यच्चेदमुच्यते ‘ब्रह्म जगत उपादानत्वे सति कर्तृ’ इत्यभिन्ननिमित्तोपादानं जगदिति
८. ब्रह्मण उपादानत्वभङ्गः
न्यायामृतम्
यच्चेदमुच्यते ‘ब्रह्म जगत उपादानत्वे सति कर्तृ’ इत्यभिन्ननिमित्तोपादानं जगदिति । तन्न, यतः–
‘विकारवत्कारणत्वमुपादानत्वमुच्यते । निर्विकारतया वेदसिद्धे ब्रह्मणि तत्कथम्’ ।।
परिणामापरपर्यायविकारवत्त्वं ह्युपादानत्वम् । तच्च ब्रह्मणि ‘निर्विकारोऽक्षरः शुद्धः’ इत्यादिश्रुतिविरुद्धम् । ननु विवरणे रज्ज्वाः सूत्रद्वयवन्मायाविशिष्टं ब्रह्म जगत्कारणमिति वा मायशक्तिमद्ब्रह्म कारणमिति वा जगदुपादानमायाश्रयतया ब्रह्म कारणमिति वेति मतत्रयमुक्तम् । तत्राद्ये रज्ज्वाः सूत्रे इव मायाब्रह्मणी उपादाने । निर्विकारश्रुतिस्तु केवलब्रह्मपरेति विवक्षितम् । द्वितीये मायोपरागाद्ब्रह्म विकारि, निर्विकारश्रुतिस्तु तदनुपरक्ताभिप्रायेति विवक्षितम् । तृतीये तन्तुद्वारांऽशुः पटस्येव मायाद्वारा ब्रह्मो-पादानम्, श्रुतिस्तु अद्वारकविकारनिषेधिकेति विवक्षितमिति चेन्न । आद्ये माया-वत्तन्तुवच्च ब्रह्मापि विकारीति विशिष्य ब्रह्मणो निर्विकारत्वोक्त्ययोगात् ।
किञ्च परमार्थसज्ज्ञानानन्दस्वभावस्य ब्रह्मणोऽप्युपादानत्वे कार्यमपि तथा स्यात् । अविद्योपादान त्वेऽपि सितासितसूत्रकार्ये पटे सितत्ववज्जगति परमार्थसत्यादेरपि दुर्वारत्वात् । न ह्युपादानस्वभावस्योपादेये धीमात्रम् । अविद्यास्वभावस्यानिर्वाच्य-त्वस्यापि प्रपञ्चे धीमात्रत्वापातात् । सन्मात्रोपादानकत्वं सत्त्वे तन्त्रं चेदनिर्वाच्यत्वमपि न स्यात् । तन्मात्रोपादानकत्वाभावात् । द्वितीये मायाख्यहेतूपरागभावाभावाभ्यां विकारभावाभावविवक्षा चेन्मृदादिसाधारण्यम् । मायाविशिष्टं ब्रह्म विकारि, निर्विकारश्रुतिस्तु विशेष्याभिप्रायेति विवक्षायां तु विशिष्टस्य ब्रह्मत्वे निर्विकारश्रुति-विरोधः । अब्रह्मत्वे न नो हानिः । एतेन प्रकृतिविशिष्टं ब्रह्मोपादानमिति निरस्तम् । विस्तृतं चैतदन्यत्र ।
किञ्च विशिष्टस्य मृदादिवद्धर्मिसमसत्ताकरूपान्तरापत्तिरूपपरिणामाद्विवर्तमतहानिः स्यात् । विशिष्टस्य परिणामः शुद्धस्य तु विवर्त इति चेत्तर्हि शुद्धेऽपि विवर्तार्थम् आरोपितविकारस्यावश्यकत्वान्निर्विकार श्रुतेस्तत्परत्वं न स्यात् । श्रुतिर्विशेष्यस्यैव तात्त्विकविकाराभावपरा चेद्, विशिष्टे विकारोक्तिरयुक्ता स्यात् । तत्त्वतो निर्विकारे आरोपितविकाराविरोधात् । तृतीयोऽप्ययुक्तः । अंशोस्तन्तुं प्रतीव ब्रह्मणोऽनादिमायां प्रत्युपादानत्वाभावात् । भ्रमाधिष्ठानत्वमुपादानत्वमिति चेन्न । उपादाने मृदादौ भ्रमाधिष्ठानत्वस्य भ्रमाधिष्ठाने च शुक्त्यादौ उपादानत्वस्य चाऽव्यवहारात् । पारिभाषिकोपादानत्वस्य चानुपादानत्वे पर्यवसानात् ।
एतेनाऽसत्यरूपान्तरापत्तिर्विवर्तः, सत्यरूपान्तरापत्तिस्तु परिणामः, रूपान्तरापत्ति-मात्रम् उपादानत्वम् । तच्च ब्रह्मणो विवर्तरूपविशेषेणाप्युपपन्नम् । निर्विकारश्रुतिस्तु तात्त्विकविकारभावाभिप्राया । ब्रह्म चाज्ञातं प्रपञ्चरूपेण विवर्तते इत्यज्ञानमपि परिणामि-तयोपादानान्तर्गतम् । रूप्यमपि शुक्तिविवर्तत्वाद् अज्ञानपरिणामत्वाच्चोभयोपादानकमिति निरस्तम् । त्वयापि मिथ्याभूतस्य मिथ्याभूतमेवोपादानम् अन्वेषणीयम् । सत्यत्वे कार्यस्यापि कारणस्वभावतया सत्यत्वप्रसङ्ग इति वदता सत्यस्यासत्यरूपापत्तेर्निषेधात् । सत्यारोपितधूमानुगतधूमत्वसामान्यस्येव सत्यासत्यरूपान्तरापत्त्यनुगतोपादानत्व-सामान्यस्याप्यभावाच्च । शुक्तिब्रह्मणोरेव रूप्याकाशाद्युपादानत्वसम्भवेऽविद्यान्वय-व्यतिरेकयोर्निमित्तत्वेनाप्युपपत्तेरविद्योपादानकत्व कल्पनायोगाच्च ।
न च परिणामित्वेनाविद्याकल्पनम् । असत्यस्य रूप्यादेः सत्यरूपापत्तिमत्परिणा-म्यपेक्षाभावात् । विकारित्वेनाविद्याकल्पनं तु तत्त्वतो निर्विकारे ब्रह्मण्यतात्विक-विकाराङ्गीकारात्परेणैव निरस्तम् । न च कार्यापेक्षितस्वसमानसत्ताकोपादानत्वेना-विद्याकल्पनम् । अविद्यार्थापत्तिभङ्गे निरस्तत्वात् । किञ्च रूप्येऽपि रूप्यमिदमिति प्रतीतेः, अविद्याविकारभूतं रूप्यम्, इदं रूप्यतादात्म्यं वाऽस्तु । इदमो रूप्यरूपापत्ति-रूपो विकारस्तु कथम् ? न हीदं रूप्यरूपमापन्नमिति धीरस्ति । न चारोपितमप्यारोपं विना युक्तम् । एतेन रूपान्तरापत्तिप्रतीतिविषयत्वम् उपादानत्वम् । प्रतीतेः प्रमात्वा-प्रमात्वाभ्यां परिणाम विवर्ताविति निरस्तम् । शुक्तिर्वा ब्रह्म वा रूप्यत्वं वा आकाशत्वं वा आपन्नमित्यप्रतीतेः । ‘सच्च त्यच्चाभवत्’ इत्यादिश्रुतेश्चात्माश्रय प्रसङ्गेन स्वजन्य-रूपान्तरापत्तिधीविषयत्वप्रत्यायकत्वायोगात् ।
एतेन रूपान्तराभेदधीविषयत्वं वा, कार्याभेदधीविषयत्वं वोपादानत्वम् । प्रतीतेः प्रमात्वाप्रमात्वाभ्यां परिणामविवर्ताविति निरस्तम् । आद्ये तत्त्वंपदार्थयोः क्षीरनीरयोः खण्डगोत्वयोश्चोपादानोपादेयत्वापातात् । द्वितीये सदृशे सन्निहिते निमित्तेऽपि कार्या-भेदभ्रमसम्भवेनातिव्याप्तेः । तस्माद् अकारणस्यातीतादेरत्यन्तासतश्च भ्रमाधिष्ठानत्व-दर्शनाद्, भ्रमाधिष्ठाने च शुक्त्यादौ कारणत्वोपादानत्वयोरव्यवहारान्न परपक्षे भ्रमाधि-ष्ठानस्य ब्रह्मण उपादानत्वकारणत्वे । ननु मायोपादानम्, ईश्वरो निमित्तं, शुद्धं ब्रह्मा-धिष्ठानमिति चेन्न, अभिन्ननिमित्तो पादानत्वाभावेन त्वन्मते तदर्थस्य प्रकृत्यधिकरणा-देरनुपपत्तेः । ब्रह्मण उपादानत्वभङ्गः ।। ८ ।।
अद्वैतसिद्धि:
ननु– निर्विशेषं चेद् ब्रह्म, कथं तदेव निमित्तमुपादानमित्यभिन्ननिमित्तोपादानकत्वं जगतः । विकारवत्कारणस्यैवो पादानत्वात् । ब्रह्मणोऽविकारत्वात् । अन्यथा ‘निर्विकारोऽक्षरः शुद्धः’ इत्यादि-श्रुतिविरोधापत्तेरिति चेन्न । परिणामितयोपादानत्वाभावेऽपि विवर्ताधिष्ठानतयोपादानत्वसम्भवात् । विवर्ताधिष्ठानत्वं च विवर्तकारणाज्ञानविषयत्वमेव । तदुक्तं वार्तिककृद्भिः–
‘‘अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते’’ ।। इति ।
न चोपादानलक्षणाभावः । आत्मनि कार्यजनिहेतुत्वस्यैवोपादानलक्षणत्वात् । तस्य च परिणाम्यपरिणाम्युभयसाधारणत्वात् । ननु ब्रह्मैवोपादानम् उताज्ञानमपि । आद्ये सत्योपादानत्वे सत्यत्वापत्त्याऽज्ञानोपादानकत्वकल्पनविरोधः । द्वितीये सूत्रद्वयस्य रज्जुं प्रतीव ब्रह्माज्ञानयोः समप्राधान्येन वा उपादानत्वम् । निर्विकारश्रुतिस्तु केवलब्रह्मपरेति विवक्षितम्, उत मायाशक्तिमद् ब्रह्म उपादानम्, निर्विकारश्रुतिस्तु तदनुपरक्तब्रह्मविषयेति विवक्षितम्, उत मायाद्वारा ब्रह्म कारणम्, अंशुरिव तन्तुद्वारा पटं प्रति । निर्विकारश्रुतिस्तु अद्वारकविकारनिषेधिकेति विवक्षितम् । नाद्यः । उभयोः समतयैव विकारित्वेन ब्रह्मणो विशिष्य निर्विकारत्वोक्त्ययोगात् । सितासितसूत्रारब्धपटे सितासितत्ववज्जगति पारमार्थिकत्वानिर्वचनीयत्वयोरापातात् । ब्रह्मस्वभावस्य पारमार्थिकत्वस्योपादे-यधीमात्रस्थत्वेऽविद्यास्वभावस्यानिर्वाच्य स्यापि धीमात्रस्थत्वापातात् । तन्मात्रोपादानकत्वस्य तत्तत्सत्त्वप्रयोजकत्वेऽनिर्वाच्यत्वस्याप्यभावप्रसङ्गात् । तन्मात्रोपादानकत्वाभावात् । द्वितीये ब्रह्मणो मायाख्यहेतूपरागमपेक्ष्य विकारित्वे मृदादिवत्परिणामित्वापत्तिः । विशिष्टस्य ब्रह्मत्वे निर्विकारश्रुति-विरोधः । अब्रह्मत्वे ब्रह्मणः कार्यत्वासिद्धिः । विशिष्टस्य मृदादिवद्धर्मिसमसत्ताक रूपान्तरापत्तिरूप-परिणामाद्विवर्तमतहानिश्च । न च विशिष्टापेक्षया परिणामत्वं शुद्धापेक्षया विवर्तत्वमिति वाच्यम् । शुद्धेऽपि विवर्तार्थमारोपितविकारस्यावश्यकत्वेन निर्विकारश्रुतेः तत्परत्वाभावप्रसङ्गात् । तस्या विशेष्ये तात्त्विक विकाराभावपरत्वे विशिष्टे विकारोक्त्ययोगः । तत्त्वतो निर्विकारे आरोपितविकाराविरोधात् । न तृतीयः । अंशोस्तन्तुं प्रतीव ब्रह्मणो मायां प्रत्युपादानत्वाभावादिति चेन्न, उभयापरिणामित्वेन तयोः कारणत्वाङ्गीकारात् । न च तत्पक्षोक्तदोषावकाशः । उभयोः परिणामितया कारणत्वानङ्गीकारात्, किन्त्वज्ञानस्यैव । अत एवासाधारण्येन निर्विकारत्वमपि । न ह्यविद्यासाहित्येऽपि ब्रह्म परिणमते, किन्तु विवर्तत इति ।
न चाविद्यापरिणामत्वेऽपि सत्यत्वापत्तिः । परिणाम्युपादानसमसत्ताकत्वरूपस्य सत्यत्वस्य परिणामत्व निर्वाहकत्वाद्, ब्रह्मसमसत्ताकत्वाभावेन तदपेक्षया परिणामत्वाभावात्, स्वसमान-सत्ताकविकाराहेतुतया निर्विकारत्वोपपत्तेश्च । न च सत्योपादानत्वे सत्यत्वापत्तिः । परिणाम्युपादान-धर्माणामेव मृत्त्वसुवर्णत्वादीनां कार्येऽन्वयदर्शनात् । सत्योपादानत्वेऽप्यसत्यत्वोपपत्तेः । न च सत्यासत्यधूमानुगतधूमत्वस्येव सत्यासत्यानुगतोपादानत्वस्यैकस्याभाव इति वाच्यम् । स्वनिष्ठकार्यजनिहेतुत्वस्योक्तत्वात् । न हि सत्यासत्यत्ववैधर्म्यं साधर्म्यविरोधि । अन्यथा किञ्चि-द्वैधर्म्यस्यैव साधर्म्यविरोधित्वे साधर्म्यकथोच्छेदापत्तेः । अनाभासविषयसंस्कारजन्यज्ञानविषयत्वादेरा-भासानाभाससाधारणस्य दृष्टान्तेऽपि सत्त्वाच्च ।
नन्वविद्योपादानत्वकल्पना न युक्ता । ब्रह्मण एव रूप्याकाशाद्युपादानत्वसम्भवात् । अविद्यान्वयव्यतिरेकस्य निमित्ततामात्रेणान्यथासिद्धेरिति चेन्न । घटकुण्डलादेः परिणाम्यपेक्षादर्शनेन गगनादावप्यविद्यायाः परिणाम्युपादान त्वस्यावश्यकत्वात् । न चासत्यस्य रूप्यादेः सत्यरूपापत्ति-मत्परिणाम्यपेक्षा नास्तीति न सर्वत्रोपादेये तदपेक्षानियम इति वाच्यम् । स्वविषयकाज्ञानानपेक्षस्य तद्भाव इत्येव सत्यरूपापत्तिपदेन विवक्षितत्वात् । न हि ब्रह्माज्ञानस्य रूप्यादिभावापत्तौ स्वविषयकाज्ञानं व्यवधायकमस्ति । किञ्च विकारित्वेनाप्यविद्याया उपादानत्वकल्पनम् । न च– ब्रह्मण एवातात्त्विकविकारसम्भवान्न तत्कल्पनमिति वाच्यम् । तद्विषयकाज्ञानपरिणामत्वव्यतिरेकेण विकारेऽतात्त्विक त्वानिर्वाहात् । किञ्च कार्यापेक्षितस्वसमानसत्ताकोपादानत्वेनाप्यविद्योपादानत्वम् । समानसत्ताकत्वं च रूप्यस्थले सत्त्वद्वैविध्येन वा ब्रह्मज्ञानेतरबाध्यत्वरूपप्रातिभासिकत्वमादाय वोपपद्यते । तस्माद् रूप्यतत्तादात्म्ययोरविद्या विकारत्वेऽपि इदमो रूप्यरूपापत्तिरूपो विकारः कथम्? इदं रूप्यरूपमापन्नमित्यप्रतीतेः, आरोपितस्यारोपं विना अयोगादिति निरस्तम् । रूप्याकारपरिणता-ज्ञानाधिष्ठानचैतन्यावच्छेदकमात्रतयेदमो रूप्यापत्तेरनङ्गीकारात् ।
यत्तु ‘किमिदमुपादानत्वम् ? रूपान्तरापत्तिप्रतीतिं प्रति विषयत्वं वा, रूपान्तराभेदधीविषयत्वं वा, कार्याभेदधीविषयत्वं वा । नाद्यः । असिद्धेः । ‘शुक्ती रूप्यभावमापन्ना ब्रह्माकाशभावमापन्नम्’ इत्यप्रतीतेः । न द्वितीयः । तत्त्वंपदार्थयोः क्षीरनीरयोर्मुण्डगोत्वयोश्चोपादानोपादेयतापत्तेः । न तृतीयः । सदृशे सन्निहिते निमित्तेऽपि कार्याभेदभ्रमसम्भवेनातिव्याप्तेः’ इति, तदनुक्तोपालम्भनतयाऽपास्तम् । यदपि भ्रमाधिष्ठानत्वेन ब्रह्मणो नोपादानत्वम्, अतीतासतोरनुपादानयोरपि भ्रमाधिष्ठानत्वदर्शनाद्, भ्रमाधिष्ठानेऽपि शुक्त्यादावुपादानत्वाव्यवहाराच्चेति, तन्न, चैतन्यस्यैवाधिष्ठानत्वेनातीतादेरनधिष्ठानत्वात् । किञ्च न हि व्यवहाराभावमात्रेण वस्तुव्यतिरेकः । वृक्षादिषु पृथिवीति व्यवहाराभावेऽपि पृथिवीत्व-सत्त्वात् । यत्तु मायोपादानमीश्वरो निमित्तं शुद्धं ब्रह्माधिष्ठानमिति पक्षेऽभिन्ननिमित्तोपादान त्वाभावेन त्वन्मते तदर्थस्य प्रकृत्यधिकरणादेरनुपपत्तिरिति, तन्न, एकस्यैवाविद्योपहितत्वेनोपादानत्वस्या-विद्यापरिणामे च्छाकृत्याद्याश्रयत्वेन निमित्तत्त्वस्यापि सम्भवात् । इति औतसिद्धौ ब्रह्मणो जगदुपादानत्वोपपत्तिः ।। ८ ।।
न्यायामृततरङ्गिणी
।। अंशुरिति कार्पासः ।। मायाद्वारेति ।। तदुक्तं वार्तिके–
अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्मकारणमुच्यते ।। इति ।
।। आद्य इति ।। मायाविशिष्टस्य ब्रह्मणो विकारित्वेऽपि केवलस्य निर्विकारत्ववद् ब्रह्मसम्बद्धमायायाः विकारित्वेऽपि केवलाया मायाया निर्विकारत्वमित्यस्यापि वक्तुं शक्य-त्वात् । ननूपादानधर्म उपादेये प्रतीत्यात्मना वर्तत एवेत्यत आह– न हीति ।। हेतू-परागेति ।। हेतूपरागो हेतुसमवधानम् । दण्डचक्रादिमेलनवत् ।। मृदादीति ।। कुलालादि-कारणसमवधाने मृदादिरपि विक्रियते ।। विवर्तेति ।। अतात्विकोऽन्यथाभावो विवर्तः । स च धर्मिसदसत्त्व विकाराङ्गीकारेत्यक्तः स्यात् ।। एतेनेति ।। भ्रमाधिष्ठाने उपादानत्वाव्यवहारेण । यदि रूपान्तरापत्तिमात्रमुपादानत्वं तर्हि शुक्त्यादावुपादानत्वव्यवहारः स्यात् । न चैवमित्यर्थः ।। शुक्तिब्रह्मणोरेवेति ।। विवर्ताख्यरूपान्तरापत्तिमात्रेण ।
ननु वियदादिगतविवर्तत्वस्य ब्रह्मणोपपन्नत्वेऽपि वियदादिगतपरिणामत्वस्य परिणामिनं विनाऽनुपपत्तेस्तदर्थम् अविद्याकल्पनमित्याशङ्क्याह– न चेति ।। विवर्तरूपे आकाशादौ रूप्यादौ सत्यरूपान्तरापत्तिरूपपरिणामत्वस्यैवाभावान्न तस्य परिणाम्याक्षेपकत्वमित्यर्थः । परिणामिनि । विषये ।। आरोपितमिति ।। आरोपेण यादृशं विषयीक्रियते तादृशं सिद्ध्यति । न चारोपेणेदंपदार्थो रूप्यस्वरूपमापन्न इति विषयीक्रियत इत्यर्थः ।। सच्चेति ।। ‘सोऽकाम-यत’ इत्याद्युक्त्वा ‘सच्च त्यच्चाभवत्’ इति वाक्यं सच्छब्दवाच्यतेजोबन्नानि प्रति, त्यच्छब्द-वाच्यवाय्वाकाशौ प्रति ब्रह्मण उपादानत्वं बोधयतीत्युच्यते । तन्न युक्तम् । रूपान्तरापत्ति-प्रतीतिविषयत्वरूपोपादानत्वस्य ब्रह्मणि निरूप्यमाणस्यैतद्वाक्य जन्यरूपान्तरापत्तिप्रतीतेः पूर्वमसत्त्वात् । एतद्वाक्येनैव रूपान्तरापत्तिप्रतीतिमुत्पाद्य ब्रह्मण्युपादानत्वं सम्पादनीयम् । तथा च सच्चेत्यादिवाक्यजन्यायाः रूपान्तरापत्तिप्रतीतेरुपादानत्वान्तर्गतैतद्वाक्यजन्य-रूपान्तरापत्तिप्रतीति प्रत्यपेक्षायाम् आत्माश्रयः ।। स्वजन्येति ।। सच्चेत्यादिवाक्यजन्यां रूपान्तरापत्तिधियं प्रति विषयत्वेत्यर्थः ।
।। ब्रह्मण उपादानत्वभङ्गः ।। ८ ।।
न्यायामृतकण्टकोद्धारः
ननु तथापि न ब्रह्मणो ज्ञानादिगुणत्वं युक्तम् । तथात्वे तस्य जगदुपादानत्वेन कारणगुणानाञ्च कार्ये स्वसमानगुणारम्भकत्वनियमेन जगत्यपि ज्ञानादिप्राप्तेरित्यतो जगदुपादानत्वमेव नेति वक्तुमनुवदति– यच्चेदमिति ।। उपादानत्वे प्रमाणानि परोक्तानि द्रष्टव्यानि । कर्तृत्वे तु ‘तदैक्षत’ इतीक्षापूर्वकस्रष्टृत्वस्य प्रतिपादकानि । तथा चोभयप्रमाणबलाद् ब्रह्मोपादानं कर्तृचेति भावः । ननु परिणामिकारणत्वमुपादानत्वम् । तत्कथमुच्यते विकारिकारणत्वमुपादानत्वमिति, तत्राह– परिणामेति ।। परिणामविकारशब्दयोरर्थैक्यान्न विरोध इति भावः । त्रेधा निर्विकारश्रुतिविरोधं परिहर्तुं शङ्कते– नन्विति ।। आद्य इति ।। केवलाया मायाया अपि नोपादानत्वं किन्तु ब्रह्मसहिताया एव । तथा सति तां विकारकोटौ निवेश्य ब्रह्मण एव निर्विकारत्वकथनमयुक्तमित्यर्थः ।। किञ्चेति ।। उपादानस्वभावस्योपादेयेऽनुवृत्तिदर्शनान्मृत्स्वभावस्य घटादाविवेति भावः । नन्वविद्याया अप्युपादानत्वान्न ब्रह्मस्वभावानुवृत्तिरित्यत आह– अविद्येति ।।
ननु प्रकृतेऽप्युपादानस्वभावधीरस्ति । तावताप्युपादानत्वनिर्वाहात् । यत्स्वभावस्य यत्र धीस्तत्तस्योपादानमित्यङ्गी कारादित्यत आह– न हीति ।। तन्मात्रेति ।। अनिर्वाच्यमात्रोपादानक त्वस्यानिर्वाच्यत्वे तन्त्रत्वादिति भावः ।। द्वितीय इति ।। मृदादेरपि हेतु(ः)सम्बन्धेनैव विकारित्वाद् ब्रह्मणोऽपि मृदादिसाधारणाद् विशिष्य निर्विकारत्वोक्तिरयुक्तेति भावः । एतेन विशिष्टस्य ब्रह्मत्वाब्रह्मत्वविकल्पनिराकरणेनेत्यर्थः । ननु विशिष्टस्याब्रह्मत्वेऽपि विशेष्यस्य ब्रह्मणो विशिष्टमध्यपतितत्वाद् ब्रह्मोपादानकत्वाहानिरेव । न हि तन्मात्रोपादानकत्वं तदुपादानकत्वमभिमतं किन्तु यथाकथञ्चिद् ब्रह्मण उपादानप्रवेश एवेत्यत आह– विस्तृतमिति ।। प्रकृत्यधिकरणे चन्द्रिकायामिति शेषः । ब्रह्मस्वभावानुवृत्तिश्च स्यात् । यस्य हि यथाकथञ्चिदुपादानप्रवेश-स्तत्स्वभावस्य तदुपादेयेऽनुवृत्तिनियमादित्यपि द्रष्टव्यम् ।। विशिष्ट इति ।। तस्यापि तत्त्वतो निर्विकाराद् विशेष्यतुल्यत्वादिति भावः ।
ननु तात्त्विकविकाराभावेऽपि आरोपितविकारसद्भावात्तदुक्तिरित्यत आह– तत्वत इति ।। तथा च विशेष्यस्याप्यारोपितविकारवत्त्वेन निर्विकार श्रुतिविरोध इति भावः ।। अंशोरिति ।। तथा च मायाया अनादित्वेन तद्द्वारा जगदुपादानत्वानुपपत्तौ साक्षादुपादानत्वे वाच्ये निर्विकार-श्रुतेर्नाद्वारकविकारनिषेधकत्वमिति भावः । ननु मायां प्रति परिणामित्वरूपोपादनत्वाभावेऽपि भ्रमाधिष्ठानत्वरूपं तदस्तीति शङ्कते– भ्रमेति ।। भ्रमाधिष्ठानत्वस्योपादनत्वं किं व्यवहारसिद्धम् उत पारिभाषिकम् । नाद्य इत्याह– उपादान इति ।। तथा च न व्यवहारसिद्धं तदिति भावः । भ्रमविषयत्वे चानादित्वायोग इत्यपि द्रष्टव्यम् । द्वितीयं दूषयति– पारिभाषिकेति ।। परिभाषायास्तदभावेऽपि कर्तुं शक्यत्वादिति भावः । उक्तातिदेशेन पक्षान्तरं दूषयति– एतेनेति ।। अत्रासत्यसत्यपदे न प्रातिभासिकव्यावहारिकपरे ।
ननु ब्रह्मणो रूपान्तरोत्पत्तिरूपविकाराङ्गीकारे निर्विकारश्रुतिविरोध इत्यत आह– निर्विकार-श्रुतिस्त्विति ।। न च तात्त्विकविकाराभावस्य प्रपञ्चेऽपि सत्वाच्छ्रुत्याऽसाधारण्येन ब्रह्मणो निर्विकारत्वप्रतिपादनमयुक्तमिति वाच्यम् । स्वरूपतस्तात्विकत्वे सति तात्विकविकाराभाववत्वं निर्विकारत्वम् । न च तत्प्रपञ्चेऽस्तीत्यभिप्रायात् ।
नन्वेवं ब्रह्मण एवोपादानत्वेऽज्ञातं ब्रह्मोपादानमिति सिद्धान्तो भज्येतेत्यत आह– ब्रह्मेति ।। असाधारणाकारेणाव गतस्यासत्यरूपापत्तिरूपोपादानत्वाभावाच्छुक्त्यादौ तथा दर्शनादिति भावः । नन्वेवं शुक्तेरप्यधिष्ठानत्वाद् ब्रह्मवदुपादानत्वे व्यावहारिकत्वापत्तिरिति वाच्यम् । ब्रह्मज्ञानेतर-बाध्यत्वेन प्रातिभासिकत्वात् । एतेनेति परामृष्टं हेतुमाह– त्वयेति ।। अन्यथा मिथ्याभूताज्ञान-कल्पनानुपपत्तेरिति भावः । न चोपादानतावच्छेदकत्वेन तत्कल्पनम् । तस्य मिथ्यात्वं तु प्रमाणान्तरावसेयमिति वाच्यम् । ब्रह्मगतासाधारणाकारस्यैव तदवच्छेदकत्वसम्भवात् । मिथ्यात्वप्रमाणानां च निराकृतत्वात् । तन्तुत्वावच्छेदेनोपादानत्वासम्भवाच्च ।। सत्येति ।।
ननु भवन्मते सदसत्साधारणज्ञेयत्ववत् सत्यारोपितसाधारणधूमत्वादि भविष्यति । न चासति ज्ञेयत्वं नैव मयाऽङ्गीक्रियत इति वाच्यम् । ख्यात्यनुपपत्त्याऽसद्वैलक्षण्यं निराकुर्वतस्तेऽ-स्यावश्यकत्वात् । न च ज्ञेयत्वं प्रातिस्विकमेव, न साधारणमिति वाच्यम् । साधारणबुद्ध्यनु-पपत्तेः । धूमत्वस्यापि तथात्वोपपत्तेश्चेति चेन्न । धूमत्वसामान्यस्योभय साधारणत्वे बाष्पा-रोपितधूमेन तात्त्विकवह्निसिद्धिरूपबाधकवज्ज्ञेयत्वस्योभयसाधारणत्वे बाधकाभावात् । न च रूपान्तरापत्तेः साधारणत्वेऽपि न बाधकमिति वाच्यम् । रूपान्तरमापन्नस्यार्थक्रियाकारित्व-नियमात् । अन्यथाऽत्यन्ता सतोऽपि तदापत्तेरिति । किञ्च ब्रह्मण उपादानत्वाङ्गीकारेऽविद्याया तन्न स्यात् । तदुपादानत्वं विनाऽनुपपत्तेरभावादित्याह– शुक्तिब्रह्मणोरिति ।। नन्वविद्याया अनुपादानत्वे तदन्वयव्यतिरेकानुविधानं न स्यादित्यत आह– अविद्येति ।। परिणामी किं विकार्यतिरिक्तोऽनतिरिक्तो वा । आद्ये सत्यो मिथ्या वा । नाद्य इत्याह– असत्यस्येति ।। सत्येति परिणामिनो विशेषणम् । सत्यस्यासत्यपरिणामादृष्टेरिति भावः । न च शुक्तेरेव स दृष्ट इति वाच्यम् । तस्याग्रे निरसिष्यमाणत्वात् । द्वितीयः । ब्रह्मणो विकारित्ववत् मिथ्याभूत-परिणामित्वस्याप्युपपत्तेर्न सत्वेनाज्ञानकल्पनमिति भावः । न तृतीय इत्याह– विकारित्वेनेति ।। अविद्येति ।। असमानसत्ताकस्य ब्रह्मणोऽनुपादानत्वाभावप्रसङ्गेनेत्यर्थः ।
ननु मुख्योपादान एव स्वसमानसत्ताकत्वनियमः । अज्ञानं च मुख्योपादानम् । अतस्तत्वेन कल्पनं युक्तम् । ब्रह्म तु न मुख्योपादानम् । अतस्तत्र स्वसमानसत्ताकत्वाभावेऽपि न दोष इत्यतोऽमुख्योपादानत्वमनुपादानत्व एव पर्यवस्यतीत्यभिप्रायेणामुख्योपादानमुक्तरूपं प्रतीतिबलादुतानुपपत्त्या, एवमेव वा इति विकल्प्याद्य आह– किञ्चेति ।। न द्वितीय इत्याह– न चारोपितमिति ।। तृतीयस्त्वतिप्रसङ्गनिरस्तः । अतो न ब्रह्मोपादानमिति भावः । एतेनेति परामृष्टं हेतुमाह– शुक्तिर्वेति ।। न च ‘सच्च त्यच्चाभवत्’ इत्यादिश्रुत्या तथाप्रतीतिरस्त्येवेत्यत आह– सच्चेति ।।
न स्वाध्यायाध्ययनविधिवत् सत्वादिना तादृशप्रतीतिविषयत्वरूपभवनप्रतिपादकत्वोपपत्तेः कथमात्माश्रयत्वम् । अन्यथा स्वाध्यायाध्ययनविधेरपि स्वाध्यायाध्ययनबोधकत्वं न स्यादिति वाच्यम् । सदभवदित्यादेः सदाद्यभेद प्रतिपादकत्वस्य कथञ्चित्सम्भवेऽप्युक्तरूपोपादानत्व-प्रतिपादकत्वासम्भवादित्यत्र तात्पर्यात् । सदभवदिति श्रुतेरन्यथा व्याख्यानाच्चेति भावः । एतेनेति उक्तवक्ष्यमाणदूषणादित्यर्थः । ‘कार्याभेदधीविषयत्वम्’ इत्यत्र यत्किञ्चित् कार्याभेदो वा, स्वकार्याभेदो वा । नाद्य इत्याह– द्वितीय इति ।। न द्वितीयः । स्वोपादानत्वरूपस्वकार्य-त्वस्यासिद्धेः । उपसंहरति– तस्मादिति ।। ननु मायैवोपादानं न ब्रह्मेति शङ्कते– नन्विति ।। तर्हीष्टापत्तिः । तवापसिद्धान्तश्चेत्याह– अभिन्नेति ।। इति ब्रह्मण उपादानत्वभङ्गः ।। ८ ।।
न्यायकल्पलता
।। अंशुः कार्पासः ।। मायाद्वारेति ।। तदुक्तं वार्तिके–
अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् ।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ।। इति ।
।। आद्य इति ।। मायाविशिष्टस्य ब्रह्मणो विकारित्वेऽपि केवलस्य निर्विकारत्ववद् ब्रह्मसम्बद्ध-मायायाः विकारित्वेऽपि केवलाया मायाया निर्विकारत्वमित्यस्यापि वक्तुं शक्यत्वात् । ननूपादानधर्म उपादेये प्रतीत्यात्मना वर्तत एवेत्यत आह– न हीति ।। हेतूपरागेति ।। हेतूपरागो हेतुसमवधानम् । दण्डचक्रादिमेलनवत् ।। मृदादीति ।। कुलालादिकारणसमवधाने मृदादिरपि विक्रियते ।। विवर्तेति ।। अतात्विकोऽन्यथाभावो विवर्तः । स च धर्मिसदसत्त्व विकाराङ्गीकारे त्यक्तः स्यादित्यर्थः ।। एतेनेति ।। भ्रमाधिष्ठाने उपादानत्वाव्यवहारेण । यदि रूपान्तरापत्तिमात्रमुपादानत्वं तर्हि शुक्त्यादावपि उपादानत्वव्यवहारः स्यात् । न चैवमित्यर्थः ।। शुक्तिब्रह्मणोरेवेति ।। विवर्ताख्यरूपान्तरापत्तिमात्रेण ।
ननु वियदादिगतविवर्तत्वस्य ब्रह्मणोपपन्नत्वेऽपि वियदादिगतपरिणामत्वस्य परिणामिकारणं विनाऽनुपपत्तेस्तदर्थम् अविद्याकल्पनमित्याशङ्क्य निराचष्टे– न चेति ।। विवर्तरूपे आकाशादौ रूप्यादौ च सत्यरूपान्तरापत्तिरूपपरिणामत्वस्यैवाभावान्न तस्य परिणाम्याक्षेपकत्वमित्यर्थः । परिणामिनि । विषये ।। आरोपितमिति ।। आरोपेण यादृशं विषयीक्रियते तादृशं सिध्यति । न चारोपेणेदंपदार्थो रूप्यस्वरूपमापन्न इति विषयीक्रियत इत्यर्थः ।। सच्चेति ।। ‘सोऽकामयत’ इत्याद्युक्त्वा ‘सच्च त्यच्चाभवत्’ इति वाक्यं सच्छब्दवाच्यतेजोबन्नानि प्रति, त्यच्छब्दवाच्यवाय्वाकाशौ प्रति ब्रह्मण उपादानत्वं बोधयतीत्युच्यते । तन्न युक्तम् । रूपान्तरापत्तिप्रतीतिविषयत्वरूपोपादानत्वस्य ब्रह्मणि निरूप्यमाणस्यैतद्वाक्य जन्यरूपान्तरापत्तिप्रतीतेः पूर्वमसत्त्वात् । एतद्वाक्येनैव रूपान्तरापत्तिप्रतीतिमुत्पाद्य ब्रह्मण्युपादानत्वं सम्पादनीयम् । तथा च सच्चेत्यादिवाक्यजन्यायाः रूपान्तरापत्तिप्रतीतेरुपादानत्वान्तर्गतैतद्वाक्यजन्यरूपान्तरापत्तिप्रतीतिं प्रत्यपेक्षायाम् आत्माश्रयः ।। स्वजन्येति ।। सच्चेत्यादिवाक्यजन्यां रूपान्तरापत्तिधियं प्रति विषयत्वेत्यर्थः ।
।। ब्रह्मण उपादानत्वभङ्गः ।। ८ ।।