किञ्चोपादानत्वे न तावत् ‘आत्मन आकाशः सम्भूतः’ ‘यतो वा’ इत्यादि पञ्चमी-श्रुतिर्मानम्

१०. ब्रह्मण उपादानत्वे प्रमाणभङ्गः

न्यायामृतम्

किञ्चोपादानत्वे न तावत् ‘आत्मन आकाशः सम्भूतः’ ‘यतो वा’ इत्यादि पञ्चमी-श्रुतिर्मानम् । तस्या अनेकार्थत्वात् । अपादानार्थत्वेऽपि ‘ध्रुवमपायेऽपादानम्’ इत्यनेनाऽपादानसंज्ञासम्भवाच्च । ‘जनिकर्त्तुः’ इत्यनेनापादानसंज्ञायामपि वृत्तौ ‘पुत्रात्प्रमोदो जायते’ इत्यस्याप्युदाहृतत्वात् । न्यासेऽपि प्रकृतिपदं हेतुमात्रपरमित्याश्रित्य असति प्रकृतिग्रहणे उपादानस्यैव स्यात् । प्रत्यासत्तेर्नेतरस्य प्रकृतिग्रहणात् सर्वस्य कारणस्य भवतीति प्रकृतिपदं ‘पुत्रात्प्रमोदो जायते’ इत्यादावनुपादानेऽप्यपादान-संज्ञार्थमित्युक्तत्वात् । ‘शृङ्गाच्छरो जायते गोलोमाविलोमभ्यो दूर्वा जायन्ते’ इत्यादावपि शराङ्कुरं प्रत्युपादानभूतो यः शृङ्गैकदेशः, तत्संसृष्टं शृङ्गैकदेशान्तरं शराङ्कुरनिमित्तमस्ति । माषाङ्कुरोपादानभूतो यस्तुषान्तरवस्थितो माषभागस्तत्संसृष्टो माषाङ्कुरनिमित्तभूतस्तुषभाग इवापरिणतशृङ्गभागस्यानुभवात् । तदेव शृङ्गादिति पञ्चम्यन्तेनोच्यते ।

अत एव महाभाष्ये ‘अयमपि योगः शक्योऽवक्तुम्, गोलोमाविलोमभ्यो दूर्वा जायन्ते, अपक्रामन्ति तास्तेभ्यः’ इत्यादिना लोमादीनां दूर्वादीन्प्रत्यवधित्वाद् ‘ध्रुव-मपायेऽपादानम्’ इत्यनेनैवाऽपादानसंज्ञासिद्धेरिदं सूत्रं प्रत्याख्यातम् । कैयटेऽपि यथा बिलाद्दीर्घभोगो भोगी निष्क्रामन्नप्यविच्छेदात्तत्रोपलभ्यते तथा दूर्वा अपीत्यादिनाऽवधित्व-मेवोपपादितम् । तदुक्तम्–

शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।

वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ।। इति ।

अत एव ‘आाकाशाद्वायुः’ इत्याद्युपादानपञ्चमीसाहचर्याद् आत्मन इत्यप्युपादान-पञ्चमीति निरस्तम् ।

आकाशादित्यादावपि निमित्तांशस्यैव पञ्चमीनिर्देशात् । अन्यथा सम्भूत इत्युक्तम् । न हि शुक्ते रूप्यं सम्भूतमित्युच्यते । नापि ‘सोऽकामयत बहुस्यां प्रजायेयेति, स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किञ्च, तत्सृष्ट्वा तदेवानुप्राविशत्, तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति श्रुतिस्तत्र मानम् । सदादिभवनस्य जगत्सृष्टि-तदनुप्रवेशानन्तरभावित्वेन जगत्सृष्टित्वानुपपत्त्या परमेश्वरस्य सत्त्वादिगुणाभिव्यक्ति परत्वात् । अन्यथाऽभवदित्ययुक्तम् । न हि शुक्ती रूप्यमभवदित्युच्यते । मूर्ता-मूर्तात्मकप्रपञ्चस्य सदसत्पदाभ्यामेवोक्तत्वेन ‘निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च’ इत्यादिवाक्यशेषस्थनिरुक्तादिपदवैयर्थ्यं च । ‘सोऽकामयत बहुस्याम्’ इत्यादि तु परमेश्वरस्य ‘अजायमानो बहुधा विजायते, यदेकमव्यक्तमनन्तरूपम्’ इत्यादिश्रुतिसिद्ध-तत्तदनन्तपदार्थप्रेरकानन्तरूपैर्बहुभावसङ्कल्पमाह ।

न च स्वस्यानन्तरूपैर्बर्हुभावं सङ्कल्प्य ‘इंद सर्वमसृजत’ इति प्रपञ्चसर्जनानुपपत्तिः । नियामक रूपैर्बहुभावस्य नियम्यसापेक्षात्वात् । नियम्यं सर्वं सृष्ट्वा नियामकरूपैः प्रवेशोक्त्युपपत्तेः । उक्तं हि–

बहु स्यामिति सङ्कल्प्य तेजःप्रभृतिसर्जनम् ।

गुरुः स्यामिति सङ्कल्प्य शिष्यसम्पादनादिवत् ।। इति ।

अन्यथा स्यामिति सत्त्वोक्तिरयुक्ता । स्यामिति सङ्कल्पितस्य सत्त्यदादिभवनस्य ‘सच्च त्यच्चाभवत्’ इत्यनेनैवोक्तत्वेन ‘इदं सर्वमसृजत’ इत्यादिवैयर्थ्यं च । सृष्टेः पूर्वमन्तः-करणाभावेन तद्विशिष्टाहमर्थाभावादुत्तम पुरुषानुपपत्तिश्च । एतेन ‘तदैक्षत बहुस्यां प्रजायेय’ इत्येतदपि व्याख्यातम् ।

किञ्च ‘तत्तेजोऽसृजत’ इति यत्तेजःप्रभृतिसृज्यं तत्तदात्मना हि त्वया बहुभावो वाच्यः । ‘तेजःप्रभृति च चेतनं ‘तत्तेज ऐक्षत तदपोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्त तिस्रो देवताः’ इति ईक्षितृत्वस्रष्टृत्व देवतात्वादीनां श्रवणात् । न च चेतनं प्रत्युपादानता तवापीष्टा । एतेनैव ‘असद्वा इदमग्र आसीत्ततो वै सदजायत तदात्मानं स्वयमकुरुत’ इत्येतदपि व्याख्यातम् । ‘तदात्मानं सृजाम्यहं, सम्भवामि युगे युगे’ इत्यादिवदुपपत्तेः । न ह्यत्रात्मानमाकाशाद्यात्मनाऽकरुतेति श्रूयते । अन्यथा अकुरुतेति सत्त्वोक्तिरयुक्ता । किञ्च परमते ‘ततो वै सदजायत’ इति पूर्ववाक्येनैव तच्छब्दनिर्दिष्टाद् ब्रह्मणः प्रपञ्चोत्पत्तेः सिद्धत्वात् ‘तदात्मानम्’ इति व्यर्थम् ।

अद्वैतसिद्धि:

यतो वा इमानि भूतानि जायन्ते’ इति ‘जनिकर्तुः प्रकृतिः’ इति सूत्रप्रकृत्यर्थविहितपञ्चमीश्रुत्या ‘यत् प्रयन्त्यभिसंविशन्ति’ इति स्थितिलयाधारत्वलिङ्गाच्चोपादानत्वसिद्धिः । ‘तदैक्षत, व्याकरवाणि’ इति ईक्षणाद्याधारतया कर्तृत्वसिद्धिश्च । अथ– वृत्तौ ‘पुत्रात् प्रमोदो जायते’ इत्यादावनुपादानेऽपि पञ्चमीदर्शनात्प्रकृतिपदं हेतुमात्रपरमित्युक्तम् । न्यासेऽपि इदमेवाश्रित्य ‘असति प्रकृतिग्रहणे उपादान-स्यैवापादानसंज्ञा स्यात्, प्रत्यासत्तेः, नेतरस्य । प्रकृतिग्रहणात् कारणमात्रस्य भवतीति प्रकृति-पदमनुपादानेऽप्यपादानसंज्ञासिद्ध्यर्थम्’ इत्युक्तम् । महाभाष्येऽपि ‘अयमपि योगः शक्योऽवक्तुम् गोलोमाजलोमाविलोमभ्यो दूर्वा जायन्ते अपक्रामन्ति तास्तेभ्यः’ इत्यादिना लोमादीनां दूर्वादीन् प्रत्यवधित्वाद् ‘ध्रुवमपायेऽपादानम्’ इत्यनेनैवापादानसंज्ञासिद्धेरिदं सूत्रमनारम्भणीयमिति सूत्रं प्रत्याख्यातम् । कैयटेऽपि अपक्रमणावधित्वे लोमादिषु कार्यस्य प्रतीतिर्न सम्भवतीत्याशङ्क्य बिला-न्निष्क्रामतो दीर्घभोगस्य भोगिनः अवच्छिन्नतया तत्रोपलब्धिवत् कार्यस्यापि दूर्वादेस्तत्रोपलब्धि-रित्यवधित्वमेव तत्रोपपादितम् ।

ततश्च मतद्वयेऽपि ‘जनिकर्तुः प्रकृतिः’ इत्यनेन उपादान एव पञ्चमीति नियमो न सिद्ध्यतीति चेत्, मैवम्, ‘पशुना यजेत’ इत्यादौ पशुशब्दस्य पशुमात्रवाचकत्वेऽपि ‘छागस्य वपायाः’ इति वाक्यशेषानुसारेण पशुविशेषपरत्ववदत्रापि कारणमात्रार्थत्वेऽपि उपादानपरत्वोपपत्तेः । अवधिपञ्चमीपक्षे ‘शृङ्गाच्छरः’ इत्यादौ शृङ्गादिपदस्य नियामकाभावान्निमित्तपरत्वेऽपि प्रकृते नियामकसत्त्वेन निमित्त-परत्वाभावात् । अत एव ‘आत्मन आकाशः सम्भूतः’ इत्यादावपि प्रकृतिपञ्चमी । ‘सच्च त्यच्चाभवत्’ इति वाक्यशेषेण ‘सोऽकामयत’ इत्येतच्छाखान्तरस्थितवाक्येन च प्रतीतिसामानाधिकरण्यस्य नियामकत्वात् । न च ‘स तपोऽतप्यत, स तपस्तप्त्वा इदं सर्वमसृजत, तत्सृष्ट्वा तदेवानुप्राविशत्, तदनुप्रविश्य सच्च त्यच्चाभवत्’ इत्यादिश्रुत्या सदादिभवनस्य जगत्सृष्टितदनुप्रवेशानन्तरभावित्वेन जगत्सृष्टित्वानुपपत्तौ परमेश्वरस्य सत्त्वादिगुणाभिव्यक्तिपरत्वेन ब्रह्मोपादानत्वे नास्य प्रामाण्यम् । अन्यथा कथम् ‘अभवत्’ इत्युक्तं स्यात् ? न हि शुक्तिः रूप्यमभवदित्युच्यत इति वाच्यम् । सदादिभवनस्यैव जगत्सृष्टिरूपतया तदानन्तर्याभावात् । ‘तदनुप्रविश्य’ इत्यस्य ‘मुखं व्यादाय’ इतिवदुपपत्तेः ।

न च ‘इदं सर्वमसृजत’ इत्यनेन पौनरुक्त्यम्, निमित्तत्वमात्रभ्रान्तिव्युदासपरत्वात् । यच्च शुक्तिः रूप्यमभवदित्यनुभवादर्शनमुक्तम्, तच्छुक्तेरनुपादानत्वप्रयुक्तमिति तददर्शनस्यानुदाहरणत्वात् । न च मूर्तामूर्तप्रपञ्चस्य सत्त्यत्पदाभ्यामेवोक्तत्वेन निरुक्तादिपदवैयर्थ्यमिति शङ्क्यम् । सङ्ग्रहविवरणरूपतयो-पपत्तेः । ननु ‘सोऽकामत बहुस्याम्’ इति वाक्यं न सृज्यसाहचर्यमाह । येन तत्समानाधिकरण्य-मीश्वरस्य प्रतीयते किन्तु परमेश्वरस्य ‘अजायमानो बहुधा विजायते, यदेकमव्यक्तम्’ इत्यादिश्रुतिसिद्ध-तत्तदनन्तपदार्थप्रेरकानन्त रूपैर्बहुभावसङ्कल्पमाह । न च स्वस्यानन्तरूपैर्बहुभावं सङ्कल्प्य ‘इदं सर्वमसृजत’ इति जगत्सर्जनानुपपत्तिः । नियामकरूपबहुभावस्य नियम्यसापेक्षत्वात् । नियम्यं सर्वं सृष्ट्वा नियामकरूपैः प्रवेशोक्त्युपपत्तेः । अन्यथा स्यामिति सत्त्वोक्तिर्न स्यात् । सृष्टेः प्रागन्तः-करणाभावेन तद्विशिष्टाहमर्थाभावेन उत्तमपुरुषानुपपत्तिश्च स्यादिति चेन्न । स्यामित्यनेन सुखी स्यामित्यादिवद् भाविसत्त्वोक्तौ तदनुपपत्त्यसम्भवात् । अन्यथा सङ्कल्पविषयत्वानुपपत्तेः । सिद्धे इच्छाविरहात् । इदमेव च बहुपदस्य सृज्यपरत्वे विनिगमकम् । नियामकरूपाणां च तवापि मते ईश्वराभिन्नतया सिद्धत्वात् । तथा चेच्छाया नियम्य एव त्वन्मतेऽपि पर्यवसानात् । तथा चेच्छायास्तेजःप्रभृतिविषयत्वेन ‘बहु स्यामिति सङ्कल्प्य तेजःप्रभृतिसर्जनम् । गुरुः स्यामिति सङ्कल्प्य शिष्यसम्पादनादिवत्’ इति निरस्तम् । यच्चोक्तमुत्तमपुरुषानुपपत्तिरिति, तन्न, तादृशाविद्यापरिणामविशिष्टे अहमिति प्रयोगसम्भवेन उत्तमपुरुषोपपत्तेः । एवमेव ‘तदैक्षत बहुस्याम्’ इत्याद्यत्र मानं बोध्यम् ।

ननु च यत्तेजःप्रभृति सृज्यं, तदात्मना हि त्वया बहुभावो वाच्यः । तेषां तु तेजआदीना-मीक्षितृत्वस्रष्टृत्वदेवतात्मत्व श्रवणात्तानि चेतनानि । न च चेतनं प्रत्युपादानं नामेति चेत्, सत्यम्, सृज्यानामीक्षितृत्वाद्यसम्भवेन ईक्षणादिकर्तृप्रतिपादक तेजआदिपदैस्तेज आद्यवच्छिन्न आत्मा बोध्यते । पूर्वपूर्वकाय•वच्छिन्नस्य तस्यैवोत्तरोत्तरकार्यनिमित्तत्वात् । तथा चावच्छेदके तेज आदौ न चैतन्य-निबन्धनदोषावकाशः । ‘असद्वा इदमग्र आसीत्’ ‘ततो वै सदजायत’ ‘तदात्मानं स्वयमकुरुत’ इत्याद्यप्युक्तार्थे प्रमाणम् । न चात्मनः करणे ‘अकुरुत’ इति सत्त्वोक्त्यनुपपत्तिः । आकाशाद्यात्मना क्रियमाणत्वेऽपि स्वरूपेण सत्त्वोपपत्तेः । एतदर्थमेवात्मान माकाशाद्यात्मना अकुरुतेत्यश्रूयमाणोऽप्यर्थः कल्प्यते । एवं ‘तदात्मानं सृजाम्यहम्’ इत्यादिस्मृतिषु धर्मस्थापक शरीराद्यात्मनेति व्याख्येयम् । न च ‘ततो वै सदजायत’ इति तच्छब्दोपात्तब्रह्मणः प्रपञ्चोत्पत्तेः प्राक् सिद्धत्वात्तदात्मानमिति व्यर्थमिति वाच्यम् । निमित्तत्वे पूर्ववाक्येन लब्धेऽपि उपादानत्वबोधनेनास्यापि सफलत्वात् ।

न्यायामृततरङ्गिणी

तस्या इति ।। ‘पुण्यात्सुखम्’ इत्यादौ निमित्तार्थकत्वात् ।। अपादानार्थत्व इति ।। ‘वृक्षात् पतति’ इत्यादिवद्विश्लेषावधित्वस्य ध्रुवशब्दार्थत्वात् । ननु ‘जनिकर्तुः प्रकृतिः’ इति सूत्रेण जायमानस्य कार्यस्य या प्रकृतिरुपादानं तस्यापादानसंज्ञा न विधीयत इत्यत आह– जनीति ।। जनिकर्तुरिति सूत्रेणापि नोपादानस्यैवापादानसंज्ञा किन्तु निमित्तस्यापि । अन्यथा ‘पुत्रात्प्रमोदो जायते’ इत्युदाहरणमस्मिन्सूत्रे वृत्तिगतमसङ्गतं स्यात् । पञ्चमी श्रुतिर्न मानमित्यन्वयः ।। न्यासेऽपीति ।। अत्र सूत्रे प्रकृतिपदं हेतुमात्रपरमित्युक्तम् । ननु तर्हि जनिकर्तुर्हेतुरित्येव सूत्रणीयमित्याशङ्कापरिहारार्थमुक्तम् असतीत्यादि । हेतुशब्देन मुख्यस्य हेतोरुपादानस्यैव ग्रहणं स्यात् । उपादानरूपेण हेतुना कार्यस्य संश्लेषात् । प्रकृतिशब्देन हेतुलक्षणायां तु हेतुसामान्यस्य ग्रहणं स्यात् । लक्षणासामर्थ्यादित्यर्थः । एतावत्पर्यन्त-मुपादानत्वमपि पञ्चम्यर्थो भवतीत्यङ्गीकृत्योक्तम् ।

इदानीं नोपादानत्वं क्वचिदपि पञ्चम्यर्थ इत्याह– शृङ्गादिति ।। शरस्तृणजातिः । महिष्यादिशृङ्गात्कर्दमे निक्षिप्ताच्छराङ्कुरा जायन्त इति लोकप्रसिद्धिः । शराकारपरिणतशृङ्ग-भागातिरिक्तस्तत्संसृष्टो यः शृङ्गभागः स शरस्यापादानं नोपादानम् । स पञ्चम्या निर्दिश्यते शृङ्गादिति । एवं दूर्वादावपि ।। अयमपीति ।। योगः सूत्रम् । यथा भीत्रार्थानां भयहेतु-रित्यादिसूत्राणि न कर्तव्यानि तथा जनिकर्तुः प्रकृतिरिति योगोऽपि अवक्तुम् अकर्तुं शक्यः । अपक्रामन्ति निर्गच्छन्ति । ताः दूर्वाः । तेभ्योऽविलोमभ्यः । ननु वैशेषिकादिप्रक्रियया परमाण्वादिसमवेतं कारणेभ्योऽपृथक्देशं कार्यमुत्पद्यतेऽतो नास्ति कारणात्कार्यस्यापक्रम इत्यतोऽनुपपन्नमिदं भाष्यमित्याशङ्कायाः लोकप्रसिद्ध्याश्रयणेनैतदुच्यते । लोके हि यद्यस्माज्जायते तत्तस्मान्निर्गच्छतीत्युच्यत इति कैयटोक्तं परिहारं सूचयति ।। अवधित्वा-दिति ।। लोके निष्क्रमणावधित्वेन प्रसिद्धत्वादित्यर्थः । ‘तन्तुभ्यः पटो जायते’ इत्यादावपि तुर्युपारूढेभ्यस्तन्तुभ्यो निर्गमः पटस्यास्त्येव । वैशेषिकादिप्रक्रिया त्वप्रामाणिकी । यथोक्तं कैयटे । आख्यातोपयोग इत्यत्र । पूर्वाचार्याणां वचनमप्युदाहृतम् ।

वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।

कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थिते ।। इति ।

नन्वपक्रामन्ति तास्तेभ्यः’ इत्ययुक्तम् । लोमसु दृश्यमानत्वात् । यद्यतोऽपक्रामति तत्पुनस्तत्र न दृश्यत इति प्रसिद्धम् । इह तु तत्रास्ति दर्शनमिति शङ्कां परिहरति– कैयटेऽपीति ।। तत्र दर्शनं ततो निर्गमनाभावे न प्रयोजकं किन्त्वविच्छेदादिकमित्यर्थः ।। तदुक्तमिति ।। प्रकृत्यधिकरणानुव्याख्यान इति शेषः ।। अपादानत्वमिति ।। सूत्रार्थतयेति शेषः ।। अत एवेति ।। पञ्चम्या उपादानार्थत्वाभावात् ।। अन्यथेति ।। आकाशादिति पञ्चम्या निमित्तार्थत्वाभावे । उपादानार्थत्वे हि विकाररूपोपादानत्वानङ्गीकारा-द्विवर्ताधिष्ठानत्वरूपमुपादानत्वं पञ्चम्याऽभिधातव्यं स्यात् । न च तदभिधाने तस्याः सामर्थ्यमस्तीत्याह– न हीति ।। परमेश्वरस्येति ।। परमेश्वरस्य प्रकृतिमहत्प्राणे भ्योऽन्यत्रावसादनकर्तृत्वरूपो यः सत्त्वगुणः, ततत्वनियामकत्वरूपो यस्त्यत्वगुणः, अन्ये ये निरुक्तादिगुणास्तदभिव्यक्तिपरं ‘सच्च त्यच्चाभवत्’ इत्यादिवाक्यम् । न तु परमेश्वरस्य सदादिविवर्तपरमित्यर्थः ।

सोऽकामयतेत्यादेरयमर्थः । स आनन्दमयः स्वस्य बहुभावं सङ्कल्प्य तदर्थमधिष्ठानानि बहूनि स्युरित्यालोचनरूपं तपस्तप्त्वा इदं वक्ष्यमाणं सदादिशब्दवाच्यं श्रीप्रभृतिकमसृजत् । तत्सृष्ट्वा तदेवानुप्रविश्य स्वयं सत्यत्वादिगुणैरभिव्यक्तोऽभूदिति ‘सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्’ इति श्रुतौ सन्निरुक्तानृताविज्ञाननिलयनशब्दैः श्रीरुच्यते । त्यदनिरुक्तनिलयनविज्ञानशब्दै-र्महानुच्यते । सत्यशब्देन प्राणः सत्यत्वादिगुणः परमेश्वरश्च । तत्सम्बन्धेनैव श्रीप्रभृतीनां सदादिशब्दवाच्यत्वम् । सत्यमभवदिति द्वितीयसत्यशब्दस्य सदादिशब्दवाच्या येऽवसादन-हेतुत्वादयः परमेश्वरगुणास्ते साधुरूपा इत्यर्थः । तथा च तैत्तिरीयभाष्यम्– ‘‘त्यच्चानिरुक्तं विज्ञानं तथाऽनिलयनं महान् । सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथानृतम्’’ ।

अविज्ञानं चानिलयनमिति । तथा–

तद्गविष्णोस्तु सम्बन्धात्स्वतस्तन्नामगो हरिः ।

ततो नियामकश्चेति त्यदानन्त्यादवाच्यतः ।।

अनिरूक्तं निलयनं सर्वाधारत्वतो हरिः ।

विज्ञानं सर्वविज्ञानात्सत्यं साधुस्वरूपतः ।।

अवसादसु वाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः ।

प्रकृतिप्राणतोऽन्यत्र कुर्वंस्तन्नामको हरिः ।।

अतः साधुस्वरूपः सन्सत्यनामेति ।। अन्यथेति ।। सदादिभवनस्य त्वदभिमतविवर्त-रूपसृष्टित्वे ।। मूर्तेति ।। त्वया सदादिपदैर्मन्वादिग्रहणान्निरुक्तादिपदवैयर्थ्यम् । ननु सङ्ग्रह-विवरणरूपतया सदादिपदोक्तमेव पृथुबुध्नाकार इत्यादिनिरुच्यमानं घटादि निरुक्तं, जाती-चम्पक-केतकी-गन्धादिकमनिरुक्तमुच्यत इति न वैयर्थ्यम् । मैवम् । अर्थविशेषानुक्तेः । त्वन्मते विज्ञानसत्यशब्दयोश्चित्परत्वेन तदात्मना सत्यभवनायोगात् । सदादौ भवनशब्देन विवर्ते विज्ञानसत्ययोस्तु नेत्यस्यायोगाच्च । ननु बहुः स्यामिति प्रत्यगात्मविषयाभि-ध्ययाऽऽत्मन एव प्रपञ्चरूपेण बहुभावोऽवगम्यते सूत्रं च ‘अभिध्योपदेशात्’ इति, अत आह– सोऽकामयतेति ।। स्वरूपपरत्वादभिध्यायाः न तयोपादानत्वसिद्धिरित्यर्थः  ।। अन्यथेति ।। स्वस्वरूपबहुभावसङ्कल्पानङ्गीकारे । बहुविवर्तसङ्गल्पाङ्गीकारे ।। सत्त्वोक्तिरिति ।। विवर्ते सत्त्वाभावादित्यर्थः ।। सृष्टेरिति ।। न चान्तःकरणाभावेऽप्यविद्यापरिणामविशिष्टेऽहमिति प्रयोग इति वाच्यम् । तादृशपरिणामस्यैव सृष्टेः पूर्वमभावात् । अन्यथा सुषुप्तौ चाहमुल्लेखः स्यात् ।। श्रवणादिति ।। छान्दोग्यभाष्ये च–

सर्वोत्तमत्वात्सन्नामा हरिर्नारायणः प्रभुः ।

सोऽसृजत्प्रथमं देवीं तेजआख्यां श्रियं सतीम् ।

तेजःस्थितेन रूपेण साऽजैव हि यतः सदा ।

तेज इत्युच्यते तस्माज्जनेर्वा तत एव तु ।

अबाख्यः प्राण एवायमन्नामा जायतेऽथ च । ब्राह्मणादिचतुर्वर्णस्ततश्चान्नाभिधो हरः ।। इति । ननु सद्वा इति वाक्ये स्थूलबुद्ध्यगोचरत्वे नासच्छब्दवाच्यं ब्रह्म । सदादिपदवाच्या-काशादिरूपेण स्वमात्मानमकुरुतेति श्रूयते । तथा च सूत्रम् ‘आत्मकृतेः परिणामात्’ इति । अतस्तस्योपादानत्वमित्येतत्परिहरति– एतेनैवेति ।। ननु नात्रात्मसर्जनं किन्तु सदात्मनात्म-सर्जनमत आह– न हीति ।। अन्यथेति ।। आकाशादिविवर्तात्मना सर्जने ।। सत्त्वोक्ति-रिति ।। (अ)कुरुतेति कृतिविषयत्वरूपसत्त्वोक्तिः । असद्वा इत्यादिश्रुतेरर्थस्तैत्तिरीय-भाष्येऽभिहितः । अनासाद्यस्त्वसन्नामा पूर्वं नारायणाभिधः । स आसाद्यश्च सन्नामा वासुदेवोऽभवत्प्रभुः ।

स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणाभिधम् ।

तस्मात्स सुकृतं नाम स आनन्दो रसस्ततः ।। इति ।

तथा च सूत्रम् ‘साक्षाच्चोभयाम्नानात्’ इति । साक्षादुपादानान्तरानुपादानेन ब्रह्मणि जन्मलयावाम्नायेते इति सूत्रार्थः ।

न्यायामृतकण्टकोद्धारः

एवमुपादानत्वं ब्रह्मणो निर्वक्तुमशक्यमित्युक्तम् । इदानीं प्रमाणाभावादुपादानत्वमयुक्तमित्याह– किञ्चेति ।। प्रत्यक्षं तु ब्रह्मणोऽतीन्द्रियत्वात्तदुपादानत्वे न सम्भवतीत्यनुमानागमयोरन्यतरद् वाच्यम् । तत्रानुमानस्य श्रुतिवदनभिप्रेतत्वान्मूलप्रमाणसापेक्षत्वाच्च, आगमस्य तद्विपरीतत्वादागम-दूषणमेव प्रथमं कृतमिति द्रष्टव्यम् ।। तस्या इति ।। हेतौ तृतीयेत्यादिना हेतुत्वेऽपि तद्विधाना-दिति भावः । ननु बहुभिः सूत्रैरपादानपञ्चम्या विधानात् तद्ग्रहणमेव ज्याय इत्यत आह– अपादानार्थत्वेऽपीति ।। तथा च विश्लेषावधित्वमेव ब्रह्मणो न तूपादानत्वमिति भावः । ननु ‘ध्रुवमपायेऽपादानम्’ इत्यतः ‘जनिकर्तुः’ इत्यस्य विशेषसूत्रत्वादनेनैवापादानसंज्ञायामुपादानत्वं सेत्स्यति । तत्रोपादानत्वस्य प्रकृतिशब्देन लब्धत्वादित्यत आह– जनिकर्तुरितीति ।। न च तत्र प्रकृतिपदमुपदानमात्रपरमिति वाच्यम् । तस्य हेतुमात्रपरत्वात् । अन्यथा वृत्तिन्यासविरोधात् ।। असति प्रकृतिग्रहण इति ।। प्रकृतिपदाच्छीघ्रोप स्थितोपादानग्रहण इत्यर्थः ।। उपादान-स्यैवेति ।। अपादानसंज्ञेति शेषः । ‘न्यासेऽपि’ ‘इत्युक्तत्वात्’ इति सम्बन्धः ।

नन्वेवमुपादानपञ्चमीस्थले का गतिरित्यत आह– शृङ्गादिति ।। तत्रापि निमित्त एव पञ्चमीति भावः । न चैवं पूर्वमस्यार्थस्योक्तत्वात्पौनरुक्त्यमिति वाच्यम् । पूर्वं प्रकृतिपदमुपादान- निमित्तसाधारणहेतुमात्रपरम् । इदानीं तु निमित्तहेतुमात्रपरमिति भेदात् । न चापरिणतांशस्य निमित्तत्वे प्रमाणाभावः । अन्वयव्यतिरेकयोरेव प्रमाणत्वात् ।। अत एव ।। अपरिणतभाग-स्यावधित्वादेवेत्यर्थः । न चेदं सिद्धान्तसम्मतमित्यत आह– तदुक्तमिति ।। ‘शृङ्गात् शरः’ इत्यादौ अपरिणतांशस्य विश्लेषावधित्वरूपोपादानत्व एव पञ्चमी । न तु परिणामोपादानत्व-रूपापादानत्व इत्यर्थः । अत एवेति परामृष्टं हेतुमाह– आकाशादित्यादावपीति ।। अन्यथेति ।। आकाशादेर्विवर्ताधिष्ठानत्व रूपोपादानत्वे इत्यर्थः । न चात्र विकारित्वरूपमेवोपादानत्वं विवक्षितम् । तेन सम्भूतशब्दोपपत्तिरिति वाच्यम् । आत्मन इत्यादावपि तथात्वापत्तौ निर्विकार-श्रुतिविरोधः । तत्र विवर्ताधिष्ठानत्वविवक्षायां सम्भूतशब्दानुपपत्तिः । सकृच्छ्रुतस्यार्थद्वय-कल्पनापत्तिश्चेति द्रष्टव्यम् ।

नन्वस्तु विवर्ताधिष्ठानत्व एव सम्भूतशब्दोपपत्तिरित्यत आह– न हीति ।। तथा लौकिक-प्रयोगाभावादिति भावः ।। नापीति ।। अत्र ‘बहु स्याम्’ इति सङ्कल्प्य सदादिभवनस्योक्तत्वाद् अन्यविषयत्वे सङ्कल्पवैय्यधि करण्यापत्तेरुपादानत्वं विवक्षितमिति नापीत्यर्थः । सदादिभवनस्य जगत्स्रष्ट्रत्वाभावे तत्प्रतिपादकवाक्यस्य निर्विषयत्वं स्यादित्यत आह– परमेश्वरस्येति ।। सत्त्वादिगुणानां सदा सत्त्वाद् भवनानुपपत्तिरित्यत उक्तम् अभिव्यक्तीति  ।। अन्यथा विवर्ताधिष्ठानत्वरूपोपादानत्व इत्यर्थः । ननु तर्हि सदादिरूपजगद्भवनसङ्कल्पानुपपत्तिरित्यत आह–   स इति ।। स्वस्यानन्तरूपैराविर्भावार्थत्वान्न व्यधिकरणतेति भावः ।। अन्यथेति ।। विवर्ता-धिष्ठानत्वरूपोपादानत्व इत्यर्थः । न च सुखी स्यामितिवत् भाविविवक्षया सत्वोक्तिरस्तु । अन्यथा इच्छैव न स्यात् । सिद्धे इच्छाविरहात् । ईश्वरस्वरूपाणामीश्वराभिन्नत्वेन सिद्धत्वादिति वाच्यम् । ब्रह्मविवर्तत्वपक्षे भाविनोऽपि सत्त्वाभावात् । भाविनोऽपि सुखस्य सत्त्वात् । स्वरूपाणा-मीश्वराभेदेन सिद्धत्वे आविर्भावापेक्षया इच्छोपपत्तेः । अत एव बहुशब्दः सृज्यपर इति निरस्तम् ।

सृष्टेरिति ।। न च तादृशाविद्यापरिणामविशिष्ट उत्तमपुरुषप्रयोगसम्भवेन सर्वस्योपपत्तिरिति वाच्यम् । सङ्कल्पं विनाऽविद्यापरिणामरूपसृष्ट्यसम्भवात् । तथा च सत्यहमर्थे उत्तमपुरुषेण सङ्कल्पे अविद्यापरिणामः तत्सृष्ट्यसंक्षत्याकेऽस्मिन् सङ्कल्प इत्यन्योन्याश्रय इति भावः ।। एतेनेति ।। बहु स्यामिति तैत्तिरीय कश्रुतेरनन्तरूपैर्बहुभावपरत्वप्रतिपादनेनेत्यर्थः । तेजः प्रभृतीनां चेतनत्वे युक्तिमाह– तत्तेज इति ।। न चेति ।। न च तेज आदिपदैस्तदवच्छिन्न आत्मा बोध्यते । पूर्वपूर्वकार्यावच्छिन्नस्योत्तरोत्तरकार्यावच्छिन्नं प्रति निमित्तत्वात् । तदवच्छेदके चैतन्याभावात् तत्प्रत्युपादानत्वोपपत्तिरिति वाच्यम् । अवच्छिन्नस्य मिथ्यात्वेन जडत्वादीक्षणाद्यनुपपत्तौ तेज आदिपदेन चैतन्यस्यैव विवक्षणीयत्वात् । अवच्छिन्ने ईक्षणाद्यनुपपत्तौ अभिमानिचेतना-वच्छिन्नप्रधानस्येक्षणसम्भवात् । ‘ईक्षतेर्नाशब्दम्’ इत्यत्रेक्षणेन प्रधाननिरासो न स्यात् । किञ्च चेतनस्यैव निमित्तत्वं वक्तव्यम् । तेज आदीनामुपादानत्वेन निमित्ततानवच्छेदकत्वात् । न हि मृदो दण्डाद्यवच्छेदकत्वमिति भावः ।। एतेनेति ।। तत्रापि स्वरूपबहुभावस्यैव सम्भवादिति भावः ।

अत्र समाख्याप्रमाणमाह– तदात्मानमिति ।। न च तत्रापि जगद्रूपेण बहुभाव एव प्रतिपाद्य इति वाच्यम् । प्रक्रमाननुगुणत्वात् । परित्राणायेति अवताराणामेवोक्तत्वात् ।। न हीति ।। न चाकाशात्मनेति अध्याह्रियत इति वाच्यम् । वाक्यस्थपदैरेव वाक्यार्थसम्भवेनाध्याहारा-नावश्यकत्वात् । अन्यथाऽतिप्रसङ्गात् । अत्राकुरुतेति कर्तृत्वोक्त्याऽसत्त्वमवगम्यते । सतः कर्तृत्वानुपपत्तेरित्यर्थः । न चाकाशात्मनाऽसत्वेऽपि स्वरूपेण सत्त्वोक्तिर्युक्तेति वाच्यम् । आत्मानमकुरुतेति आत्मन एव कर्मत्वप्रतीतेः स्वरूपसत्त्वासम्भवात् । अन्यथा स इदं सर्वमित्यत्रापि सर्वस्य स्वरूपसत्त्वापातात् ।। किञ्चेति ।। न च पूर्ववाक्यं निमित्तपरमिदं तूपादानपरमिति वाच्यम् । उपादानत्वासम्भवस्य पूर्वमेवोक्तत्वात् । अन्यार्थसम्भवेऽप्रामाणि-कस्योपादानत्वस्य तदर्थत्वायोगाच्च । घटं करोतीत्यादाविव सर्वमकुरुतेति प्रयोगापाताच्च । कृतिविषये उपादानवाचकपदप्रयोगादर्शनात् ।

न्यायकल्पलता

तस्या इति ।। ‘पुण्यात्सुखम्’ इत्यादौ निमित्तार्थकत्वात् ।। अपादानार्थत्व इति ।। ‘वृक्षात् पतति’ इत्यादिवद्विश्लेषावधित्वस्य ध्रुवशब्दार्थत्वात् । ननु ‘जनिकर्तुः प्रकृतिः’ इति सूत्रेण जायमानस्य कार्यस्य या प्रकृतिरुपादानं तस्यापादानसंज्ञा न विधीयत इत्यत आह– जनीति ।। जनिकर्तुरिति सूत्रेणापि नोपादानस्यैवापादानसंज्ञा किन्तु निमित्तस्यापि । अन्यथा ‘पुत्रात्प्रमोदो जायते’ इत्युदाहरण-मस्मिन्सूत्रे वृत्तिगतमसङ्गतं स्यात् । पञ्चमी श्रुतिर्न मानमित्यन्वयः ।। न्यासेऽपीति ।। अत्र सूत्रे प्रकृतिपदं हेतुमात्रपरमित्युक्तम् । ननु तर्हि जनिकर्तुर्हेतुरित्येव सूत्रणीयमित्याशङ्कापरिहारार्थमुक्तम् असतीत्यादि । हेतुशब्देन मुख्यस्य हेतोरुपादानस्यैव ग्रहणं स्यात् । उपादानरूपेण हेतुना कार्यस्य संश्लेषात् । प्रकृतिशब्देन हेतुलक्षणायां तु हेतुसामान्यस्य ग्रहणं स्यात् । लक्षणासामर्थ्यादित्यर्थः । एतावत्पर्यन्तमुपादानत्वमपि पञ्चम्यर्थो भवतीत्यङ्गीकृत्योक्तम् । इदानीं नोपादानत्वं क्वचिदपि पञ्चम्यर्थ इत्याह– शृङ्गादिति ।। शरस्तृणजातिः । महिष्यादिशृङ्गात्कर्दमे निक्षिप्ताच्छराङ्कुरा जायन्त इति लोकप्रसिद्धिः । शराकारपरिणतशृङ्गभागातिरिक्तस्तत्संसृष्टो यः शृङ्गैकदेशः स शरस्यापादानं, नोपादानम् । स पञ्चम्या निर्दिश्यते ‘शृङ्गात्’ इति । एवं दूर्वादावपि ।। अयमपीति ।। योगः सूत्रम् । यथा ‘भीत्रार्थानां भयहेतुः’ इत्यादिसूत्राणि न कर्तव्यानि तथा ‘जनिकर्तुः प्रकृतिः’ इति योगोऽपि अवक्तुम् अकर्तुं शक्यः । अपक्रामन्ति निर्गच्छन्ति । ताः दूर्वाः । तेभ्यः लोमभ्यः ।

ननु वैशेषिकादिप्रक्रियया परमाण्वादिसमवेतं कारणेभ्योऽपृथक्देशं कार्यमुत्पद्यतेऽतो नास्ति कारणात्कार्यस्यापक्रम इत्यतोऽनुपपन्नमिदं भाष्यमित्याशङ्कायाः लोकप्रसिद्ध्याश्रयणेनैतदुच्यते । लोके हि यद्यस्माज्जायते तत्तस्मान्निर्गच्छतीत्युच्यत इति कैयटोक्तं परिहारं सूचयति– अवधित्वादिति ।। लोके निष्क्रमणावधित्वेन प्रसिद्धत्वादित्यर्थः । ‘तन्तुभ्यः पटो जायते’ इत्यादावपि बुद्ध्युपारूढे-भ्यस्तन्तुभ्यो निर्गमः पटस्यास्त्येव । वैशेषिकादिप्रक्रिया त्वप्रामाणिकी । यथोक्तं कैयटे । आख्यातोप-योग इत्यत्र, पूर्वाचार्याणां वचनमप्युदाहृतम् ।

वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।

 कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः’ ।। इति ।

नन्वपक्रामन्ति तास्तेभ्यः’ इत्ययुक्तम् । लोमसु दृश्यमानत्वात् । यद्यतोऽपक्रामति तत्पुनस्तत्र न दृश्यत इति प्रसिद्धम् । इह तु तत्रास्ति दर्शनमिति शङ्कां परिहरति– कैयटेऽपीति ।। तत्र दर्शनं ततो निर्गमनाभावे न प्रयोजकं किन्त्वविच्छेदादिकमित्यर्थः ।। तदुक्तमिति ।। प्रकृत्यधिकरणानु-व्याख्यान इति शेषः ।। अपादानत्वमिति ।। अपायावधित्वम् । इष्यते सूत्रार्थतयेति शेषः ।। अत एवेति ।। पञ्चम्या उपादानार्थत्वाभावात् ।। अन्यथेति ।। ‘आकाशात्’ इति पञ्चम्या निमित्तार्थत्वाभावे । उपादानार्थत्वे हि विकाररूपोपादानत्वानङ्गीकाराद्विवर्ताधिष्ठानत्वरूपमुपादानत्वं पञ्चम्याऽभिधातव्यं स्यात् । न च तदभिधाने तस्याः सामर्थ्यमस्तीत्याह– न हीति ।। परमेश्वर-स्येति ।। परमेश्वरस्य प्रकृतिमहत्प्राणेभ्योऽन्यत्रावसादनकर्तृत्वरूपो यः सत्त्वगुणः, ततत्वनियामकत्व-रूपो यस्त्यत्वगुणः, अन्ये ये निरुक्तादिगुणास्तदभिव्यक्तिपरं ‘सच्च त्यच्चाभवत्’ इत्यादिवाक्यम् । न तु परमेश्वरस्य सदादिविवर्तपरमित्यर्थः ।

सोऽकामयत’ इत्यादेरयमर्थः । स आनन्दमयः स्वस्य बहुभावं सङ्कल्प्य तदर्थमधिष्ठानानि बहूनि स्युरित्यालोचनरूपं तपस्तप्त्वा इदं वक्ष्यमाणं सदादिशब्दवाच्यं श्रीप्रभृतिकमसृजत । तत्सृष्ट्वा तदेव चानुप्रविश्य स्वयं सत्यत्वादिगुणैरभिव्यक्तोऽभूदिति ‘सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्’ इति श्रुतौ सत्, निरुक्त, अनृत, अविज्ञान, निलयनशब्दैः श्रीरुच्यते । त्यत्, निरुक्त, निलयन, विज्ञानशब्दैर्महानुच्यते । सत्यशब्देन प्राणः, सच्चत्यत्वादिगुणः परमेश्वरश्च । तत्सम्बन्धेनैव श्रीप्रभृतीनां सदादिशब्दवाच्यत्वात् ‘सत्यमभवत्’ इति द्वितीयसत्यशब्दस्य सदादिशब्दवाच्या येऽवसादनकर्तृत्वादयः परमेश्वरगुणास्ते साधुरूपा इत्यर्थः । तथा च तैत्तिरीयभाष्यम्–

त्यच्चानिरुक्तं विज्ञानं तथाऽनिलयनं महान् ।

 सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथाऽनृतम् ।

अविज्ञानं निलयनं प्रकृतिः प्राणयोः परम् । तथा–

तद्गविष्णोस्तु सम्बन्धात्स्वतस्तन्नामको हरिः ।

ततो नियामकश्चेति त्यदानन्दादवाच्यतः ।।

अनिरुक्तं निलयनं सर्वाधारत्वतो हरिः ।

विज्ञानं सर्वविज्ञानात्सत्यं साधुस्वरूपतः ।।

अवसादसु वाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः ।

प्रकृतिप्राणतोऽन्यत्र कुर्वंस्तन्नामको हरिः ।।

अतः साधुस्वरूपः सन्सत्यनामेति ।। अन्यथेति ।। सदादिभवनस्य त्वदभिमतविवर्तरूपसृष्टित्वे ।। मूर्तेति ।। त्वया सदादिपदैर्मूर्तादिग्रहणान्निरुक्तादिपदवैयर्थ्यम् । ननु सङ्ग्रहविवरणरूपतया सदादि-पदोक्तमेव पृथुबुध्नाकार इत्यादिनिरुच्यमानं घटादि निरुक्तं, जाती-चम्पक-केतकी-गन्धादिकम-निरुक्तमुच्यत इति न वैयर्थ्यम् । मैवम् । अर्थविशेषानुक्तेः । त्वन्मते विज्ञानसत्यशब्दयोश्चित्परत्वेन तदात्मना सत्यस्य भवनायोगात् । सदादौ भवनशब्देन विवर्तः विज्ञानसत्ययोस्तु नेत्यस्यायोगाच्च । ननु बहुः स्यामिति प्रत्यगात्मविषयाभिध्ययाऽऽत्मन एव प्रपञ्चरूपेण बहुभावोऽवगम्यते । सूत्रं च ‘आभिध्योपदेशात्’ इति, अत आह– सोऽकामयतेति ।। ‘सोऽभिध्यासज्जूतिरिति श्रुतेः अभिध्यायाः स्वरूपपरत्वान्न तयोपादानत्वसिद्धिरित्यर्थः ।। अन्यथेति ।। स्वस्वरूपबहुभावसङ्कल्पानङ्गीकारे । बहुविवर्तसङ्गल्पाङ्गीकारे ।। सत्त्वोक्तिरिति ।। विवर्ते सत्त्वाभावादित्यर्थः ।। सृष्टेरिति ।। न चान्तः-करणाभावेऽप्यविद्यापरिणामविशिष्टेऽहमिति प्रयोग इति युक्तम् । तादृशपरिणामस्यैव सृष्टेः पूर्वमभावात् । अन्यथा सुषुप्तादावप्यहमुल्लेखः स्यादिति भावः ।। श्रवणादिति ।। छान्दोग्यभाष्ये च–

सर्वोत्तमत्वात्सन्नामा हरिर्नारायणः प्रभुः ।

सोऽसृजत्प्रथमं देवीं तेजआख्यां श्रियं सतीम् ।

तेजःस्थितेन रूपेण साऽजैव हि यतः सदा ।

तेज इत्युच्यते तस्माज्जनेर्वा तत एव तु ।

अबाख्यः प्राण एवायमम्नामा जायतेऽथ च ।

ब्राह्मणादिचतुर्वर्णस्ततश्चान्नाभिधो हरः ।। इति ।

ननु असद्वा इति वाक्ये स्थूलबुद्ध्यगोचरत्वेनासच्छब्दवाच्यं ब्रह्म । सदादिपदवाच्याकाशादिरूपेण स्वमात्मानमकुरुतेति श्रूयते । तथा च सूत्रम् ‘आत्मकृतेः परिणामात्’ इति । अतस्तस्योपादानत्व-मित्येतत्परिहरति– एतेनैवेति ।। ननु नात्रात्मसर्जनं किन्तु सदात्मनात्मसर्जनमत आह– न हीति ।। अन्यथेति ।। आकाशादिविवर्तात्मना सर्जने ।। सत्त्वोक्तिरिति ।। (अ)कुरुतेति कृतिविषयत्व-रूपसत्त्वोक्तिः । असद्वा इत्यादिश्रुतेरर्थस्तैत्तिरीयभाष्येऽभिहितः । अनासाद्यस्त्वसन्नामा पूर्वं नारायणाभिधः । स आसाद्यश्च सन्नामा वासुदेवोऽभवत्प्रभुः ।

स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणाभिधम् ।

तस्मात्स सुकृतं नाम स आनन्दो रसस्ततः ।

आनन्दमेनं सम्प्राप्य मुक्तो मोदेन्न चान्यथा ।। इति ।

Load More