वात् ।
वक्ष्यमाणरीत्येति पूर्वमुक्तमुपपादयति ।। सवित्रिति ।। नन्वर्थस्य हेतुत्वे सम्भवति न तज्ज्ञाने हेतुत्वं कल्प्यमित्यत आह ।। सत्यपीति ।। अनुमितिं प्रतीति ।। प्रमानुमितिं प्रतीत्यर्थः ।। व्याप्त्यादीति ।। अतद्गुणसंविज्ञानबहुव्रीहिणा अबाधितत्वमित्यर्थः ।। हेत्वादीति ।। अत्राप्यबाधितत्वं हेतुर्न स्यादित्यत्र तात्पर्यम् ।। तज्ज्ञानेति ।। अबाधितत्वज्ञानस्येत्यर्थः । तथा च हेत्वाभासव्यावृत्त्यर्थं अबाधितत्वप्रमाया अनुमितिप्रमां प्रति प्रयोजकत्वे प्रमात्वघटकस्याबाधितत्वरूपस्यार्थस्यापि तत्प्रयोजकत्वमिति भावः । यथाश्रुते रूपप्रागभावविशिष्टे घटे व्याप्त्यादिमल्लिङ्गजन्याया अपि अनुमितेः प्रमात्वा-भावादसङ्गतिः स्यादिति बोध्यम् । ननु सर्पादिजन्या भयादिरूपार्थक्रिया, कथमसर्पा-त्तज्ज्ञानात्स्यादत आह ।। सत्येति ।। अभिसर्पणेति ।। भयादिकं तु न सर्पार्थक्रिया, सन्निहितेऽपि सर्पे तमजानानस्य भयाभावादिति भावः ।। अतिप्रसङ्ग इति ।। सर्पा-भावज्ञानस्यापि भयहेतुत्वप्रसङ्ग इत्यर्थः ।। अवच्छिन्नस्येति ।। अवच्छिन्नस्य ज्ञातत्वे अवच्छेदकस्यापि ज्ञातत्ववत् अवच्छिन्नस्य हेतुत्वे अवच्छेदकस्यापि हेतुत्वमित्यर्थः ।। घटस्येति ।। घटदेशकालौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ताभावध्वंसयोर्ग्राह्यम् । घटस्यापि तद्देशकालभिन्नदेशकालत्वं व्याहतं स्यादित्यर्थः ।। घटेति ।। न च घटज्ञानस्य घटेच्छाद्वारा घटजनकत्वे इष्टापत्तिः । तस्य घटकृतावन्यथासिद्धत्वेन घटजनकत्वे मानाभावादिति भावः ।।
ब्रह्मणो इति ।। ब्रह्मणो वेदान्तसाध्यत्वे नित्यत्वविरोधादित्यर्थः ।। घटं प्रतीति ।। अस्य वक्ष्यमाणेन हेतुत्वेऽपीत्यनेन सम्बन्धः ।। विहितनिषिद्धकरणाभावयोरिति ।। विहितकरणाभावस्य प्रत्यवायं प्रति, निषिद्धकरणाभावस्य च आदिपदार्थप्रत्यवायाभावं प्रतीत्यन्वयः ।। अवच्छेदकस्य घटस्येति ।। घटप्रागभाववत् घटस्य घटजनकत्वे घटतत्प्रागभावयोः समानकालत्वापत्तिः । तत्प्रागभावकालवृत्तित्वस्य तत्पूर्वत्वात् । कारणत्वस्य च तत्पूर्वत्वरूपत्वादित्यर्थः ।। विशेषदर्शनस्य विहितनिषिद्धकरण-योरिति ।। विशेषदर्शनादेर्भ्रमादौ हेतुत्वे प्रतियोगितदभावयोः सहावृत्त्या भ्रमप्रत्यवाययो-रनुत्पत्तिप्रसङ्गः ।। स्वर्गस्येति ।। कामनावत् कामनाविषयस्यापि यागजनकत्वे तस्येच्छावत् प्राक् सत्तापत्त्या तत्कामनैव व्याहन्येत । सिद्धे इच्छाविरहादित्यर्थः ।। अतीतादेरिति ।। अतीतस्य जनकत्वे कार्याव्यवहितपूर्वसमये स्वस्वव्याप्यान्यतर-सत्त्वापत्तिः ।। अत्यन्तेति ।। असतो जनकत्वे निःस्वरूपत्वव्याघातः ।। घटस्येति ।। चिकीर्षितघटज्ञानवत् घटस्य घटहेतुत्वे पूर्ववत् घटतत्प्रागभावयोः समानकालत्वापत्तिः ।। उदासीनस्वभावस्येति ।। ननु वृत्त्युपहितस्यैव ब्रह्मणो वृत्तिविषयत्वम् । तस्य चाज्ञाननिवर्तकत्वमस्त्येवेति चेत् । न । वृत्तेः स्वविषयत्वे स्वप्रकाशत्वस्य अप्रमात्वस्य चापातेन शुद्धब्रह्मण एव वृत्तिविषयत्वौचित्यादित्युक्तत्वात् ।। ब्रह्मण इति ।। ब्रह्मणो जगत्प्रति परिणामिकारणत्वे जगति जडत्वोपलम्भानुपपत्तिः ।। ताटस्थ्येनेति ।। उपलक्षणत्वेनेत्यर्थः । ननु विशेषणत्वे सम्भवत्युपलक्षणत्वायोगः । विशेषणत्वबाध-पूर्वकत्वादुपलक्षणत्वकल्पनायाः । अन्यथा दण्डी प्रैषानन्वाह, लोहितोष्णीषा ऋत्विजः प्रचरन्तीत्यादावपि दण्डलौहित्यादेः उपलक्षणत्वापत्त्या दण्डाद्यभावे प्रैषाद्यनुवचनापत्तिः । सर्वादीनि सर्वनामानीत्यत्र सर्वशब्दस्य सर्वनामसंज्ञा न स्यात् । जन्माद्यस्य यत इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात् । विशेषणार्थत्वेन तद्गुणसंविज्ञानबहुव्रीहिसम्भवेऽप्यु-लक्षणार्थत्वेनातद्गुणसंविज्ञानबहुव्रीहिस्वीकारप्रसङ्गाच्च । एवमसिपाणयः प्रवेश्यन्तामित्यादि-लौकिकप्रयोगेऽपि । प्रतिबिम्बादिज्ञानानां जनकत्वे च विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधकाभावात् नोपलक्षणत्वपक्षो युज्यते । उदाहृतस्थले तु सर्वत्र बाधकमस्त्येवेति न विशेषणत्वमिति चेत् मैवम् । धूमाभासादौ साधकत्वाभावस्य सार्वजनीनत्वेन प्रकृतेऽपि बाधकसत्वात् । तथा हि । सर्पज्ञानादावसति भयाद्यभावात् सति सर्पज्ञाने भयादिदर्शनात् सर्पज्ञानस्य हेतुत्वे स्थिते ज्ञानजन्येषु कार्येषु तद्विषयस्योपलक्षणत्वमेव, न तु विशेषण-त्वम् । व्याप्त्यादिज्ञाने तथाऽवधारणात् ।
न च तत्र व्याप्त्यादेरपि हेतुत्वात् स्वज्ञानं प्रति तस्य विशेषणत्वमिति वाच्यम् । व्याप्तिभ्रमादनुमित्यभावापत्तेः । न च तत्रापि व्याप्तिरनिर्वचनीयास्त्येवेति वाच्यम् । अतीन्द्रियव्याप्तिभ्रमे तदभावात् । न चातीन्द्रियभ्रमेऽप्यर्थोत्पत्तिरस्त्येव । अन्यथा तत्रा-न्यथाख्यातेरसत्ख्यातेर्वा प्रसङ्ग इति वाच्यम् । अस्तु तावदिदं, तथाप्यतीतत्वेन निश्चिता-द्धूमादेर्ज्ञानादनुमितिर्न स्यात् । न हि तथाप्यर्थ उत्पद्यते । अतीतज्ञानस्य भ्रमत्वाभावात् । विशेषदर्शनस्य सत्त्वात् । तस्माद्यत्र ज्ञानस्य हेतुत्वं न तत्र तद्विषयस्य हेतुत्वम् । गौरवात् । दण्डी प्रैषानन्वाहेत्यादौ तदस्यास्त्यस्मिन्निति मतुबिति मतुप् प्रत्ययस्य वर्तमानत्वरूपास्तित्वे विधानात् श्रौतमेव विशेषणत्वम् । लोहितोष्णीषा ऋत्विज इत्यादावपि मतुपा समानार्थत्वाद्बहुव्रीहेः श्रौतमेव विशेषणत्वम् । सर्वादीनि सर्वनामा-नीत्यत्र जन्माद्यस्य यत इत्यत्र च क्रियान्वितसमस्यमानपदार्थकत्वरूपमुख्यसमासस्य तद्गुणसंविज्ञानस्य सम्भवेनानेवंविधस्यातद्गुणसंविज्ञानस्यानाश्रयणात् । वक्ष्यते चैत-त्स्वप्रकाशत्वभङ्गे । तस्मात्सर्पज्ञानादौ कारणे न सर्पादेर्विशेषणत्वं बाधकवशादेव किन्तु क्षेत्रे कुरूणामिव ताटस्थ्येनोपलक्षणत्वम् । तस्य गुणभूतस्यापि सम्यग्विज्ञानं यस्माद्भवति सः तद्गुणसंविज्ञानः । सम्यक्त्वं च विशेष्यक्रियान्वयिन्यन्वयित्वं नोपलक्षणत्वम् ।
ननु तथाप्यसतः सर्पादेर्हेतुत्वं भयादौ वाच्यम् । तदुत्कर्षेण तदुत्कर्षात् । तथाहि । स्वप्ने जागरे चोत्कृष्टकलधौतदर्शनादुत्कृष्टसुखं उत्कृष्टसर्पादिदर्शनाच्चोत्कृष्टभयादि दृश्यते । विषयस्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात् । न ह्यकारणोत्कर्षः कार्यमनुविधत्त इति न्यायात् । न च ज्ञानप्रकर्षादेव तत्र प्रकर्षः । ज्ञानेऽपि विषयगतं प्रकर्षं विहायान्यस्य प्रकर्षस्याभावात् । न च ज्ञानगतजातिरेव प्रकर्षः । चाक्षुषत्वादिना सङ्करप्रसङ्गात् । विषयप्रकर्षेणैवोपपत्तौ चाक्षुषत्वादिव्याप्यनानाजात्यङ्गीकारे गौरवान्मानाभावाच्चेति चेन्न । दोषोत्कर्षेण ज्ञानोत्कर्षोपपत्तेः । दृश्यते हि पित्तादिदोषोत्कर्षात् भ्रमोत्कर्षः । तस्मान्नासतो भयादौ हेतुत्वम् । सङ्गृह्णाति ।। तथा चेति ।। सर्पपूर्वकं सर्पादिकम् ।। फलेति ।। स्वर्गेच्छासाध्ये यागादौ स्वर्गादिफलस्य यथा न कारणत्वमित्यर्थः ।। अथापीति ।। सर्पज्ञानकार्ये भयादौ सर्पादिहेतुत्वाभावेऽपीत्यर्थः ।। सत्यपीति ।। तथा च व्यावृत्तिधीन-जनकत्वरूपं व्यावर्तकत्वं व्यावर्तकत्वेन सम्मते दण्डादौ नास्तीति व्यावृत्तिधीहेतुधी-विषयत्वरूपमेव व्यावर्तकत्वं वाच्यमित्यर्थः ।। नन्वथापीति ।। ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतावच्छेदकं वाच्यम् । ज्ञानत्वेन ज्ञानजनकत्वेऽतिप्रसङ्गात् । तथा च मिथ्यार्थावच्छिन्नत्वाकारेण ज्ञानस्य मिथ्यात्वात् भ्रमस्थले ज्ञानमात्रस्य जनकत्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव । जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण सत्त्वमप्यसत्त्वान्नातिरिच्यते । अनुपयोगात् । तदुक्तं खण्डने । अन्यदा सत्त्वं तु पाटच्चरलुण्ठिते वेश्मनि यामिकजागरणवृत्तान्तमनुसरतीति ।। तुच्छेति ।। असत्सर्पा-वच्छिन्नज्ञाने यद्यसत्त्वं तर्हि तुच्छावच्छिन्ने तुच्छज्ञाने तुच्छाद्वैलक्षण्ये च तुच्छत्वं स्यात् । एवं प्रातिभासिकवैलक्षण्यादौ ज्ञेयम् ।
ननु नावच्छिन्नावच्छेदकयोः सर्वत्र सारूप्यम् । प्रकृते चावच्छेदक इवावच्छिन्नेऽपि मिथ्यात्वप्रयोजकस्य तुल्यत्वेन सारूप्योपपत्तिरिति चेन्न । मिथ्यात्वप्रयोजकस्य बाधादेरर्थे सत्त्वेऽपि तदवच्छिन्ने अभावात् । दृश्यत्वादेस्तु मिथ्यात्वं प्रत्यप्रयोजकत्वात् ।। तत्रेति ।। तुच्छज्ञानादौ । असदादीनां तुच्छादीनाम् । ताटस्थ्ये उपलक्षणत्वे सर्पज्ञानादावपि विषय उपलक्षणमस्त्वित्यर्थः ।। अर्थानवच्छिन्नमिति ।। एवं चावच्छेदकस्य मिथ्यात्वे तदवच्छिन्नस्यापि मिथ्यात्वादिचोद्यानवकाश इत्यर्थः । ननु विषयातिरिक्तस्यावच्छेदकस्य ज्ञानेऽभावात् विषयस्यावच्छेदकस्य त्वयानङ्गीकारात् ज्ञानमात्रमेव भयादौ हेतुरित्यङ्गीकृतं स्यात् । तथा च सर्पाभावज्ञानमपि भयादौ हेतुः स्यादित्याशङ्क्य निराकरोति ।। विषया-वच्छेदकमिति ।। स्वरूपातिरिक्तेति ।। विषयतत्सम्बन्धयोर्ज्ञानेन सह द्विष्ठसम्बन्धस्य स्वरूपातिरिक्तस्याभावादित्यर्थः ।।
न्यायामृतकण्टकोद्धारः
असतः साधकत्वाभावे दर्शनं बाधकमाशङ्कते ।। नन्विति । प्रतिबिम्बेति । न च मन्मते प्रतिबिम्बस्य बिम्बात्मना सत्वेऽपि प्रतिबिम्बात्मनाऽसत्वमेवेति वाच्यम् । तस्य प्रतिबिम्बा-त्मनाऽपि सत्वस्य स्वीकार्यत्वात् । अन्यथा बिम्बमेवास्ति, न प्रतिबिम्बमिति त्वन्मते ऐक्यं न स्यात् । न हि सदसतोरैक्यम् । अन्यथा गोविषाणनरविषाणयोरैक्यं स्यात् । अपि चास्तु प्रतिबिम्बात्मनाऽसत्यत्वम् । तथापि तत्स्वरूपस्य सत्वात् तस्यैव साधकत्वात् असतः साधकत्वे नायं दृष्टान्तः । किञ्च तज्ज्ञानमेव साधकम् । अज्ञातप्रतिबिम्बस्य बिम्बानुमित्यदर्शनात् । ज्ञानं च सदेवेति नासतः साधकत्वम् । वक्ष्यमाणरीत्या प्रतिबिम्बसत्यतायास्त्वां प्रति साधयिष्य-माणत्वाच्च । ज्ञानमेवेति । न च विषयानवच्छिन्नज्ञानमात्रस्यातिप्रसक्तत्वात् तदवच्छिन्नस्य सूचकत्वे विषयस्यापि सूचकत्वमेवेति वाच्यम् । अस्याग्रे दूष्यत्वात् । ननु स्वाप्नकामिन्यादेरर्थ-क्रियादर्शनात् कथं ज्ञानमेव सूचकमित्यत आह– अन्वयव्यतिरेकाभ्यां चेति । अज्ञातका-मिन्यादेः सुखाहेतुत्वादिति भावः । स्फटिकेति । ननु धर्मिभूतमुखादिनिरपेक्षेण तद्धर्मभूत-रूपादिप्रतिबिम्बादर्शनात् जपाकुसुमप्रतिबिम्बं विना कथं तद्धर्मलौहित्यप्रतिबिम्ब इति चेन्न । अनुभवबलेन धर्ममात्रारोपवत् धर्ममात्रप्रतिबिम्बस्यापि स्वीकार्यत्वात् । क्वचिद् धर्ममात्रप्रति-बिम्बादर्शनं च धर्मिप्रतिबिम्बसामग्रीसाहित्यनिबन्धनम् । यत्रोभयप्रतिबिम्बसामग्री तत्रोभय-प्रतिबिम्बः । यत्रैकमात्रप्रतिबिम्बसामग्री तत्रैकमात्रप्रतिबिम्ब इत्यङ्गीकारे बाधकाभावात् । सामग्रीसत्वस्य फलबलकल्प्यत्वात् । न च शुक्तिरजतवत् स्फटिके लौहित्यं मिथ्येति कृत्वा स्फटिके तदारोप इति वाच्यम् । अत्र रजतत्वं नेतिवत् स्फटिके लौहित्यं मिथ्येति बाधका-भावात् । अन्यथा प्रतिमुखमपि मिथ्या स्यादविशेषादिति साधुसमर्थितो जीवब्रह्मैक्यवादः । न च प्रतिबिम्बस्याव्याप्यवृत्तित्वनियमात् लौहित्यस्य च व्याप्यवृत्तित्वात् कथं प्रतिबिम्बत्वमिति वाच्यम् । धर्मिप्रतिबिम्बे तथा नियमेऽपि धर्मप्रतिबिम्बे तथा नियमाभावात् । लौहित्यस्य व्याप्यवृत्तित्वासिद्धेश्च । रेखायाश्चेति । अत्र रेखास्मारितवर्णस्यैव बोधकत्वम् । न रेखारोपित-वर्णस्य । भेदज्ञानेन रेखायां वर्णारोपासम्भवात् । न च शैशवे अयं ककारोऽयं गकार इत्य-भेदानुभवात् अभेदेनैव स्मरणात् विवेके सत्यपि दृढतरसंस्कारवशान्नारोपनिवृत्तिरिति वाच्यम् । लिपीनां देशभेदेन भेदानुभवेऽपि वर्णानामेकत्वानुसन्धानेन ‘लिपिमात्रमिदं नानावर्णस्तु सर्वलिपिज्ञाप्य एक एवेत्यनुभवेन अयं ककारोऽयं गकार इत्यस्याभेदोपचारत्वात् । अत एवाह अत एवेति । तस्माद् रेखाया वर्णे सङ्केतमात्रमेव स्वीकर्तव्यम् । न वर्णारोप इति नायमप्यसतः साधकत्वे दृष्टान्त इति भावः ।
नगो नाग इत्यादाविति । अत्र दीर्घत्वादिकमेवार्थविशेषप्रत्ययहेतुः तज्ज्ञानं वा? आद्य आह– दीर्घत्वादिकमिति । अयमभ्युपगमवादः । वस्तुतस्तु दीर्घत्वादिज्ञानमेव हेतुः । अज्ञातदीर्घत्वादेरर्थविशेषप्रत्ययानुदयादिति ध्येयम् । आदिपदेन ह्रस्वत्वपरिग्रहः । ननु दीर्घ-त्वादिकं वर्णनिष्ठं चेत् जातिरूपं वा, उपाधिरूपं वा? नाद्यः । एकस्मिन् वर्णे दीर्घत्वह्रस्वत्व-रूपविरुद्धजातिद्वयायोगात् । विरुद्धजात्योरेकत्रादर्शनात् । न द्वितीयः । उपाधेरनिर्वचनादिति चेन्न । उभयथाप्यदोषात् । जातिव्याप्यवृत्तिरिति मतेन प्रमात्वाप्रमात्वयोरव्याप्यवृत्तित्वेऽपि जातित्ववत् दीर्घत्वह्रस्वत्वयोरपि तदुपपत्तेः । तत्र देशभेदोऽवच्छेदक इति चेत् इह कालभेदः पुरुषभेदसम्बन्धो वाऽवच्छेदकोऽस्तु । द्वितीयेऽनिर्वचनं दोष इति चेन्नेत्याह दीर्घध्वनीति । न च ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इति प्रत्ययात् कथमेतादृशं दीर्घत्वमिति वाच्यम् । दीर्घ इत्यत्र दीर्घत्वस्फुरणे तस्य ध्वनिघटितत्वेन तदस्फुरणे तत्स्फुरणासिद्धेः । अन्यथा दीर्घत्वा-रोपोऽपि न स्यात् । अस्य गृह्यमाणारोपत्वेन ध्वन्यस्फुरणे तदसम्भवात् । दीर्घत्वज्ञानं कारण-मिति पक्ष आह ।। ज्ञातं सदिति । नन्वर्थानवच्छिन्नज्ञानमात्रस्य हेतुत्वेऽतिप्रसङ्ग इत्यत आह वक्ष्यमाणेति । एतेनेति ।। दीर्घत्वादेस्तज्ज्ञानस्य वा सत्यस्यैवार्थप्रत्ययहेतुत्वसमर्थनेनेत्यर्थः ।
ननु दैर्ध्यादेरसत्वेऽपि तस्मात् तात्विकार्थसिद्धिः सम्भवति । न हि तात्विकार्थसिद्धौ साधनसत्यत्वं तन्त्रम् । किन्तु साधकतावच्छेदकव्याप्त्यादिमत्वमिति चेन्न । सत्यत्वाभावे साधकतावच्छेदकरूपव्याप्त्यसम्भवात् । अन्यथा धूमाभासस्यापि साधकत्वं स्यात् । न चाना-भासत्वग्रहस्तत्र प्रयोजक इति वाच्यम् । आभासरूपानाभासत्वग्रहस्य तत्रापि सम्भवात् । तात्विकानाभासत्वग्रहस्य त्वन्मते कुत्राप्यभावात् । तस्मात् साधकताप्रयोजकरूपस्य सत्यत्वं विनाऽसम्भवात् । तदर्थमेव सत्यत्वं साधकस्यापेक्षितमिति ध्येयम् । ननु स्वाप्नमन्त्रस्यासत एव साधकत्वं दृष्टमित्यत आह– स्वाप्नमन्त्रोऽपीति । ननु घटोत्कचादिसृष्टमायाहस्त्यादेरसत्यस्यापि साधकत्वं दृष्टमित्यत आह– भारतयुद्धादाविति । मायासृष्टगजादेः सप्रकाराबाध्यार्थक्रिया-कारित्वात् सत्यत्वमेवेति भावः । सवितृसुषिररज्जुसर्पादिज्ञानमेवेति । ज्ञानस्यैवान्वय-व्यतिरेकित्वमेवकारार्थः । एवं च ज्ञानमेव भयादिहेतुः न त्वर्थः । तस्यान्वयव्यतिरेका-भावादित्याह– सत्यपीति ।
ननु यथा भयादिकं प्रति सर्पादिज्ञानमेव कारणम्, न त्वर्थः अर्थाभावेऽपि ज्ञानमात्रेण भयादिदर्शनात्, तथानुमित्यादावपि हेत्वादिज्ञानमेव कारणम्, न हेत्वादि, तदभावेऽपि ज्ञान-मात्रेणानुमितिदर्शनादित्याशङ्क्य निषेधति ।। न चैवमिति । तज्ज्ञानमात्रस्येति । तथाच यथा हेत्वाभासेषु हेत्वाद्यसत्वेनानुमितेराभासत्वं तथा प्रकृतानुमानस्याप्याभासत्वं स्यात् । तद्वद्व्याप्त्याद्यसत्वात् । यादृच्छिकातिरिक्तस्थले व्याप्त्याद्यसत्वेऽनुमितेराभासत्वनियमादित्या-शयः । किञ्च हेत्वाभासस्थले ज्ञानमात्रस्य सत्वात् तस्मात् कार्योत्पत्तिः सम्भविनी प्रकृतानुमाने त्वन्मते ज्ञानस्यापि मिथ्यात्वात् कथं तेन कार्योत्पत्तिरित्याह– त्वन्मत इति । ननु सत्यस्थले सर्पादेर्भयादिरूपार्थक्रियाकारित्वदर्शनात् कथं तज्ज्ञानमात्रेण भयादिकमित्यत आह सत्य-सर्पादेस्त्विति । भयादौ तु तज्ज्ञानमेव कारणमिति भावः ।
नन्वत्रार्थानवच्छिन्नज्ञानमात्रं हेतुः उतार्थावच्छिन्नं तत्? नाद्यः । ज्ञानमात्रस्य भयादिहेतुत्वे घटज्ञानादेरपि भयादिहेतुत्वापत्तेः । न द्वितीयः । अवच्छिन्नस्य हेतुत्वेऽवच्छेदकस्यापि तत्प्रसङ्गः। अवच्छिन्नकारणताग्राहकप्रमाणस्य बाधकाभावेऽवच्छेदककारणत्वग्राहकत्वस्येन्द्रियसन्निकर्षादौ दर्शनात् । अन्यथा इन्द्रियस्यापि घटसाक्षात्कारादौ जनकत्वं न स्यात् इत्याशयेन शङ्कते नन्विति । अत्रावच्छिन्नस्य यद् भवति तद् अवच्छेदकस्यापि भवतीति सामान्यव्याप्तिर्वाऽ-वच्छिन्नस्य कारणत्वेऽवच्छेदकस्यापि कारणत्वमिति विशेषव्याप्तिर्वाऽभिप्रेता? उभयथापि व्यभिचारादित्याह घटावच्छिन्नस्येति । तत्राद्यव्याप्तेः घटात्यन्ताभावादौ व्यभिचारः । द्वितीयाया घटेच्छादाविति विवेकः । अत्रोक्तदृष्टान्तेष्ववच्छिन्नस्य हेतुत्वेऽप्यवच्छेदकस्याहेतुत्व-वदर्थावच्छिन्नस्य ज्ञानस्य हेतुत्वेऽप्यर्थस्याहेतुत्वोपपत्तेः । न च तत्रावच्छेदकस्योपलक्षणत्वम् । प्रकृतेऽपि तदस्तु । अत एवोक्तं कुरूणां क्षेत्रे वसतीति । तथाचार्थस्योपलक्षणत्वात् विशेषणत्वाभावेन विशिष्टकारणताग्राहकन्यायाप्रवृत्तिरिति भावः ।
ननु सवितृसुषिरादीनां ज्ञानविशेषणत्वमेव नोपलक्षणत्वम् । उपलक्षणत्वकल्पनस्य विशेषणत्वबाधपूर्वकत्वात् । अन्यथा ‘दण्डी प्रैषानन्वाह’ ‘लोहितोष्णीषाः ऋत्विजः प्रचरन्ती-त्यादावपि वेदे दण्डलौहित्यादेरप्युपलक्षणत्वं स्यात् । तथा च तदभावेऽपि अनुष्ठानप्रसङ्गः । तथा ‘सर्वादीनि सर्वनामानि’ ‘जन्माद्यस्य यतः’ इत्यत्र सर्वशब्दस्य सर्वनामसंज्ञा, जन्मनश्च ब्रह्मलक्षणत्वं च न स्यात् । विशेषणार्थत्वे तद्गुणसंविज्ञानबहुव्रीहिसम्भवेऽपि उपलक्षणार्थत्वेऽ-तद्गुणसंविज्ञानबहुव्रीहिस्वीकारप्रसङ्गात् । एवम् ‘असिपाणयः प्रवेश्यन्ताम्’ इत्यादि लौकिक-प्रयोगेऽपि । तथा च विशेषणत्वे बाधकाभावात् । सवितृसुषिरादिज्ञानानां जनकत्वे तद्विशेषणसुषिरादीनां जनकत्वम् । न च तर्ह्युदाहृतस्थलेष्वपि विशेषणत्वं स्यादिति वाच्यम् । तत्र बाधकसद्भावात् । तथा हि प्रथमे घटकालदेशौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ता-भावादौ ग्राह्यम् । घटस्यापि तत्सम्बन्धे तद्देशकालभिन्नदेशकालत्वमेव व्याहतं स्यात् । द्वितीये त्विष्टापत्तिः । घटज्ञानस्य घटेच्छाजनकत्ववत् घटं प्रत्यपि जनकत्वात् । ब्रह्मणो वेदान्तसाध्यत्वे नित्यत्वविरोधः । तृतीये प्रागभाववत् घटस्य जनकत्वे प्रतियोगिप्रागभावयोः समानकालत्वा-पत्तिः । स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन् व्याहतत्वं च । चतुर्थे पञ्चमे च प्रतियोगि-तदभावयोः सहावृत्त्या भ्रमप्रत्यवाययोरनुत्पत्तिप्रसङ्गः । षष्ठे कामनावत् कामनाविषयस्य जनकत्वे तस्य प्राक् सत्तया कामनैव व्याहन्येत । सिद्धे इच्छाविरहात् । सप्तमेऽतीतस्य जनकत्वे कार्याव्यवहितपूर्वकाले स्वस्वव्याप्यान्यतरसत्वापत्तिः । अष्टमेऽसतो जनकत्वे निःस्वरूपत्व-व्याघातः । नवमे चिकीर्षितघटज्ञानवत् स्वस्य जनकत्वे पूर्ववत् व्याघातः । दशमे उदासीनस्य ब्रह्मणो न निवर्तकत्वं स्वरूपतः । उपहितस्यैव वृत्तिविषयत्वेन तस्याविषयत्वात् । उपहितस्य च निवर्तकत्वमस्त्येव । एकादशे ब्रह्मज्ञानस्य परिणामिकारकत्वेऽपि न ब्रह्मणस्तत्कारणत्वम् । कार्ये जडत्वोपलम्भात् । एवंविधबाधकात् तत्रोपलक्षणत्वं स्वीक्रियते । न च प्रकृते बाधक-मस्ति । अव्यवहितदेशकालवृत्तित्वस्य प्रातिभासिकसाधारणत्वात् । इदानीमत्र सर्प इत्यादि प्रतीत्यविशेषात् । न हि बाधकेन क्वचिन्मुख्यार्थपरित्यागः कृत इति सर्वत्र तथैव भविष्यतीति ।
अत्रोच्यते । प्रकृतेऽपि सवितृसुषिरादीनां प्रतिपन्नोपाधौ स्वरूपेण त्रैकालिकनिषेध-प्रतियोगित्वेनासत्वात् तेषां कार्यपूर्वक्षणसत्वघटितजनकत्वव्याघातो विशेषणत्वे बाधकः । न चात्यन्ताभावप्रतियोगित्वेऽपि, सत्त्वरूपत्वात् जनकत्वाविरोध इति वाच्यम् । तथाभूतस्यापि सस्वरूपत्वे तुच्छस्यापि तत्प्रसङ्गात् पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वं स्वरूपेण तु सत्व-मित्यस्यान्योन्याश्रयादिना पराहतत्वात् । न चासद्वैलक्षण्यमात्रेण साधकत्वं स्वरूपेणात्यन्ता-भावप्रतियोगिनः तद्वैलक्षण्यानुपपत्तेः । एतदपेक्षया सत्वस्यैव लघुत्वाच्च । तथाच स्वप्रागभावा-दीनां जनकत्वे स्वस्योपलक्षणत्वम् । विशेषणत्वे स्वापेक्षया पूर्वसत्वव्याघातादिबाधकसत्वात् । तथा सवितृसुषिरादीनामप्युक्तबाधकादुपलक्षणत्वमेवेति न तेषां जनकत्वम् ।
ननु तथापि उक्तस्थले विषयस्यापि जनकत्वं स्वीकर्तव्यम् । तदुत्कर्षविधानात् । तथा हि । स्वप्ने जागरे चोत्कृष्टकलधौतदर्शनात् उत्कृष्टं सुखम् । तथोत्कृष्टसर्पादिज्ञानाच्चोत्कृष्टं भयादि दृश्यते । विषयस्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात् । न ह्यकारणोत्कर्षमकार्य-मनुविधत्ते इति न्यायात् । न च ज्ञानप्रकर्षादेव तत्र प्रकर्ष इति वाच्यम् । विषयगतप्रकर्षं विनाऽन्यस्य ज्ञानगतस्य प्रकर्षस्याभावात् । न च जातिरूप एव प्रकर्षः । चाक्षुषत्वादिना सङ्करप्रसङ्गात् । विषयप्रकर्षेणैवोपपत्तौ चाक्षुषत्वादिव्याप्यनानाजातिकल्पने गौरवादिति । उच्यते । विषयोत्कर्षेण कार्योत्कर्षासिद्धेः । अन्यथोत्कृष्टसर्पादेरनुत्कृष्टत्वादिना ज्ञानेऽपि कार्योत्कर्षः स्यात् । कार्योत्कर्षप्रयोजकस्य विषयोत्कर्षस्य विद्यमानत्वात् । तस्मात् यथा रजतत्वाद्यभावेऽपि तत्प्रकारकज्ञानं प्रवृत्त्यादिजनकं तथा विषयगतोत्कर्षाद्यभावेऽपि उत्कृष्टत्वादि-प्रकारकज्ञानत्वमेव ज्ञानगतं भयाद्युत्कर्षप्रयोजकमिति न विषयस्य कारणत्वमिति । किञ्च वक्ष्यमाणरीत्या ज्ञानगत एव जातिरूपो विशेषो भयाद्युत्कर्षहेतुः । न च साङ्कर्यम् । मन्मते तस्याभावात् । भावे वा गुणगतजातौ तथाऽभावाच्च । न च ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतावच्छेदकमास्थेयम् । ज्ञानत्वेन जनकत्वेऽतिप्रसङ्ग इति वाच्यम् । प्रागभावस्य घटादिजनकत्वे घटाद्यवच्छिन्नत्वमेव जनकतावच्छेदकमास्थेयम् । प्रागभावत्वेन तत्वेऽतिप्रसङ्गादिति साम्यात् । तत्र घटादीनामवच्छेदकत्वेऽप्युपलक्षणत्वमिति यदि तदैतत् प्रकृतेऽपि तुल्यम् । बाधस्योभयत्रापि साम्यात् ।
न च ज्ञानस्यापि मिथ्यार्थावच्छिन्नत्वात् मिथ्यात्वमेवेति वाच्यम् । यद् यादृशावच्छिन्नं तत् तादृशमिति व्याप्तेरभावात् । ब्रह्मज्ञानस्य ब्रह्मावच्छिन्नत्वेऽपि त्वन्मते सत्यत्वाभावात् । असद्वैलक्षण्यस्यासदवच्छिन्नत्वेऽप्यसत्वाभावात् । अज्ञानस्य मिथ्यात्वेऽपि तदवच्छिन्नस्य साक्षिणो मिथ्यात्वाभावात् । अन्यथा ज्ञानादेरपि सत्यत्वाद्यापत्तिरिति । नच सर्वत्रावच्छेद्या-वच्छेदकयोरैकरूप्यं नेति वाच्यम् । प्रकृतेऽपि तथाऽभ्युपगमप्रसङ्गात् । बाधकस्याविशेषात् । न च स्वरूपतोऽबाधे विषयतोऽप्यबाधप्रसङ्ग इति वाच्यम् । विषयतोऽबाधे स्वरूपाबाधवत् स्वरूपतोऽबाधे विषयबाधोपपत्तेः । न च मिथ्यात्वप्रयोजकदृश्यत्वादेरुभयसाधारणत्वादुभयोरपि मिथ्यात्वमिति वाच्यम् । दृश्यत्वादेर्मिथ्यात्वप्रयोजकत्वाभावस्य पुरैवोपपादितत्वात् । ननु कारणत्वमेकमनुगतं चेत् तत्र सत्वं तवावच्छेदकम् । ममासद्विलक्षणत्वम् । तदेव न । कारणत्वस्य सम्बन्धितावच्छेदकघटत्वादिभेदेन भेदात् । तत्र च दण्डत्वादिकमेवावच्छेदकम् । तच्च सत्वासत्वोभयोदासीनमिति चेन्न । अनुगतमतेरनुगतस्य तस्य स्वीकर्तव्यत्वात् । न च सम्बन्धितावच्छेदकभेदेन तद्भेदः । सम्बन्धितावच्छेदकभेदस्य ससम्बन्धिके भेदेऽप्रयोजकत्वात् । अन्यथा ईश्वरज्ञानादीनां भेदप्रसङ्गः । किञ्च न वयं सत्वं कारणतावच्छेदकं ब्रूमः । किन्तु सत्वाभावे कारणत्वमेव न स्यात् । कारणत्वस्य सत्वघटितत्वात् । तथा च बन्ध्यात्वे मातृत्वमिव सत्वाभावे कारणत्वं व्याहतम् । एवं च सत्वस्य कारणत्वनिर्वाहकत्वेन कारणत्व-प्रयोजकत्वम् । यथा पुत्रस्य मातृत्वे । न तु कारणतावच्छेदकत्वेन । तथा चानुक्तोपा-लम्भोऽयमिति दिक् ।
उक्तमर्थं कारिकारूढं करोति ।। तथा चेति । ननु मास्तु विषयस्योपलक्षणत्वेन भयादि-हेतुत्वम् । तथापि ज्ञानावच्छेदकत्वमस्त्येव । अवच्छेदकत्वं च व्यावर्तकत्वम् । तथा च व्यावृत्तिधीहेतुताङ्गीकृतैवेत्यसतो हेतुत्वं दृष्टमित्याशङ्कते ।। नन्विति । व्यावर्तकत्वं च न व्यावृत्ति धीहेतुत्वम् । किन्त्वन्यदेवेति परिहरति यत इति । नन्विदमेव व्यावर्तकत्वमित्यत्र किं नियामकमित्यत आह सत्यपीति । तथा चान्वयव्यतिरेकावेव तत्र मानमिति भावः । अवच्छेदकस्य यद्रूपं तदवच्छिन्नस्येति सामान्यव्याप्तिरुतावच्छेदकस्य मिथ्यात्वेऽवच्छिन्नस्य मिथ्यात्वमिति विशेषनियमः? तत्र नाद्य इत्याह तुच्छस्येति । न द्वितीयः । कुत्राप्यदर्शनात् । ननु स्वप्ने गजादिज्ञानादौ दृष्टमिति चेत् न । गजादिज्ञानस्याबाधेन तन्मिथ्यात्वासम्मतेः ।
ननु यत्रावच्छेदकानां विशेषणत्वं तत्रावच्छेदकस्य यद्रूपं तदवच्छेद्यस्येति नियमः । उदाहृतस्थलेष्ववच्छेदकानां ताटस्थ्यात् । प्रकृते च विशेषणत्वादित्यत आह तत्रेति । न च प्रकृते दृष्टान्तवद् विशेषणत्वे बाधकाभाव इति वाच्यम् । अत्रापि बाधकस्य पूर्वमेवोदाहृत-त्वात् । अर्थावच्छिन्नं ज्ञानं भयादिकारणमित्यङ्गीकृत्यार्थस्याहेतुत्वं समर्थ्य सम्प्रति तदनवच्छिन्नं स्वतो विलक्षणं ज्ञानं हेतुरित्यभिप्रेत्य ज्ञाने स्वतो विशेषं साधयितुं प्रतिजानीते वस्तुतस्त्विति । न चेति । घटादिज्ञानस्यापि भयादिहेतुत्वं स्यादिति भावः । स्वत एवेति । स्वाभाविक-विशेषादेवेत्यर्थः । ज्ञाने स्वाभाविकविशेषे परिशेषं प्रमाणयति तथा हीत्यादिना ।
न्यायामृतप्रकाशः
प्रतिबिम्बं बिम्बस्येति ।। अयं प्रदेशो बिम्बवान् क्वचित्स्थले प्रतिबिम्बयुक्तत्वादित्येवं बिम्बानुमापकत्वं प्रतिबिम्बे दृष्टमित्यर्थः । स्वाप्नार्थः स्वाप्नमन्त्रादिरूपः । उत्तरत्र स्वाप्न-मन्त्रोऽपीतिव्यवहारादिति ज्ञेयम् ।। अर्थभेदस्येति ।। वृक्षहस्तिरूपार्थभेदस्येत्यर्थः ।। त्वन्मतेऽ-पीति ।। स्वच्छदर्पणादिषु प्रतिफलनेन परावृत्ता नायनरश्मयो ग्रीवास्थमुखेन सम्बद्धा ग्रीवास्थमेव मुखं गृह्णन्ति । तत्रैव दर्पणस्थत्वं ग्रीवास्थमुखभिन्नत्वादिकं चारोपयन्ति । यथोक्तं त्वया–
दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।
व्याप्नुवत्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखमिति ।।
लिङ्गलिङ्गिभावस्तु वृक्षशिंशुपावदिति परैरङ्गीकारात् । अतो ग्रीवास्थमुखस्यैव प्रतिबिम्बतायास्त्वयोक्तत्वात्तस्य प्रतिबिम्बस्वरूपस्य सत्यत्वादित्यर्थः ।। ज्ञानमेवेति । तच्च सत्यमेवेति भावः । ननु स्वाप्नकामिन्यादेश्चरमधातूत्सर्गाद्यर्थक्रियाहेतुत्वदर्शनात्स्वाप्नपदार्थस्यैव साधकत्वं न तु तज्ज्ञानस्येति चेत्तत्राह ।। अन्वयेति ।। जाग्रति अन्वयव्यतिरेकाभ्यां तज्ज्ञानस्यैवार्थक्रियाहेतुत्वं दृष्टं न स्वरूपसत्कामिन्यादेः । अतस्तद्दृष्टान्तेन स्वप्नेऽपि तथात्वं कल्प्यतेऽतस्सत्यस्यैव साधकत्वमित्यर्थः ।। लौहित्यस्यापीति ।। लोहितिमविशिष्टजपा-कुसुमस्य तदवयवसमुदायस्य वेत्यर्थः । तेन गन्धरसादेरिव न रूपस्य प्रतिबिम्बो दृष्टचर इति चोद्यानवकाशः ।
पदस्यार्थ इव वर्णे रेखायाः सङ्केतितत्वेनेत्यर्थः । वर्णस्य रेखास्मारितत्वे हेतुरयम् । वर्णश्च सत्य एवेति भावः । अत्र पदस्यार्थे सङ्केतित्वेनेति पररीत्यैव । स्वमते स्वाभाविकी शक्तिरेवेत्यङ्गीकारात् । ‘नित्ययोगोऽपि शब्दानामर्थेनैवे’त्युक्तेः ।। अत एवेति ।। रेखाया वर्णे सङ्केतितत्वादेवेत्यर्थः । रेखास्मारितवर्णेषु दीर्घत्वं स्वतोऽस्त्येव । तच्चक्षुरादिवत्स्वरूप-सदेवार्थविशेषधीजनकं न तु ज्ञाततयेत्येकः पक्षः । वस्तुतो दीर्घत्वं वर्णेषु नास्त्येव किन्त्वा-रोपितमेव । तच्च ज्ञातं सदेव तथेत्यन्यःपक्षः । तत्राद्यपक्षे दीर्घत्वं निर्वक्ति ।। दीर्घत्वादिक-मिति ।। वर्णेषु दीर्घत्वं नाम दीर्घध्वनिसंनिहितत्वमेव नान्यदित्यर्थः ।। तद्व्यक्तत्वरूपमिति ।। दीर्घध्वनिव्यक्तत्वाख्यो धर्म इत्यर्थः । तथाच वस्तुतो दीर्घो यो ध्वनिस्तद्व्यक्तत्वरूपो धर्मो वर्णेष्वस्ति । तदेव दीर्घत्वम् । न ततोऽतिरिक्तम् । तत्सत्यमेवेति भावः । तथाचैतादृश-दीर्घत्वं पारिभाषिकमिति भावः । द्वितीयेऽसत्यस्यैव साधकत्वं प्राप्तमिति चेत्तत्राह ।। ज्ञातं सदिति ।। आरोपितं सदित्यर्थः । ननु ज्ञेयभेदानवच्छिन्नस्य ज्ञानमात्रस्यातिप्रसङ्गेन तद-वच्छिन्नस्य सिद्ध्यङ्गतायां विशिष्टस्य यद्भवतीति न्यायेनासतोऽप्यर्थस्य हेतुत्वं प्राप्तमेवेत्यत उक्तम् ।। अर्थावच्छिन्नमिति ।। एतच्चोत्तरत्रापाकरिष्याम इति भावः ।।
एतेनेति ।। आद्यपक्षानुसारेण वर्णेषु दैर्घ्यस्य सत्त्वेन, द्वितीये तु सत्यस्यैतज्ज्ञानस्यैव साधकत्ववचनेनेत्यर्थः ।। यथेति ।। असतः साधकत्वे परेणोक्तेऽसत्त्वाविशेषाद्धूमाभासस्यापि वह्निसाधकत्वं स्यादित्यतिप्रसङ्गेऽस्माभिरभिहिते सति यथेत्यादिवाचस्पतिना जल्पित-मित्यर्थः । सदर्थभेदरूपं प्रमेयम् ।। धात्विति ।। सा च सत्यैवेति भावः । धातुव्याकुलतायां च भयं, भये च विषशङ्कारूपं ज्ञानमेव हेतुस्तच्च सत्यमेवेति हृदयम् ।। आत्मवदिति ।। अबाधादिति भावः । ननु सत्यभूतस्य मन्त्रस्य कथं स्वप्ने भानमित्यत आह ।। स्वयमिति ।। नन्वथापि भारतयुद्धादौ घटोत्कचादिसृष्टमायिकगजादेरर्थक्रियाकारित्वं दृष्टमिति चेत्तत्राह ।। भारतयुद्धादाविति ।।
वक्ष्यमाणरीत्येति पूर्वमुक्तं तदुपपादयति ।। सवित्रिति ।। नन्वर्थ एव हेतुः किं न स्यादित्यत आह ।। सत्यप्यर्थ इति ।। अभावादिति ।। ज्ञानस्यैव हेतुत्वं नार्थस्येति भावः ।। एवमिति ।। ज्ञानस्यैवारिष्टादिहेतुत्वं नार्थस्येत्यङ्गीकार इत्यर्थः ।। अनुमितिमिति ।। प्रमानुमितिं प्रतीत्यर्थः ।। व्याप्त्यादीति ।। अतद्गुणसंविज्ञानबहुव्रीहिणाऽबाधितत्वं ग्राह्यम् । तथा चाबाधितत्वज्ञानमेवेत्यर्थो द्रष्टव्यः । यथाश्रुते तु व्याप्त्यादिप्रमाया न हेतुत्वम् । तथात्वे गन्धप्रागभावावच्छिन्नो घटो गन्धवान्पृथिवीत्वादित्यत्र व्याप्त्यादिप्रमाजन्याया अप्यनुमिते-र्बाधितत्वेन प्रमात्वाभावादसङ्गतिः स्यादित्यवधेयम् ।। न तु हेत्वादीति ।। अबाधित-विषयत्वमित्यर्थः ।। तज्ज्ञानेति ।। अबाधितत्वज्ञानेत्यर्थः । तथा च हेत्वाभासव्यावृत्त्यर्थम् अबाधितत्वप्रमाया एवानुमितिप्रमां प्रति प्रयोजकत्वे वाच्ये प्रमात्वघटकाबाधितत्वरूपार्थ-स्यापि तत्प्रयोजकत्वं प्राप्तमित्यर्थः इत्येवं व्याचक्षते ।
वस्तुतस्तु व्याप्त्यादिज्ञानमेवेत्यादियथास्थित एवास्तु । गन्धप्रागभावावच्छिन्नो घटो गन्धवान् इत्यत्र तु बाधादनुमितिरेव नोत्पद्यत इति तार्किकैरङ्गीकृतत्वेनातिप्रसङ्गाभावादिति सम्प्रदायः । ज्ञानमात्रस्य हेत्वाभासेऽपि सत्त्वात्प्रमानुमितेरभावात्तत्प्रमाया एव हेतुत्वे वाच्ये प्रमात्वस्यार्थसत्ताघटितत्वाद्धेतुव्याप्त्यादीनामपि हेतुत्वं प्राप्तमेवेति सम्प्रदायः ।
किञ्च न हेत्वादिज्ञानमात्रस्य प्रमानुमितिं प्रति हेतुत्वम् । तथा हि । हेत्वादिज्ञानं त्वन्मते वृत्तिर्वा वृत्तिप्रतिबिम्बितचैतन्यं वा विशिष्टं तदुभयमपि मिथ्याभूतमेव । ततश्च न मिथ्याभूतस्य हेतुव्याप्त्यादिज्ञाने प्रमात्वं नास्तीति चेन्न । तत्र व्याप्त्यादिज्ञानस्य जनकत्वा-भावात् यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तत्त्वमेव जनकत्वमभिप्रेतमिति न दोष इति ज्ञेयम् ।
ननु भयादिरूपार्थक्रिया तावत्सर्पजन्या । सा कथं सर्पभिन्नात्तज्ज्ञानात्स्यादतोऽसतः सर्पस्यैव कारणत्वमित्यतो न भयादिकं सर्पकार्यमित्युच्यते किन्तु सर्पज्ञानकार्यमिति सन्नि-हितेऽपि सर्पे तमजानानस्य भयाद्यदर्शनात् । सर्पकार्यं त्वभिसर्पणादिकमेवेत्याह ।। सत्येति ।। अतिप्रसङ्ग इति ।। सर्पाभावघटादिज्ञानस्यापि भयहेतुत्वापत्तिरित्यर्थः ।। हेतुः स्यादिति ।। अवच्छिन्नस्य यद्भवति तत् अवच्छेदकस्यापि भवतीति नियमादित्यर्थः । अस्य नियमस्य व्यभिचारमाह ।। घटेत्यादिना ।। घटावच्छिन्नस्य घटात्यन्ताभावस्य घटदेशमृत्पिण्डभिन्न-देशत्वेऽपि घटस्य तदभावादित्यर्थः । घटावच्छिन्नस्य ध्वंसस्य घटकालभिन्नकालत्वेऽपि घटस्य तदभावादित्यर्थः ।। घटब्रह्मणोरिति ।। घटस्य, नित्यस्य ब्रह्मणश्च घटज्ञानवेदान्तसाध्यत्वा-भाववदित्यर्थः ।। विहितनिषिद्धकरणाभावयोरिति ।। विहितकरणाभावनिषिद्धकरणा-भावयोरित्यर्थः । प्रत्यवायादिमित्यादिपदेन प्रत्यवायाभावसङ्ग्रहः । ततश्च घटप्रागभावस्य घटं प्रति हेतुत्वेऽपि घटस्य तदभाववत् । विशेषदर्शनाभावस्य भ्रमं प्रति हेतुत्वेऽपि अवच्छेदकस्य विशेषदर्शनस्य तदभाववत्, विहितकरणाभावस्य प्रत्यवायहेतुत्वेऽपि अवच्छेदकस्य विहित-करणस्य प्रत्यवायं प्रति हेतुत्वाभाववत्, निषिद्धकरणाभावस्य प्रत्यवायाभावं प्रति हेतुत्वेऽपि अवच्छेदकस्य निषिद्धकरणस्य प्रत्यवायाभावहेतुत्वाभाववत्, स्वर्गकामनाया यागं प्रति हेतुत्वेऽपि अवच्छेदकस्य स्वर्गस्य यागहेतुत्वाभावात्, अतीतादिवस्तुस्मृत्यादेर्दुःखादिकं प्रति हेतुत्वेऽपि अवच्छेदकस्यातीतादेः तदभाववत्, असद्विषयकपरोक्षज्ञानस्य तद्व्यवहारं प्रति हेतुत्वेऽपि अत्यन्तासतस्तद्व्यवहारं प्रति हेतुत्वाभाववदिति विवेकः ।
न च स्वर्गस्यातीतादेरसतश्च यागदुःखव्यवहारान्प्रति हेतुत्वं किं न स्यादिति वाच्यम् । कामनावत्कामनाविषयस्यापि स्वर्गस्य जनकत्वे तस्य पूर्ववृत्तित्वघटितत्वात् सुखापरपर्यायस्य स्वर्गस्य प्राक्सत्त्वापत्त्या तत्कामनैव व्याहन्येत । सिद्धे इच्छाविरहात् । अतीतस्यापि दुःखजनकत्वे कार्याव्यवहितपूर्वसमये सत्त्वापत्तिः । असतो जनकत्वे तु निस्स्वरूपत्वव्याघात इत्यवधेयम् ।। चिकीर्षितेति ।। कर्तुमिष्टेत्यर्थः । अनागतेति यावत् । अवर्तमानत्वो-पपादनायेदं विशेषणम् । तथा च घटबुद्ध्यभावे घटं करिष्यामीतीच्छानुदयेन घटोत्पत्त्यनु-पपत्तेर्घटबुद्धेर्घटं प्रति हेतुत्वेऽपि घटस्य तदभाववदित्यर्थः ।। ब्रह्मणः अनिवर्तकत्वे हेतुः उदासीनस्वभावस्येति । कर्तृत्वकरणत्वाद्युदासीनस्वभावस्य निवर्तकत्वाद्यनुपपत्तेरित्यर्थः । अर्थावच्छिन्नस्येति ।। ज्ञानस्येति शेषः ।। ताटस्थ्येनेति ।। उपलक्षणत्वेनेत्यर्थः । सङ्गृह्णाति ।। तथा चेति ।। सर्पपूर्वकं नैव कारणमिति सम्बन्धः । तस्य दृष्टान्तः फलेच्छेति । फलं स्वर्गापरपर्यायसुखमित्यर्थः । फलेच्छासाध्ययागादौ फलस्यापि कारणत्वे तस्य प्राक्सत्त्वापत्त्या कामनैवायुक्ता । सिद्धे इच्छाविरहादिति भावः ।
ननु केवलस्यातिप्रसङ्गित्वादसतोऽर्थस्यावच्छेदकत्वमङ्गीकृत्य अवच्छेदकत्वं नाम व्यावर्त-कत्वं तच्च व्यावृत्तिप्रत्ययजनकत्वमित्यसतोऽपि हेतुत्वं प्राप्तमित्याशङ्कते ।। नन्विति ।। यत इति ।। व्यावृत्तिधीजनकत्वं न व्यावर्तकत्वं सत्यपि दण्डविशिष्टदेवदत्ते तदज्ञाने व्यावृत्त्य-ज्ञानात् । अतो व्यावृत्तिधीहेतुधीविषयत्वमेव व्यावर्तकत्वम् । ‘‘दण्डविशिष्टो देवदत्तः’’ इति ज्ञानाद्देवदत्तेऽदण्डिव्यावृत्तिधीर्जायते । तद्विषयत्वं नाम तत्प्रकारत्वं विवक्षितम् । अन्यथा विशेष्येऽतिव्याप्तेः । अतोऽविशिष्टात् व्यावृत्तिधीहेतुभूता या धीः दण्डप्रकारिका देवदत्त-विशेष्यका विशिष्टधीः तत्प्रकारत्वं दण्डेऽस्ति । एवमिहापि सर्पज्ञानेऽसर्पज्ञानाद्व्यावृत्तिबुद्धि-र्भवति । तज्जनिका या धीः ‘‘इदं सर्पज्ञानम्’’ इत्येवं सर्पप्रकारिका तज्ज्ञानविशेष्यकाऽनु-व्यवसायरूपा विशिष्टधीः तत्प्रकारत्वं सर्पेऽस्ति । अतो न मिथ्यार्थस्य व्यावृत्तिधीजनकत्वं किन्तु तज्ज्ञानस्यैव प्राप्तमिति न कोऽपि दोषः । सत्यपि दण्ड इत्येतत् दण्डविशिष्टे देवदत्ते तदज्ञाने सति दण्डप्रकारकदेवदत्तविशेष्यकविशिष्टज्ञानाभावेऽविशिष्टाद्व्यावृत्त्यज्ञानादिति व्याख्येयम् ।
नन्वथापि ज्ञानस्यैव हेतुत्वाङ्गीकारेऽपि असत्यस्यैव हेतुत्वं सिद्ध्यति । ज्ञानस्य भयादिजनकत्वेऽतिप्रसङ्गभयाय सर्पाद्यवच्छिन्नत्वं कारणतावच्छेदकं वाच्यम् । तथा चावच्छेदकीभूतस्य सर्पादेर्मिथ्यात्वेन तदवच्छिन्नज्ञानस्यापि मिथ्यात्वं प्राप्तमित्याशङ्कते ।। नन्विति ।। स्यादिदं यद्यवच्छेदकस्य यद्भवति तत् अवच्छिन्नस्यापीति नियमः स्यात् । न चैवं, व्यभिचारादित्याह ।। तुच्छस्येति ।। अवच्छेदकीभूतस्य तुच्छस्य तुच्छत्वेऽपि तदवच्छिन्नज्ञाने तुच्छवैलक्षण्ये च तुच्छत्वस्यादर्शनादित्यन्वयः । अविद्यानिवृत्तिः पञ्चम-प्रकारा वा आत्मैवाज्ञानहानिरिति वचनात् । अधिकरणातिरिक्ताभावाभावादात्मस्वरूपा वेति मतद्वयसद्भावादाह ।। पञ्चमेति ।। चतुर्थप्रकारानिर्वचनीयत्वाभावोपपादनाय पञ्चमप्रकारे-त्यादिविशेषणम् । अत्रापि मतद्वयसद्भावादाह ।। परमार्थिकेति ।। अनृतं यद्द्वैतं तस्याभावे इत्यर्थः । ततः अनृतात् द्वैतात् । अनृतद्वैताभावस्यानृतव्यावृत्तेश्च पारमार्थिकत्वात् पारमार्थिकात्मस्वरूपत्वमेव । तद्भिन्नत्वेऽपि नाद्वैतहानिः । अभावरूपधर्मा नाद्वैतं घ्नन्तीति मण्डनवचनादिति ध्येयम् । तत्रेति ।। तत्र तुच्छज्ञानादौ । असदादीनां ताटस्थ्ये उपलक्षणत्वे, अत्रापि सर्पज्ञानादौ विषयस्योपलक्षणत्वमेवास्त्वित्यर्थः ।।
अर्थानवच्छिन्नमेवेति ।। एवं चावच्छेदकस्य मिथ्यात्वेऽवच्छिन्नस्यापि तन्नियमादसत्य-स्यापि हेतुतेति चोद्यानवकाश इति भावः ।। अतिप्रसङ्ग इति ।। विषयातिरिक्तस्य व्यावर्तकस्य ज्ञानेऽभावात् विषयस्य च व्यावर्तकत्वानङ्गीकारे ज्ञानमात्रस्यैव भयादौ हेतुत्वाङ्गीकारापातेन सर्पाभावघटादिज्ञानमपि भयादिहेतुः स्यादित्यतिप्रसङ्ग इत्यर्थः । विषयावच्छेदं विषयरूपं व्यावर्तकम् ।। स्वरूपातिरिक्तेति ।। विषयतत्सम्बन्धयोर्ज्ञानेन सह स्वरूपसम्बन्धातिरिक्तद्विष्ठसम्बन्धस्याभावादित्यर्थः ।। असम्बद्धस्येति ।। विषयस्य तत्सम्बन्धस्य च ज्ञानेनासम्बद्धस्येत्यर्थः । ज्ञानं प्रत्यव्यावर्तकत्वात् । अन्यथाऽतिप्रसङ्गः स्यादित्यर्थः । स्वरूपमेव सम्बन्ध इत्यन्वयः ।
न्यायकल्पलता
उभयसिद्धे सद्विविक्ते साधकत्वदर्शनात्पारमार्थिकसत्वस्य साधकतायामप्रयोजकत्वमिति शङ्कते । नन्विति । प्रतिबिम्बं बिम्बस्येति । अयं देशः बिम्बवान् उचितस्थले बिम्बयुक्त-त्वादित्यादिक्रमेण बिम्बानुमापकत्वं प्रतिबिम्बे दृष्टमिति सम्बन्धः । लौहित्यं चेति । न च लौहित्यं स्फटिके न मिथ्या । किन्तु धर्ममात्रप्रतिबिम्ब इति पृथुगुदाहरणानुपपत्तिरिति वाच्यम् । धर्मिभूतमुखादिनैरपेक्ष्येण तद्धर्मभूतरूपादिप्रतिबिम्बादर्शनात् । लौहित्ये स्फटिकस्थत्वारोपे तस्य प्रतिबिम्बत्वं स्फटिके लौहित्यारोपे तु तन्मिथ्यात्वमिति स्वीकृतत्वाच्च । स्फटिकमणेरेवो-पाधाननिमित्तो लोहितिमेति लोहितिम्नो मिथ्यात्वं दर्शितम् । प्रतिबिम्बस्य सत्यत्वादिना पद्मपादेन पञ्चपादिकायामित्यभिप्रायः उपन्यस्ततनिराह । नेति । प्रतिबिम्बेति । न च प्रतिबिम्बस्य बिम्बात्मना सत्वेऽपि प्रतिबिम्बाकारेणासत्वमिति साम्प्रतम् । तयोरभेदे बिम्बाकारातिरिक्तस्य प्रतिबिम्बाकारस्यायोगात् । सत्यत्वादिति । स्वच्छादर्शादिषु प्रतिफलनेन परावृत्ता नयनरश्मयो ग्रीवास्थमुखेन सम्बद्धास्तदेव गृह्णन्ति । तत्रैव दर्पणस्थत्वग्रीवास्थत्व-मुखभिन्नत्वादिकं चारोपयन्ति । यथोक्तम्–
दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।
व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।। इति ।
लिङ्गलिङ्गिभावस्तु वृक्षशिंशुपावदिति परैरङ्गीकारादित्यर्थः । ज्ञानमेवेति । तच्च सत्य-मित्यर्थः । ननु स्वाप्नकामिन्यादेः सुखहेतुत्वदर्शनात् स्वाप्नपदार्थस्य साधकत्वं न तु तज्ज्ञान-स्येत्यत आह– अन्वयेति । जाग्रत्यन्वयव्यतिरेकाभ्यां तज्ज्ञानस्य सुखहेतुत्वदर्शनेन स्वप्नेऽपि तथात्वं कल्प्यत इत्यर्थः । तेन धर्मिभूतमुखादिनैरपेक्ष्येण तद्धर्मभूतरूपादेर्नीरूपस्य च प्रतिबिम्बो न दृष्टचर इति चोद्यानवकाश इत्याक्षेपसमाधानं तदयुक्तम् । स्वमते नीरुपद्रव्यस्य प्रतिबिम्बा-भावेऽपि गुणस्य रूपस्य प्रतिशब्दवत्प्रतिबिम्बोपपत्तेः । अन्यथा चिद्रूपब्रह्मणो जीवो न प्रतिबिम्बः स्यात् । अवयविनः इति वाच्ये तदवयवसमुदायस्येति दुर्भणितिः । स्फटिकलौहिति-मारोपे तु तस्य मिथ्यात्वमिति मतं न भद्रम् । अविद्योपाधिकस्य ब्रह्मप्रतिबिम्बस्य जीवस्यापि मिथ्यात्वापत्तेः । प्रतिबिम्बस्याप्यव्याप्यवृत्तित्वनियमात् लौहित्यस्य स्फटिकमणौ व्याप्यप्रतीति-रयुक्ता । प्रतिबिम्बस्याभिमुखप्रतीतिनियमेन लोहितिम्नस्तिर्यक्प्रतीतिरप्ययुक्तेति चेत् । मैवम् । प्रतिबिम्बस्यानेकविधत्वात् । अत एव गगनस्थितसवितुः स्वच्छदर्पणादौ व्यत्यस्तेनापि दर्शनम् । सूर्यकस्य तव मतेऽपि प्रतिबिम्बत्वात् ।
नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसोगतम् ।।
इत्यन्तरिक्षस्थादित्यस्यैव उद्यत्वादिविशेषणवत्कथं वारिस्थत्वेनापि विशेषणम् । तत्वविन्नये बिम्बसन्निधिवशादादर्शाद्युपाधिः । बिम्बसदृशाकारगर्भितो जायते । परिणतस्तादृशाकार-स्तत्सन्निध्यपाये नश्यति । निमित्तनाशेनापि द्वित्वादिवत्तन्नाशः । रेखेति । लिपिभेदेन रेखाभेदग्रहेऽपि वर्णाभेदानुभवादिति भावः । नन्वाशैशवमयं ककारोऽयं गकार इत्यभेदानु-भवाहितदृढतरसंस्कारवशान्नारोपनिवृत्तिः । अत एव ककारं पठति लिखति चेति सार्वलौकिको व्यावहारिक इति चेन्न । न दृढतरभेदप्रत्ययेन रेखावर्णयोरभेदारोपासम्भवात् । किन्तु कृष्णकर्दम-लेपने सति कृष्णं वस्त्रमितिवत् उपचारमात्रत्वात् । प्रकारान्तरेणानिर्देष्टुमशक्यत्वादेव रेखाविशेषे वर्णविशेषव्यवहारः । दीर्घध्वनीति । ननु ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इत्यादिप्रत्ययात् न दीर्घध्वनिसाहित्यरूपं वर्णेषु दीर्घत्वमिति चेत् । मैवम् । ध्वन्यग्रहे दीर्घत्वग्रहासिद्धेः । तवापि वर्णेषु दैर्घ्यारोपार्थं ध्वनेरावश्यकत्वात् योग्यत्वाच्च तद्ग्रहोपपत्तेः ।
ननु शीतलं शिलातलं सुरभि जलमितिवदुपाध्यग्रहेऽपि दीर्घत्वभ्रमो भविष्यति । नच योग्यत्वात् तद्ग्रहः । तथापि तन्नियमाभावादित्यत आह– तद्व्यक्तेति । वस्तुतो दीर्घो योे ध्वनिस्तद्व्यक्तं यद्रूपं तदेव दीर्घत्वमित्यर्थः । सत्यं ज्ञानमिति । यथाच सर्पज्ञानस्य सत्वं तथा वक्ष्यते । वाचस्पत्युक्तं निरस्तमिति । अन्वयव्यतिरेकाभ्यां चक्षुरादेरुपाधौ साधकत्वे क्लृप्ते रसादिषु तदभावेन योग्यत्वायोग्यत्वे कल्प्येते । असतस्तु सर्वसामर्थ्यविधुरस्य कुत्रापि साधकत्वा-दर्शनात्सत एव तत्कल्प्यत इति विशेषः । अन्यथा ब्रह्मण इव शून्यस्यापि जगत्कारणत्वा-पातः । तथाचासदिति चेन्न प्रतिषेधमात्रत्वादित्यादिसूत्रविरोधः ।
ननु साधकतावच्छेदकरूपवत्वमेव साधकतायां प्रयोजकम् । नत्वारोपितत्वमनारोपितत्वं वा । धूमाभासस्य त्वसाधकत्वं साधकतावच्छेदकरूपव्याप्यत्वाभावात् । अनाभासत्वग्रहश्च तत्र बहुलोर्ध्वतादिग्रहवद्व्याप्तिग्रहणार्थमेवापेक्षित इति चेत् । मैवम् । आरोपितार्थांगीकारे दण्डत्वादि-साधकतावच्छेदकस्य तत्रापि सत्वेन तद्व्यावृत्यर्थमनारोपितत्वस्यापि साधकतायां प्रयोजकत्वात् । धूमाभासेऽपि धूमत्वाङ्गीकारे व्याप्त्यवच्छेदकसत्वेन व्याप्यत्वापातात् । किञ्च । आभासविविक्त-त्वस्य व्याप्त्युपयोगित्वं किं लोकानुभवात् कल्प्यते । उत स्वसमयसंरक्षणार्थम् । नाद्यः । हृदोऽग्निमान् धूमवत्वादित्युक्तेलोका असिद्धिमेवोद्भावयन्ति नत्वव्याप्तिम् । न द्वितीयः । त्वत्कल्पितप्रक्रियायाः निर्मूलत्वात् । वक्ष्यमाणरीत्येति । पूर्वमुक्तमुपपादयति । सवित्रिति । नन्वर्थस्य हेतुत्वे सम्भवति न तज्ज्ञानस्य हेतुत्वं कल्प्यमत आह– सत्यपीति । भयादेर्ज्ञान-विशेषविरहप्रयुक्तविरहप्रतियोगित्वादित्यर्थः । नन्वेवं सर्वत्रार्थज्ञानमेव हेतुः स्यान्नत्वबाध्यार्थ-ज्ञानमित्याशंक्य निराह – नचेति । अनुमितिं प्रमानुमितिम् । यादृच्छिकसंवादिलिङ्ग-विभ्रमादेरभियुक्तैः प्रमाणत्वेनापरिग्रहात् व्यप्त्यादीत्यत्रातद्गुणसंविज्ञानबहुव्रीहिमाश्रित्याबाधि-तत्वमित्यर्थो न कल्पनीय इति प्रागुक्तमत्रानुसन्धेयम् । हेत्वादीति । त्रिकालाबाध्यहेत्वा-दीत्यर्थः । तज्ज्ञानेति । हेत्वादिज्ञानमात्रस्येत्यर्थः । तथा चाभासव्यावृत्तकालत्रयाबाध्यधूमादि-प्रमाया अनुमितिप्रमां प्रति प्रयोजकत्वमित्यर्थः । तेन हेत्वाभासव्यावृत्यर्थमबाधितत्वप्रमायाः प्रमानुमितिं प्रति प्रयोजकत्वे प्रमात्वघटकस्याबाधितत्वरूपार्थस्यापि तत्प्रयोजकत्वमिति भावो न वर्णनीयः । न चैवं रूपप्रागभावविशिष्टे घटे व्यप्त्यादिमल्लिंगजन्यायाः रूपानुमितेः प्रमात्वं स्यादिति देश्यम् । न हि लिङ्गमात्रं व्याप्तिमात्रं वा अनुमितिप्रयोजकं किन्तु समुचितदेशादि-सिध्यादीनि हेतुरूपाण्यपि । तत्र बाधेन स्वरूपसत्पक्षधर्मत्वरूपविरहात्स्वरूपसदबाधितार्थत्व-रूपविरहाद्वा प्रमात्वाभावोपपत्तेः । अतो यथाश्रुते नासङ्गतिः । कालत्रयाबाध्यत्वलक्षण-परमार्थसत्वस्यैव साधकतायां प्रयोजकत्वोपपादनस्य प्रक्रान्तत्वादिति । न चैवं त्वयाप्यर्थज्ञानमेव साधकमिति सुवचमित्याह– त्वन्मत इति । ननु सर्पादिजन्या भयादिरूपार्थक्रिया कथं असर्पात् तज्ज्ञानात्स्यादित्यत आह– सत्येति । सर्पणेति । भयादिकं तु न सर्पार्थक्रिया । सन्निहितेऽपि सर्पे तमजानानस्य भयाद्यभावादिति ।
अतिप्रसङ्ग इति । सर्पाभावज्ञानस्यापि भयहेतुत्वापित्तिरित्यर्थः । अवच्छिन्नस्येति । अर्थावच्छिन्नस्य ज्ञानस्य हेतुत्वेऽवच्छेदकस्यार्थस्य सर्पादेरपि हेतुत्वम् । अवच्छिन्नस्य ज्ञातत्वे अवच्छेदकस्यापि ज्ञातत्ववदित्यर्थः । घटस्येति । घटदेशकालौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ताभावध्वंसयोर्ग्राह्यम् । घटस्यापि तत्सम्बन्धे तद्देशकालभिन्नदेशकालत्वमेव व्याहतं स्यादित्यर्थः । घटेति । न च घटेच्छाद्वारा घटजनकत्वे इष्टापत्तिः । तस्य घटकृताव-न्यथासिद्धत्वेन प्रनाड्या घटजनकत्वे मानाभावात् । न चैवमीश्वरज्ञानमपि जनकं न स्यादिति देश्यम् । ईश्वरेच्छायाः अपि नित्यत्वेन तद्वारा तज्ज्ञानस्य जगद्धेतुत्वाभावात् । यद्धि यज्जनयि-त्वैव यज्जनयति तत्र तस्यावान्तरव्यापारत्वात् । ईश्वरज्ञानेच्ेछाकृतीनां प्रत्येकमेव जनकत्वात् । अन्यथा कृत्यैव कर्तृसिद्धेर्ज्ञानेच्छे इति न स्याताम् । वस्तुतस्तु घटेच्छापदेनात्र घटजिघृक्षा विवक्षिता । नतु घटचिकीर्षा । तस्या घटोपादानमृत्पिण्डगोचरापरोक्षज्ञानजन्यत्वेऽपि घटापरोक्ष-ज्ञानजन्यत्वाभावात् । चिकीर्षायाश्च सिद्धवृत्यसिद्धगोचरत्वेनासिद्धविषयकृतिजनकत्वात् । तथा च घटादित्सायाः घटज्ञानजन्यत्वेऽपि घटस्य तदजन्यत्ववदित्यर्थो बोध्यः । ब्रह्मण इति । ब्रह्मणो वेदान्तजन्यत्वे नित्यत्वविरोधादित्यर्थः । घटं प्रतीति । अस्य वक्ष्यमाणेन हेतुत्वेऽपीत्यनेनान्वयः । विहितनिषिद्धकरणाभावयोरिति । विहितकरणाभावस्य विहिताकरणस्य प्रत्यवायं प्रति निषिद्धकरणाभावस्य निषिद्धाकरणस्य च आदिपदोपात्तप्रत्यभावायाभावं प्रतीति सम्बन्धः । अवच्छेदकस्य घटस्येति । घटप्रागभाववद्धटस्य घटजनकत्वे घटतत्प्रागभावयोः समानकालत्वापत्तिः । स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन्व्याहतत्वं च । तत्प्रागभाव-कालवृत्तित्वस्य तत्पूर्वत्वात् । कारणत्वस्य च तत्पूर्वत्वरूपत्वादित्यर्थः । विशेषदर्शनस्य विहितनिषिद्धकरणयोरिति । विशेषदर्शनादेेर्भ्रमादिजनकत्वे तत्प्रतियोगितदभावयोः सहावृत्या भ्रमप्रत्यवाययोरनुत्पत्तिप्रसङ्गः । स्वर्गस्येति । कामनावत्कामनाविषयस्यापि यागजनकत्वे तस्य प्राक्सत्वापत्या तत्कामनैव व्यावहन्येत । सिद्धे इच्छाविरहादित्यर्थः । अतीतादेरिति । अतीतस्य जनकत्वे कार्याव्यवहितपूर्वकाले स्वस्वव्याप्यान्यतरसत्वापत्तिः । अत्यन्तेति । असतो जनकत्वे निस्वरूपत्वव्याघातः । घटस्येति । चिकीर्षितघटज्ञानवत् घटस्य घटजनकत्वे पूर्ववद्घटतत्प्राग-भावयोः समानकालत्वापत्तिः । सावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन्व्याहतत्वं च । उदासीनस्वभावस्येति । नच वृत्युपहितस्य ब्रह्मणो वृत्तिविषयत्वम् । तस्य चाज्ञाननिवर्तकत्व-मस्त्येवेति देश्यम् । वृत्तेः स्वविषयत्वेन स्वप्रकाशत्वस्याप्रमात्वस्य चापातेन शुद्धब्रह्मण एव वृत्तिविषयत्वमौचितीमावहतीत्युक्तत्वात् । ब्रह्मण इति । ब्रह्मणो जगत्परिणामिकारणत्वे जगति जडत्वोपलम्भानुपपत्तेः । चैतन्यापत्तिश्च । उपादानसत्तासमनसत्ताकोऽन्यथाभावः परिणाम इत्यङ्गीकारादित्यर्थः । ताटस्थ्येनेति । उपलक्षणत्वेनेत्यर्थः ।
अत्राद्वैतवादिनो वदन्ति । यदुक्तं ताटस्थ्यलक्षणत्वमेव सर्वत्रावच्छेदकस्येति । तन्न । विशेषणत्वे सम्भवत्युुपलक्षणत्वायोगात् । विशेषणत्वबाधपूर्वकत्वादुपलक्षणकत्वकल्पनायाः । अन्यथा दण्डी प्रैषानन्वाह लोहितोष्णीषा ऋत्विजः प्रचरन्ति इत्यादावपि दण्डलौहित्यादेरुप-लक्षणत्वात् तदभावेऽपि प्रैषानुवचनाद्यापत्तिः । सर्वादिनि सर्वनामानीत्यत्र सर्वशब्दस्य सर्वनाम-संज्ञा न स्यात् । जन्माद्यस्य यत इत्यत्र जन्मनो ब्रह्मलक्षणत्वं च न स्यात् । विशेषणार्थत्वेन तद्गुणसंविज्ञानबहुव्रीहिसम्भवेऽप्युपलक्षणार्थत्वेनातद्गुणसंविज्ञानबहुव्रीहिस्वीकारप्रसङ्गात् । एवमसि- पाणयः प्रवेश्यन्तामित्यादिलौकिकप्रयोगेऽपि । प्रतिबिम्बादिज्ञानानां जनकत्वे च विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधाभावान्नोपलक्षणत्वपक्षो युज्यते । उदाहृतस्थले तु सर्वत्र बाधकमस्त्येवेति न विशेषणत्वमिति ।
अत्रोच्यते । कारणत्वस्य कार्याव्यवहितपूर्वसत्वगर्भितत्वेन धूमाभासादौ साधकत्वाभावस्य सार्वजनीनत्वेन शुक्तिरजतादावर्थक्रियाकारित्वाभावदर्शनेन च प्रकृतेऽपि विशेषणत्वे अस्त्येव बाघकसद्भावः । तथाहि । सर्पज्ञानादावसति भयाद्यभावात्सति च सर्पज्ञाने भयदर्शनात् सर्पज्ञानस्य भयहेतुत्वे स्थिते ज्ञानजन्येषु कार्येषु तद्विषयस्योपलक्षणत्वमेवोचितम् । न तु विशेषणत्वम् । हेतुव्याप्त्यादिज्ञाने तथाऽवधारणात् । अनुमितिप्रमात्वानुरोधेन तद्विषयस्य हेत्वादेस्त्रिकालबाधविरहलक्षणं पारमार्थिकसत्वं प्रतीमो न तु लिङ्गादेरनुमित्यादिजनकत्वम् । न च तत्र व्यप्त्यादेरपि हेतुत्वात्स्वज्ञानं प्रति तस्य विशेषणत्वमिति युक्तम् । व्याप्तिभ्रमादनु-मित्यभावापत्तेः । न च तत्रापि व्याप्तिरनिर्वचनीयाऽस्त्येति वाच्यम् । तत्र व्याप्तिसत्वे भ्रमानुमित्यसम्भवापातात् । अतीन्द्रियव्याप्तिभ्रमे तदभावाच्च । न चातीन्द्रियभ्रमेऽप्याविद्य-कार्थोत्पत्तिरस्त्येव । अन्यथा तत्रान्यथाख्यातेरसत्ख्यातेर्वा प्रसङ्ग इति देश्यम् । तथात्वे शुक्तिरजतादेवाभासासद्वैलक्षण्यमेव स्यान्नत्वनाभासासद्वैलक्ष्यमित्युक्तत्वात् । किञ्चैवमतीतत्वेन निश्चिताद्धूमादेर्ज्ञानादनुमितिर्न स्यात् । न हि तत्राप्यर्थ उत्पद्यते । अतीतज्ञानस्य भ्रमत्वा-भावात् । विशेषदर्शनस्य सत्वात् । एवं ज्ञानकरणज्ञानत्वावच्छिन्नं प्रति क्वचिद्विषयः सन्नपि न हेतुः । यत्प्रमातो यत्प्रमा तदप्रमातस्तदप्रमेत्यभियुक्ताः प्रतिपन्नाः । तस्माद्यत्र ज्ञानस्य हेतुत्वं न तत्र तद्विषयस्य जनकत्वम् । गौरवात् । दण्डी प्रैषानन्वाहेत्यादौ तदस्यास्त्यस्मिन्निति मतुप् इति मतुबर्थे विहितस्येन्प्रत्ययस्य वर्तमानत्वरूपास्त्वित्वे विधानात् श्रौतमेव विशेषणत्वम् । सर्वादीनि सर्वनामानीत्यत्र जन्माद्यस्य यत इत्यत्र च क्रियान्वितसमस्यमानपदार्थयोग्यान्य-पदार्थत्वरूपमुख्यसमासस्य तद्गुणसंविज्ञानस्य बहुव्रीहेः सम्भवेनानेवंविधस्यातद्गुणसंविज्ञान-स्यानाश्रयात् । वक्ष्यते चैतत्पराभिमतस्वप्रकाशत्वभङ्गे । तस्माद्भयादिकारणे सर्पज्ञानादौ न सर्पादेर्विशेषणत्वं बाधकवशादेव । क्षेत्रे कुरूणामिव ताटस्थ्येनोपलक्षणत्वम् ।
ननु तथाप्यसतः सर्पादेर्भयादौ हेतुत्वं वाच्यम् । तदुत्कर्षेण तदुत्कर्षात् । तथाहि । स्वप्ने जागरे वोत्कृष्टकलधौतदर्शनादुत्कृष्टं सुखम् । उत्कृष्टसर्पादिदर्शनाच्चोत्कृष्टं भयादि दृश्यते । विषय-स्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात् । नह्यकारणोत्कर्षः कार्यमनुविधत्त इति न्यायात् । न च ज्ञानप्रकर्षादेव तत्र प्रकर्षः । ज्ञानेऽपि विषयगतप्रकर्षं विहायान्यस्य प्रकर्षस्या-भावात् । न च ज्ञानगतजातिरेव प्रकर्षः । चाक्षुषत्वादिना संकरप्रसंगात् । विषयगतप्रकर्षणैवोपपत्तौ चाक्षुषत्वादिव्याप्यानां जात्यंगीकारे गौरवान्मानाभावाच्चेति चेत् । न । दोषोत्कर्षेण ज्ञानो-त्कर्षोपपत्तेः । दृश्यते हि पीत्तादिदोषोत्कर्षाद्भ्रमोत्कर्षः । तस्मान्नासतो भयादौ हेतुत्वम् । सङ्गृह्णाति– तथाचेति । सर्पपूर्वकं सर्पादिकम् । फलेति । स्वर्गेच्छासाध्ये यागादौ स्वर्गादिफलस्य यथा न कारणत्वमित्यर्थः । अथापीति । सर्पज्ञानकार्ये भयादौ सर्पादेर्हेतुत्वाभावेऽपीत्यर्थः । सत्यपीति । तथा च व्यावृत्तिधीजनकत्वरूपं व्यावर्तकत्वं व्यावर्तकत्वेन सम्मते दण्डादौ नास्तीति व्यावृत्तिधीहेतुधीविषयत्वमेव व्यावर्तकत्वं वाच्यमित्यर्थः । नन्वथापीति । ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतावच्छेदकमास्थेयम् । ज्ञानत्वेन जनकत्वेऽति-प्रसङ्गात् । तथा च मिथ्यार्थावच्छिन्नत्वाकारेण ज्ञानस्य मिथ्यात्वाद्भ्रमस्थले ज्ञानमात्रस्य जनकत्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव । जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण सत्वमप्यसत्वान्नातिरिच्यतेऽनुपयोगात् । तदुक्तं खण्डने अन्यदासत्वं तु पाटच्चरलुण्ठिते वेश्मनि यामिकजागरणवृत्तान्तमनुसरतीति । स्वरूपेणापितु भ्रमज्ञानस्य मिथ्यात्वमस्त्येव । स्वरूपतो बाधाभावेऽपि विषयतोऽप्यबाधप्रसंगादित्याशयः । तुच्छेति । असत्सर्पावच्छिन्नज्ञाने यद्यसत्वं तर्हि तुच्छावच्छिन्नतुच्छज्ञाने तुच्छाद्वैलक्षण्ये च तुच्छत्वं स्यात् । एवं प्रातिभासिकवैलक्षण्यादौ ज्ञेयम् । चरमवृत्तेः स्वरूपतो बाधेऽपि विषयतो बाधाभावान्न भ्रमज्ञानस्य स्वरूपतोऽसत्वं, एतावन्तं कालं भ्रम आसीदित्यनुभवाच्चेत्यर्थः । ननु नावच्छेद्यावच्छेदकयोः सर्वत्र सारूप्यम् । प्रकृते चावच्छेदक इवावच्छेद्येऽपि मिथ्यात्वप्रयोजकरूपतुल्यत्वेन सारूप्योपपत्तिरिति चेत् । मैवम् । मिथ्यात्वप्रयोजकस्य बाधादेरर्थे सत्वे तदवच्छेद्ये ज्ञानेऽसत्वात् । दृश्यत्वादेस्तु मिथ्यात्वं प्रत्यप्रयोजकत्वात् । आत्मनि मोक्षे बाधे च दृश्यत्वस्य सत्वाच्च । तत्र चेति । तुच्छज्ञानादौ । असदादीनां तुच्छादीनाम् । ताटस्थ्ये उपलक्षणत्वे । सर्पज्ञानादावपि विषयउपलक्षण-मस्त्वित्यर्थः । वस्तुतस्त्विति । तथा चार्थानवच्छिन्नस्यैव ज्ञानस्य भयादिहेतुत्वे अवच्छेदक-स्यार्थस्य मिथ्यात्वे तदवच्छेद्यस्य ज्ञानस्यापि मिथ्यात्वमित्यादिचोद्यानवकाश इत्यर्थः ।
ननु विषयतातिरिक्तस्यावच्छेदकस्य ज्ञानेऽभावात् विषयस्य चावच्छेदकस्य त्वयाऽ-नङ्गीकारात् ज्ञानमात्रमेव भयादौ हेतुरित्यङ्गीकृतं स्यात् । तथा च सर्पाभावज्ञानमपि भयादिहेतुः स्यादित्याशङ्क्य निराकरोति । विषयावच्छेदमिति । स्वरूपातिरिक्तेति । विषयतत्सम्बन्धयो-र्ज्ञानेन सह द्विष्टसम्बन्धस्य स्वरूपातिरिक्तस्याभावादित्यर्थः । असम्बद्धस्य चेति । विषयस्य तत्सम्बद्धस्य च ज्ञानेनासम्बन्धस्य ज्ञानं प्रत्यव्यावर्तकत्वादित्यर्थः ।
न्यायामृतसौगन्ध्यम्
ननु प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति । तस्य बिम्बात्मना सत्वेऽपि प्रतिबिम्बा-कारेणासत्वात् । परमार्थसत्वं न साधकत्वे प्रयोजकम् । एवं स्वप्नार्थस्यासतोऽपि शुभाशुभ-सूचकत्वमिति चेन्न । ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति’ इत्यादिश्रुतिबलात्् विषयोपलक्षित-दर्शनस्यैव तत्साधकत्वात् । उपाधिसान्निध्यानुमापकं स्फटिकलौहित्यमपि प्रतिबिम्ब एव । तस्य च सत्यत्वमुपपादयिष्यते । न च प्रतिबिम्बस्याव्याप्यवृत्तित्वेन व्याप्यवर्तिनः तस्य कथं प्रतिबिम्बत्वमिति वाच्यम् । वस्तूनां विचित्रस्वभावत्वेन तदुपपत्तेः । क्वचिन्महत्यां स्फटि-कशिलायां उपाधिना रेखायां तादात्म्यारोपाभावात् । विवेकिनां भेदज्ञाने विद्यमाने ‘अयं ककारो’, ‘अयं गकारः’ ‘ककारं लिखति ककारं पठति च’ इति सार्वलौकिको व्यवहारः औपचारिक एव, न त्वारोपः । ‘नगो नागः’ इत्यादौ हृस्वदीर्घध्वनिसाहित्यं तदभिव्यक्तत्वं वा वर्णे हृस्वत्वादिकं न तु ध्वनिनिष्ठह्रस्वत्वादिकं वर्णेऽऽ(था)रोपितम् । न च ध्वनीनाम-स्फुरणेऽपि ‘दीर्घो वर्णः’ इत्यादिप्रत्ययान्नेदं युक्तम् । ध्वन्यस्फुरणे दीर्घत्वादिप्रत्ययस्या-भावात् । किञ्च हृस्वत्वादीनां ज्ञानमेव साधकं, पदज्ञानस्य शब्दबोधसाधकत्वात् । किञ्चारोपितेन वास्तवार्थसिद्धौ बाष्पारोपितधूमेन व्यावहारिकः पारमार्थिकोऽपि वा वह्निः सिध्येत् ।
न च साधकतावच्छेदकरूपवत्वमेव साधकतायाः प्रयोजकम्, न त्वारोपितत्व-मनारोपितत्वं वा, धूमाभासस्यासाधकत्वं तु साधकतावच्छेदकरूपव्याप्त्यभावात्, नासत्वा-दिति वाच्यम् । बाष्पारोपितधूमे प्रातिभासिकव्याप्त्यादेरपि सत्वात् । एतेन अनाभासत्व-ग्रहश्च तत्र बहुलोध्वतादिग्रहवत् व्याप्तिग्रहणार्थमेवापेक्षित इति निरस्तम् । प्रातिभासिकाना-भासत्वग्रहस्यापि तत्र सम्भवात् । न च शङ्काविषस्य मरणहेतुत्वं दृष्टं, तत्र शङ्कैव हि भयमुत्पाद्य, धातुव्याकुलतां चोत्पाद्य मरणहेतुः, न तु शङ्कितं विषमपि । अन्यथा अमृतत्व-बुध्या भक्षितं विषं सञ्जीवकं स्यात् । ब्राह्मण्यां अब्राह्मणाज्जातस्य ज्ञातब्राह्मण्यस्य ‘ब्राह्मणो यजेत’ इति विधिनियोज्यः स्यात् ।
किञ्चान्वयव्यतिरेकाभ्यां रज्जुसर्पादिज्ञानमेव हि भयादिसाधकं न त्वर्थोऽपि । न हि सन्निहितमपि सर्पमजानानो बिभेति । न चार्थानवच्छिन्नस्य ज्ञानस्य हेतुत्वे अतिप्रसङ्गादर्था-वच्छिन्नमेव ज्ञानं हेतुः । तथा च विशेषणतया अर्थोऽपि हेतुरिति वाच्यम् । अर्थावच्छिन्नस्य ज्ञानस्य हेतुत्वेऽपि अवच्छेदकस्यार्थस्य ताटस्थ्येनाहेतुत्वोपपत्तेः । घटावच्छिन्नस्य तदत्यन्ता-भावतद्ध्वंसादेर्घटदेशकालभिन्नदेशकालादित्वेऽप्यवच्छेदकस्य तदभाववत्, घटेच्छाब्रह्मज्ञानयो र्घटज्ञानवेदान्तसाध्यत्वेऽपि घटब्रह्मणोस्तदभाववत्, घटप्रागभावस्य घटं प्रति जनकत्वेऽपि घटस्याजनकत्ववत्, विशेषादर्शनस्य भ्रमं प्रति जनकत्वेऽपि विशेषदर्शनस्य तदभाववत्, विहिताकरणस्य प्रत्यवायजनकत्वेऽपि विहितकरणस्य तदभाववत्, स्वर्गकामनायाः यागजनकत्वेऽपि स्वर्गस्य तदजनकत्ववत्, अतीतादिस्मृत्यादेर्दुःखादिजनकत्वेऽप्यतीतादेस्तद जनकत्ववत्, असद्धिषयकपरोक्षज्ञानस्य तद्व्यवहारहेतुत्वेऽपि असतस्तदभाववत्, ब्रह्माज्ञानस्य जगत्परिणामिकारणत्वेऽपि ब्रह्मणस्तदभाववच्च । न च तथापि मिथ्यार्थे ज्ञानव्यावर्तकताऽ-स्तीत्यसतोऽपि हेतुत्वमिति वाच्यम् । न हि व्यावृत्तधीहेतुत्वं व्यावर्तकत्वम्, किन्तु व्यावृत्तिधीहेतुधीविषयत्वमेव । सत्यपि दण्डे तदज्ञाने व्यावृत्यज्ञानात् । अथावच्छेदकस्य मिथ्यात्वे अवच्छिन्नस्यापि तन्नियम इति । तन्न – तुच्छज्ञाने तुच्छवैलक्षण्ये च तुच्छत्वस्य, प्रातिभासिकाद्वैलक्षण्ये प्रातिभासिकत्वस्य, पञ्चमप्रकारायामात्मस्वरूपभूतायां वा अनिर्वचनीयाज्ञानस्य निवृत्तौ चतुर्थप्रकारानिर्वचनीयत्वस्य, पारमार्थिकात्मस्वरूपे तद्भिन्ने वा अनृतद्वैतस्याभावे अनृतत्वस्य चादर्शनात् तत्रावच्छेदकानामसदादीनां ताटस्थ्येऽत्रापि तथास्तु ।
ननु यदुक्तं ताटस्थ्यलक्षणमुपलक्षणत्वमेव सर्वत्रावच्छेदकस्येति । तन्न । विशेषणत्वे सम्भवत्युपलक्षणत्वायोगात् । विशेषणबाधपूर्वकत्वादुपलक्षणत्वकल्पनायाः । अन्यथा ‘दण्डी प्रैषवानन्वाह’ ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’ इत्यादावपि वेदे दण्डलौहित्यादेरुप-लक्षणत्वात् तदभावेऽप्यनुष्ठानप्रसङ्गः । ‘सर्वादीनि सर्वनामानि’ इत्यत्र सर्वशब्दस्य सर्वनाम-संज्ञा न स्यात्, ‘जन्माद्यस्य यत’ इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात्, विशेषणार्थत्वेन तद्गुणसंविज्ञानबहुव्रीहिसम्भवेऽप्युपलक्षणार्थत्वेनातद्गुणसंविज्ञानबहुव्रीहिस्वीकारप्रसङ्गात् । विशेष्यान्यूनसत्ताकत्वं हि विशेषणत्वव्यापकम् । तच्च भ्रमज्ञानविषये नास्तीति तस्योपलक्षणत्वम् । अन्यथा ‘औदुम्बरो यूपो भवति’ ‘लोहितोष्णीषाः ऋत्विजः प्रचरन्ति’ इत्यादिषु प्रातिभासिकौदुम्बरत्वेनापि अनुष्ठानस्यासङ्गतापत्तेः । दण्डीत्यादौ तु न किमपि दण्डादेर्विशेषणत्वे बाधकम् । प्रत्युत तत्साधकान्यपि सन्ति । तथा हि मैत्रावरुणरूपो दण्डी नात्र वाक्ये विधीयते । ‘मैत्रावरुणः प्रैष्यति चान्वाह’ इति वचनप्राप्तत्वात् । किन्तु दण्डमात्रविधिः । तस्य चोपलक्षणत्वे प्रैषानुवचने साधनतया तद्विधानेऽपि कदाचित्सत्ता-मात्रेण तस्य साधनत्वसम्भवेनोद्देश्यानुवचनकाल(व्याप्य)दण्डधारणं नानुष्ठीयेत । यद्यपि हि तस्यावलम्बनरूपदृष्टद्वारा प्रैषानुवचने साधनता, तथापि तत्पूर्वसत्तामात्रेणापि तत्सम्भवात् तत्कालसत्ता दण्डस्य न लभ्यते । विशेषणत्वस्वीकारे तु अनुवचनकर्मकभावनायां साधन-तया अन्वितस्य दण्डस्य विशेष्यीभूतभावनान्वयिनि अनुवचने समानकालीनत्व-सम्बन्धेनान्वयादनुवचनकालीनदण्डस्य साधनतालाभः । यथा ‘पक्ता दण्डी’ इत्यादौ पाकादौ समानकालीनतासम्बन्धेन दण्डाद्यन्वयः ।
वस्तुतस्तु दण्डस्य पदार्थैकदेशत्वेन भावनायामन्वयासम्भवादेव विशेषणत्वं स्वीक्रियते । विशेषणत्वे हि दण्डिनो भावनायां साधनत्वेनान्वयात् । तद्विशेषणतापन्नस्य दण्डस्यापि भावानायां साधनत्वेनान्वयसम्भवः । तत्र भावनायां दण्डिनः साधनतया प्राप्तत्वेऽपि दण्डस्याप्राप्तत्वात् तत्रैव विधितात्पर्यम् । ‘सर्वादीनी’त्यत्र ‘हलि सर्वेषां’ इति सौत्रनिर्देशेन अतद्गुणसंविज्ञानबहुव्रीहिणा सर्वस्य विशेषणत्वम् । ‘जन्माद्यस्ये’त्यत्र ‘यतो वा इमानि’ इति श्रुत्या जन्मनोऽपि ब्रह्मलक्षणत्वोक्त्या जन्मेत्यस्य विशेषणत्वम् । एवं ‘असिपाणयः प्रवेश्यन्ताम्’ इत्यादिलौकिकप्रयोगेऽपि प्रतिबिम्बादिज्ञानानां जनकत्वे विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधाभावात् नोपलक्षणत्वपक्षो युज्यते । उदाहृतस्थलेषु सर्वत्र बाधकत्वमस्त्येवेति विशेषः ।
तथा हि– प्रथमे घटदेशकालौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ताभावादौ ग्राह्यम् । घटस्यापि तत्सम्बन्धे तद्देशकालभिन्नदेशकालत्वमेव व्याहतं स्यात् । द्वितीये त्विष्टापत्तिः । क्वचित् घटज्ञानस्य घटेच्छाजनकत्ववत् घटं प्रत्यपि जनकत्वात्, ब्रह्मणो वेदान्तसाध्यत्वे तु नित्यत्वविरोधः । तृतीये प्रागभाववत् घटस्य स्वजनकत्वे प्रतियोगिप्रागभावयोः समान-कालत्वापत्तिः । स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन् व्याहतत्वं च । चतुर्थे पञ्चमे च प्रतियोगितदभावयोः सहावृत्या भ्रमप्रत्यवाययोरनुत्पत्तिप्रसङ्गः । षष्ठे कामनावत् कामना-विषयस्य यागजनकत्वे तस्य प्राक्सत्तया तत्कामनैव व्याहन्येत । सिद्धे इच्छाविरहात् । सप्तमे अतीतस्य जनकत्वे कार्याव्यवहितपूर्वकाले स्वस्वव्याप्यान्यतरसत्त्वापत्तिः । अष्टमे असतो जनकत्वे निःस्वरूपत्वव्याघातः । नवमे चिकीर्षितघटज्ञानवत् स्वस्य जनकत्वे पूर्ववद्व्याघातः । दशमे तु उदासीनस्य ब्रह्मणो न निवर्तकत्वम् । स्वरूपतः उपहितस्यैव वृत्तिविषयत्वेन तस्याविषयत्वात् । उपहितस्य च निवर्तकत्वमस्त्येव । एकादशे ब्रह्माज्ञानस्य परिणामि-कारणत्वेऽपि न ब्रह्मणो जगत्कारणत्वं, कार्ये जडत्वोपलम्भात् । एवंविधबाधकबलेन तत्रोपलक्षणत्वस्वीकारात् । न च प्रकृते बाधकमस्ति । अव्यवहितदेशकालादिवृत्तित्वस्य प्रातिभासिकसाधारण्यात् । इदानीमत्र सर्प इत्यादिप्रतीत्यविशेषादिति ।
तन्न । तन्निष्ठात्यन्ताभावप्रतियोगिनस्तत्र विशेषणत्वमङ्गीकुर्वतस्ते तदापत्तेर्दुर्वारत्वात् । द्वितीये इत्याद्ययुक्तं– नियमेन जनकत्वस्यापाद्यत्वात् । स्वसमानाधिकरणतद्घटेच्छाजनक-तद्ज्ञानस्य तद्घटाजनकत्वात् भावाभावावेकत्राङ्गीकुर्वतस्ते नित्यत्वानित्यत्वयोरप्येकत्राङ्गीकारे क्षत्यभावात् । तृतीय इत्याद्ययुक्तं– निरवच्छिन्नवृत्तिकात्यन्ताभावस्य समानदेशत्ववत् प्रागभावस्य समानकालत्वे ते बाधकाभावात् । कारणतावच्छेदकसम्बन्धेन त्रैकालिका-नवच्छिन्नवृत्तिकात्यन्ताभावप्रतियोगित्वस्यापि कारणताव्याघातकत्वात् । चतुर्थे इत्याद्ययुक्तं– कारणतायामपि तुल्यत्वात् । षष्ठ इत्याद्युक्तं– प्रसङ्गे बाधस्योपयुक्तत्वात् । सप्तम इत्याद्य-युक्तं– आहार्यारोपितस्य तत्तद्व्याप्ययोस्तथात्वे बाधकाभावात् । अष्टम इत्याद्ययुक्तं– स्वरूपेणैवोक्तनिषेधप्रतियोगिनः कल्पितस्यापि निस्स्वरूपत्वात् । नवम इत्याद्ययुक्तं– कल्पितभेदेन एकस्यैव पूर्वापरत्वे त्वन्वये बाधात् । दशम इत्याद्ययुक्तंं- तस्य वृत्तिविषयत्व-पक्षे आपाद्यत्वात् । विषयत्वेऽप्यनिवर्तकत्वे कल्पितस्यापि तथोपपत्तेः । एकादश इत्याद्य-युक्तं– प्रातीतिकव्यावहारिकस्योत्पत्तिमङ्गीकुर्वतो जडस्यापि चित्परिणामत्वे बाधकाभावात् । अव्यवहितेत्याद्ययुक्तं– उक्तोदाहरणसाधारण्यात् ।
यत्तु स्वप्ने जागरे चोत्कृष्टकलधौतदर्शनात् उत्कृष्टं सुखं, उत्कृष्टसर्पादिदर्शनाच्चोत्कृष्टं भयादिकं दृश्यते । विषयस्याकारणत्वे तन्न स्यात् । ज्ञाने विषय(गत)प्रकर्षादेव प्रकर्ष इति । तन्न । भविष्यच्छत्रुमित्रादिज्ञानेन भयहर्षादेरानुभाविकत्वात् ।
एतेन ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतावच्छेदकम् । अन्यथा अतिप्रसङ्गः । तथा च मिथ्यात्वावच्छिन्नाकारेण ज्ञानस्य मिथ्यात्वात् भ्रमस्थले ज्ञानस्य जनकत्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव । जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण सत्वमपि असत्वात् नातिरिच्यते, अनुपयोगात् । तदुक्तं खण्डने– ‘अन्यदा सत्त्वं तु पाटच्चरलुण्ठितवेश्मनियामिकजागरणवृत्तान्तमनुसरति’ इति । स्वरूपेणापि तु भ्रमज्ञानस्य मिथ्यात्वमस्त्येव । स्वरूपतो बाधाभावे विषयतोऽप्यबाधप्रसङ्गादिति निरस्तम् । घटप्रागभावध्वंसात्यन्ताभावादीनां पटादिप्रागभावादिभ्यो व्यावृत्तिजनकत्वात् । सर्पाद्युप-लक्षितस्यैव तथात्वे उपलक्षणासत्वेऽप्युपलक्ष्यासत्वे मानाभावात् । अन्यथा ते द्वितीया-भावादेर्मिथ्यात्वेन तदुपलक्षितब्रह्मणोऽपि तत्वापत्तेः । तदुक्तमित्याद्ययुक्तंं- तदुपलक्षितज्ञान-स्यैव जन्यजनकतावच्छेदकत्वात् । स्वरूपत इत्याद्ययुक्तं- स्वरूपेणोक्तनिषेधप्रतियोग्य-ज्ञानादिभासकशुद्धचिति त्वन्नये व्यभिचारात् । यत्तु तुच्छज्ञानतद्वैलक्षण्यादौ तुच्छत्वा-दर्शनमबाधकं, अवच्छेद्यावच्छेदकयोस्सर्वत्र सारूप्यनियमानभ्युपमगमादिति । तन्न । प्रकृतेऽपि तुल्यत्वात् । मिथ्यात्वप्रयोजकस्य तदवच्छिन्नं विना अन्यस्याभावात् ।
यत्तु सर्वसाधारणमेकं कारणतावच्छेदकमङ्गीकृत्य उक्तमेतत् । वस्तुतस्तु दण्डत्व-तन्तुत्वादिसाधारणत्वं नास्त्येव । यत्र ते सत्वमवच्छेदकं तत्र न मम तद्विलक्षणत्वादिकं किन्तु कार्यतावच्छेदकं घटत्वपटत्वादिकारणतावच्छेदकं दण्डत्वादि । तद्भेदाच्च कारणत्वं भिन्नम् । यथा गोगवयसादृश्यमन्यत् भ्रातृभगिन्यादिसादृश्यमन्यत््, तत्र नैकमवच्छेदकं किन्तु गवयत्वभगिनीत्वादिकमेव तद्वदत्रापि दण्डत्वादिकमेव सत्वासत्वोदासीनमवच्छेदकं वाच्यम् । तथा च जनकत्वानुसारेण न सत्त्वासत्त्वसिद्धिः । तदुक्तं खण्डने–
‘पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ ।
हेतुसत्वबहिर्भूतसत्वासत्वकथा वृथा ।।’ इति ।
तन्न । तुच्छविलक्षणत्वस्य तद्भेदरूपस्य ब्रह्मण्यधिकरणरूपत्वेन च पारमार्थिकत्वे-नान्यत्रान्यादृशत्वेनेति त्रितयासाधारणस्यैकस्याभावात् ।
आभासादौ अतिप्रसङ्गात् । ‘तद्वदत्रापि’ इत्याद्यशुद्धं दण्डाद्याभासवारणाय सत्व-निवेशावश्यकत्वात् । तदुक्तमित्याद्यप्ययुक्तं– स्वरूपेणोक्तनिषेधप्रतियोगिनः कालसम्बन्धा-सम्भवात् । एतेन ‘अन्तर्भावितसत्वं चेत्कारणं तदसत्ततः । नान्तर्भावितसत्वं चेत् कारणं तदसत्ततः ।।’ इति खण्डनोक्तं निरस्तम् । ‘अन्तर्भावितसत्वं चेदधिष्ठानमसत्ततः । नान्त-र्भावितसत्वं चेदधिष्ठानमसत्ततः ।।’ इति तवापि साम्यात् । न च ममाधिष्ठाने स्वरूपत एव सत्ताङ्गीकारः, तव तु कारणे स्वरूपातिरिक्तसत्ताङ्गीकार इति विशेष इति वाच्यम् । दृश्यत्वादौ दृश्यत्वादिवत् त्रिकालाबाध्यत्वरूपसत्वेऽपि तादृक्सत्वाङ्गीकारात् ।
किञ्च अर्थो न ज्ञानस्य जनकतायामवच्छेदकोऽपि मानाभावात् । न चातिप्रसङ्गः । विषयावच्छेदकमनपेक्ष्यैव सर्पज्ञानस्यासर्पज्ञानाद्व्यावृत्तिसिद्धेः । तथा हि– सर्पज्ञानस्या-सर्पज्ञानाद्व्यावृत्तिर्व्यावर्तकाधीना । न च विषयस्तत्सम्बन्धो वा व्यावर्तकः । स्वरूपातिरिक्त-द्विनिष्ठसम्बन्धस्याभावात् । असम्बद्धस्य चाव्यावर्तकत्वात् ।
न्यायामृतमाधुरी
अत्र परमार्थसत्वं न साधकतायां तन्त्रमभिधास्यमानानां सद्विलक्षणत्वेन साधकत्वेन च मतद्वयेऽपि संप्रतिपद्यमानानां तद्वैधुर्येण तस्य फलोत्पादानौपयिकत्वादित्यभिप्रेत्याशङ्कते । नन्विति । दर्पणादिपक्षकं स्वानिरूपितासति सम्बन्धेन बिम्बसाध्यकं प्रतिबिम्बहेतुक-मनुमानमभिप्रैति । अत्राद्वैतसिद्धिकृत् न च लौहित्यं स्फटिके न मिथ्या किं तु धर्ममात्र-प्रतिबिम्बयुक्तत्वमिति पृथगुदाहरणानुपपत्तिरिति वाच्यमित्याशङ्कमानः धर्मिभूतमुखादिनैर-पेक्ष्येण तद्धर्मभूतरूपादिप्रतिबिम्बादर्शनात् प्रतिबिम्बस्याव्याप्यवृत्तित्वनियमेन लौहित्यस्य स्फटिके व्याप्यवृत्तिप्रतीत्ययोगाच्च । लौहित्ये स्फटिकस्य त्वारोपे तस्य प्रतिबिम्बत्वम् । स्फटिके लौहित्यारोपे तु तस्य मिथ्यात्वमित्यङ्गीकाराच्च । स्फटिकमणेरेवोपधाननिमित्तो लोहितिमेति लोहितिम्नो मिथ्यात्वं दर्शितं प्रतिबिम्बस्य सत्वमङ्गीकृत्य पञ्चपादिकाकृद्भिरिति समादधे । त्वन्मतेऽपीति । अत्राद्वैतसिद्धिकृच्छशङ्के । प्रतिबिम्बस्य बिम्बात्मना सत्वेऽपि प्रतिबिम्बकारेणासत्वमिति । तद्राभस्येन तयोरैक्ये तदाकारयोर्भेदायोगात् । सत्यत्वादिति ।
दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।
व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।।
इति तदीयसिद्धान्तादिति भावः । ज्ञानमेवेति । तच्च सद्रूपमिति हृदयम् । स्वप्नस्थ-लक्षतिमुद्धरति । अन्वयेति ।। लौहित्यस्यापीति ।। स्वच्छे स्फटिकेऽरुणिम्ना विशिष्ट-जपाकुसुमप्रतिबिम्बसद्भवादिति भावः । अत्र तदुक्तं प्रतिबिम्बाव्याप्यवृत्तित्वादिकत्वं समञ्जसमेव । नहि कश्चिद्भावो व्याप्यवृत्तिरित्येतावता सर्वोऽप्यव्याप्यवृत्तिर्भवति । कस्यचित्प्रतिबिम्बस्याव्याप्यवृत्तित्वेऽपि तदन्तरस्य व्याप्यवृत्तित्वोपपत्तेः । रेखामिति ।। रेखावैजात्येऽपि वर्णस्यैकरूप्येणैवानुभवादिति भावः । अत्राद्वैतसिद्धिकारः । आशैशवमयं ककारोऽयं गकार इत्यनुभवात् । अभेदानुवादेनैव स्मरणात् । विवेके सत्यपि दृढतर-संस्कारवशान्नारोपनिवृत्तिः । अत एव ककारं पठन्ति लिखन्ति चेति सार्वलौकिको व्यवहार इति जगाद । तदतिस्थवीयः । ककारादिवर्णज्ञापकरेखाणां विजातीयत्वेऽपि तादृश-वर्णस्यैकरूप्येणाबालमनुभूयमानतया रेखावर्णयोरभेदारोपस्योत्पत्तुमनीशानवत्वात् । अयं ककार इति व्यवहृतेः कृष्णं वसनमित्यादिवदुपचरिततया नेयत्वात् । दीर्घत्वमिति ।। अथ ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इत्यादि प्रत्ययात्सुरभिः पवनः शीतलं शिलातलं, सुरभि जलमित्यादिवदुपाध्यग्रहेऽप्युत्पत्स्यत एव दीर्घत्वभ्रमः । न च योग्यत्वात्तद्ग्रहः तथापि तन्नियमाभावादित्यद्वैतिनाऽऽशङ्कितं चेतसि विभाष्याह । तद्व्यक्तेति ।। स्वरूपतो ध्वन्यभि-व्यक्तं यद्रूपं तदेव दीर्घत्वमित्यर्थः । सत्यं ज्ञानमिति ।। यादृशदिशा निखिलज्ञानानां सद्रूपता सेत्स्यति सा च दिगग्रे ग्रन्थकृतैव प्रदर्शयिष्यते । निरस्तमिति ।। रूपादौच रसादेः क्लुप्तसाधकताकतया रसादेस्तेनानधिगमस्तदयोग्यतानिबन्धनः कल्प्यते । अलीकस्य त्वखिल-सामर्थ्यविकलतया क्वापि तदधीनसिद्ध्यदर्शनेन सत एव साधकत्वमिति नियतेर्निष्प्रत्यूह-त्वादिति भावः । अत्राद्वैतसिद्धिकारः । नन्वारोपितेन वर्णदैर्घ्यादिना कथं तात्विकार्थसिद्धि-रारोपितेन धूमेन तात्विकवह्निसिद्धिरिवेति चेदित्याशङ्कमानो न साधकतावच्छेदकरूपत्वमेव साधकतायाः प्रयोजकं न त्वारोपितत्वमनारोपितत्वं वा धूमाभासस्यत्वसाधकत्वं साधकता-वच्छेदकरूपव्याप्त्यभावात् । अनाभासत्वग्रहश्च तत्र चलनोर्ध्वतादिग्रहवद्व्याप्तिग्रहणार्थमेवा-पेक्षित इति समाहितवान् ।
तन्न विद्वन्मनोरमम् । दण्डत्वाध्यासधर्मिणोऽप्यध्यस्तसाधकतावच्छेदकवत्तया ततः कार्योत्पादवारणायानध्यस्तत्वस्य साधकतावच्छेदकांशेऽवश्यं निवेश्यत्वात् । वक्ष्यमाणरीत्येति प्रागभिहितमुपपादयति । सवित्रिति ।। अनुमितिं प्रतीति ।। प्रमानुमितिं प्रतीत्यर्थः व्याप्त्या-दीति ।। अतद्गुणसंविज्ञाननिर्देशोऽयमबाधितत्वार्थः । गन्धप्रागभाववान् घटो गन्धवानित्यादौ हेतौ व्याप्तिपक्षधर्मत्वयोः सत्वेऽपि प्रमानुमित्यनुत्पादेन यथाश्रुतस्यानवधेयत्वात् । ननु सर्पादिजन्या भयादिरूपार्थक्रिया तदितरस्मात् तज्ज्ञानात्कथमुत्पद्येतेत्यत आह । सत्येति ।। नन्विति । स्वाभ्यर्णवर्तिनमपि भुजङ्गं यदा नाज्ञासीत्तदा भयाभावादिति भावः । अतिप्रसङ्गः विषयिताप्रत्यासत्या सर्पानवच्छिन्नज्ञानत्वेनैव भयोत्पत्तिहेतुतायां घटादिज्ञानादपि भीजनि-प्रसङ्गः । अर्थोऽपीति ।। दर्शितप्रत्यासत्या तद्विशेषितस्य हेतुत्वे विशेषणीभूतस्यापि तथात्वं निष्परिपन्थितया सैत्सीदिति भावः । ताटस्थ्येनेति ।। दर्शितप्रत्यासत्या सर्पादिविशेषित-ज्ञानत्वेन न तद्धेतुत्वमपि तु सर्पत्वावच्छिन्ना या विषयता तन्निरूपकत्वोपलक्षितज्ञान-त्वेनैवेति भावः ।
अत्राद्वैतसिद्धिकारः । विशेषणत्वे सम्भवति उपलक्षणत्वायोगात् । विशेषणप्राप्तबाधक- पूर्वकत्वादुपलक्षणत्वकल्पनायाः । अन्यथा दण्डी प्रैषानन्वाह लोहितोष्णीषाः ऋत्विजः प्रचरन्तीत्यादावपि दण्डलौहित्यादेरुपलक्षणत्वात्तदभावेऽप्यनुष्ठानप्रसङ्गः । सर्वादीनि सर्वनामानीत्यत्र सर्वशब्दस्य सर्वनामसंज्ञा न स्यात् । जन्माद्यस्य यत इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात् । विशेषणार्थत्वेन तद्गुणसंविज्ञानबहुव्रीहिसम्भवेऽप्युपलक्षणत्वेना-तद्गुणसंविज्ञानस्वीकारप्रसङ्गात् । एवमसिपाणयः प्रवेश्यन्तामित्यादिलौकिकप्रयोगेऽपि । प्रतिबिम्बादिज्ञानानां जनकत्वेऽपि च विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधा-भावान्नोपलक्षणत्वपक्षो युज्यते । उदाहृतस्थलेतु सर्वत्र बाधकमस्त्येवेति विशेषः ।
तथा हि प्रथमे घटदेशकालौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ताभावादौ ग्राह्यम् । घटस्यापि तत्सम्बन्धे तद्देशकालभिन्नदेशकालत्वमेव व्याहतं स्यात् । द्वितीये त्विष्टापत्तिः । क्वचिद्घटज्ञानस्य घटेजनकत्ववद्घटं प्रत्यपि जनकत्वाद्ब्रह्मणो वेदान्तसाध्यहेतुनित्यत्वविरोधः । तृतीये प्रागभाववद्घटस्य स्वजनकत्वे प्रतियोगिप्रागभावयोः समानकालत्वापत्तिः । स्वावधिक पूर्वत्वघटितजनकत्वस्य स्वस्मिन् व्याहतत्वं च । चतुर्थे पञ्चमे च प्रतियोगितदभावयोः सहावृत्या भ्रमप्रत्यवाययोरनुत्पत्तिप्रसङ्गः । षष्टे कामनावत्कामनाविषयस्य यागजनकत्वे तस्य प्राक् सत्तया तस्य कामनैव व्याहन्येत । सिद्धे इच्छाविरहात् । सप्तमे अतीतस्य जनकत्वे निःस्वरूपत्वव्याघातः । नवमे चिकीर्षितज्ञानवत्स्वस्य स्वजनकत्वे पूर्ववद्व्याघातः । दशमे उदासीनस्य ब्रह्मणो न निवर्तकत्वम् । स्वरूपत उपहितस्यैव वृत्तिविषयत्वेन तस्याविषय-त्वात् । उपहितस्य च निवर्तकमस्त्येव । एकादशे ब्रह्माज्ञानस्य परिणामकारणत्वेऽपि न ब्रह्मणो जगत्कारणत्वं कार्ये जडत्वोपलम्भात् । एवंविधबाधकबलेन तत्रोपलक्षणत्व-स्वीकारात् । न च प्रकृते बाधकमस्तीति जगाद ।
तदतिस्थवीयः । प्रकृतेऽपि कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्याधिकरणावृत्तेस्तद्धेतु-तायाः दुरुपपादत्वस्यैव बाधकत्वात् । अन्वयव्यतिरेकाभ्यां सर्पादिज्ञानस्यैव कारणता-वच्छेदकतया व्याप्तिपक्षधर्मत्वांशे भ्रमात्मकपरामर्शजन्यानुमित्यनुरोधेनातादृशपरामर्शस्येवा-तीतानागतलिङ्गपरामर्शजन्यानुमित्यनुरोधेन तस्यैव सर्पविषयकत्वोपलक्षिते ज्ञानस्यैव तद्धेतु-त्वस्यैष्टव्यतया विषयिताप्रत्यासत्या तदुपहितस्य तदनुपगमेनालीकस्य हेतुत्वासिद्धेः । कथ-ञ्चिन्मते भ्रमस्थलेऽनिर्वचनीये सत्युपगमेऽप्यतीतादिगोचरप्रमास्थले तेनापि तदनुपगतेः । नहि ग्रन्थकारो वाधकासमवधानेऽपि विशेषणतां नारौत्सीत् । येन दण्डीत्यादिना स्वपाण्डित्योप-दर्शनं सङ्गच्छते । किं तु यत्र विशेषणतानिष्प्रत्यूहस्तत्र तस्यैव यथा खड्गी चैत्रः इत्यादौ । यत्र तु सा सान्तराया तत्र तूपलक्षणतैव । यथा गुणवृत्तिसत्तावद्द्रव्यमित्यादौ सत्तांशे गुण-वृत्तित्वादिकमाकरनिरूढमेवेति न किञ्चिदेतत् । प्रपञ्चितं च वनमालिमिश्रीये इति नेह वितन्यते ।
अत्राद्वैतसिद्धिकारः । असतः सर्पादेर्भयादिहेतुत्वमावश्यकमेव । तथाहि । स्वप्ने जागरे चोत्कृष्टकलधौतदर्शनेनोत्कृष्टं सुखमुत्कृष्टसर्पादिदर्शनाच्चोत्कृष्टं भयादि दृश्यते । विषयस्या-कारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात् । न ह्यकारणोत्कर्षः कार्यमनुविधत्त इति न्यायात् । अथ ज्ञानगता जातिरेव प्रकर्षो न चाक्षुषत्वादिना संकरप्रसङ्गात् । विषय-प्रकर्षेणैवोपपत्तौ चाक्षुषत्वादिव्याप्यनानाजात्यङ्गीकारे गौरवात् । मानाभावाच्चेति प्रतिपपाद । तन्न साधीयः । पित्तादिदोषोत्कर्षादिघटितसामग्रीसमवधानेन भ्रमोत्कर्षादिकार्योपलम्भेन दोषाद्युत्कर्षघटितसामग्रीनिष्पाद्यभ्रमोत्कर्षस्यैव भयाद्युत्कर्षं प्रति हेतुत्वस्य सूपगमतया सामञ्जस्यात् ।
व्यासेनोक्तार्थं विनेयान् समासेन ग्राहयति । तथा चेति । सर्पाद्यर्थकप्रथमान्तार्थ-चित्तकारणपदार्थतावच्छेदकान्वितनिरूपितत्वं सप्तम्यां प्रत्याय्यते । फलवत् । प्रथमान्ता-द्वतिरुपमेये प्रथमादर्शनात् । उपपत्तिरधस्ताद्व्यक्तैव । अथापि भयादौ सर्पज्ञानादेरेव हेतुता समर्थ्यसर्पादेर्हेतुतानिरासेऽपि विषयत्वमेवेति । घटज्ञानं ज्ञानान्तराद्भिद्यते विषयितया घटाद्घटविषयकत्वाद्वेति परीक्षका अनुमिमते इति व्यावृत्तिविधेयकानुमितिजनकपरामर्शाय प्रकारताश्रयत्वमेव तदाऽऽस्थेयं, तच्चाप्रतिरूपमित्याशयः । नन्वित्यादि भुजङ्गादिज्ञानस्य विषयितया विषयाविशेषितज्ञानत्वेनैव भयादिहेतुतायां घटादिज्ञानादपि तदापत्या तादृश-प्रत्यासत्या तदुपहितज्ञानत्वेनैव सोपेयेति विषयानुपहितभ्रमस्यानलीकत्वेऽपि तदुपहितस्य तथात्वध्रौव्येन अन्यदा सत्वं तु पाटच्चरलुटिते वेश्मनि यामिकजागरणवृत्तान्तमनुसरतीति खण्डनकारोक्त्याचासैत्सीदेवालीकहेतुतामिति भावः ।
तुच्छेत्यादि । षष्ट्यन्तभावप्रत्ययान्तचतुष्ठयी पञ्चम्यन्तेनान्वेति । अत्राद्वैतसिद्धिकृदाह । तुच्छज्ञाने तुच्छवैलक्षण्यादौ च तुच्छत्वादर्शनमबाधकम् । अवच्छेद्यावच्छेदकयोः सर्वत्र सारूप्यनियमानभ्युपगमात् । प्रकृते चावच्छेदक इवावच्छेद्येऽपि मिथ्यात्वप्रयोजकरूपतुल्यत्वेन सारूप्योपपत्तेरित्यभ्यधात् । तन्मन्दम् । दृश्यत्वादेर्मिथ्यात्वप्रयोजकतायाः पराकृतत्वा-त्तादृशबाधादेः विषयरूपावच्छेदकांशे सत्वेऽपि अवच्छेद्यरूपज्ञानांशे अभावात् ।। तन्नाज्ञानवैलक्षण्यादौ । असदादीनां तुच्छादीनाम् । ताटस्थ्ये उपलक्षणत्वे । अत्रापि सर्पज्ञानादावपि । विषयस्य सर्पादेः । तथात्वं उपलक्षत्वम् । द्विष्ठसम्बन्धाभावात् विषय-तत्सबन्धज्ञानोभयघटकैकप्रतियोगिकापरानुयोगिकसम्बन्धाभावात् । असम्बद्वस्य विषयस्य तत्सम्बन्धस्य च ज्ञानप्रतियोगिकसम्बन्धविनिर्मुक्तस्य ज्ञानधर्मिकज्ञानान्तरप्रतियोगिक-व्यावृत्यनुमितिहेतुत्वायोगादित्यर्थः ।