यच्चाद्यानुमानं, तत्र सुखादिप्रमायां बाधः

५६. अविद्यानुमानभङ्गः

न्यायामृतम्

यच्चाद्यानुमानं, तत्र सुखादिप्रमायां बाधः । तस्याः साक्षिरूपत्वेना-ज्ञानानिवर्तकत्वात् । वृत्तेः पक्षत्वेऽपि परोक्षवृत्तौ बाधः । तस्याः स्वविषये अज्ञाननिवर्तकत्वे तद्विषयस्याभिव्यक्तापरोक्षैकरसचैतन्यसम्भेदेनापरोक्षत्वा-पाताच्च । उक्तं च विवरणे ‘विषयत्वं नानुमेयादौ सुषुप्तिव्यावृत्तिः’ इति । अपरोक्षवृत्तेः पक्षत्वेऽपि परोक्षवृत्तौ व्यभिचारः । तद्व्यावृत्त्यर्थं हेतुविशेषणे अप्रयोजकत्वम् । सर्वभ्रमेष्वधिष्ठानत्वेनानुगतसदर्थविषयापरोक्षवृत्तौ बाधश्च । तन्निवर्त्याज्ञानसद्भावे भ्रमोपादानत्वलक्षणस्य तत्राव्याप्तिः स्यात् । न हि सदर्थरूपाधिष्ठानाज्ञाने क्वचिद् भ्रमः । तदन्यस्य पक्षत्वे धारावाहिकद्वितीयादि- प्रमायां बाधोऽसिद्धिश्च । स्वनिवर्त्यप्रथमप्रमाव्यवहितायास्तस्याः द्वितीयादि-प्रभायाः तमः प्रतीवाज्ञानं प्रत्यनिवर्तकत्वात् । सूक्ष्मतत्तत्क्षणानामप्रत्यक्षत्वेन प्रकाशितप्रकाशकत्वाच्च । तदन्यस्य पक्षत्वेऽपि अनात्मविषयापरोक्षवृत्तौ बाधः । त्वन्मते जडावरकाज्ञानाभावात् । ननु घटोऽयमित्यादिवृत्तिरपि तदवच्छिन्नचैतन्यविषया, अज्ञानमपि तथेति न बाध इति चेन्न । एकाज्ञानपक्षे तदभावाद् । अवच्छिन्नस्याप्यस्वप्रकाशत्वेनाप्रसक्तप्रकाशतयाऽऽवरणायोगाच्च । रूपादिहीनस्याऽत्मन आकाशादिवद् घटाद्यवच्छिन्नस्यापि चाक्षुषत्वाद्ययोग-स्योक्तत्वाच्च । अयं घट इति शब्दजन्येन घटमात्रविषयकज्ञानेनायं घट इत्यपरोक्षवृत्तेः विषयभेदाप्रतीतेश्च । आत्मविषयापरोक्षवृत्तेः पक्षत्वेऽप्यनात्म-ज्ञाने व्यभिचारः । आत्मविषयत्वेन हेतुविशेषणे दृष्टान्तस्य साधनवैकल्यमिति दिक् ।

साध्येऽप्याद्यं विशेषणं व्यर्थम् । यतो ज्ञानमज्ञानस्यैव निवर्तकमिति त्वन्मते, अभावनिवृत्तिरेव भाव इति मन्मते च स्वनिवर्त्यविशेषणेनैव प्रागभावव्यावृत्तिसिद्धेरभावव्यतिरिक्तपदेनैव तद्व्यावृत्तिसिद्ध्या शेषवैयर्थ्याच्च । द्वितीयं चायुक्तम् । जडे अज्ञानस्यानङ्गीकृतत्वात् । निर्विशेषचितश्चाज्ञानादि-साक्षितया प्रकाशमानत्वेनाज्ञानस्यावरणत्वायोगात् । स्वोत्पादकादृष्टव्यावृत्ते-रावरणपदेनैव सिद्ध्या शेषवैयर्थ्याच्च । ज्ञानमज्ञानस्यैव निवर्तकमिति त्वन्मते स्वोत्पादकादृष्टस्य स्वनिवर्त्यपदेनैव व्यावृत्तिसिद्धेः । तृतीयं चायुक्तम् । वृत्ति-श्चिदुपरागार्थेति मते, घटाकारवृत्त्या तत्प्रतिबिम्बितचैतन्येन वाऽभिव्यक्तं घटाधिष्ठानचैतन्यं घटप्रकाशकमिति मते च घटप्रकाशकज्ञानस्य घटाज्ञाना-निवर्तकत्वात् । घटाकारवृत्तिः तत्प्रतिबिम्बितचैतन्यं वा घटप्रकाशकमिति मतस्य चाऽध्यासिकसम्बन्धस्यातन्त्रत्वापातेनायोगात् । चरमसाक्षात्कारोत्पत्ति-प्रतिबन्धकादृष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्ध्या स्वनिवर्त्यपदेन तद्व्यावृत्य-सिद्धेश्च । चतुर्थं चायुक्तम् । अज्ञानस्य चिन्मात्राश्रितत्वात् । वृत्तेः, तत्प्रति-बिम्बितचैतन्यस्य वा, तदभिव्यक्ताधिष्ठानचैतन्यस्य वा प्रमाणज्ञानस्य तदनाश्रितत्वात् । त्वन्मतेऽपि विषयस्थाज्ञानस्यैवावरणत्वाच्च । अज्ञातत्वस्य तद्विषयकज्ञानाभावरूपत्वे आद्यविशेषणेनैव व्यावृत्तिसिद्धेः अविद्याविषयत्व-रूपत्वे चाविद्यासिद्ध्या चतुर्थवैयर्थ्याच्च ।

किं च स्वविषयावरणपूर्वकमित्येतावतैवालम् । अन्यद् व्यर्थम् । न हि प्रमाप्रागभावः, प्रमोत्पत्तिप्रतिबन्धकादृष्टं वा, अज्ञानातिरिक्तमन्यत्किञ्चिद्वा आवरणम् । तथात्वे तेनैव स्वप्रकाशब्रह्मावरणसम्भवेन हेतोरप्रयोजकत्वा-पातात् । न च तमोव्युदासाय तृतीयम् । तस्य प्रमामात्रविषयावरणत्वा-भावात् । न च व्यापकविशेषणानामुद्देश्यप्रतीत्यर्थत्वादवैयर्थ्यमिति वाच्यम् । यत्राविशेषितं साध्यं प्रति हेतोरप्रयोजकता विमतं भिन्नाभिन्नं, समानाधि-कृतत्वादित्यादौ तत्रैव विशिष्टप्रतीतेरुद्देष्टव्यत्वात् । अन्यथा अतिप्रसङ्गात् । नीलधूमकरणिका वह्णिप्रमोद्देश्येत्यपि सुवचत्वेन हेतावपि व्यर्थविशेषणत्वस्या-दोषत्वापाताच्च ।

हेतौ च प्रकाशकत्वं ज्ञानत्वं वा ? ज्ञानहेतुत्वं वा ? साक्षात् परम्परया व्यवहारहेतुत्वमात्रं वा ? तमोनिवर्तकत्वं वा ? आवरणनिवर्तकत्वं वा ? अज्ञानान्धकारान्यतरनिवर्तकत्वं वा ? प्रकाशकशब्दवाच्यत्वमात्रं वा ? नाद्यः, दृष्टान्ते अभावात् । न द्वितीयः, असिद्धेः इन्द्रियादौ व्यभिचाराच्च । अत एव न तृतीयः । न चतुर्थः । अज्ञानान्धकारानुगततमस्त्वाभावात् । साध्या-वैशिष्ट्याच्च । अत एव न पञ्चमः । कुद्दालादौ व्यभिचाराच्च । न षष्ठः । साध्यावैशिष्ट्यादेव । न सप्तमः । शब्दसाम्येनैकसाध्यसाधने पृथिव्यादेरपि गोत्वेन शृृङ्गित्वसाधनापातात् । उक्तं च विवरणे– ज्ञानप्रकाश्यत्वादज्ञान-विरोधिनोऽन्यदेवालोकप्रकाश्यत्वं तमोविरोधित्वं नामेति । एवं च–

पक्षदृष्टान्तानुगतं प्रकाशत्वं न विद्यते ।

शब्दसाम्येन चेत्पृथ्व्या गोत्वाच्छृङ्गं समापतेत् ।।

किं च प्रमाणस्य च ब्रह्मज्ञानस्य चिदन्याप्रकाशकत्वात् स्वप्रकाश-चितश्चाध्यासाधिष्ठानत्वादिना सदा प्रकाशमानत्वेनाप्रकाशितत्वाभावात् तत्र हेतोरसिद्धिः । किं चास्या अनुमितेरप्रकाशितप्रकाशित्वाभावे प्रकाशित-प्रकाशकत्वं वा, अप्रकाशकत्वं वा स्यादुभयथाप्यनुमितिर्व्यर्था । तत्प्रकाशकत्वे चात्रैव बाधो व्यभिचारो वा । अस्याः स्वविषयावरणानिवतर्कत्वात् । न ह्यज्ञानावरणमज्ञानमस्ति । दृष्टान्तेऽपि द्वितीयादिप्रभायाः अन्धकारानुत्पन्नत्वेन प्रथमपदं व्यर्थम् । दृष्टिसृष्टिपक्षे दृष्टान्ते उभयवैकल्यं च । अनादित्वे सति भावत्वमभावविलक्षणत्वं वा न निवर्त्यनिष्ठमनादिभावमात्रवृत्तित्वात् । अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा, आत्मत्ववत् । निवर्त्यत्वं वा नानादि-भावनिष्ठं नानाद्यभावविलक्षणनिष्ठं वा, निवर्त्यमात्रवृत्तित्वात्, प्रागभावत्ववत् । अनादित्वं वा, न आवरणनिष्ठं, अनादिमात्रवृत्तित्वात्, प्रागभावत्ववत् । प्रमाणज्ञानं वा अभावान्यानाद्यनिवर्तकम्, ज्ञानत्वाद् भ्रमवदित्यादिना सत्प्रति-पक्षता च । पूर्वं कृत्यभावमात्रेणाकृतस्य कृतिवत् स्मृत्यभावमात्रेणास्मृतस्य स्मृतिवच्च पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं च । किं च घटादिविषय आलोकप्रकाशस्तमोविरोधीति तन्निवर्तकोऽस्तु । ज्ञान-प्रकाशस्तु नाज्ञानविरोधी, घटाद्यधिष्ठानचैतन्यस्याज्ञानाविरोधित्वाद्, वृत्तेस्त्व-नधिष्ठानत्वेन तज्ज्ञानत्वाभावात् । त्वन्मते हि ज्ञानज्ञेययोराध्यासिकस्सम्बन्धः ।

द्वितीयानुमानेऽप्युक्तरीत्या सुखादिप्रमासु बाधः । किं च साध्ये चैत्रगतत्वं किं प्रमातत्प्रागभावयोरन्यतरविशेषणम् ? तदतिरिक्तानादेर्वा ? नाद्यः । वृत्ते-स्तत्प्रतिबिम्बितचैतन्यस्य वाऽधिष्ठानचैतन्यस्य वा, प्रमाया आत्मगतत्वा-भावात् । प्रमाप्रागभावस्य च प्रतियोगिसामानाधिकरण्यात् । न द्वितीयः । दृष्टान्ते साध्याभावात् । मैत्रप्रमायाः स्वसमानाधिकरणं स्वप्रागभावमज्ञानं च प्रति निवर्तकत्वेऽपि चैत्रगतानाद्यनिवर्तकत्वात् । साध्ये प्रमापदवैयर्थ्यं च । चैत्रप्रमा चैत्रगतस्याभावातिरिक्तस्यानादेः निवर्तिका न, प्रमात्वान्मैत्र-प्रमावदिति प्रकारणसमता च । न चात्रोपाध्याभाससाम्ये शङ्क्ये । उक्त-साध्यानङ्गीकारे गौरवेण लाघवतर्कानुग्रहाच्चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं समव्याप्तोपाधिश्च । व्यतिरेकोपसंहारस्थलं च प्रागभावः । चैत्राप्रमा स्वप्राग-भावातिरिक्ताभावनिवर्तिका, प्रमात्वान्मैत्रप्रमावत् । घटः, चैत्रेच्छा वा, चैत्रा-प्रमा वा स्वप्रागभावातिरिक्तानादिनिवर्तिका, घटत्वाद् इच्छात्वाद्वा, अप्रमा-त्वाद्वा, घटान्तरवत्, मैत्रेच्छावद्वा, मैत्राप्रमावद्वेत्याद्याभाससाम्यं च ।

किं चैवं विशिष्टव्यतिरेकिणः चैत्रप्रमा चैत्रनिष्ठत्वे सति चैत्रप्रमा-भावातिरिक्तानादिनिवर्तकत्वानधिकरणम्, प्रमात्वान्मैत्रप्रमावदिति साध्या-भावेऽपि सुवचत्वात् स्वव्याघातः । न चात्रोपाधिः शङ्क्यः । अयमुपाधिः एतदुपाधित्वे सति साध्यव्यापकत्वानधिकरणं, धर्मत्वादित्यादिना विशिष्ट-व्यतिरेकिणैव साध्याव्यापकत्वादेः सुसाधत्वात् । अत एव तृतीयानुमानं निरस्तम् । किं च भ्रान्तेस्तद्विषयस्य वा पक्षत्वे द्वितीयलक्षणभङ्गरीत्या बाधः । विगीतो भ्रमः, एतज्जनकबाध्यातिरिक्तोपादानकः, विभ्रमत्वात् संमतवदिति प्रकरणसमता च । एतेन विमता अनित्यप्रमा प्रमाभावातिरिक्तस्यानादे-र्निवर्तिका कार्यत्वात् घटवत् । विमता प्रमा प्रमाभावातिरिक्तस्यानादेर्निवर्तिका ज्ञानत्वात् भ्रमवत् । भ्रमानुत्तरप्रमा स्वाभावातिरिक्तस्वविरोधिनिवर्तिका, प्रमा-त्वाद् भ्रमोत्तरप्रमावत् । ज्ञानत्वं स्वविषयावरणनिवर्तकनिष्ठं, अप्रकाशितार्थ-प्रकाशवृत्तित्वादालोकत्ववत् । अनित्यज्ञानमभावत्वानधिकरणस्वविरोधि-समानाधिकरणं प्रयत्नान्यत्वे सत्यनित्यत्वे सति सविषयकत्वादनित्येच्छावत् । इच्छा हि स्वविरोधिद्वेषसमानाधिकरणा, एवं चाज्ञानमित्यादिनवीनानुमानं निरस्तम् । अप्रयोजकत्वाद्यनिस्तारात् ।

अद्वैतसिद्धिः

अनुमानमपि तत्र विवरणोक्तं प्रमाणम्– विवादपदं प्रमाणज्ञानम्, स्वप्रागभावव्यतिरिक्त-स्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षि-चैतन्यरूपायामज्ञानानिवर्तिकायां बाधवारणाय । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञाना-निवर्तिकायाः पक्षबहिर्भावाय विवादपदमिति विशेषणम् । विशेषाकारप्रमाणवृत्तिरिति फलितोऽर्थः । परोक्षप्रमाया अप्यसत्त्वावरणरूपप्रमातृगताज्ञाननिवर्तकत्वात् न तदंशेऽपि बाधः । नन्विदमिति प्रमाणवृत्तेरज्ञानानिवर्तकत्वे अज्ञातज्ञापकत्वरूपप्रमात्वेन व्यवहारो न स्यात्, न इदमाकारभ्रमसंशयादर्शनेन तद्गोचराज्ञानकल्पने मानाभावेन तत्र सुखादिज्ञान-वद्यथार्थत्वमात्रेण प्रमात्वव्यवहारोपपत्तेः । यथाहुः– ‘धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्यय’ इति । यदि तु भ्रमसंशयाजनकमपि तदाकारमज्ञानमनुभवबलादास्थीयेत, तर्हि सापि पक्षेऽन्तर्भवतु, प्रमाणवृत्तित्वावच्छेदेनैवाज्ञाननिवर्तकत्वानपायात्, तदा च विवादपदमिति विशेषणमनादेयम् । एतस्मिन् पक्षे भ्रमोपादानत्वयोग्यत्वमविद्यालक्षणं द्रष्टव्यम्, भ्रमोपादा-नत्वस्य धर्म्यंशज्ञाननिवर्त्याज्ञानेऽव्याप्तेरित्यवधेयम् । धारावाहिकबुद्धीनां च तत्तत्काला-वच्छिन्नार्थविषयत्वेनाज्ञातज्ञापकत्वमस्त्येव; कालस्य सर्वप्रमाणवेद्यत्वाभ्युपगमात् । अनात्माकारप्रमाणवृत्तीनां च तत्तदवच्छिन्नचैतन्यविषयत्वेन स्वविषयावरणनिवर्तकत्वमस्त्येव, चित्त्वेनैव प्रकाशप्रसक्तेः, न त्वनवच्छिन्नचित्त्वेन, गौरवात्, ‘एतावन्तं कालं मया न ज्ञातोऽयमिदानीं ज्ञात’ इत्यनुभवाच्च । रूपादिहीनस्यापि तत्तदवच्छिन्नचैतन्यस्य प्रत्यक्षादि-विषयत्वमुक्तं प्राक् । प्रतिकर्मव्यवस्थामभ्युपगम्य चेदमनुमानम्, न तु दृष्टिसृष्टिपक्ष इति ध्येयम् । साध्ये चाद्यं विशेषणं प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते प्रागभावे-नार्थान्तरवारणाय । तदुदीच्यध्वंसादिकमादाय नार्थान्तरप्रसक्तिः, किन्तु पूर्ववर्त्त्यभावमादायेति वस्तुगतिमनुरुध्य प्राक्पदम् । अवैयर्थ्यं च प्रतियोगिविशेषणत्वेनाखण्डाभावसम्पादकतया ।

एतेन– यतो ज्ञानमज्ञानस्यैव निवर्तकमिति नियमात् स्वनिवर्त्यपदेनैव प्रागभावव्युदासे किमाद्यविशेषणेनेति– निरस्तम्; प्रमात्वेन ज्ञाननिवर्त्यत्वमन्येषां नेत्यत्र तात्पर्यात् । न च स्वविषयावरणपदेनैव तद्व्युदासः, ‘अस्ति प्रकाशत’ इति व्यवहारविरोधित्वरूपस्यावरण-त्वस्य भावाभावसाधारणत्वात् । वृत्तिजनकादृष्टेनार्थान्तरवारणाय तु विशेषणमिदम् । न चावरणपदेनैव तद्व्युदासे स्वविषयेति व्यर्थम्, यददृष्टं स्वविषयज्ञानजनकं विषयान्तरज्ञान-प्रतिबन्धकतया तदावरकं, तादृशादृष्टपूर्वकत्वेनार्थान्तरवारकत्वात् ।

न च जडे अज्ञानस्यानङ्गीकाराच्चितश्चाज्ञानादिसाक्षितया भासमानत्वात् क्वावरणमिति वाच्यम् । अज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽपि ‘अस्ति प्रकाशत’ इति व्यवहारा-भावेन तदंशेऽज्ञानावरणस्यावश्यकत्वात् । वक्ष्यते चैतत् । स्वनिवर्त्येति च विशेषणं वृत्तिप्रतिबन्धकादृष्टेनार्थान्तरवारणाय । न च चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्य तद-निवर्त्यत्वे मिथ्यात्वासिद्धिः तन्निवर्त्यत्वे तद्व्युदसनमशक्यमिति वाच्यम् । प्रतिबन्धकादृष्टे विद्यमाने न ज्ञानोत्पत्तिरिति प्रथमं तन्निवृत्तेः कारणात्मना स्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वम् । न चैवमपि स्वनिवर्त्यत्वमव्याहतम्, स्वनिवर्त्यस्वरूपत्वे तात्पर्यात् । अन्धकारेणार्थान्तरवारणार्थमिदमिति केचित् । तन्न, स्वदेशगतेत्यनेनैव तद्व्युदासात् । यथा च वृत्तिप्रतिबिम्बितचैतन्यस्य विषयावच्छिन्नचैतन्येन सहैकलोलीभावादज्ञाननिवर्तकत्वं, तथोक्तं प्राक् । स्वदेशगतेति च विशेषणं विषयगताज्ञातत्वेनार्थान्तरवाणाय । यद्यप्यविद्या-विषयत्वरूपमज्ञातत्वमसिद्धम्, ज्ञातत्वाभावरूपं तु प्रथमविशेषणेनैव परास्तम्, तथापि प्रथमेन प्रागभावव्युदासादत्यन्ताभावव्युदासाय चतुर्थमिति द्रष्टव्यम् ।

ननु कथं ज्ञानाश्रयगतत्वमज्ञानस्य ? वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिदनाश्रित-त्वादिति चेन्न; अन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तेस्तत्प्रतिफलितचैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वसम्भवात्, किञ्चिदवच्छिन्नतदाश्रितस्यापि तदाश्रितत्वानपायात्, कर्णशष्कुल्य-वच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत् । एवं च भावाभावसाधारणमावरणमिति मतेन साध्यमुपपादितम् । अभावो नावारक इति सिद्धान्ते तु साध्यद्वये तात्पर्यम्– स्वप्रागभावातिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकम् । स्वविषयावरण(स्वनिवर्त्य-स्वदेशगतवस्त्वन्तर)पूर्वकमित्यपरमिति न किञ्चिदसमञ्जसम् ।

हेतौ च प्रकाशकत्वं प्रकाशकपदवाच्यत्वं, अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम् । यद्यपि प्रकाशकपदवाच्यत्वं नामकरणवशात् कस्मिंश्चित् पुरुषेऽप्यस्ति, तथापि प्रकाशकशब्देन शास्त्रे सर्वदेशकालयोर्वा व्यवह्रियमाणत्वं तद्विवक्षितम् । अथवाऽस्तु साधारणम् । अप्रकाशितार्थगोचरेति विशेषणाद् व्यभिचारव्युदासः ।

अप्रकाशितत्वं च ‘न प्रकाशत’ इति व्यवहारगोचरत्वम्, तच्च स्वप्रकाशचैतन्येऽप्य-स्तीत्युपपादितम् । एवं निरुक्ताप्रकाशविरोधित्वमपि ज्ञानालोकयोः प्रत्यक्षसिद्धम् । उक्तं च विवरणे– ‘ज्ञानप्रकाश्यत्वाज्ञानविरोधित्वादन्यदेव आलोकप्रकाश्यत्वं तमोविरोधित्वं नामे’ति । अत उभयोरेव साक्षादप्रकाशविरोधित्वसम्भवान्नेन्द्रियसन्निकर्षादौ व्यभिचारः । एवं चा-प्रकाशितार्थगोचरत्वे सति प्रकाशशब्दवाच्यत्वाद् अप्रकाशविरोधिप्रकाशत्वादिति वा हेतुः पर्यवसितः । विपर्ययविषयस्तु नाज्ञातः, विपर्ययान्यकालासत्त्वेन तस्यानिर्वचनीयस्य मान-गोचरत्वाभावेन प्रकाशप्राक्कालसत्त्वघटिताप्रकाशितत्वासम्भवाद्, अत एव स नाप्रकाश-विरोधी, स्वविषये अप्रकाशाभावाद्, अधिष्ठानाप्रकाशस्तु तस्य जनक एव । स्मरणे च व्यभिचाराभावः स्पष्टः । अनुकूलतर्कश्च त्वदुक्तमर्थं न जानामीति प्रतीत्यन्यथानुपपत्त्यादि-रूपः प्रागुक्त एव । एतेन गोशब्दवाच्यत्वेन पृथिव्या अपि शृृङ्गित्वानुमानापातोऽपास्तः, तत्रानुकूलतर्काभावात् । अज्ञानस्य स्वरूपेणाज्ञानाविषयत्वेऽपि तद्भावत्वादिकमज्ञानविषयो भवत्येव, तस्याज्ञानग्राहकसाक्ष्यग्राह्यत्वात् । अन्यथा तत्र विवादो न स्यात् । एवं प्रमाया स्वविषयावरणाभावपूर्वकत्वमपि न प्रमास्वरूपग्राहकसाक्षिग्राह्यम् । तथा च तद्ग्राहिकाया एतस्या अनुमितेः साध्यसाधनोभयाधिकरणत्वात् न कोऽपि दोषः । दृष्टान्ते चान्धकारा-व्यवहितोत्पत्तिकत्वं विशेषणम् । तेन न प्रथमपदवैयर्थ्यं न वा द्वितीयादिप्रभायां साध्यसाधनवैकल्यं विस्तरेण चान्यत्र व्युत्पादितमिदमस्माभिः ।

ननु– अनादित्वे सति भावत्वमभावविलक्षणत्वं वा, न निवर्त्यनिष्ठम्, अनादिभावमात्र-वृत्तिधर्मत्वाद्, अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा, आत्मत्ववत् । निवर्त्यत्वं वा, नानादि-भावनिष्ठम्, अनाद्यभावविलक्षणनिष्ठं नेति वा, निवर्त्यमात्रवृत्तित्वात्, प्रागभावत्ववत् । अनादित्वं वा, नावरणनिष्ठम्, अनादिमात्रवृत्तित्वात्, प्रागभावत्ववत् । प्रमाणज्ञानं वा अनाद्यभावान्यानाद्यनिवर्तकम्, ज्ञानत्वाद्, भ्रमवदित्यादिना सत्प्रतिपक्षता, कृत्यभावमात्रेणा-कृतस्य कृतिवत् पूर्वप्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं चेति– चेन्न, अनुकूलतर्काभावेनाप्रयोजकत्वात्, सिद्धान्तिहेतोश्चानुकूलतर्कसद्भावेन साध्यव्याप्यत्वे निश्चिते सत्प्रतिपक्षाप्रयोजकत्वादीनामनवकाशात् । अनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेराद्यानुमानेनाविरोधश्च । द्वितीये त्वनाश्रितमात्रवृत्तित्व-मुपाधिः । तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपधिः । पञ्चमे सकलानाद्यवृत्तित्वमुपाधिः । षष्ठे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति च दूषणानि ।

तत्त्वप्रदीपिकोक्तं च– चैत्रप्रमा, चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका, प्रमात्वा-न्मैत्रप्रमावत् । विगीतो विभ्रमः, एतज्जनकाबाध्यातिरिक्तोपादानकः, विभ्रमत्वात्, संमत-वदिति । अत्राद्ये सुखादिज्ञानेषु न बाधः, अन्तःकरणवृत्तेरेव प्रमापदेनोक्तेः । चैत्रगतत्वं च नानादेर्विशेषणम्, मैत्रप्रमायाश्चैत्रनिष्ठानादिनिवर्तकत्वाभावेन दृष्टान्ते साध्यवैकल्यापातात्, किन्तु प्रमातदभावयोरन्यतरस्य । प्रमायाश्चात्मगतत्वं प्राग्व्याख्यातम् । साध्ये तु प्रमापद-मुपरञ्जकमेव । यदि त्वभावे प्रागिति विशेषणं नास्ति, तदा भावरूपाज्ञानस्यापि स्वाभावा-भावत्वेन तदतिरिक्तानादिनिवर्तकत्वे बाधवारणाय । चैत्रासमवेतत्वं चैत्रान्यसमवेतत्वं च नोपाधिः, चैत्रसुखादौ व्यभिचारेण साध्याव्यापकत्वात् ।

न च चैत्रप्रमा चैत्रगतस्याभवातिरिक्तस्यानादेर्निवर्तिका न, प्रमात्वात्, मैत्रप्रमादिवदिति सत्प्रतिपक्षः, प्रतियोगिप्रसद्ध्यप्रसिद्धिभ्यां व्याहतेः । चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं तु नोपाधिः, चैत्रगतप्रमाभावातिरिक्तस्य स्वजन्यव्यवहारप्रागभावस्य निवर्तकतया पक्षे साधनव्यापकत्वात् । विपक्षबाधकसत्त्वाच्च नाभाससाम्यम् । अत एव द्वितीयानुमानमपि सम्यक् । न च – विगीतो विभ्रमः, एतज्ज्ञानजनकबाध्यातिरिक्तोपादानकः, विभ्रमत्वात्, संमतवदिति सत्प्रतिपक्ष इति– वाच्यम् । बाध्यस्य त्वन्मतेऽजनकत्वात्, साध्याप्रसिद्धेः, ब्रह्माविद्योभयोपादानकत्वेनाविरोधाच्च ।

नव्यास्तु विमता प्रमा, प्रमाभावातिरिक्तस्यानादेर्निवर्तिका, कार्यत्वाद्, घटवद् । भ्रमानुत्तरप्रमा, स्वाभावातिरिक्तस्वविरोधिनिवर्तिका, प्रमात्वात्, भ्रमोत्तरप्रमावत् । ज्ञानत्वं, स्वविषयावरणनिवर्तकनिष्ठम्, अप्रकाशितार्थप्रकाशवृत्तित्वाद् आलोकत्ववत् । अनित्यज्ञानम्, अभावत्वानधिकरणस्वविरोधिसमानाधिकरणम्, प्रयत्नान्यत्वे सति सविषयत्वे सत्यनित्य-त्वाद्, अनित्येच्छावत् । सा हि तादृग्द्वेषसमानाधिकरणा । न चैतेषु अप्रयोजकत्वशङ्का, विपक्षबाधकतर्कस्योक्तत्वात् । एवमन्यदप्यूहनीयम् । ज्ञानविरोधित्वं, अनादिभावत्व-समानाधिकरणम्, सकलज्ञानविरोधिवृत्तित्वाद्, दृश्यत्ववत् । यद्वा– अनाद्यभावविलक्षणत्वम्, ज्ञानविरोधिवृत्ति, अनाद्यभावविलक्षणमात्रवृत्तित्वाद्, अभिधेयत्ववदिति । एवमभावविलक्षणा-ज्ञाने अनुमानान्यूहनीयानि ।

न्यायामृततरङ्गिणी

तस्या इति ।। साक्षिणोऽज्ञानसाधकत्वेन तदनिवर्तकत्वादित्यर्थः । परोक्षवृत्तेः स्वविषयेऽज्ञानानिवर्तकत्वे संमतिमाह ।। उक्तं चेति ।। अतीतादेर्ज्ञानं प्रति कारकत्वं नास्तीत्युक्ते तर्हि तद्वदेव विषयत्वमपि न स्यादित्याशङ्कायां तदपि नास्ती-त्युत्तरिते विषयत्वस्योपलभ्यमानत्वात्कथं तदभाव इति पुनः शङ्कायां अतीतादिषु विषयत्वाभावं दर्शयितुं विषयशब्दार्थकथनपरमिदं विवरणवाक्यम् । विषयत्वं नामानुमेयेषु सुषुप्तिव्यावृत्तिः । सा चाभावस्तद्धर्मो न भवति । विज्ञानाकारतापि न विषयव्यापारः । किन्तु विज्ञानस्यैवेति नातीतेऽर्थे क्रियाकारित्वमिति । एतच्च तत्त्वप्रदीपने व्याख्यातम् । सुषुप्तिव्यावृत्तिस्तद्विषयाज्ञाननिवृत्तिः । सा चानुमेयधर्मो न भवति । किन्त्वज्ञानस्यात्माश्रितत्वात्तन्निवृत्तिरप्यात्माश्रितैवेति ।

अन्ये तु सुषुप्तिव्यावृत्तिरित्यस्य साधकाद्यभावात् विषयस्य या पूर्वसंशययोग्यता तस्याः निवृत्तिरित्यर्थः । स च नातीतादौ । असतस्तदाश्रयत्वायोगादित्याहुः । केचित्तु परोक्षस्थले विषयावच्छिन्नाभावावरणतत्कार्यसद्भावेऽपि प्रमात्रवच्छिन्ना-सत्त्वावरणानिवृत्त्याऽनुमेयादौ व्यवहारोपपत्तिः । इदमेव सुषुप्तिव्यावृत्तिशब्देनोक्त-मित्याहुः । सर्वथाऽपि विषयावच्छिन्नप्रमेयचैतन्यगताज्ञानं न निवर्तत इत्यविवादम् । तदिदमुक्तं तस्याः स्वविषयेऽज्ञाननिवर्तकत्व इति । तथा च परोक्षवृत्तौ स्वविषयावरणस्य स्वनिवर्त्यत्वाभावाद्बाध इत्यर्थः ।

ननु धर्म्यंशाज्ञानेऽपि भ्रमोपादानत्वयोग्यताऽस्तीति तत्र नाव्याप्तिरित्यत आह ।। न हीति ।। धर्म्यंशाज्ञाने सति धर्मिणोऽज्ञानाभावात् भ्रमो न स्यादित्यर्थः ।। धारावाहिकेति ।। न चास्मन्मते धारावाहिका बुद्धिरेव नास्ति । एकस्यैव ज्ञानस्य तावत्समयस्थित्युपपत्तेरिति वाच्यम् । तथापि प्रतिपाद्यं नैयायिकं प्रति बाधः स्यादेव । बाधमुपपादयति ।। तस्या इति ।। असिद्धिमुपपादयति ।। सूक्ष्मेति ।। रूपादिहीनस्येति ।। स्वरूपायोग्यस्य किञ्चिदवच्छिन्नस्यापि न चाक्षुषत्वमिति भावः ।। उक्तत्वाच्चेति ।। परिच्छिन्नत्वहेतुभङ्ग इति शेषः । एतेन रूपहीनस्यापि तार्किकाभिमतात्मनः प्रत्यक्षत्ववदरूपस्यापि रूपस्य चाक्षुषत्ववच्च सन् घट इति सदर्थस्य ब्रह्मणश्चाक्षुषत्वमविरुद्धमिति निरस्तम् ।। अयं घट इति ।। यथा शाब्द-ज्ञाने न चैतन्यं विषयस्तथा तत्समानविषयेऽपरोक्षज्ञानेऽपि न तद्विषय इत्यनात्म-विषयापरोक्षवृत्तौ बाध इति भावः ।। आत्मविषयेति ।। सा चान्ततश्चरम-वृत्तिरेवेति भावः ।। यत इति ।। प्रागभावस्याज्ञानभिन्नत्वान्न ज्ञाननिवर्त्यत्व-मित्यर्थः ।। अभावेति ।। प्रमाणज्ञानं स्वप्रागभावनिवृत्तिरेव न तु तन्निवर्तकमिति न प्रमाणज्ञानप्रागभावस्तन्निवर्त्य इत्यर्थः । न च प्रतियोग्यतिरिक्ता प्रागभाव-निवृत्तिरिति मतेनैतदुक्तमिति वाच्यम् । तस्याप्रामाणिकत्वात् ।। शेषेति ।। न च प्रतियोगिविशेषणत्वेनाखण्डाभावसम्पादकतया न वैयर्थ्यमिति वाच्यम् । तत्त्वनिर्णयकथायां लघुना साध्यनिर्देशेन साध्यसिद्धौ सम्भवन्त्यामखण्डा-भावान्तर्भाविनः साध्यस्यानिर्देश्यत्वात् । अन्यथा अखण्डाभावन्यायेनाखण्डो-पाधावपि तदनापत्तेः ।। आवरणत्वायोगादिति ।। तथा च तद्विशेषणविशिष्टं साध्यं पक्षे बाधितमित्यर्थः । नन्वज्ञानादिसाक्षितया चितो भासमानत्वेऽप्यस्ति प्रकाशत इति व्यवहाराभावेन तदंशेऽज्ञानावरणमस्तीति शङ्कानिरासायोक्तम् ।। निर्विशेषेति ।। सत्ताप्रकाशयोः प्रकाशमानचिन्मात्रत्वेन तादृशव्यवहारानुपपत्तेरित्यर्थः ।। स्वोत्पादकादृष्टेति ।। अदृष्टस्यावरणत्वाभावादित्यर्थः ।। शेषेति ।। स्वविषयेत्य-स्येत्यर्थः । एतेन यददृष्टं स्वजनकं विषयान्तरज्ञानप्रतिबन्धकतया तदावरकं तादृशादृष्टपूर्वकत्वेनार्थान्तरवारणाय स्वविषयेति विशेषणमिति निरस्तम् । स्वजनकं स्वविषयज्ञानान्तरप्रतिबन्धकतया स्वविषयावरणं चादृष्टविशेषमादायार्थान्तरतादव-स्थाच्च ।। वृत्तिरिति ।। वृत्तिश्चिदुपरागोर्थेति मते चितोऽनावृतत्वेन वृत्ते-रावरणनिवर्तकत्वं नास्तीत्यर्थः ।। घटाकारेति ।। घटाकारवृत्त्यादिनैव घट-प्रकाशकघटाधिष्ठानचैतन्यस्यावरणाभिभवरूपाभिव्यक्तेर्जातत्वेन घटज्ञानरूपस्य घटाधिष्ठानचैतन्यस्यावरणनिवर्तकत्वं नास्तीत्यर्थः ।

ननु वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा घटप्रकाशकम् । तच्च घटाधिष्ठानचैतन्यस्य प्रमेयभूतस्यावरणं निवर्तयतीति शङ्कां परिहरति ।। वृत्तिरति ।। ज्ञाने ज्ञेयाध्यास-स्यानुक्तेरित्यर्थः ।। चरमेति ।। न च चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः । कारणात्मनाऽवस्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वमपीति वाच्यम् । तावताऽपि ज्ञाननिवर्त्यत्वाव्याहतेः ।। अज्ञानस्येति ।। वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिन्मात्रानाश्रितत्वादित्यर्थः । नन्वन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा ज्ञानं चिन्मात्राश्रितमेव । किञ्चि-दवच्छिन्नाश्रितस्याप्यवच्छेद्याश्रयत्वानपायात् । कर्णशुष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत् । मैवम् । त्वन्मतेऽवच्छेद्यावच्छिन्नयोर्भेदात् । अन्यथा विशिष्टनिष्ठयोर्दृश्यत्वमिथ्यात्वयोर्विशेष्यनिष्ठत्वं स्यात् । किञ्च वृत्तिस्तत्प्रतिबिम्बित-चैतन्यं वा न घटादिज्ञानम् । तत्र तदनध्यासात् । किन्तु वृत्त्याद्यभिव्यक्तं घटाधिष्ठानचैतन्यं घटादिज्ञानम् । तच्च नाज्ञानाश्रयचिन्मात्राश्रितम् । तदिदमुक्तम् तदभिव्यक्ताधिष्ठानचैतन्यस्य वेति । प्रमाणज्ञानस्यान्तःकरणनिष्ठत्वादावरणस्य विषयनिष्ठत्वान्न तयोः समानदेशत्वमित्याह ।। त्वन्मत इति ।। आद्येति ।। न चाद्यविशेषणेन प्रागभावो व्यवच्छिद्यते स्वनिवर्त्येत्यनेन त्वत्यन्ताभाव इति वाच्यम् । स्वप्राक्पदविरहितेनाद्यविशेषणेनैवोभयव्यवच्छेदसम्भवादित्यर्थः ।। अविद्येति ।। अज्ञानसिद्धिरेव स्यान्न तु सिद्धसाधनादिकमित्यर्थः ।

ननु अस्ति प्रकाशत इति व्यवहारविरोधित्वरूपमावरणत्वं भावाभावसाधारणमत आह ।। तथात्व इति ।। तस्येति ।। असाधारण्येन व्यपदेशा भवन्तीति न्यायेन वा मात्रशब्दान्तर्भावेण वा स्वविषयमात्रावरणत्वरूपार्थलाभसम्भवादिति भावः । यत्तु स्वप्रागभावव्यतिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकं साध्यं स्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमिति द्वितीयं साध्यमिति साध्यद्वये तात्पर्यमिति । तन्न । उक्तरीत्या ज्ञानाज्ञानयोः समानदेशत्वाभावात् । प्रागभावस्य स्वनिवर्त्यत्वाभावेन प्रथमसाध्ये स्वप्रागभावव्यतिरिक्तेत्यस्य वैयर्थ्याच्च । द्वितीयसाध्ये आवरणपूर्वकमित्येतावतैव पूर्णत्वाच्च ।। अप्रयोजकतेति ।। एतच्चोपलक्षणम् । यादृशसाध्यनिर्देशं विना विवादपदसाध्यसिद्धिर्न भवति तादृशं साध्यं निर्देष्टव्यमित्यर्थः । तेनार्थान्तरादिवारकविशेषणानां नानुपादानप्रसङ्गः । एतेन ईश्वरानुमानेऽदृष्टप्रागभावव्याप्यप्रागभावाप्रतियोगीति विशेषणं विनाभावकार्यत्वहेतोर-प्रयोजकत्वाभावात्तद्विशेषणमप्यनुपादेयं स्यादिति निरस्तम् । तत्रार्थान्तरवारणात् । प्रकृते तदभावात् ।। शब्दसाम्येनेति ।। पर्वतमहानसवृत्तिधूमव्यक्त्योर्भेदेऽपि धूमत्वस्यैकत्ववत् ज्ञानप्रभयोरेकं प्रकाशत्वं नास्तीत्यर्थः । पक्षदृष्टान्तयोरनुगतो हेतुर्नास्तीत्यत्रोपष्टम्भकमाह ।। उक्तं चेति ।। अहङ्कारस्यात्मव्यतिरिक्तत्वसाधक-संविदभिन्नस्य स्वात्मनः स्वप्रकाशत्वं साधयितुं संविदो स्वप्रकाशत्वे विश्वस्यानव-भासप्रसङ्ग इति दूषणेऽभिहिते नन्वप्रकाशमानमेव ज्ञानं चक्षुरादिवद्विषयमवभासये-दिति कुतो विश्वस्यानवभास इति शङ्किते विषयप्रकाशजनने न चक्षुषः प्रकाशकत्वं संवेदनं तु स्वयमर्थप्रकाश एव प्रदीपवदवभासमानमेवार्थं प्रकाशयतीति परिहृते ।

ननु प्रदीपालोकस्याप्यर्थानुभवजननेनैव चक्षुरादिवदर्थप्रकाशकताऽस्त्विति पुनः शङ्कायां ज्ञानप्रकाश्यत्वादज्ञानविरोधिनोऽन्यदेवालोकप्रकाश्यत्वं तमोविरोधितया प्रसिद्धम् । तदव्यवधानेनालोकेन क्रियत इत्यादिना चक्षुरपेक्षया आलोकसंवेदनयो-र्वैलक्षण्यमभिधाय आलोकसंवेदनयोरपि प्रकाशकत्वे वैलक्षण्यमस्तीति विवरणेऽ-भिहितमित्यर्थः ।। प्रमाणस्येति ।। चरमवृत्तेरित्यर्थः ।। अध्यासेति ।। प्रकाशमानस्यैवाधिष्ठानत्वादित्यर्थः । नन्वधिष्ठानचित्प्रकाशेऽप्यस्ति प्रकाशत इत्यादिरूपेण न प्रकाश इति चेन्न । निरस्तत्वात् ।। अस्या इति ।। अज्ञान-विषयिण्याः ।। प्रकाशितेति ।। विशेषणाभावाद्विशिष्टहेतोरभावे प्रकाशितप्रकाशकत्वं विशेष्याभावात्तदभावेऽप्रकाशकत्वं स्यादित्यगत्याऽनुमितौ विशिष्टाभावस्यासम्भव इत्यर्थः ।। उभयथेति ।। आद्ये सिद्धसाधनम् । द्वितीये बाधादनुमितिर्व्यर्था । अर्थविषया न भवतीत्यर्थः । तर्कितानुमितौ विकल्पनान्न व्याघातः ।। तदिति ।। अप्रकाशितेत्यर्थः ।। अत्रैवेति ।। पक्षबहिर्भावे व्यभिचारः पक्षत्वे तु बाध इत्यर्थः ।

केचित्तु विवादगोचरापन्नमित्यनेन जन्यसविकल्पकाजन्यचाक्षुषघटप्रमाणज्ञानं विवक्षितम् । परमते जन्यज्ञानमात्रस्य सविकल्पकजन्यत्वात्सविकल्पकस्य जन्य-ज्ञानजन्यत्वाच्च पक्षाप्रसिद्धिवारणाय जन्यसविकल्पकाजन्येत्युभयोपादानम् । अनेन धारावाहिकद्वितीयादिबुद्धिव्युदासः । पराभिमतेश्वरज्ञानव्यावृत्तये चाक्षुषप्रमाणज्ञानेति । साध्ये च स्वशब्दः समभिव्याहृतपरः । स्वप्रागभावपदेन स्वसमानाधिकरणप्रागभावः कथ्यते । स्वविषयावरणेति स्वजननायोग्यम् । स्वनिवर्त्येति स्वजन्यध्वंसप्रतियोगि । स्वदेशगतेति स्वाश्रये वर्तमानम् । एवं च पक्षीभूतज्ञानस्य घटपटादेः संशय-जनकत्वसम्भवात् तत्प्रागभावस्तन्निवर्त्य इति संशयादिप्रागभावात्मत्वस्वजनका-दृष्टेच्छा प्रागभावपूर्वकत्वेनार्थान्तरत्व व्यावृत्ते प्रातिलोम्येन विशेषणानि । अज्ञानं चैवंविधमिति न बाधः । अथवा प्रमाणज्ञानस्य प्रागभाव एव स्वप्रागभावः स्व-विषये संशयादिजनकतायोग्यमेव स्वविषयावरणम् । स्वसत्ताक्षणनियतध्वंस-प्रतियोगिस्वनिवर्त्यम् । ततश्च प्रागभावोऽपि परमते विशेषादर्शनतया संशयादिजनक इति स्वप्रागभावस्वजनकादृष्टान्धकारादिव्यावृत्तये स्वप्रागभावेत्यादिविशेषणानि । परमते मनःसंयोगपूर्वकत्वेनार्थान्तरनिवृत्तये स्वनिवर्त्येतीति ।

अत्र ब्रूमः । पटबुभुत्सयोन्मीलितेन चक्षुषा दैवात् घटपटसंयोगे सति इच्छाप्राबल्यात् पटज्ञानानन्तरं जायमाने घटचाक्षुषज्ञाने पटज्ञानपूर्वकत्वेन सिद्ध-साधनम् । पटज्ञानं हि स्वशब्दनिर्दिष्टघटज्ञानसमानाधिकरणप्रागभावव्यतिरिक्तं स्वजननायोग्यं स्वजन्यध्वंसप्रतियोगिस्वाश्रयगतं च भवति । द्वितीयसाध्येऽपि यत्र घटे पाषाणादिसंशयानन्तरं विशेषदर्शनं विनैव समीपागमनादिना घट इति प्रमाणज्ञानं चाक्षुषं जायते तत्र पूर्वतनसंशयमादाय सिद्धसाधनम् । घटविषयक-संशयोऽपि धर्मिज्ञानकोटिज्ञानत्वादिना घटविषयकसंशयान्तरजननयोग्य इति घटप्रमाविषयावरणं भवति । स्वसत्ताक्षणनियतध्वंसप्रतियोगी च भवतीति । यथाश्रुतेन स्वविषयावरणपूर्वकमित्यनेनैव साध्यसिद्धेरुक्तकुसृष्टेरनाश्रयणीयत्वाच्च । ग्रन्थस्वारस्यस्य त्वयाऽपि त्यक्तत्वाच्च । नन्वन्धकारनिवृत्त्यव्यवहितोत्तरकालीनं चाक्षुषज्ञानं पक्षत्वेनाभिमतम् । साध्यं च स्वसमानाधिकरणप्रागभावव्यतिरिक्तेत्यादि- विवक्षितमिति चेन्न । स्मृत्यभावमात्रेणास्मृतस्य स्मृत्यनन्तरं स्मृतत्ववत्पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य तस्मिन्सति प्रकाशितत्वोपपत्त्याऽप्रयोजकत्वात् । एतच्च आकर एव स्पष्टम् । अन्धकारनिवर्तकत्वं चोपाधिः ।

।। अनादित्वे सतीत्यादि ।। नन्वनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेर्न विरोध इति चेन्न । अनादित्वे सत्यभावविलक्षणत्वेनानिवर्त्यत्वस्यापि प्रसङ्गेनाभावविलक्षणनिवृत्तौ सादित्वस्यैव प्रयोजकत्वात् । न च द्वितीयानुमाने अनाश्रितमात्रवृत्तित्वमुपाधिः । ध्वंसत्वे साध्याव्याप्तेः ।। निवर्त्यत्वं चेति ।। न चैतयोः सफलनिवर्त्यावृत्तित्वमुपाधिः । विनाशसामग्रीयुक्तत्वे साध्याव्याप्तेः । न च विनाशसामग्रीयुक्तत्वेऽनादिभाव-निष्ठत्वस्य वा अनाद्यभावविलक्षणनिष्ठत्वस्य वा अभावो नेति न तत्र साध्याव्याप्तिरिति वाच्यम् । अभावविलक्षणस्य विनाशे सादित्वस्य प्रयोजकत्वेन अनादिभावे विनाशसामग्रीयुक्तत्वस्याभावात् । साध्यव्यापकोपाधिव्यतिरेकनिश्चयवति विनाशसामग्रीयुक्तत्वेऽनादिभावनिष्ठत्वादेः साध्यव्यतिरेकस्य सन्दिग्धत्वेन निश्चित-व्यापकाभाववति व्याप्यसंशयरूपव्यभिचारसंशयेनोपाधेर्व्यतिरेकव्याप्त्यसिद्धेश्च ।। अनादित्वं चेति ।। कारणाजन्यत्वमित्यर्थः । न चात्र सकलानाद्यवृत्तित्वमुपाधिः । निश्चितोपाधिव्यतिरेकवति प्रागभावप्रतियोगित्वादौ साध्यस्य सन्देहेनोपाधेर्व्यतिरेक-व्याप्त्यसिद्धेः ।। प्रमाणज्ञानं चेति ।। न चात्र प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति वाच्यम् । आवाभ्यामप्रसिद्धप्रतियोगिकस्याप्यभावस्य स्वीकारात् ।। आत्मगतत्वा-भावादिति ।। न च वृत्तिरूपैकोपाध्यारूढत्वेन प्रमायाश्चैत्रगतत्वमिति वाच्यम् । तथा सति प्रमातृप्रमाणप्रमेयसाङ्कर्यापत्त्या तत्परिहाराय कल्पितभेदमादाय व्यवस्था-यास्त्वस्याऽपि वाच्यत्वेन प्रमातत्तत्प्रागभावयोश्चैत्रगतत्वाभावादित्यर्थः ।। साध्य इति ।। चैत्रप्रमायाः पक्षीकृताया प्रमामात्रप्रागभावनिवर्तकत्वनिश्चयेन प्रमापदस्या-व्यावर्तकत्वादित्यर्थः ।। प्रकरणसमता चेति ।। तेनैव हेतुना सत्प्रतिपक्ष इत्यर्थः । ननु सत्प्रतिपक्षानुमाने चैत्रासमवेतत्वमुपाधिः । चैत्रप्रमा चैत्रगतानादिनिवर्तिका न प्रमात्वात् मैत्रप्रमावदित्यनुमानेन चैत्रप्रमाप्रागभावोऽपि न सिद्ध्येदित्याभास-साम्यमित्यत आह ।। न चात्रेति ।। आत्मत्वादौ साध्याव्याप्तेरित्यर्थः । आभास-साम्यं परिहरति ।। उक्तेति ।।

ननु जन्यमात्रे चैत्रगतप्रमाभावातिरिक्तस्वप्रागभावनिवर्तकत्वेनोपाधिसाध्ययोः सत्वात्तद्व्यतिरेकसहचाराग्रह इत्यत आह ।। व्यतिरेकेति ।। प्रागभाव इति ।। आकाशादिरप्युत्पन्न इति पक्षे प्रागभावः । मतान्तरे त्वाकाशादिरप्युपसंहारस्थलमिति बोध्यम् ।। चैत्रप्रमेति ।। अनेन प्रागभावद्वयसिद्ध्यापत्तिः ।। घट इति ।। अनेन प्रागभावातिरिक्तमनादिभूतं घटविरोधि सिद्ध्यति ।। चैत्रेच्छा वेति ।। अनेन प्रागभावद्वेषाभ्यामतिरिक्तं इच्छाविरोधिभूतं अप्रमाप्रागभावाज्ञानाभ्यामतिरिक्त-प्रमानिवर्त्यं च सिद्ध्यतीत्यतिप्रसङ्ग इत्यर्थः ।। चैत्रनिष्ठत्वे सतीति ।। एतच्च निवर्तकत्वविशेषणम् । चैत्रप्रमायां चैत्रनिष्ठत्वस्य विशेषणत्वस्य सत्त्वेन तद्विशिष्टस्य चैत्रप्रमाभावातिरिक्तानादिनिवर्तकत्वस्यानधिकरणत्वे साध्यमाने विशेष्यभूतस्य निरुक्तनिवर्तकत्वस्यानधिकरणत्वं सिद्ध्यतीत्यर्थः । नन्वत्र चैत्रावृत्तित्वमुपाधिरित्यत आह ।। न चेति ।।  एतदुपाधित्वे सतीति ।। एतच्च साध्यव्यापकत्वस्य विशेषणम् । साध्यव्यापकत्वानधिकरणत्वमादाय पक्षे साध्यसिद्धिः ।। अत एवेति ।। आभाससाम्यसत्प्रतिपक्षादिनेत्यर्थः ।। किं चेति ।। अभावभ्रमादौ व्यभिचारेण । ज्ञानस्य भ्रमानुपादानत्वादित्यर्थः ।। एतज्जनकेति ।। एतज्जनक-बाध्यातिरिक्तोपादानक इति पर्यवसितार्थः । न च बाध्यस्याजनकत्वादे-तज्जनकबाध्याप्रसिद्ध्या तदतिरिक्ताप्रसिद्धिरिति वाच्यम् । प्रतियोग्यप्रसिद्धेर-भावप्रसिद्धिं प्रति गुणत्वेन दोषत्वभावात् ।। प्रयत्नान्यत्वे सतीति ।। एतच्च प्रवृत्त्यभाव एव निवृत्तिरिति मतमाश्रित्य प्रयत्ने व्यभिचारवारणाय । मतान्तरे तु प्रवृत्तेर्निवृत्त्या निवृत्तेश्च प्रवृत्त्या समानाधिकरणत्वेन साध्यसत्त्वाद्व्यभिचाराभावेन तदनुपादेयमिति ध्येयम् । नन्विच्छाविरोधिद्वेषसिद्धावपि अनिच्छा यथा न सिद्ध्यति तथा ज्ञानविरोधिनः सिद्धावपि कथमज्ञानसिद्धिरित्यत आह ।। ज्ञानेति ।। अप्रयोजकत्वादिति ।। स्मृत्यभावमात्रेणास्मृतत्ववदित्यादिनोक्तस्येति शेषः ।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यां नानुमाऽज्ञानसाधिका ।।

न्यायामृतकण्टकोद्धारः

एवमज्ञाने प्रत्यक्षं निरस्यानुमानं निरस्यति ।। यच्चेति ।। तस्या इति ।। साक्षिणोऽज्ञानसाधकत्वेन न तद्बाधकत्वमिति भावः । ननु परोक्षप्रमाया अपि स्वविषयावरणप्रमातृगताज्ञाननिवर्तकत्वात् कथं तत्र बाध इत्यत आह ।। तस्या इति ।। न च प्रमातृगताज्ञाननिवर्तकत्वेऽपि विषयगताज्ञानानिवृत्त्या चैतन्याभिव्यक्त्या न विषयापरोक्ष्यमिति वाच्यम् । अपरोक्षवृत्तिस्थलेऽपि तथात्वापत्त्या विषयापरोक्षत्वा-नापत्तेः । तत्राज्ञानद्वयस्य निवृत्तिः, अत्र तु प्रमातृगताज्ञानस्यैवेत्यत्र विनिगमका-भावात् । वृत्तिसम्बन्धस्योभयत्राप्यविशेषात् । वृत्तेस्तन्निष्ठत्वाभावस्य च प्रतिकर्म-व्यवस्थाभङ्गे उपपादितत्वाच्च । अहमज्ञ इत्याद्यनुभवादीनां प्रमातृनिष्ठाज्ञानज्ञापकत्वेन विषयनिष्ठाज्ञाने प्रमाणाभावाच्च । भ्रमादेरन्यथैवोपपत्तेश्चोक्तत्वादिति दिक् । तथा च परोक्षवृत्तौ बाध एवेति परोक्षस्थलेऽज्ञाननिवृत्तिर्नेत्यत्र विवरणसम्मतिमाह ।। उक्तं चेति ।। अप्रयोजकत्वमिति ।। परोक्षवृत्तेरिवापरोक्षवृत्तेरपि उक्तसाध्याभावेऽपि व्यवहारादि-कार्यसम्भवादिति भावः ।। सर्वेति ।। न चाधिष्ठानांशे वारणार्थं विवादपदमिति वाच्यम् । तदंशे हेतोर्व्यभिचारो विशेषणे चाप्रयोजकत्वमिति भावः ।

ननु धर्म्यंशे साध्यस्यापि सद्भावान्न व्यभिचार इत्यत आह ।। तन्निवर्त्येति ।। न च भ्रमोपादानत्वयोग्यत्वं लक्षणम् । तच्च तत्राप्यस्तीति नाव्याप्तिरिति वाच्यम् । योग्यतावच्छेदकरूपाभावे योग्यत्वस्याप्यसम्भवात् । योग्यत्वे वा कदाचिदपि तज्जातीये भ्रमाद्यापत्तेः । अन्यथा कस्यापि स्वरूपायोग्यत्वं न स्यात् । ननु काल-मादायाज्ञानसम्भवात् न बाधासिद्धी इत्यत आह ।। स्वस्येति ।। न च कालस्य सर्वप्रमाणवेद्यतया कथं प्रत्यक्षत्वमिति वाच्यम् । साक्षिमात्रवेद्यत्वेन सर्वप्रमाण-वेद्यत्वाभावात् । कालसामान्यस्य तथात्वेऽपि कालविशेषाणामतीन्द्रियत्वावश्यंभावात् । अन्यथा कदेति प्रश्नायोगात् । प्रश्नादौ विवादोऽपि न स्यात् । यदा च कालविशेषाणां स्थलोपाधीनां अतीन्द्रियत्वं तदा सुतरां सूक्ष्माणां क्षणलवादीनां क्षणादीनादायैवा-प्रकाशित्वादिकं वक्तव्यम् । स्थूलोपाधेश्चैकत्वेनोक्तदोषानिस्तारात् । रूपादिचाक्षुषादि-ज्ञानविषयत्वासम्भवाच्च । महत्वसमानाधिकरणोद्भूतरूपवद्द्रव्यस्य चाक्षुषत्वनियमाच्च । अव्यवधानेन नियतोपनायकाभावाच्च ।। त्वन्मत इति ।। प्रकाशाप्रसक्तौ सत्यां तत्प्रतिबन्धकत्वेनावरणस्य कल्पनादिति हि त्वन्मतम् । तथा च कथं जडेऽज्ञानम् ? तत्र प्रकाशप्रसक्तेरभावादिति भावः ।। एकेति ।। प्रातिस्विकज्ञानेनाज्ञाननिवृत्तेरभावात् । तन्निवृत्तौ च सद्यो मोक्षः स्यात् । अज्ञाननिवृत्तेरेव मोक्षत्वात् । नन्वनेकाज्ञानपक्ष एवेदं साध्यमतो नोक्तदोष इत्यत आह ।। अवच्छिन्नस्येति ।। विशिष्टस्य त्वन्मते जडत्वादिति भावः ।। रूपादीति ।। इदं तु प्रागेवोपपादितम् ।। अयमिति ।। तथा च शाब्दवृत्तौ यथा नावच्छिन्नविषयत्वं केवलघटमात्रविषयत्वं तथा परोक्षवृत्तावपीति भावः । व्यभिचार इत्युपलक्षणम् । अप्रयोजकत्वं चेत्यपि द्रष्टव्यम् ।

एवं पक्षं दूषयित्वा साध्यमपि दूषयति ।। साध्येऽपीति ।। प्रागभावव्यतिरिक्तेति विशेषणं व्यर्थमित्यर्थः ।। यत इति ।। न च प्रमात्वेन अन्येषां ज्ञाननिवर्त्यत्वं नेति नियमस्यार्थ इति वाच्यम् । अज्ञानेऽपि तेन रूपेण निवर्त्यत्वाभावेनान्येषामिति व्यर्थं स्यात् । न हि प्रमात्वेन ज्ञानमज्ञाननिवर्तकम् । परोक्षप्रमायाः अज्ञाननिवर्तकत्वा-भावात् । न चापरोक्षप्रमात्वेन अज्ञानं ज्ञाननिवर्त्यमेवेति वाच्यम् । चरमसाक्षा-त्कारोत्तरानुवृत्ताज्ञाने तदभावात् । तदा ज्ञाननिवृत्तौ जीवन्मुक्तस्य शरीराद्युपलब्धिर्न स्यात् । किञ्च प्रमात्वेन निवर्तकत्वे घटप्रमया पटाज्ञाननिवृत्तिः स्यात् । न च तत्प्रमात्वेन तदज्ञाननिवृत्तिरिति वाच्यम् । एवं हि तत्प्रमात्वेन तत्प्रागभावनिवृत्तिरिति कथमन्येषां प्रमात्वेन ज्ञाननिवर्त्त्यत्वं नेति नियमार्थ इति । न च प्रागभावे निवर्त्ये प्रमात्वं निवर्तकतावच्छेदकं न प्रवेश्यं, गौरवात् । किन्तु तद्व्यक्तित्वमेवेति वाच्यम् । अज्ञानेऽपि तुल्यत्वात् । तस्मादन्येषां ज्ञानसामान्यनिवर्त्त्यत्वाभाव एव नियमार्थ इति स्वनिवर्त्त्यपदेनैव प्रागभावव्यावृत्तिसिद्धेराद्यं विशेषणं व्यर्थमेव । किञ्च द्वितीयविशेषणेन प्रागभावव्यावृत्तिसिद्धेराद्यं व्यर्थम् । न चावरणत्वमस्ति प्रकाश इति व्यवहारविरोधि-त्वम् । तच्च ज्ञानप्रागभावस्यापीति न तेन तद्व्यावृत्तिरिति वाच्यम् । प्रमाणविषयस्य चितोऽज्ञानादिसाक्षितया प्रकाशमानत्वेन साक्षिज्ञानप्रकाशोऽस्ति साक्षी प्रकाशत इत्यादि-व्यवहारे वृत्तिप्रागभावस्य विरोधित्वाभावेनावरणत्वाभावेन तेनैव व्यावृत्तिसिद्धेः । न च घटोऽस्ति घटः प्रकाशत इत्यादिव्यवहारविरोधित्वं प्रागभावस्यास्ति इति वाच्यम् । एवं हि प्रागभावो घटावरणं स्यात् नाज्ञानविषयावरणम् । जडस्याज्ञानविषयत्वानङ्गीकारात् ।

किञ्चाज्ञानेऽपि नैतादृशमावरणत्वम् । परोक्षवृत्तौ सत्त्यामज्ञाने विद्यमानेऽपि अस्ति प्रकाशत इति व्यवहारस्यापि जायमानत्वेन तद्विरोधित्वाभावात् । न चेदमावरणत्वं प्रमातृनिष्ठाज्ञानस्यैव । न विषयनिष्ठाज्ञानस्य । तच्च निवृत्तमेवेति वाच्यम् । आवरणत्व-शून्यत्वस्याज्ञानस्यापारिभाषिकत्वात् । द्वैविध्यकल्पनस्य बहुशो दूषितत्वाच्चेति दिक् ।

।। अभावेति ।। न चाखण्डाभावसम्पादकतया सार्थकत्वमिति वाच्यम् । यत् हि अविशिष्टाभावघटिते साध्ये हेतोरप्रयोजकत्वं तत्र विशिष्टाभावसम्पादकतया सार्थकत्वम् । अन्यत्र तु व्यर्थत्वमेव । न च प्रकृते तथा । तथा च कथमखण्डाभावसम्पादकतया सार्थकत्वमिति भावः ।। जड इति ।। न च प्रकाशमानत्वेऽप्यस्ति प्रकाशत इति व्यवहारविरोधित्वेनाज्ञानस्यावश्यकत्वमिति वाच्यम् । तादृशव्यवहारे प्रकाशमानत्वस्यैव प्रयोजकतया तत्सत्त्वे व्यवहारावश्यकत्वेनाज्ञानासम्भवात् । चैतन्यमस्ति चैतन्यं प्रकाशत इति व्यवहारस्य सकलसिद्धत्वाच्च ।। स्वेति ।। तथा च स्वविषयेति व्यर्थमिति भावः । न च यस्यादृष्टस्य घटज्ञानोत्पादकता पटज्ञानप्रतिबन्धकता च तादृशं स्वोत्पादकादृष्टं विवक्षितम् । तथा च कथमावरणपदेन व्यावृत्तिरिति वाच्यम् । तादृशादृष्टस्य असद्भावे मानाभावात् । सद्भावे वा स्वविषयेत्यनेन तस्यावरणात् । प्रमाणवृत्तिसामान्यस्य पक्षतया स्वपदेन तस्यैव परामर्शेन प्रमाणवृत्तिविषयावरणत्वात् । प्रमाणवृत्तित्वावच्छिन्नविषयत्वावच्छिन्न आवरणत्वस्याज्ञानेऽप्यभावात् । न हि घटाज्ञानं पटावरकम् । न चाज्ञानजातीयं तथेति वाच्यम् । तर्हि यज्जातीयत्वावच्छिन्न-मावरणमिति विवक्षयैव तादृशादृष्टावरणे शेषवैयर्थ्यमेव ।

किञ्च प्रतिबन्धकादृष्टस्यापि क्वचिज्जनकत्वसम्भवेन तस्यापि प्रमाणवृत्तिविषयत्वा-वच्छिन्नावरणत्वाभावेनानेनैव तद्व्यावृत्तिसम्भवेऽग्रिमविशेषणवैयर्थ्यमेवेति दिक् । ज्ञान-मिति यथा नियमस्य नान्योऽर्थस्तथोक्तम् ।। वृत्तिरिति ।। न च वृत्तेरप्रकाशत्वेऽपि अज्ञाननिवर्तकत्वमस्तु । अतिप्रसङ्गस्य तत्सन्निकर्षजन्यत्वेन निरासादिति वाच्यम् । तथात्वे हेतोरसिद्धिः । अप्रकाशत्वात् । वृत्त्युपरक्तचैतन्यस्याप्यज्ञानानिवर्तकत्वाच्च ।

ननु वृत्त्या तत्प्रतिबिम्बितचैतन्याभिव्यक्तं घटाधिष्ठानचैतन्यं भवत्वज्ञाननिवर्तकम् । न चाज्ञानसाधकस्य कथं तन्निवर्तकत्वमिति वाच्यम् । केवलस्य साधकत्वेऽप्यभिव्यक्तस्य निवर्तकत्वसम्भवादिति चेन्न । अभिव्यक्तत्वस्य निवृत्ताज्ञानत्वरूपत्वेनाभिव्यक्तत्वेऽज्ञान-निवृत्तिः अज्ञाननिवृत्तौ चाभिव्यक्ताधिष्ठानचैतन्यमित्यन्योन्याश्रयात् ।

ननु वृत्तिस्तत्प्रतिबिम्बितं चैतन्यमेव प्रकाशकमिति मते नेदमनुमानमित्यत आह ।। घटाकारेति ।। तस्यातन्त्रत्वे मिथ्यात्वानुमानमप्रयोजकमेवेति भावः ।। चरमेति ।। न च चरमवृत्तिप्रतिबन्धकादृष्टं स्वरूपेण न चरमसाक्षात्कारेण नश्यति । ततः स्वनिवर्त्त्यपदेन तद्व्यावृत्तिसिद्धिः । कारणात्मना तु नश्यतीति मिथ्यात्वसिद्धिरिति वाच्यम् । एतादृशकल्पनायां प्रमाणाभावात् । चरमवृत्त्यनन्तरमपि तत्प्रतिबन्धका-दृष्टसद्भावे प्रमाणाभावाच्च । उपादानोपादेययोरभेदेन कारणात्मना निवृत्तौ स्वरूपेणापि निवृत्तेरावश्यकत्वाच्च ।। वृत्तेरिति ।। न चान्तःकरणस्य चिदध्यस्तत्वात् तत्परिणाम-वृत्त्यादेस्तदाश्रितत्वमिति वाच्यम् । तन्तुपरिणामादेः कार्पासनिष्ठत्वानुभवात् । किञ्च ज्ञानस्य शुद्धचैतन्येऽध्यासः अन्तःकरणस्य चाज्ञानावच्छिन्न इति कथमेकदेशत्वम् । अवच्छिन्नानवच्छिन्नयोर्भेदात् । जीवनिष्ठसंसारादेः शुद्धनिष्ठत्वापातात् । तथा च शुद्धाशुद्धविभागो न स्यादिति भावः ।। त्वन्मत इति ।।

न विषयनिष्ठमिति वाच्यम् । तत्सद्भावे प्रमाणाभावात् । उक्तप्रमाणैश्चावरणरूपस्यैव तस्य सिद्धेश्च ।। अज्ञातत्त्वस्य चेति ।। न च ज्ञातो घट इत्यादिप्रतीत्यन्यथानुपपत्त्या ज्ञाततावत् अज्ञातो घट इति प्रतीत्यनुपपत्त्याऽज्ञाततापि विषयनिष्ठा स्वीक्रियत इति वाच्यम् । तस्यावरणत्वाभावेन तेनैव परिहारात् । आवरणत्वे वा तेनैवोपपत्त्याऽ-ज्ञानासिद्धिप्रसङ्गाच्च । ज्ञातमित्यादेर्ज्ञानविषयत्वेनैवोपपत्त्या दृष्टान्तासम्प्रतिपत्तेश्च ।

नन्वभावो नावरक इति मतेन साध्यद्वये तात्पर्यम् । तथा हि । स्वप्रागभाव-व्यतिरिक्तस्वनिवर्त्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकं साध्यम् । स्वविषयावरणस्वनिवर्त्त्य-स्वदेशगतवस्त्वन्तरपूर्वकमित्यपरम् । तथा च न वैयर्थ्यमित्यत आह ।। किञ्चेति ।। तथा च प्रथमसाध्ये उत्पादकादृष्टेनार्थान्तरम् । द्वितीयतृतीये विशेषणवैयर्थ्यं चेति भावः । न च स्वविषयावरणपूर्वकमित्येव साध्यं क्रियते । तावताप्यज्ञानसिद्धेरप्रत्यूहत्वादिति वाच्यम् । ज्ञानाभावेनैवाप्रकाशिप्रकाशत्वस्य धर्म्यंशे प्रत्यक्षादेवोपपत्त्याऽप्रयोजकत्वे तात्पर्यात् । तावतापि ज्ञाननिवर्त्त्याज्ञानासिद्धेश्च ।

ननु तथात्वे प्रमाप्रागभावप्रतिबन्धकादृष्टाभ्यामर्थान्तरं स्यादित्यत आह ।। न हीति ।। अन्यथेति ।। अविशेषितसाध्यं प्रत्यप्रयोजकत्वाभावेऽपि यदुद्देश्यत्वं तदा वह्नित्वेन विप्रतिपत्तौ प्रमेयवह्नित्वस्यापि साधनापत्तिरित्यर्थः ।। हेतोवपीति ।। न च व्यर्थ-विशेषणे हेतौ व्याप्तिरेव नेति वाच्यम् । अविनाभावरूपायाः व्याप्तेस्तत्राप्यप्रत्यूहत्वात् । एवं साध्यं दूषयित्वा हेतुं दूषयति ।। हेतौ चेति ।। शब्दसामान्येति ।। न च गो-शब्दवाच्यत्वेन पृथिव्याः शृृङ्गित्वसाधनं न सम्भवति, अनुकूलतर्काभावात् । प्रकृते च न जानामीति प्रतीत्यनुपपत्तिलक्षणप्रतिकूलतर्कपराहतिरेव बाधिकेति वाच्यम् । तस्याः ज्ञानाभावविषयत्वेनैवोपपत्तेः । अनुपपत्तेः परिहृतत्वात् । पुरुषे व्यभिचारश्च । न च प्रकाशशब्देन सर्वदेशकालयोर्व्यवह्रियमाणत्वं विवक्षितमिति वाच्यम् । निर्जनदेशे वृक-जीवाज्ञानपक्षे मुक्तिकाले प्रलयकाले च तादृशव्यवहाराभावेन चासिद्धेः । न चास्तु प्रकाशशब्दवाच्यत्वमेव हेतुः । पुरुषे चाप्रकाशितार्थगोचरेति विशेषणात् व्यभिचारव्युदास इति वाच्यम् । प्रकाशितार्थगोचरत्वाभावस्य तत्रापि सत्त्वात् । न चाप्रकाशितत्त्व-मर्थविशेषणम् । अर्थश्च गोचरत्वविशेषणमिति वाच्यम् । अर्थेऽप्यप्रकाशितत्वं नाम प्रकाशशब्दवाच्यगोचरत्वाभावः । तत्र किं यत्किञ्चित् प्रकाशशब्दवाच्यगोचरत्वाभावो वा प्रकाशशब्दवाच्यत्वावच्छिन्नगोचरत्वाभावो वा । नाद्यः । प्रकाशितप्रकाशे व्यभिचारात् । न द्वितीयः । प्रकाशशब्दवाच्यपुरुषगोचरत्वाप्रसिद्ध्या तदवच्छिन्नगोचरत्वरूपप्रतियोग्य-प्रसिद्ध्या तदभावस्यासिद्धेः । अप्रकाशितत्वाभावश्च पक्षे मूले एव स्पष्टं प्रतिपादयिष्यते ।

एतेनाप्रकाशविरोधिप्रकाशत्वादिति विवक्षितमिति परास्तम् । प्रकाशशब्दवाच्या-भावविरोधित्वे सति प्रकाशशब्दवाच्यत्वादि । अन्यस्य दृष्टान्तदार्ष्टान्तिकोभयसाधारणत्वा-भावात् । तथा च प्रकाशशब्दवाच्ये पुरुषे व्यभिचारः स्पष्ट एवेत्यलं मृतमारणेन । उक्तमर्थं कारिकारूढं करोति ।। एवं चेति ।। एवं विशेष्यासिद्धिमुक्त्वा विशेषणा-सिद्धिमाह ।। किं चेति ।। ब्रह्मान्यप्रकाशकत्वे तस्य तस्य बाधितत्वेनाबाधितार्थकत्व-रूपप्रमाण्यविघात इत्यर्थः । न च प्रकाशितत्त्वं न प्रकाशत इति व्यवहारगोचरत्वम् । तत् चितोऽप्यस्तीति वाच्यम् । प्रकाशमाने न प्रकाशत इति व्यवहारासम्भवात् । अन्यथा घटे प्रकाशमानेऽपि तथात्वापातात् । एवं सम्पूर्णासिद्धिमुक्त्वा व्यभिचारमप्याह ।। किं चेति ।। व्यभिचारो वा बाधो वेति ।। अनुमितेरपक्षत्वे व्यभिचारः । पक्षत्वे बाध इति व्यवस्थितविकल्पार्थो वाशब्दः । हेतुसत्त्वमुक्त्वा साध्याभावमाह ।। अस्या इति ।।

नन्वज्ञानस्य स्वरूपतः साक्षिवेद्यत्वेऽपि तद्गतमनादित्वादिकं न साक्षिवेद्यम् । अन्यथा तत्र विवादो न स्यात् । अतस्तद्विषयाज्ञानमस्त्येवेति वाच्यम् । अनुमिते-र्व्यापकतावच्छेदकप्रकारकत्वनैयत्येनानुमितावपि तस्याविषयत्वेन तया तज्ज्ञाननिवृत्तिर्न स्यात् । अनादिभावत्वादेरपि जडत्वेन अज्ञानविषयत्वायोगाच्च । त्वन्मते प्राति-भासिकाज्ञाननिष्ठस्य प्रातिभासिकत्वनियमेनानादित्वादेरपि प्रातिभासिकतयाऽज्ञान-विषयत्वायोगाच्च । धर्मधर्मिणोरभेदेनानादित्वादेरपि साक्षिविषयत्वापरिहाराच्च । तस्मा-दज्ञानानुमितौ व्यभिचारः सुस्थः । उपलक्षणं चैतत् । विपर्यये व्यभिचारश्च । न चाप्रकाशितत्वस्याज्ञानविषयत्वरूपस्य प्राक्कालसत्त्वघटिततया विपर्ययविषयेऽभावात् विपर्ययेन हेतुवृत्तिरिति वाच्यम् । प्रकाशशब्दवाच्यगोचरत्वाभावरूपस्याप्रकाशितत्त्वस्य विपर्ययविषयेऽपि सत्त्वात् । अन्यस्य पक्षेऽसिद्धत्वेनासिद्ध्यापत्तेरिति ।। दृष्टान्तेऽपीति ।। न चान्धकारोत्पन्नपटे चान्धकाराव्यवहितोत्पन्नत्वं विवक्षितम् । तच्च द्वितीयप्रभायामिति प्रथमविशेषणं सार्थकमिति वाच्यम् । लाघवादन्धकारसमानकालीनत्वविवक्षया द्वितीयादिवारणेन प्रथमविशेषणानर्थक्यतादवस्थ्यात् । अपदार्थत्वस्योभयत्र तुल्यत्वात् । विशेषणान्तरविवक्षया विशेषणसार्थक्योपपादनस्यानुचितत्वाच्च ।। दृष्टिसृष्टीति ।। न च दृष्टिसृष्टिपक्षे नेदमज्ञानसाधकमिति वाच्यम् । तर्हि तत्पक्षेऽज्ञानासिद्ध्यापातात् । प्रमाणान्तराभावात् । प्रत्यक्षस्य निरासात् । आगमादेश्च निरसिष्यमाणत्वात् । इदानीं सत्प्रतिपक्षमाह ।। अनादित्वे सतीति ।। न च पक्षभेदे कथं सत्प्रतिपक्षत्वम् । अन्यथाऽतिप्रसङ्गादिति वाच्यम् । विरोधित्वमात्रस्यैव सत्प्रतिपक्षत्वे तन्त्रत्वेन पक्षैक्यस्यातथात्वात् । अत एव केवलान्वयिनि सत्प्रतिपक्षावतारः । अन्यथा तत्र सत्प्रतिपक्षाभावेऽसत्प्रतिपक्षोपदर्शकावयवोऽपि तत्र न स्यात् । न चोक्तानुमानानाम् अप्रयोजकत्वेन दुर्बलत्वम् । सिद्धान्त्यनुमानं तु न तथेति वाच्यम् । तत्राप्य-प्रयोजकत्वस्य वक्ष्यमाणत्वात् । निरुपाधिकसहचारस्यैव विपक्षबाधकत्वसम्भवाच्च । न चाद्यानुमानमविरोधित्वेनानादिभावत्वस्य निवर्त्त्यनिष्ठत्वेऽप्यनाद्यभावविलक्षणत्वस्य निवर्त्त्यनिष्ठत्वे बाधकाभावादिति वाच्यम् । अभावविलक्षणत्वस्य भावत्वनियतत्वेन वा तस्य च भावत्वरूपत्वेन वा तस्य निवर्त्त्यानिष्ठत्वेनैव तस्यापि निवर्त्त्यनिष्ठत्वाभाव-सिद्धेः । न च द्वितीयानुमानेऽनादिमात्रवृत्तित्वमुपाधिरिति वाच्यम् । ध्वंसत्वे साध्याव्यापनात् । पक्षमात्रव्यावर्तकविशेषणत्वं न, पक्षेतरत्वाच्च । सिद्धान्त्यभिप्रेतानु-मानस्यापि भूतरूपवत्तेजस्त्वेनोपाधिना सोपाधिकत्वाच्च । न च तृतीयचतुर्थयोः सकलनिवर्त्त्यावृत्तित्वमुपाधिः । प्रागभावजन्यप्रागभावान्यतरत्वे साध्याव्यापकत्वात् । न च पञ्चमे सकलानाद्यवृत्तित्वमुपाधिरिति वाच्यम् । तमोऽन्यत्वे साध्याव्यापकत्वात् । न च तस्य प्रागभावनिष्ठत्वेन साध्याधिकरणत्वमेव नेति वाच्यम् । प्रागभाव-स्यावरणत्वाभावस्य प्रागेवोपपादितत्वात् । अन्यथा तेनैवार्थान्तरतापत्तेः । पक्षमात्र-व्यावर्तकविशेषणत्वेन पक्षेतरत्वाच्च । न च षष्टे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति वाच्यम् । शब्दाभासादिना तत्प्रसिद्धिसम्भवात् । अन्यथा सद्वैलक्षण्यज्ञानं तवापि न स्यात् । गौरवेण प्रतियोगिप्रमात्वेन कारणत्वाच्चेति दिक् ।

अप्रयोजकत्वमप्याह ।। पूर्वमिति ।। अन्यथा स्मृतत्वादेः पदार्थान्तरतापत्तिरिति भावः । बाधमप्याह ।। किं चेति ।। नन्वनधिष्ठानत्वेऽपि तज्ज्ञानत्वमस्त्वित्यत आह ।। त्वन्मते हीति ।। न त्वाध्यासिकसम्बन्धस्य अतन्त्रत्वप्रसङ्गादिति भावः । न च वृत्त्यभिव्यक्तस्याधिष्ठानत्वात् तत्प्रकाशत्वमिति वाच्यम् । अन्योन्याश्रयादिति ।

अत्र कश्चिद् विवादगोचरापन्नमित्यनेन जन्यसविकल्पकाजन्यचाक्षुषप्रमाणज्ञानम् अन्धकारनिवृत्त्यव्यवहितोत्तरकालीनचाक्षुषज्ञानं वा विवक्षितम् । अत्र च प्रमाणज्ञानस्य पक्षत्वात् । चाक्षुषेत्यनेन च परोक्षवृत्तेः सविकल्पकाजन्येत्युक्त्या धारावाहिकबुद्धि-व्यावृत्तिः । अस्मन्मते तु धारावाहिकबुद्धिरेव नास्ति । एकस्यैव ज्ञानस्य तावत्पर्यन्त-मवस्थानसम्भवात् । न तस्य पक्षातापत्त्या बाधः । पराभिमतेश्वराज्ञानादिव्यावृत्तये चाक्षुषप्रमाणज्ञानेति । परमते सर्वस्यापि जन्यज्ञानस्य ईश्वरसविकल्पकजन्यत्वात् । जन्यज्ञानजन्यत्वाच्च । पक्षाप्रसिद्धिवारणाय जन्यसविकल्पकाजन्येति उभयोपादानम् । यथेश्वरानुमाने जन्यविशेषणम् । एवमेव द्वितीयनिरुक्तावपि । एवं च पक्षदूषणानव-काशः । साध्ये च स्वशब्दः समभिव्याहृतपरः । अत्र च स्वप्रागभावपदेन स्वसमानाधि-करणप्रागभावः कथ्यते । स्वविषयावरण इत्यनेन स्वजननायोग्यत्वं स्वनिवर्त्त्येत्यनेन स्वजन्यध्वंसप्रतियोगित्वं स्वदेशगतेत्यनेन स्वाश्रये वर्तमानत्वम् । एवं च पक्षीभूत-ज्ञानस्य घटापटादिसंयोगजनकत्वसम्भवात् तत्प्रागभावः स्वनिवर्त्त्य इति । संयोगादि-प्रागभावात्मत्वस्वजनकादृष्टेच्छाप्रागभावपूर्वकत्वेनार्थान्तरतावारणायैतानि विशेषणानि । अज्ञाने चैवं भूतमिति न बाधः । स्वप्रागभावान्यत्वं चाभावान्यत्वादन्यदेवेति न तद्वैयर्थ्यम् । अथवा प्रमाणज्ञानस्य प्रागभाव एव स्वप्रागभावः । स्वविषये संशया-जननयोग्यमेव स्वविषयावरणम् । स्वसत्ताक्षणनियतप्रतियोगिस्वनिवर्त्त्यम् । ततश्च प्रागभावोऽपि परमते विशेषदर्शनतया संशयादिजनक इति । स्वप्रागभावस्वजनका-दृष्टान्धकारादिव्यावृत्तये स्वप्रागभावेत्यादि विशेषणम् । परमते मनःसंयोगपूर्वकत्वे-नार्थान्तरतानिवृत्तये स्वनिवर्त्त्येति । अथवा पराभिमतप्रागभावान्यत्वघटज्ञानसमान-विषयत्वज्ञाननिवर्त्त्यत्वज्ञानसमानाश्रयत्वविशिष्टाज्ञानसिद्ध्यर्थानि विशेषणानीति न कस्यापि वैयर्थ्यम् । एकेनापि तेन विनोद्देशासिद्धेः । न चाज्ञानस्य कथं प्रमाणज्ञान-समानाश्रयत्वमिति वाच्यम् । अज्ञानाश्रयघटत्वावच्छिन्नचैतन्ये वाऽन्तःकरणावच्छिन्नत्व-मिति तन्निष्ठज्ञानस्यैवाज्ञानसमानाश्रयत्वमिति । न च नीरूपस्य ब्रह्मणः कथं चाक्षुषज्ञानविषयत्वम् ? महत्त्वसमानाधिकरणोद्भूतरूपवत एव चाक्षुषत्वादिति वाच्यम् । परमते घटः सन्निति चाक्षुषज्ञाने सत्ताया इव तदुपपत्तेः । सत्तास्थानीयत्वात् ब्रह्मणः । न च सत्तायाः जातित्वात् आत्मनस्तु द्रव्यत्वात् कथं सत्तातुल्यत्वमिति वाच्यम् । ज्ञानानन्दादिरूपत्वेन पराभिपे्रतात्मवैलक्षण्याङ्गीकारात् । तथा च सत्तातुल्यतैवेति । एवं च साध्यविशेषणानां सार्थकत्वेन साध्ये न वैयर्थ्यम् । हेतुरप्यप्रकाशितार्थप्रकाशकत्वम् । न चोक्तदोषः । एतद्विषयावरणसमयवृत्तित्वे सति एतदावरणनिवर्तकत्वम् । न च वर्णिताज्ञानातिरिक्तप्रमाणज्ञाननिवर्त्त्यविषयावरणमस्ति । येन साध्यं विना हेतोरनु-पपत्तेर्नाप्रयोजकतापि । स्वप्रागभावस्य स्वानिवर्त्त्यत्वात् न तेनोपपत्तिः । वस्तु-तस्तदभाव एव । न चोक्तहेतोरसिद्धिः । ज्ञानेनाज्ञानं निवृत्तमित्यनुभवेन ज्ञानेन तु तदज्ञानमिति स्मृत्या च सिद्धेः । एवं च न कोऽपि दोष इत्याह ।

तन्न । धर्म्यंशे सति कल्पके तथाऽपि बाधात् । न हि तदंशेऽप्यज्ञानं तवापि सम्मतम् । अन्यथा तदंशे भ्रमाभावेन तज्ज्ञाने भ्रमोपादानत्वलक्षणस्याव्याप्तिप्रसङ्गात् । किं च धारावाहिकद्वितीयादिबुद्धौ बाधोऽसिद्धिश्च । न च धारावाहिकबुद्धेर्जन्य-सविकल्पकजन्यत्वात् जन्यसविकल्पकाजन्येत्यनेन तद्व्यावृत्तिरिति वाच्यम् । मया विशिष्टज्ञाने विशेषणज्ञानस्य हेतुत्वानङ्गीकारात् । त्वयाऽप्यनङ्गीकाराच्च ।

किं च निर्विकल्पकानङ्गीकारेण जन्यज्ञानाजन्यत्वेनैव पूर्णत्वे सविकल्पकेत्यस्य वैयर्थ्याच्च । किञ्च चाक्षुषघटज्ञानविषये घटे आवरणरूपाज्ञानाभावेन बाधः । जडे प्रकाशप्रसक्त्यभावेन तत्प्रतिबन्धकत्वेनाज्ञानाङ्गीकारात् । न च चाक्षुषघटज्ञानपदेन घटा-वच्छिन्नचैतन्याज्ञानं विवक्षितमिति वाच्यम् । आश्रयासिद्धेः । अवच्छिन्नस्यापि घटतुल्यत्वेन तत्राप्यज्ञानासम्भवात् । तस्मान्न धर्मिसिद्धिः । साध्येऽप्याद्यविवक्षायां भ्रान्तिसंशयपूर्वकत्वेनार्थान्तरम् । अस्ति च भ्रान्तिसंशययोरुक्तविशेषणवत्ता । तयोः स्वप्रागभावव्यतिरिक्तत्वात् । व्यभिचारेण प्रमाणज्ञानजननायोग्यत्वात् । स्वनिवर्त्त्यत्वात् स्वदेशगत्वाच्च । न च तत्र न स्वनिवर्त्त्यत्वमिति वाच्यम् । अज्ञानेऽपि तदभाव-प्रसङ्गात् । ज्ञानेनाज्ञानं निवृत्तमित्यनुभवात् तत्र तदङ्गीकारे सम्यग्ज्ञानेन संशयो वा भ्रान्तिर्वा निवृत्तेत्यनुभवेन तत्रापि तदङ्गीकारणीयम् । न च तयोः स्वत एव निवृत्तिरिति वाच्यम् । सकलनिवृत्तकतत्त्वज्ञानसाध्यत्वात् । किं च प्रथमविवक्षया बाधः । अज्ञानस्य वासनोपादानत्वेन स्वजननयोग्यत्वाच्च । द्वितीयविवक्षायामपि ताभ्यामेवार्थान्तरम् । न च द्वितीयपक्षे कथं संशयादिनाऽर्थान्तरम् ? तस्य स्वविषये संशयजननयोग्यत्व-रूपावरणत्वाभावादिति वाच्यम् । संशयादेस्तत्त्वेन संशयादिकं प्रत्ययोग्यत्वेऽपि धारावाहिकसंशयादिकमादाय पूर्वस्य संशयादेरुत्तरत्र संशयादिकं प्रति धर्मिज्ञानत्वेन विशेषणज्ञानत्वेन तज्जननयोग्यत्वात् ।

किं च द्वितीयपक्षे स्वप्रागभावस्य न संशयादिजननयोग्यत्वम् । प्रमाणज्ञान-प्रागभावस्य संशयाद्यहेतुत्वात् । अन्यप्रागभावस्यान्यत्राहेतुत्वात् । तथा च तेनैव स्वप्रागभावनिवारणे प्रथमविशेषणे वैयर्थ्यमेव । न च विशेषादर्शनतया संशयादि-जननयोग्यतेति वाच्यम् । विशेषादर्शनस्य हेतुत्वे विशेषदर्शनकालेऽपि संशयापत्त्या तत्सामग््रयभावस्यैव हेतुत्वात् । विशेषदर्शनानन्तरं च न संशयः । कोटिस्मरणाभावात् । किं च प्रथमविवक्षायामपीच्छाभावस्य स्वसमानाधिकरणत्वात् । स्वदेशगतेत्यनेन तद्व्यावृत्तेस्तेनैवार्थान्तरम् । तद्विशेषणवैयर्थ्यं च । न च द्वितीयविवक्षायामपि न स्वदेशगतेत्यनेन तमोवारणम् । प्रमाणजनितघटाकारवृत्तेर्घटनिष्ठत्वेन तमसोऽपि तद्देशगतत्वात् । अज्ञानस्य चैतन्यमात्राश्रयतया वृत्तेस्त्वन्तःकरणावच्छिन्नाश्रयतयाऽ वच्छिन्नशुद्धयोर्भेदेन समानाश्रयत्वस्याज्ञानेऽसम्भव एव । अन्यथा विशिष्टनिष्ठसंसारादेरपि शुद्धनिष्ठत्वापत्तेः । ब्रह्मणश्च गुणवत्वादिना द्रव्यत्वमन्यत्रोपपादितमिति न सत्तातुल्यता । तस्य चाक्षुषादिविषयत्वे च औपनिषदत्वभङ्गश्च । अवच्छिन्नस्य कल्पितत्वादेव नाधिष्ठानत्वमित्यादि ज्ञातव्यम् । प्रथमविवक्षायामप्यन्त्यविशेषणं व्यर्थमेव । अन्वय-व्यतिरेकयोरभावेनान्यतरकर्मादिनैव संयोगस्योपपत्त्या प्रमाणज्ञानस्य संयोगाजनकत्वेन संयोगप्रागभावस्य स्वनिवर्त्त्यत्वाभावात् ।

किं चोभयत्राभावव्यतिरिक्तेत्यनेनैवोपपत्त्या प्रागिति व्यर्थमेव । न चाखण्डा-भावत्वेनोपपत्तिः । यत्र च विशेष्याभावेन न कार्यनिर्वाहः तत्र विशिष्टाभावोपपादनात् । तत्र च वैयर्थ्ये तथा समाधानात् । अन्यथा धूमाभावे साध्ये प्रमेयवह्न्यभावोऽपि हेतुः स्यादिति । किं च पक्षद्वयेऽपि स्वविषयावरणेत्यनेनैव प्रसक्तप्रकाशप्रतिबन्धकत्व-रूपावरणत्वमादाय सर्वनिवारणेऽनुपयुक्तकुसृष्टियुक्तिविवक्षया विशेषणान्तरसार्थक्यकथना- योगात् । अन्यथा प्रमेयत्वे सति धूमवत्वादिति प्रयुक्ते वैयर्थ्येऽभिहिते आरोपितधूम-व्यभिचारवारणाय विशेषसार्धक्यमिति स्यात् । तस्मान्न विवक्षाद्वयं युक्तम् । नाप्युद्देश-सिद्ध्यर्थमिति तृतीयः प्रकारः । यत्राविशिष्टं साध्यं प्रत्यप्रयोजकता तत्रैवोद्देश्य-सिद्ध्यर्थत्वात् । न चेश्वरानुमानप्रतिबन्दी । तत्रादृष्टजनकज्ञानादिनाऽर्थान्तरत्वे प्राप्ते दुष्टप्रागभावेत्यादिविशेषणोपादानात् । न ह्यत्रार्थान्तरता । न वा तैर्विशेषणैस्तत्परिहारः । अन्यथाऽनुपयुक्तप्रमेयत्वादि विशेषणान्यादाय वैयर्थ्ये उद्देश्यसिद्ध्यर्थमिति स्यात् । यत्र च भेदसाधने ब्रह्म स्वसमसत्ताकभेदवदभ्रान्तत्वादित्यनुमानविशेषणोपादानं तत्रार्थान्तरता-निवृत्तिरूपप्रयोजनमप्यस्तीति दिक् ।

नाप्युक्तो हेतुर्युक्तः । असिद्धेर्निवर्त्त्यनिवर्तकयोरेकसमयावृत्तित्वे वा समानाधिकरणत्वे वा निवर्त्त्यनिवर्तकभावायोगात् । किं चोक्तावरणत्वस्य प्रागभावेऽपि सत्त्वेन तन्नवर्तकत्वेनैवोपपत्त्याऽप्रयोजकत्वाच्च । न च प्रागभाव एव नास्तीति वाच्यम् । तस्य पुरैव साधितत्वात् । परोक्षवृत्तौ व्यभिचारश्च । न च तत्र तन्निवर्तकतैव नेति वाच्यम् । परोक्षज्ञानेनाज्ञानं निवृत्तमित्यनुभवात् । न च तदपि पक्षतुल्यमिति वाच्यम् । परोक्षस्थलेऽज्ञाननिवृत्त्यनङ्गीकारात् । किं च पक्षे हेतुज्ञानाभावात् कथमनुमानम् ? न च ज्ञानेनाज्ञानं निवृत्तमित्यनुभवात् ज्ञानेन तु तदज्ञानमिति स्मृतेश्च तत्सिद्धिरिति वाच्यम् । तत्राज्ञानपदेन ज्ञानप्रागभावस्य भ्रान्त्यादेर्वोक्तेः । ज्ञानविरोधित्वरूपाज्ञानत्वस्य तत्रापि सद्भावात् । ज्ञानत्वाधिकरणतया प्रतीयमानस्य कथमज्ञानत्वमिति चेन्न । न हि ज्ञानसामान्यविरोधित्वम् अज्ञानत्वम् । तस्याज्ञानेऽपि भावात् । न हि भ्रान्त्या-ज्ञाननिवृत्तिर्भ्रान्तेरज्ञानोपादानकत्वे भ्रान्तौ विद्यमानायां तदावश्यकत्वात् । तस्मात् ज्ञानविशेषविरोधित्वेनाज्ञानत्वं वाच्यम् । तच्च भ्रान्तावपि तुल्यम् । न च भ्रान्तिः स्वयमेव निवर्तत इति वाच्यम् । दत्तोत्तरत्वात् । साध्यावैशिष्ट्याच्च । न च साध्य-मनेवंरूपमिति कथं तदवैशिष्ट्यमिति वाच्यम् । साध्यं यथा सन्दिग्धं तथा सन्दिग्ध-मित्यर्थात् । न चाज्ञानसिद्धिः । पूर्वमपि हेतोः सामान्यतो ज्ञानं सम्भवतीति वाच्यम् । अज्ञानसिद्धेः पूर्वं प्रागभावमादायैव हेतुज्ञानेनैवोपपत्त्याऽप्रयोजकत्वम् । आवरणनिवर्त-कत्वेनैवोपपत्त्या प्रथमविशेषणवैयर्थ्यं च । एतेनैव प्रकारेण अन्यकुविवक्षान्तरमपि दूषणीयमित्यलं मृतमारणेनेति ।

यत्तु सर्गाद्यकालीनं कार्यं जडोपादानं कार्यत्वात् सम्मतवत् इत्यणुव्यतिरिक्ता-नादिजडोपादानसिद्धावनादित्वे सति जडोपादानत्वं भावत्वं वा ज्ञाननिवर्त्त्यवृत्ति जड-वृत्तित्वात्  घटत्वादिवत् । न च भावत्वस्य जीवत्वादिवृत्तित्वेनार्थान्तरत्वम् । ज्ञानत्वादेरपि तस्य ज्ञाननिवर्त्त्यत्वादिति भावरूपाज्ञानसिद्धिरिति । तदतितुच्छम् । दृष्टान्ते साध्यवैकल्यात् । न ह्यज्ञानासिद्धौ घटादेरपि घटत्वासिद्धौ घटादेर्ज्ञाननिवर्त्त्यत्वं सिद्धम् । किं चानादिभावत्वस्यापि नाश्यतावच्छेदकत्वेन तस्य निवर्त्त्यत्वासमानाधि-करणतया निवर्त्त्यसमानाधिकरणत्वबाधः । अन्यथा ब्रह्मत्वं निवर्त्त्यवृत्ति पदार्थवृत्तित्वात् घटत्ववत् इत्यपि स्यात् । न च निवर्त्त्यवृत्तीत्येव साध्यम् । अज्ञानसिद्ध्याऽर्थान्तर-त्वात् । ध्वंसत्वे व्यभिचाराच्च । ध्वंसस्यापि निवृत्त्यङ्गीकारेऽज्ञाननिवृत्तेरपि निवृत्तौ मुक्तस्य संसारित्वापत्तेः । न च ध्वंसत्वं न जडवृत्तीति वाच्यम् । ध्वंसस्य चेतनत्वा-पत्तेः । न च ध्वंसो ब्रह्मरूप एवेति वाच्यम् । साध्यासाध्ययोरैक्यायोगात् ।

किं चानादित्वे सति जडोपादानत्वं भावत्वं वा न निवर्त्त्यवृत्त्यनादिभावमात्र-वृत्तित्वात् ब्रह्मत्ववदिति सत्प्रतिपक्षताया भाववृत्तित्वानवच्छिन्नसाध्यव्यापकं सादि-वृत्तित्वमुपाधिश्च । निवर्त्त्यवृत्तित्वाभावेऽपि जडवृत्तित्वोपपत्त्याऽप्रयोजकता चेति अलमतिविस्तरेण ।

एतेनैव ध्वंसातिरिक्तप्रत्यक्षधर्माजनकं घटादिजन्यज्ञानं वृत्तिजातिमदतिरिक्तप्रत्यक्ष-निवर्तकं स्वसामग्रीकाले स्वसमानाधिकरणज्ञानाविषयविषयजन्यज्ञानत्वात् ध्वंसजनक-प्रतियोगिप्रत्यक्षवत् ब्रह्मसाक्षात्कारः स्वविषयाज्ञाननिवर्तकः प्राथमिकसाक्षात्कारत्वात् घटादिसाक्षात्कारवदिति निरस्तम् । ज्ञानप्रागभावसंशयभ्रान्तिनिवर्तकत्वेनार्थान्तरत्वात् अप्रयोजकत्वाच्च । न चाज्ञानातिरिक्तस्य न ज्ञाननिवर्त्त्यत्वमिति वाच्यम् । अनुभवबलेन भ्रान्त्यादेरपि तन्निवर्त्त्यत्वात् । न चाज्ञानाभावे भ्रमाभाव इति वाच्यम् । दोषादिनैव तदुपपत्तेः । न च मोक्षशास्त्रानारम्भप्रसङ्गो बाधकः । भ्रान्त्यादिनिवर्तकत्वेन तदारम्भ-सम्भवात् इति दिक् ।

अथ तत्त्वप्रदीपिकोक्तमनुमानं दूषयति ।। द्वितीयानुमानेऽपीति ।। न च प्रमा-पदेनान्तःकरणवृत्तिरेव विवक्षितेति वाच्यम् । धर्म्यंशप्रमाधारावाहिकद्वितीयादिप्रमा-परोक्षप्रमासु बाधापरिहारात् । अन्यत्तु प्रथमानुमानदूषणानुसारेण ज्ञेयम् ।। वृत्तेरिति ।। न चात्मनो वृत्त्यवच्छेदे न वृत्तेस्तद्गतत्वमिति वाच्यम् । अत्र चैत्रशब्देन चैतन्य-मात्रग्रहणे विशेषणासामर्थ्यम् । शरीरविशिष्टस्य ग्रहणे च शरीरविशिष्टे प्रमाया अभाव एव । अन्तःकरणविशिष्टस्य ग्रहणे तु विशिष्टनिष्ठया वृत्त्या न विशेष्यमात्रनिष्ठनिवृत्तिः । अन्यनिष्ठेनान्याज्ञानानिवृत्तेः । विशिष्टविशेष्ययोर्भेदादित्यत्र तात्पर्यम् । चैत्रासमवेतत्वस्य चैत्रान्यसमवेतत्वस्य वोपाधित्वं च । न च चैत्रसुखादौ साध्याव्यापकत्वमिति वाच्यम् । ज्ञानत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वात् ।। चैत्रप्रमेति ।। न चात्र प्रतियोग्य-प्रसिद्ध्या कथमभावसाधनमिति वाच्यम् । शब्दाभासादिना प्रतियोगिज्ञानसम्भवात् । न ह्यावयोर्मते प्रतियोगिप्रमाऽपेक्षिता । अन्यथा सद्वैलक्षण्यज्ञानं न स्यात् ।। न चेति ।। चैत्रासमवेतत्त्वं ज्ञानत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वमुपाधिः । चैत्रप्रमा चैत्र-गतस्यानादेर्निवर्तिका न प्रमात्वात् मैत्रप्रमावत् इत्याभाससाम्यं च ।। उक्तेति ।। तथा चानुकूलतर्केण हेतुसाध्ययोर्व्याप्यव्यापकभावग्रहे साध्यव्याप्यहेत्वव्यापकत्वादुपाधेः साध्याव्यापकत्वम् अत एव नाभाससाम्यं चेत्यर्थः ।। चैत्रगतेति ।। न च चैत्र-गतप्रमाभावातिरिक्तस्य स्वजन्यव्यवहारप्रागभावस्य निवर्तकतया साधनव्यापकत्वान्नाय-मुपाधिरिति वाच्यम् । अभावाभावोऽतिरिक्त इति मते तदसम्भवात् । येन व्यवहारो नोत्पादितस्तत्र साधनाव्यापकत्वसम्भवात् । न हि सर्वमेव ज्ञानं व्यवहारजनकमिति नियमः । न च तत्रापि निवृत्तिजननयोग्यरूपं निवर्तकत्वमस्त्येवेति वाच्यम् । योग्यता-वच्छेदकानिरुक्त्या तदसम्भवात् । निवृत्तिफलोपहितत्वस्यैवोपाधित्वसम्भवाच्च ।

ननु व्यतिरेकहीनः कथमुपाधिरित्यत आह ।। व्यतिरेकेति ।। आभाससाम्यं चेति ।। न चानुकूलतर्कसद्भावान्नाभाससाम्यम् । अनुकूलतर्काभावस्य प्रागेव व्युत्पादि-तत्वात् ।। किं चैवमिति ।। विशिष्टव्यतिरेकिण इत्यस्य सुवचत्वादित्यनेनान्वयः ।। अत एवेति ।। सत्प्रतिपक्षाप्रयोजकत्वादित एवेत्यर्थः ।। विगीतो भ्रम इति ।। न च त्वन्मते बाध्यजनकत्वस्याप्रसिद्धेः साध्याप्रसिद्धिरिति वाच्यम् । पररीत्या प्रसिद्धि-सम्भवात् । प्रतियोगिज्ञानमात्रस्याभावप्रतीतिकारणत्वादित्युक्तमेव । न च मायाब्रह्मणो-रुभयोरुपादानत्वादविरोध इति वाच्यम् । एतज्जनकबाध्यातिरिक्तमात्रोपादानक इति साध्यकरणात् । ब्रह्मण उपादानत्वासम्भवस्य वक्ष्यमाणत्वाच्च ।। एतेनेति ।। उपलक्षण-मेतत् । सत्प्रतिपक्षतोपाध्यादिकमपि द्रष्टव्यम् । एतेनैव ज्ञानविरोधित्वम् अनादि-भावत्वसमानाधिकरणं ज्ञानविरोधिवृत्तित्वात् दृश्यत्ववत् । अनाद्यभावविलक्षणत्वं ज्ञान-विरोधिवृत्त्यनाद्यभावविलक्षणमात्रवृत्तित्वात् । अभिधेयत्ववदिति निरस्तम् । ज्ञान-विरोधित्वं नानादिभावत्वसमानाधिकरणं ज्ञानविरोधिन्येव वृत्तित्वात् । ज्ञानप्रागभावत्व-वदिति प्रथमानुमाने सत्प्रतिपक्षताऽबाध्यवृत्तित्वमुपाधिश्च । द्वितीयानुमाने चानाद्यभाव-विलक्षणत्वं न ज्ञानविरोधिवृत्त्यनाद्यभावविलक्षण एव वृत्तित्वात् ब्रह्मत्ववदिति सत्प्रति-पक्षता । आत्मगुणज्ञानाभावान्यतरवृत्तित्वस्योपाधित्वात् । अप्रयोजकत्वानिस्ताराच्च । एवमेवान्यदप्यनुमानं निरसनीयमिति दिक् ।।

न्यायामृतप्रकाशः

आद्यानुमाने साध्यहेतुपक्षदृष्टान्तान्विविच्य दूषयितुमादौ तावत्त्वन्मते पक्षालाभ इत्या-शयेन पक्षं विविच्य दूषयति ।। यच्चेति ।। सुखादीति ।। साक्षिरूपसुखादिप्रमाया अपि प्रमाणभूतज्ञानत्वेन पक्षकोटिनिविष्टत्वादिति भावः । तस्य स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वं नास्तीत्याह ।। तस्या इति ।। साक्षिणोऽज्ञानसाधकत्वेन तदनिवर्तकत्वादित्यर्थः । उक्तदूषणपरिहाराय पक्षं सङ्कोचयति ।। वृत्तेरिति ।। सूक्षिरूपप्रमाणज्ञानभिन्नाया इत्यर्थः ।। बाध इति ।। तस्याः स्वविषयेऽज्ञानानिवर्तकत्वात् परोक्षवृत्तौ स्वविषयावरणस्य स्व-निवर्त्यत्वाभावाद्बाध इति भावः । परोक्षवृत्तेरपि स्वविषयेऽज्ञाननिवर्त्तकत्वमङ्गीकृत्य बाध-परिहारे बाधकमाह ।। तस्या इति ।। तद्विषयस्य परोक्षवृत्तिविषयस्य ।। सम्भेदेनेति ।। सम्बन्धेनेत्यर्थः । परोक्षवृत्तेः स्वविषयेऽज्ञानानिवर्त्तकत्वे संमतिमाह ।। उक्तं चेति ।। विषयत्वं नानुमेयादौ सुषुप्तिः व्यावृत्तिः सा चाभावो न भवतीति विवरणवाक्यम् । तस्याय-मर्थः । सुषुप्तिरविद्या तथा च सुषुप्तिव्यावृत्तिरेवाज्ञाननिवृत्तिरेव लोके घटादेर्विषयत्वम् अभावोऽभावरूपा च सा सुषुप्तिव्यावृत्तिरनुमेयादौ परोक्षस्थले परोक्षवृत्त्या न भवतीति । उक्तदूषणपरिहाराय पुनः पक्षं सङ्कोचयति ।। अपरोक्षवृत्तेरिति ।।  व्यभिचार इति ।। अप्रकाशितार्थप्रकाशकत्वसत्वेऽपि उक्तरीत्या साध्याभावादित्यर्थः ।

ननु परोक्षवृत्तिभिन्नत्वे सतीति हेतुविशेषणान्न व्यभिचार इत्यत आह ।। तद्व्यावृत्त्यर्थ-मिति ।। अप्रयोजकत्वमिति ।। यथा हेतुः परोक्षवृत्तौ विद्यमानोऽपि साध्यं प्रत्य-प्रयोजकः एवं पक्षेऽप्यप्रयोजकोऽस्त्वित्यर्थः ।। सदर्थेति ।। सदर्थो विद्यमानार्थः धर्म्यंशः इदमंशरूप इति यावत् । ननु इदमंशवृत्तिनिवर्त्त्याज्ञानस्यापि सत्वान्न बाध इत्यत आह ।। तन्निवर्त्येति ।। नन्विदमंशाज्ञानस्यापि भ्रमोपादानत्वमेवेति नाव्याप्तिरित्यत आह ।। न हीति ।। सदर्थरूपाधिष्ठानाज्ञाने प्रत्युत तज्ज्ञानस्यैव भ्रमहेतुत्वादित्यर्थः । एतद्दूषण-परिहाराय पुनः पक्षं सङ्कोचयति ।। तदन्यस्येति ।। इदमंशापरोक्षवृत्तिभिन्नपरोक्षवृत्तिरूप-प्रमाणज्ञानस्येत्यर्थः । बाधमुपपादयति ।। स्वेति ।। तत्रादावज्ञानम् अनन्तरं तन्निवर्तिका प्रथमा प्रमा तन्निवर्तिका च द्वितीयादिप्रमा एवं च सति द्वितीयादिप्रमाया अपि पक्ष-निविष्टत्वात् द्वितीयप्रमानिवर्त्या या प्रथमप्रमा तया द्वितीयादिप्रमाया व्यवहितत्वेन प्रथम-प्रमानिवर्त्तन एव चरितार्थतया प्रथमप्रमानिवर्त्याज्ञानानिवर्त्तकत्वाद्बाध इत्यर्थः । तत्र दृष्टान्तः द्वितीयादीति । तमोनिवर्त्तिका प्रथमप्रमैव न द्वितीयादिप्रमा तद्वदित्यर्थः ।

ननु नासिद्धिः द्वितीयादिप्रमाणेऽपि अन्यान्यक्षणलवविशिष्टार्थप्रकाशकत्वेनाप्रकाशितार्थ-प्रकाशकत्वसद्भावादित्यत आह ।। सूक्ष्मेति ।। यथाऽऽहुः प्रत्यक्षेण सूक्ष्मकालभेदानामना-कलनादिति । एतद्दूषणपरिहारय पुनरपि पक्षं सङ्कोचयति ।। तदन्यस्येति ।। द्वितीयादि-प्रमाभिन्नापरोक्षप्रमारूपज्ञानस्येत्यर्थः ।। अनात्मेति ।। जडेत्यर्थः । बाधमुपपादयति ।। त्वन्मत इति ।। तथा च जडविषयापरोक्षवृत्तेरपि पक्षत्वेन तस्याः स्वनिवर्त्याज्ञान-पूर्वकत्वाभावाद्बाध इत्यर्थः । बाधपरिहारं शङ्कते ।। नन्विति ।। तथा च घटाद्य-वच्छिन्नचैतन्यावरकमित्यर्थः ।। न बाध इति ।। घटाद्यवच्छिन्नचैतन्ये त्वज्ञानमस्तीति स्वनिवर्त्याज्ञानपूर्वकत्वसद्भावान्न बाध इति भावः ।। तदभावादिति ।। घटोऽयमित्याद्य-परोक्षप्रमानिवर्त्यत्वमज्ञानस्य नास्ति तथात्वेऽज्ञानस्यैकत्वेन तन्निवृत्तौ सद्यो मोक्षापात इति भावः । अपसरणादिपक्षस्य दूषितत्वादिति भावः ।। अस्वप्रकाशत्वेनेति ।। शुद्ध-चैतन्यस्यैव प्रकाशत्वादिति भावः ।। अयोगाच्चेति ।। तत्प्रतिबन्धरूपावरणायोगाच्चेत्यर्थः । तथा च घटावच्छिन्नचैतन्येऽप्यज्ञानाभावादनात्मवृत्तौ बाधस्तदवस्थ इत्याशयः । घटोऽय-मित्याद्यपरोक्षवृत्तेस्तदवच्छिन्नचैतन्यविषयत्वम् अङ्गीकृत्याज्ञाननिवर्त्तकत्वं न सम्भवती-त्युक्तम्, अधुना घटोऽयमित्यादिवृत्तेश्चैतन्यविषयकत्वमेव नास्तीत्याह ।। रूपादीति ।। स्वतो रूपादिहीनस्य घटाद्यवच्छिन्नस्य चैतन्यस्य चाक्षुषत्वमस्तु । चन्द्रावच्छेदेन राहोरि-वेत्यत उक्तमाकाशादिवदिति । स्वतो रूपादिहीनस्याप्याकाशस्य घटाद्यवच्छेदेनापि चाक्षुष-ताया अदर्शनादित्यर्थः । राहोस्तु नीलरूपवत्त्वेन न स्वतो नीरूपत्वमिति भावः । यथा घटाद्यनात्मविषयशाब्दज्ञाने न चैतन्यं विषयः तथा तत्समानविषयेऽपरोक्षज्ञानेऽपीति आत्म-विषयापरोक्षवृत्तौ बाधस्तदवस्थ एवेत्याह ।। अयं घट इति ।। तथा चोभयवृत्त्योः साम्ये परोक्षवृत्तिवदपरोक्षवृत्तेरप्यज्ञानानिवर्त्तकत्वाद्बाध इति भावः । एतद्दूषणपरिहाराय पुनरपि पक्षं सङ्कोचयति ।। आत्मेति ।। सा चान्ततश्चरमवृत्तिरेवेति भावः ।। व्यभिचार इति ।। त्वन्मते जडावरकाज्ञानाभावेन साध्याभावादित्यर्थः ।। दृष्टान्तस्येति ।। अप्रकाशितार्थ-प्रकाशिकायां प्रदीपप्रभायाम् आत्मविषयकत्वाभावादित्यर्थः ।

एवं पक्षं दूषयित्वा साध्यं दूषयति ।। साध्येऽपीति ।। प्रागभावव्यावृत्त्यर्थं स्वप्राग-भावव्यतिरिक्तेति विशेषणमिति चेत्तत्राह ।। यत इति ।। प्रागभावस्याभिन्नत्वान्न ज्ञान-निवर्त्यत्वमिति भावः ।। अभावेति ।। प्रमाणज्ञानं स्वप्रागभावनिवृत्तिरेव न तु तन्निवर्त्तक-मिति न प्रमाणज्ञानप्रागभावस्तन्निवर्त्य इत्यर्थः । न चाभावाभावो भावव्याप्य इति मतानु-सारेण प्रतियोग्यतिरिक्तां प्रागभावनिवृत्तिमङ्गीकृत्यैतदुक्तमिति वाच्यम् । तन्मतस्या-प्रामाणिकत्वादित्याशयात् ।। शेषेति ।। प्रागित्यस्य वैयर्थ्यादित्यर्थः । न च प्रागभाव-स्यापि ध्वंसाद्यभावव्यतिरिक्तत्वेन पुनस्तमादायार्थान्तरतेति वाच्यम् । सामान्येन प्रयुक्तपदस्य विशेषार्थपर्यवसानेन दूषणेऽतिप्रसङ्ग इति भावः । न चाखण्डाभावे न वैयर्थ्यमिति वाच्यम् । तत्वनिर्णयकथायां लघुना निर्देशेन साध्यसिद्धौ सम्भवन्त्यामखण्डाभावान्तर्भावेन साध्यस्या-निर्देष्टव्यत्वादित्याशयात् ।। द्वितीयं चेति ।। स्वविषयावरणपदमित्यर्थः । अज्ञानस्य नावरणत्वम् । तथा हि । आवरणं ह्याव्रियमाणेन व्याप्तम् । तच्चाव्रियमाणं जडं चैतन्यगत-विशेषो वा शुद्धचैतन्यं वा । नाद्य इत्याह ।। जड इति ।। विषय इत्यर्थः । आवरण-रूपतत्कृत्याभावादिति भावः । न द्वितीय इत्याह ।। निर्विशेषेति ।। न तृतीय इत्याह ।। चितश्चेति ।। आवरणत्वेति ।। तथा च तद्विशेषणविशिष्टं साध्यं पक्षे बाधितमिति भावः । ननु स्वोत्पादकादृष्टव्यावृत्त्यर्थं तद्विशेषणमिति चेत्तत्राह ।। स्वेति ।। शेषेति ।। स्वविषयेति पदेत्यर्थः । स्वोत्पादकादृष्टव्यावृत्तेः स्वनिवर्त्यपदेनैव सिद्धेः स्वविषयावरणपदं व्यर्थमेवेत्याह ।। स्वोत्पादकेति ।। स्वोत्पादकादृष्टस्याज्ञानभिन्नत्वान्न ज्ञानेन साक्षा-त्तन्निवर्त्यमित्यर्थः । वृत्तिश्चिदुपरागार्थेति मते चितोऽज्ञाननिवर्त्तकत्वेन पक्षीभूताया वृत्तेरावणनिवर्तकत्वाभावाद्बाध इत्यर्थः ।

मतान्तरेऽपि बाधमुपपायति ।। घटाकारेति ।। घटाकारतया तत्प्रतिबिम्बितचैतन्येन वा घटप्रकाशकस्य घटाधिष्ठानचैतन्यस्यावरणाभिभवरूपाभिव्यक्तेर्जातत्वेन पक्षीभूतस्य घट-ज्ञानरूपस्य घटाधिष्ठानचैतन्यस्यावरणनिवर्त्तकत्वं नास्तीत्यर्थः । ननु वृत्तिप्रतिबिम्बितचैतन्यं वा घटप्रकाशकं ज्ञानं पक्षत्वेनाभिसंहितं तच्च घटादिष्ठानचैतन्यस्यावरणं निवर्त्तयतीति न बाध इत्यत आह ।। घटाकारेति ।। मतस्यायोगादित्यन्वयः । तत्र हेतुराध्यासिकेति । त्वन्मते ज्ञाने ज्ञेयस्याध्यस्तत्वेन वृत्तेस्तत्प्रतिबिम्बितचैतन्यस्य वा ज्ञानत्वे तत्र घटाध्यासो वाच्यः । स न युक्तः । त्वन्मते ज्ञानत्वेनाभिमतयोर्मिथ्यात्वेन घटाद्यधिकसत्ताकत्वाभावात् । अतस्तयोर्ज्ञानत्वाभावेन वृत्त्याद्यभिव्यक्तस्य घटाधिष्ठानचैतन्यस्यैव ज्ञानत्वे वाच्ये तस्य चावरणभूताज्ञानानिवर्त्तकत्वेन बाध एवेत्यर्थः । स्वप्रतिबन्धकादृष्टं व्यावर्त्तयितुं तद्विशेषण-मिति चेत्तत्राह ।। चरमेति ।। तदनिवर्त्यत्व इति ।। पक्षीभूतचरमसाक्षात्काररूपप्रमाण- ज्ञानानिवर्त्यत्वे ज्ञाननिवर्त्यत्वाभावेन मिथ्यात्वासिद्ध्या तन्निवर्त्यत्वे वाच्ये स्वनिवर्त्यपदेन तद्व्यावृत्त्यसिद्धेश्चेत्यर्थः । न च चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति तदनिवृत्तिरिति प्रथम-तन्निवृत्तिः कारणात्मनाऽवस्थितस्य प्रतिबन्धकादृष्टस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वमपीति वाच्यम् । तावता ज्ञानविर्त्यत्वापरिहारात् ।। चतुर्थं चेति ।। स्वदेशगतविशेषणमित्यर्थः । प्रमाणज्ञानाज्ञानयोः समानदेशत्वमेव नास्तीत्याह ।। अज्ञानस्येति ।। चिन्मात्रेति ।। मुखमात्रस्थानीयं यज्जीवब्रह्मानुस्यूतं चिन्मात्रं तदाश्रितत्वात् ‘‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवले’’ति वचनादित्यर्थः ।। वृत्तेरित्यादि ।। वृत्त्यादिरूपस्य ज्ञानस्या-ज्ञानाश्रयचिन्मात्रानाश्रितत्वादित्यर्थः । यत्राज्ञानं वर्तते न तत्र प्रमाणज्ञानमिति भावः । किञ्च यद्विषयनिवृत्यादतो न तयोः समानदेशत्वमित्याह ।। त्वन्मत इति ।।

ननु विषयगताज्ञातत्वं व्युदसितुमेतद्विशेषणं सार्थकमिति चेत्तत्राह ।। अज्ञातत्व-स्येति ।। विषयेऽज्ञातत्वं किं ज्ञानप्रागभावरूपत्वं ज्ञानात्यन्ताभावरूपत्वं वा । नाद्यः । आद्यविशेषणेनैव तद्व्यावृत्तिसिद्धेः प्रागभावस्य प्रतियोगिसमानदेशत्वेन स्वदेशगतपदेनापि व्यावृत्त्यसिद्धेश्च । नापि द्वितीयः । स्वप्रागभावव्यतिरिक्तेत्यत्र प्राक्पदवैयर्थ्यस्योक्तत्वादभाव-व्यतिरिक्तपदेनैव तद्व्यावृत्तिसिद्धेरित्यर्थः । आद्येत्येतदुपलक्षणपरं स्वनिवर्त्यपदेनात्यन्ताभाव-व्यावृत्तिर्द्रष्टव्येत्याहुः । अन्त्ये त्वाह ।। अविद्येति ।। अविद्यास्वरूपस्यैवासिद्धौ तद्विषयत्व- मादायार्थान्तरताप्रदानायोगेनैतदनुमानात्प्रागेवाविद्यायाः सिद्धत्वेनानुमानस्याधिगतार्थ-बोधकत्वेनाप्रामाण्यापत्त्या तत्र किमर्थान्तरतापरिहाराय विशेषणदानक्लेशेनेत्यर्थः ।। अन्यदिति ।। स्वप्रागभावव्यतिरिक्तेत्यादिविशेषणमित्यर्थः । ननु प्रागभावादित्यावृत्त्यर्थं तद्विशेषणमिति चेन्न । स्वविषयावरणपूर्वकमित्यनेन तद्व्यावृत्तिसिद्धेः । तत्कथमित्यत आह ।। न हीति ।। प्रमाप्रागभाव इति स्वप्रागभावव्यतिरिक्तपदव्यावर्त्य इत्यर्थः । प्रमेत्यादि-स्वनिवर्त्यपदव्यावर्त्य इत्यर्थः ।। अन्यत्किञ्चिदिति ।। स्वदेशगतपदव्यावर्त्यमित्यर्थः । अज्ञानस्यैवावरणत्वेनाज्ञातत्वस्यावरणत्वाभावादिति भावः ।

ननु प्रमाप्रागभावादीनामावरणत्वेन तदादायार्थान्तरतायाः स्वविषयावरणपूर्वकमित्यनेना-वारणात्तदर्थं तद्विशेषणजातं सार्थकमेवेत्यत आह ।। तथात्व इति ।। तेनैवेति ।। आवरणत्वेन त्वदभिमतप्रमाप्रागभावादिनेत्यर्थः ।। अप्रयोजकत्वेति ।। अप्रकाशितार्थ-प्रकाशकत्वस्य हेतोः प्रागभावादिव्यतिरिक्ताज्ञानाख्यावरणपूर्वकत्वरूपसाध्यं विनापि सत्व-मस्त्वित्यप्रयोजकता । न चैतादृशाज्ञानाख्यावरणपूर्वकत्वरूपसाध्याभावेऽपि हेतूच्छित्तिरेव बाधिकेति वाच्यम् । अज्ञानव्यतिरिक्तं त्वदभिमतं यत्प्रागभावादिरूपमावरणं तेनैव हेतो-रुपपत्तेस्तदुच्छित्त्यभावादित्यर्थः । स्वनिवर्त्यविशेषणस्य सार्थक्यमाशङ्क्य निराकरोति ।। न चेति ।। अन्धकारस्य प्रमाणविषयघटाद्यावणत्वेऽपि प्रमाणज्ञाननिवर्त्यत्वाभावात्तदा-दायार्थान्तरतेति भावः ।। तस्येति ।। अन्धकारस्येत्यर्थः ।। प्रमामात्रेति ।। अन्धकारे सति तत्रत्यशुक्तिप्रमा वा तत्र रजतभ्रमो वा न भवत्येवेति तस्य प्रमामात्रविषया-वरणत्वाभावात् । अत्र च स्वविषयावरणेत्यनेन प्रमामात्रविषयावरणत्वाभिधानान्न तदा-दायार्थान्तरतेत्यर्थः । इदं हि विवरणोक्तमनुमानम् । एतद्व्याख्यानावसरे त्वदीयेन प्राग-भावादिव्यतिरिक्तवेदान्तजन्यचरमसाक्षात्काररूपप्रमामात्रविषयावरणानाद्यज्ञानसिद्धिरित्युक्तत्वादिति भावः । अविशेषितं विमतं गुणादिकम् । गुण्यादिनेति शेषः । विमतमभिन्नमित्यभेदमात्रे साध्ये तस्मिन्सत्यभवतस्तदप्रयोज्यत्वादिति न्यायेनाभेदे सत्यपि घटः कलश इति सामानाधिकरण्यादर्शनादप्रयोजकत्वनिरासाय भिन्नाभिन्नमिति विशिष्टधीस्तत्रोद्देश्या दृष्टा । न चैवं प्रकृते प्रागभावव्यतिरिक्तेत्यादिविशेषणं विहाय स्वविषयावरणपूर्वकमित्यविशेष-साध्यकरणेऽप्रयोजकताऽस्ति येनात्रापि विशिष्टधीरुद्देश्येति विशेषणसार्थक्यं स्यादित्यर्थः । अविशेषितसाध्यं प्रति हेतोरप्रयोजकत्वभावेऽपि विमतम् उपादानगोचरापरोक्षज्ञान-चिकीर्षाकृतिमज्जन्यमित्यादाविव विशिष्टधिय उद्देश्यत्वान्न व्यापकगतविशेषणानां वैयर्थ्य-मित्यङ्गीकारे कुत्रापि व्यापकगतविशेषणवैयर्थ्यं नोद्भाव्येत । तथा च पर्वत उष्ण-स्पर्शापाकजशुक्लभास्वररूपवद्वह्निमान् धूमवत्त्वादित्याद्यपि स्यादित्यतिप्रसङ्ग इत्यर्थः । यथा उद्देश्यप्रतीत्यर्थत्वेन व्यापकगतविशेषणानामवैयर्थ्यम्, एवं हेतुविशेषणेऽपि वक्तुं शक्यत्वा-द्व्यर्थविशेषणत्वस्यादूषणत्वमेव स्यादित्याह ।। नीलधूमेति ।।

एवं साध्यं दूषयित्वा हेतुं दूषयति ।। हेताविति ।। मात्रमित्यस्यैव विवरणं साक्षा-दिति । तन्मते द्वितीयादिज्ञाने साक्षात् आद्येऽज्ञाननिवृत्तिद्वारा परम्परयेत्यर्थः ।। दृष्टान्त इति ।। प्रभायां ज्ञानत्वाभावेन साधनवैकल्यादिति भावः ।। असिद्धेरिति ।। प्रमाणजन्ये प्रमाणरूपे ज्ञाने ज्ञानहेतुत्वाभावरूपा स्वरूपासिद्धिरित्यर्थः ।। इन्द्रियादाविति ।। ज्ञानहेतुत्वे सत्यपि स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावात् न हि साक्षादिन्द्रियनिवर्त्यं प्रागभावादिव्यतिरिक्तं वस्त्वन्तरमस्ति । अज्ञानस्येन्द्रियनिवर्त्यत्वेऽपि ज्ञानद्वारैव निवर्त्यत्वं न साक्षात् । साक्षात् स्वनिवर्त्यत्वस्यैवात्र विवक्षितत्वादिति भावः ।। अत एवेति ।। इन्द्रियादेः साक्षाद्वस्तुव्यवहाराहेतुत्वे ज्ञानद्वारा घटादिव्यवहारहेतुत्वे च सत्यपि उक्तसाध्या-भावेन इन्द्रियादौ व्यभिचारादेवेत्यर्थः ।। अज्ञानेति ।। तमश्शब्देनाज्ञानविवक्षायां तन्निवर्त्त-कत्वस्य दृष्टान्ते प्रभायामभावात्साधनवैकल्यं स्यात् अन्धकारविवक्षायां तन्निवर्त्तकत्वस्य पक्षेऽसिद्धिः स्यात् उभयानुगतस्यैकस्य तमस्त्वस्याभावादित्यर्थः । अज्ञाननिवर्त्तकत्व-विवक्षायां दोषान्तरमाह ।। साध्येति ।। अज्ञानस्येदानीमप्यसिद्धत्वेन तद्घटितहेतोरपि सन्दिग्धत्वादिति भावः । आवरणशब्देनान्धकारविवक्षायां स्वरूपासिद्धिः अज्ञानविवक्षायां साधनवैकल्यं साध्यावैशिष्ट्यं च । उभयानुगतं चैकमावरणत्वं नास्त्येवेत्यर्थः ।। कुद्दाला-दाविति ।। कुद्दालायाः शलाकादेरपि कुड्याद्यावरणनिवर्त्तकत्वेन अज्ञानपूर्वकत्वाभावा-द्व्यभिचार इत्यर्थः ।। साध्येति ।। साध्यवत्तद्घटितहेतोरपि संमुग्धत्वादित्यर्थः ।। न सप्तम इति ।। ज्ञानप्रभयोर्नानुगतमेकप्रकारत्वमस्तीत्यर्थः । प्रकाशशब्दप्रयोगस्तावदस्तीति चेत्तत्राह ।। शब्देति ।। आलोकसंवेदनयोः प्रकाशत्वे वैलक्षण्यमस्तीत्यत्र विवरणसंमतिमाह ।। उक्तं चेति ।। अज्ञानविरोधिनः अज्ञानविरोधित्वात् । ज्ञानप्रकाशकत्वात् ज्ञाननिष्ठप्रकाशकत्वात् अन्यदेव तमोविरोधित्वरूपम् आलोकनिष्ठं प्रकाशकत्वं नामेत्यर्थः । अन्त्यपक्षदूषणं कारिकया सङ्गृह्णाति ।। एवं चेति ।। असिद्धिमप्याह ।। किं चेति ।। अध्यासेति ।। प्रकाशमानस्यैवाधिष्ठानत्वादिति भावः ।

ननु चिन्मात्रस्य सदा प्रकाशमानत्वेऽपि तद्गतविशेषस्य सदा प्रकाशमानत्वाभावान्न सिद्धिरित्यत उक्तम् ।। प्रमाणस्येति ।। वेदान्तजन्यचरमवृत्तिरूपस्येत्यर्थः ।। चिदन्येति ।। निष्प्रकारकत्वादिति भावः । प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तेत्यादिरूपायामस्यामेवानुमितौ व्यभिचारं बाधं च वक्तुमाह ।। किञ्चेति ।। अस्यामेवानुमितौ अप्रकाशितार्थप्रकाशकत्वं नास्त्युतास्तीति विकल्प्याद्ये दोषमाह ।। अप्रकाशितेति ।। विशेषणविशिष्टस्य हेतोरभावे प्रकाशितार्थप्रकाशकत्वमेव स्यात् । तथा चानुमितिर्व्यर्था सिद्धसाधनतापत्तेः । विशेष्या-भावाद्विशिष्टहेतोरभावे सर्वथा प्रकाशकत्वमेव न स्यात् । तथा चाज्ञानसिद्धिरेव न स्यात् । अनुमितेः साध्याप्रकाशकत्वात् । अतोऽनुमितिर्व्यर्था स्यात् अनुमितेः साध्यज्ञप्त्यर्थत्वादिति भावः । द्वितीये दोषमाह ।। तत्प्रकाशकत्वे चेति ।। अनुमितेरप्रकाशितप्रकाशकत्वे चेत्यर्थः । अत्रापि प्रष्टव्यम् इयमनुमितिः पक्षीभूतप्रमाणशब्देन विवक्षिता न वेति । नेति पक्षे पक्षबहिर्भूतत्वादस्यामेवानुमितौ व्यभिचारः स्यात् । आद्येऽस्यानुमितेः पक्षान्तर्भावाद्बाधः स्यादित्यर्थः । व्यभिचारं बाधं च साध्याभावोपपादनेनोपपादयति ।। अस्या इति ।। अस्या अनुमितेः स्वविषयभूतं यदज्ञानं तदावरणनिवर्तकत्वं नास्तीत्यर्थः । कुत इत्यत आह ।। न हीति ।।

हेतुं दूषयित्वेदानीं दृष्टान्तं दूषयति ।। दृष्टान्तेऽपीति ।। न च द्वितीयादिप्रभायाम् उभयवैकल्यवारणाय तद्विशेषणमिति वाच्यम् । अन्धकार इत्युक्त्यैव तन्निरासात् । न हि द्वितीयादिप्रभा अन्धकारोत्पन्ना किन्त्वाद्यैवेत्यर्थः ।। दृष्टिसृष्टीति ।। आवरणभूतान्धकारस्य दृष्टिसृष्टत्वेन दृष्टिनिवृत्तावेव निवृत्त्यङ्गीकारात्प्रभायां तन्निवर्त्तकत्वानङ्गीकारेण स्वनिवर्त्य-वस्त्वन्तरपूर्वकत्वाभावात्साध्यवैकल्यम् । प्रभाया अपि दृष्टिसृष्टत्वेन दृष्टेरेवार्थप्रकाशकतया प्रभायां तदभावात्साधनवैकल्यं चेत्यर्थः ।

प्रतिपक्षं चाह ।। अनादित्वे सतीति ।। प्रमाणज्ञानमित्याद्यनुमानेन ज्ञाननिवर्त्यमज्ञानं साधितं तद्विरोधप्रमाणमेतैरनुमानैः साध्यते अनादिभावत्वे सति ज्ञाननिवर्त्यत्वं लक्षणं तत्रानादिभावस्याज्ञानस्य ज्ञाननिवर्त्यत्वं नास्तीति यदा साध्यते तदेदं स्वनिवर्त्यत्वघटित-साध्यविरोधिभूतं सत् प्रतिपक्षरूपमिति द्रष्टव्यम् । अज्ञानलक्षणान्तर्गतं भावत्वम् अभाव-निवृत्तिरेव अज्ञानस्य भावाभावविलक्षणत्वादित्याशयेनाभावविलक्षणत्वं वेति पक्षनिर्देशः कृत इति ध्येयम् । तथा चानादित्वे सति भावत्वं न निवर्त्यनिष्ठम् अनादिभावमात्रवृत्तित्वात् आत्मत्ववत् अनादित्वे सत्यभावविलक्षणमात्रवृत्तित्वादात्मत्ववदित्यनुमानद्वयं द्रष्टव्यम् । अनुमानद्वयेऽपि भावत्वस्य वाऽभावविलक्षणत्वस्य वा ज्ञाननिवर्त्यघटादिनिष्ठत्वेन बाध-वारणायानादित्वे सतीत्युक्तम् । अनादित्वमात्रस्य निवर्त्यप्रागभावनिष्ठतया बाधवारणाय भावत्वपदम् । आद्ये हेतौ प्रागभावत्वे व्यभिचारवारणाय भावपदम् । घटत्वे व्यभिचार-वारणायानादिपदम् । प्रमेयत्वे व्यभिचारवारणाय मात्रपदम् । द्वितीयहेतावपि वृत्तित्वमात्रं प्रागभावत्वे व्यभिचारीति, अतो भावपदम् । प्रमेयत्वे व्यभिचारवारणाय मात्रपदम् । निवर्त्यत्वस्य घटादिनिष्ठतया बाधवारणायानादिपदम् । निवर्त्यत्वस्य प्रागभावनिष्ठतया बाध-वारणाय भावपदमिति मन्तव्यम् । घटत्वे व्यभिचारवारणायानादिपदम् ।। निवर्त्येति ।। वृत्तित्वमात्रम् आत्मत्वे व्यभिचारीति निवर्त्यपदम् । प्रमेयत्ववारणाय मात्रपदम् । स्वविषयावरणत्वघटितसाध्यविरोधिप्रतिपक्षमाह ।। अनादित्वमिति ।। अनाद्यावरणं नास्तीत्यनेनानुमानेन सिद्धमिति द्रष्टव्यम् । वृत्तित्वमात्रस्यान्धकारे व्यभिचारित्वादनादि-पदम् । प्रमेयत्ववारणाय मात्रपदम् । प्रतिपक्षत्वे विरोधिप्रमेयसाधकत्वमेव तन्त्रं न समान-धर्मिकत्वं न वा साध्याभावसाधकत्वं, तथात्वे केवलान्वयिन्यसत्प्रतिपक्षत्वाख्यरूपोपपादनं न स्यात् । तत्र सत्प्रतिपक्षप्रसक्तेरेवाभावात् शब्दोऽभिधेयो नेति साधयितुमशक्यत्वात् । अतः समानधर्मिकत्वादेरतन्त्रत्वमुक्त्वाऽभिधेयत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगीत्यादिरूपेण सत्प्रतिपक्षप्रसक्तिर्मणिकृतोपपादिता तद्वदिहापीति द्रष्टव्यम् । समानधर्मिकत्वादेरावश्यकत्वे तादृशमपि सत्प्रतिपक्षमाह ।। प्रमाणज्ञानं वेति ।। प्रागभावरूपानादिनिवर्त्तकत्वेन बाधवारणायाभावान्येत्युक्तम् । प्रागभावव्यतिरिक्तानादिनिवर्त्तकत्वस्य परेण साधितत्वात्तस्यायं प्रतिपक्ष इति ज्ञातव्यम् । भ्रमस्य स्वप्रागभावव्यतिरिक्तानाद्यनिवर्त्तकत्वात् दृष्टान्तत्वमिति ध्येयम् ।

अप्रयोजकतां चाह ।। पूर्वमिति ।। अप्रकाशितार्थस्य प्रकाशः पूर्वं प्रकाशाभावस्य सत्वादेवास्तु न तद्विषयकाप्रकाशशब्दवाच्यभावरूपाज्ञानसद्भावात् । तथाहि यथा अकृतस्य घटादेः कृतिः पूर्वं तद्विषयककृत्यभावादेव न तु घटादिविषयकभावरूपाकृतिद्भावात् । यथा चास्मृतस्य घटादेः स्मृतिः पूर्वं तद्विषयकस्मृत्यभावादेव न तु घटादिविषयकभावरूपास्मृति-सद्भावात्तथेहापि । अन्यथाऽज्ञानवद्भावरूपाकृत्यस्मृती अप्यङ्गीकार्ये प्रसज्येते इत्यर्थः । किञ्च स्वविरोधिनिवर्त्तकत्वं चोपाधिरित्याह ।। किञ्चेति ।। आलोकप्रकाश इति ।। दृष्टान्तीभूतालोकरूपप्रकाश इत्यर्थः । तन्निवर्त्तकः स्वविरोधितमोनिवर्त्तकः । ज्ञानप्रकाशः ज्ञानरूपप्रकाशः ।। नाज्ञानेति ।। तथा चोक्तसाध्यवत्यालोके स्वविरोधितमोनिवर्त्तकत्व-सद्भावेन साध्यव्यापकत्वात् पक्षीभूते प्रमाणज्ञाने उक्तहेतुमति स्वविरोधिनिवर्त्तकत्वरूपो-पाध्यभावेन साधनाव्यापकत्वाच्चायमुपाधिरिति भावः । ननु साधनव्यापकोऽयमुपाधिः ज्ञानस्याज्ञानविरोधित्वेन स्वविरोध्यज्ञाननिवर्त्तकत्वादिति चेत् । अत्र प्रष्टव्यम् । अज्ञानविरोधिज्ञानं किं घटाधिष्ठानचैतन्यं वृत्तिर्वा तत्प्रबिम्बितचैतन्यं वा नाद्य इत्याह ।। घटादीति ।। अविरोधित्वेन तत्राज्ञानस्य निवृत्तत्वात्सर्वदा सर्वेषां घटप्रकाशापात इत्यर्थः । न द्वितीयतृतीयावित्याह ।। वृत्तेरिति ।। उभयोरपि मिथ्यात्वेन अध्यस्ताधिकतत्वा-वेदकत्वाभावेनाज्ञानत्वादिति भावः ।। तज्ज्ञानत्वेति ।। घटादिज्ञानत्वाभावादित्यर्थः । अनधिष्ठानत्वेऽपि तज्ज्ञानत्वमस्त्वित्यत आह ।। त्वन्मत इति ।। ज्ञेयस्याधिष्ठानभूते ज्ञान एवाध्यासाङ्गीकारादिति भावः ।

एवमाद्यानुमानं सविस्तरं निरस्य चैत्रप्रमापक्षकानुमानमपि निरस्याति ।। द्वितीयेति ।।  बाध इति ।। सुखादिप्रमाणामपि चैत्रप्रमात्वेन पक्षत्वात्तासु चैत्रप्रमाप्रागभावव्यतिरिक्तानादि- निवर्त्तकत्वाभावाद्बाध इत्यर्थः । सुखादिविषये भावरूपाज्ञानाभावादिति भावः ।। तदिति ।। चैत्रेत्यर्थः ।। तदतिरिक्तेति ।। चैत्रप्रमातत्प्रागभावातिरिक्तस्यानादेर्वा विशेषणमित्यर्थः ।। वृत्तेरित्यादि ।। मतभेदेनेति ज्ञेयम् । प्रमायाः वृत्त्यादिरूपायाः प्रमायाः ।। आत्मेति ।। वृत्तेस्तत्प्रतिबिम्बितचैतन्यस्य चान्तःकरणनिष्ठत्वेनाधिष्ठानचैतन्यस्य च सर्वथाऽवृत्तित्वेनात्म-गतत्वाभावादित्यर्थः । तथा च बाध इति भावः । प्रागभावविशेषणत्वे दोषमाह ।। प्राग-भावस्येति ।। प्रागभावस्य प्रतियोगिसमानदेशत्वेन वृत्त्यादिरूपप्रमाया आत्मगतत्वाभावेन प्रागभावस्यापि तद्गतत्वाभावाद्बाध एवेत्यर्थः । तदेवोपपादयति ।। मैत्रेति ।। मैत्रप्रमाया-श्चैत्रगतः प्रमाप्रागभावातिरिक्तो योऽनादिश्चैत्रीयाज्ञानाख्यस्तन्निवर्त्तकत्वाभावात्साध्यवैकल्य-मित्यर्थः ।। प्रमापदेति ।। चैत्रप्रमाप्रागभावातिरिक्तेति साध्यकरणे समभिव्याहारादेव प्रमा-प्रागभावातिरिक्तेति प्राप्तेः प्रमापदमधिकमित्यर्थः । प्रतिरोधो द्विविधः तेनैव हेतुना हेत्वन्तरेण चेति । तत्राद्यः प्रकरणसम इत्युच्यते । द्वितीयः सत्प्रतिपक्ष इत्युच्यत इति टीकाकारैर्मिथ्यात्वानुमानखण्डनटीकायाम् उक्तत्वात्तेनैव हेतुना प्रतिरोधरूपप्रकरणसममाह ।। चैत्रप्रमेति ।। दृष्टान्ते चैत्रीयाज्ञानाख्यानादिनिवर्त्तकत्वाभावेन साध्यं द्रष्टव्यम् । ननु प्रकरणसमानुमानेऽपि चैत्रासमवेतत्वमुपाधिः । तथा चैत्रप्रमा चैत्रीयप्रमाप्रागभावनिवर्त्तिका न प्रमात्वान्मैत्रप्रमावदित्यनुमानेन चैत्रप्रमाप्रागभावस्यापि निवर्त्यत्वं न स्यादित्याभाससाम्य-मित्याशङ्क्य निराकरोति ।। न चेति ।। उक्तेति ।। हेतुभूतं प्रमात्वमङ्गीकृत्य प्राग-भावातिरिक्तानाद्यनिवर्त्तकत्वं न स्यादित्यभावानाद्यज्ञानोभयनिवर्त्तकत्वरूपं साध्याभाव-मङ्गीकृत्याप्रयोजकताशङ्कायां गौरवापत्तेर्लाघवात्प्रागभावनिवर्त्तकत्वमङ्गीकृत्यानादिनिवर्त्त-कत्वाभाव एव साध्य इति लाघवतर्कानुग्रहसद्भावादुपाध्याभाससाम्ययोराभासत्वमेव

‘‘अनुकूलेन तर्केण सनाथे सति साधने ।

  साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः’’ ।।

उपाधेरात्मत्वे साध्याव्यापकत्वं च द्रष्टव्यम् । लाघवतर्केणाभावनिवर्त्तकत्वस्य सिद्धत्वा-त्तद्विरोधेन आभाससाम्यानुमानमाभास एवेति भावः ।

एवं प्रकरणसमानुमानं समर्थ्योपाधिमप्याह ।। चैत्रगतेति ।। दृष्टान्तीकृतायां मैत्रप्रमायां चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्त्तकत्वमस्ति तथा चैत्रगतप्रमाप्रागभावातिरिक्तो योऽभावः स्वप्रमाप्रागभावः तन्निवर्त्तकत्वं चास्तीति साध्यव्यापकः । साध्योपाध्योरनाद्यज्ञानाभाव-घटितत्वेन भेदः । साध्यसमव्याप्तश्च हेतुमत्यां चैत्रप्रमायां चैत्रगतप्रमाप्रागभावातिरिक्ता-भावानिवर्त्तकत्वं नास्ति प्रागभावव्यतिरिक्ताभावस्य प्रध्वंसादेरनिवर्त्यत्वात् साधनाव्यापकश्चेति भावः । ननु जन्यपदार्थमात्रे चैत्रगतप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्त्तकत्वस्य सत्वे-नोपाधिसाध्ययोः सत्वाद्व्यतिरेकसहचारग्रहस्थलाभावेन साध्याभावाविनाभाव्यभावत्वाभावान्नाय- मुपाधिरित्यत आह ।। व्यतिरेकेति ।। प्रागभावस्यानादित्वेन तत्प्रतियोगिकप्रागभावाभावेन चैत्रप्रमाभावातिरिक्तप्रागभावनिवर्त्तकत्वाभावोऽस्ति । तत एव चैत्रगतप्रमाप्रागभावातिरिक्ता-नादिनिवर्त्तकत्वाभावोऽप्यस्तीत्यर्थः ।

आभाससाम्यं चाह ।। चैत्रप्रमेति ।। स्वशब्देन चैत्रप्रमा गाह्या दृष्टान्ते मैत्रप्रमायां चैत्रप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्त्तकत्वेन साध्यं द्रष्टव्यम् । तथा चानेनानुमानेन चैत्र-प्रमानिवर्त्याभावद्वयसिद्ध्यापत्तिरिति भावः ।। घट इत्यादि ।। अत्रापि स्वशब्देन पक्षीभूतो घटो ग्राह्यः । घटः स्वप्रागभावातिरिक्तानादेर्निवर्त्तकः घटत्वाद्घटान्तरवदित्यनुमानेन स्व-प्रागभावातिरिक्तं घटनिवर्त्यं किञ्चिदनादि सिद्ध्येत् । पक्षीभूतो यो घटस्तत्प्रागभावाति-रिक्तस्वप्रागभावरूपानादिनिवर्त्तकत्वेन दृष्टान्ते न साध्यवैकल्यमिति द्रष्टव्यम् । तथा चैत्रेच्छा स्वप्रागभावातिरिक्तानादिनिवर्त्तिका इच्छात्वान्मैत्रेच्छावदित्यनुमानेन स्वप्रागभावातिरिक्तानादि-भूतं किञ्चिदिच्छानिवर्त्यमपि सिद्ध्येत् । द्वेषस्तु नानादिः । दृष्टान्ते पक्षीभूतेन प्रागभावातिरिक्तस्वप्रागभावस्यानादिभूतस्य भावादिति भावः । उपादाननिवर्त्तकत्वेन साध्यं द्रष्टव्यम् । तथा चैत्राप्रमास्वप्रागभावातिरिक्तानादेर्निवर्त्तिका अप्रमात्वान्मैत्राप्रमावदित्यनेन स्वप्रागभावातिरिक्तं किञ्चिदनादिभूतम् अप्रमानिवर्त्यमपि सिद्ध्येत् । दृष्टान्ते पक्षभूताप्रमा-प्रागभावातिरिक्तस्वप्रागभावरूपानादिनिवर्त्तकत्वात्साध्यं द्रष्टव्यमिति विवेकः ।

स्वव्याघातं चाह ।। किञ्चैवमिति ।। एवं विशिष्टव्यतिरेकिणः चैत्रगतप्रमा-प्रागभावातिरिक्तानादिनिवर्त्तकत्वरूपसाध्यस्याभावसाधनेऽपि सुवचत्वादित्यन्वयः ।। चैत्र-प्रमेत्यादि ।। अयमर्थः । चैत्रनिष्ठत्वे सति चैत्रप्रमाभावव्यतिरिक्तानादिनिवर्त्तकत्वादि-करणत्वं विशिष्टम् । एतदभावो दृष्टान्ते मैत्रप्रमायां चैत्रप्रागभावातिरिक्तो योऽनादिः स्वप्रागभावस्तन्निवर्त्तकत्वाधिकरणत्वरूपे विशेष्ये सत्यपि चैत्रनिष्ठत्वरूपविशेषणा-भावोऽस्ति । पक्षीभूतायां चैत्रप्रमायां चैत्रनिष्ठत्वरूपे विशेषणे सत्यपि चैत्रप्रमाप्रागभावाति-रिक्तो योऽनादिर्मैत्रप्रमाप्रागभावस्तन्निवर्त्तकत्वाधिकरणत्वरूपविशेष्याभावोऽस्तीति विशिष्टा-भावोऽनुगत इति ध्येयम् । नन्वत्र चैत्रावृत्तित्वमुपाधिरित्यत आह ।। न चात्रेति ।। अयमुपाधिः शङ्क्यमानचैत्रावृत्तित्वरूप उपाधिः । धर्मत्वादित्यनन्तरं निषिद्धत्वोपाधिवदिति दृष्टान्तो द्रष्टव्यः । एतदुपाधित्वे सति साध्यव्यापकत्वाधिकरणत्वस्य विशिष्टस्याभावो दृष्टान्ते विशेषणाभावेन पक्षे विशेष्याभावेन द्रष्टव्यः ।। अत एवेति ।। विशिष्टव्यतिरेकिणोऽति-प्रसञ्जकत्वादेवेत्यर्थः । विगीतो विभ्रमः एतज्जनकाबाध्यातिरिक्तोपादानकः इत्याद्याभास-साम्यादेवेत्यर्थ इत्यन्ये ।। तृतीयेति ।। विगीतो विभ्रम एतज्जनकाबाध्यातिरिक्तोपादानकः विभ्रमत्वात्संमतवदित्यनुमानमित्यर्थः । पक्षत्वे पक्षबोधकविभ्रमशब्देनाभिप्रेतत्वे ।। द्वितीय-लक्षणभङ्गेति ।। अर्थस्य मन्मतेऽसत्वेन त्वन्मते च सद्विलक्षणत्वेन निरुपादानत्वात् भ्रान्तिरूपज्ञानस्य तु त्वन्मते सद्विलक्षणत्वेन निरुपादानत्वात् मन्मते तु सत्वेना-न्तःकरणोपादानकत्वान्नाज्ञानमुपादानमित्युक्तरीत्येत्यर्थः ।

तेनैव हेतुना प्रतिरोधमाह ।। विगीत इति ।। एतज्जनकाबाध्यातिरिक्तोपादानक इत्यस्य एतज्जनकबाध्योपादानक इति पर्यवसितार्थः । तत्र प्रतिरोध उच्यते ।। एत-ज्जनकेति ।। एतज्जनकबाध्यातिरिक्तोपादानक इति पाठः । दृष्टान्तीकृतभ्रमोपादानशुक्त्यज्ञाने ज्ञाननिवर्त्यत्वाख्यबाध्यत्वरूपविशेष्यसत्वेऽपि एतज्जनकत्वरूपविशेषणाभावेन पक्षीभूत-जगद्भ्रमजनके चाज्ञाने एतज्जनकत्वरूपिवशेषणसत्वेऽपि बाध्यत्वरूपविशेष्यस्यास्मद्रीत्याऽ-भावाद्विशिष्टाभावोऽनुगत इति द्रष्टव्यम् । एतज्जनकबाध्योपादानको नेत्यपि क्वाचित्कः पाठः । अत्रापि विशिष्टाभावो द्रष्टव्यः । अप्रयोजकत्वादिदूषणजातेन भावरूपाज्ञानसाधकानि नवीनानुमानान्यपि निरस्तानि भवन्तीत्याह ।। एतेनेति ।। प्रमामात्रपक्षीकारे ईश्वरप्रमाया अपि पक्षकोटिनिवेशे तत्र कार्यत्वहेतोः स्वरूपासिद्ध्यापत्तेरनित्यप्रमेत्युक्तम् । वेदान्तजन्या चरमप्रमेत्यर्थः । दृष्टान्ते स्वप्रागभावरूपानादित्वमादाय साध्यं द्रष्टव्यम् ।। भ्रमोत्तरेति ।। अयं घट इत्यादिप्रमेत्यर्थः । पक्षीभूतप्रमाप्रागभावातिरिक्तः यः स्वविरोधिभ्रमस्तन्निवर्त्तकत्वं दृष्टान्तेऽस्ति पक्षे तु स्वाभावातिरिक्तस्वविरोध्यज्ञाननिवर्त्तकत्वेन साध्यपर्यवसानं द्रष्टव्यम् । प्रमामात्रपक्षीकारे भ्रमोत्तरचरमप्रमाया अपि प्राप्त्या तस्याश्च स्वविरोधिभ्रमनिवर्त्तकत्वे-नार्थान्तरतावारणाय भ्रमानुत्तरप्रमेत्युक्तम् । प्रमामात्रस्य दृष्टान्तत्वे तत्र प्रागभावातिरिक्त-स्वविरोधिनिवर्त्तकत्वस्य प्रतिवादिनोऽसंमतेः साध्यवैकल्यं स्यादित्यतो भ्रमोत्तरेत्युक्तम् । तथा च स्वविरोधिभ्रममादाय दृष्टान्ते उक्तसाध्यमस्तीति ध्येयम् ।

।। स्वेति ।। स्वशब्देन पक्षीभूतज्ञानत्वाधिकरणं ज्ञानं तस्य यो विषयो ब्रह्म तदावरणं यत्तन्निवर्त्तकं यज्ज्ञानं तन्निष्ठमित्यर्थः । अनेन ज्ञाननिवर्त्यावरणसिद्धिः । तच्चाज्ञानमेवेति भावः ।। आलोकत्ववदिति ।। आलोकत्वस्यालोकविषयावरणान्धकारनिवर्त्तकालोकनिष्ठ-त्वादिति ध्येयम् ।। अनित्यज्ञानमिति ।। अनेन भावरूपज्ञानविरोधिस्वदेशगताज्ञान-सिद्धिरिति ज्ञेयम् । ज्ञानमात्रस्य पक्षत्वे नित्येश्वरज्ञाने स्वविरोध्यज्ञानसामानाधिकरण्याभावेन बाधः स्यादतोऽनित्यज्ञानमित्युक्तम् । इच्छामात्रस्य दृष्टान्तत्वे ईश्वरेच्छाया अपि प्राप्त्या तत्र स्वविरोधिद्वेषसामानाधिकरण्याभावेन साध्यवैकल्यापत्तेरनित्येच्छावदित्युक्तम् । स्वविरोधि-प्रागभावसमानाधिकरणत्वेनार्थान्तरतावारणायाभावत्वानधिकरणेत्युक्तम् । स्वविषयकत्वादित्ये-वोक्तौ ईश्वरीयज्ञानेच्छयोर्व्यभिचारः स्यादतोऽनित्यत्वे सतीत्युक्तम् । तावत्युक्ते ज्ञानेच्छा-प्रयत्नानां सविषयकत्वात्तन्मध्ये ज्ञानस्य पक्षत्वादिच्छाया दृष्टान्तत्वादुर्वरिते प्रयत्ने व्यभिचारः स्यात् । ज्ञानविरोध्यज्ञानवदिच्छाविरोधिद्वेषवत्प्रयत्नविरोधिनोऽन्यस्याभावेन साध्याभावात् । अतः प्रयत्नान्यत्वे सतीत्युक्तम् । सविषयकत्वपदत्यागे घटादौ व्यभिचारः स्यादित्यादि ध्येयम् । दृष्टान्ते साध्यमुपपादयति ।। इच्छा हीति ।। पक्षे साध्यपर्यवसानं दर्शयति ।। ज्ञानेति ।। एतेनेत्युक्तमेव विशदयति ।। अप्रयोजकत्वादीति ।। अनुकूलतर्काभावेन कार्यत्वहेतोरुक्तसाध्यं विनाऽप्युपपत्तेरप्रयोजकत्वस्य आदिपदेन चैत्रप्रमास्वप्रागभावातिरिक्ता-भावनिवर्त्तिका प्रमात्वान्मैत्रप्रमावदित्याभाससाम्यस्य चानिस्तारादित्यर्थः ।

न्यायकल्पलता

परोक्तमनुमानं दूषयितुमाह ।। यच्चेति ।। बाधः अंशतो बाधः ।। तस्या इति ।। साक्षिणोऽज्ञानसाधकत्वेन तदनिवर्तकत्वादित्यर्थः । परोक्षवृत्तेः स्वविषयेऽज्ञानानिवर्तकत्वे संमतिमाह ।। उक्तं चेति ।। अतीतादेर्ज्ञानं प्रति कारकत्वं नास्तीत्युक्ते तर्हि तद्वदेव विषयत्वमपि न स्यादित्याशङ्कायां तदपि नास्तीत्यभिहिते विषयत्वस्योपलभ्यमानत्वात्कथं तदभाव इति पुनराशङ्कितेऽतीतादिषु विषयत्वाभावं दर्शयितुं विषयशब्दार्थकथनपरमिदं विवरणवाक्यम् । विषयत्वं नामानुमेयेषु सुषुप्तिव्यावृत्तिः । सा चाभावस्तद्धर्मो न भवति । विज्ञानाकारतापि न विषयव्यापारः किन्तु विज्ञानस्यैवेति नातीतेर्थे क्रियाकारित्वमिति । एतच्च तत्वदीपने व्याख्यातम् । सुषुप्तिव्यावृत्तिस्तद्विषयाज्ञाननिवृत्तिः । सा चानुमेयधर्मो न भवति । किन्तु अज्ञानस्यात्माश्रितत्वात्तन्निवृत्तिरप्यात्माश्रितैवेति । अन्ये तु सुषुप्ति-व्यावृत्तिरित्यस्य साधकाद्यभावात् । विषयस्य या पूर्वसंशययोग्यता तस्याः निवृत्तिरित्यर्थः । सा च नातीतादौ । असतस्तदाश्रयत्वायोगादित्याहुः । केचित्तु परोक्षस्थले विषयावच्छिन्ना-भावावरणतत्कार्यसद्भावेऽपि प्रमात्रवच्छिन्नासत्वावरणानिवृत्याऽनुमेयादौ व्यवहारोपपत्तिः । इदमेव सुषुप्तिव्यावृत्तिशब्देनोक्तमित्याहुः । सर्वथा विषयावच्छिन्नप्रमेयचैतन्यगताज्ञानं न निवर्तत इत्यविवादम् । तदिदमुक्तं तस्याः स्वविषयेऽज्ञाननिवर्तकत्व इति । तथा च परोक्षवृत्तौ स्वविषयावरणस्य स्वनिवर्त्यत्वाभावाद्बाध इत्यर्थः ।

ननु धर्म्यंशाज्ञानेऽपि भ्रमोपादानत्वयोग्यताऽस्तीति तत्र नाव्याप्तिरित्यत आह ।। न हीति ।। धर्म्यंशाज्ञाने सति धर्मिणोऽज्ञानाभावात् भ्रमो न स्यादित्यर्थः ।। धारावाहि-केति ।। नन्वस्मन्मते धारावाहिकबुद्धिरेव नास्ति । एकस्यैव ज्ञानस्य तावत्समय-स्थित्युपपत्तेरिति चेन्न । तथात्वे श्रवणाद्यावृत्तेरसम्भवापातात् । आवृत्तिरसकृदुपदेशादिति सूत्रविरोधाच्च । प्रतिवादिनैय्यायिकादीन् प्रति बाधानुद्धाराच्च । उक्तं बाधमुपपादयति ।। तस्या इति ।। असिद्धिमप्युपपादयति ।। सूक्ष्मेति ।। बाधमुद्धर्तुं शङ्कते ।। नन्विति ।। दूषयति ।। एकाज्ञानेति ।। अनेकाज्ञानपक्षेऽपि दोषमाह ।। अवच्छिन्नस्यापीति ।। रूपादिहीनस्येति ।। परमतेन सर्वात्मना तत्वविन्मतेन तु प्राकृतभौतिकरूपादि-शून्यस्येत्यर्थः । न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनमिति तैत्तरीयश्रुतेः स्वरूपायोग्यस्य किञ्चिदवच्छिन्नस्यापि न चाक्षुषत्वमिति भावः ।। उक्तत्वाच्चेति ।। परिच्छिन्नत्वहेतुभङ्ग इति शेषः । एतेन रूपहीनस्यापि तार्किकाभिमतात्मनः प्रत्यक्षत्ववत् अरूपस्यापि रूपस्य चाक्षुषत्ववच्च सन् घट इति सदर्थस्य ब्रह्मणश्चाक्षुषत्वमविरुद्धमिति निरस्तम् ।। अयं घट इति ।। यथा शाब्दज्ञाने न चैतन्यं विषयस्तथा तत्समानविषयेऽ-परोक्षज्ञानेऽपि न तद्विषय इति अनात्मविषयापरोक्षवृत्तौ बाध इति भावः ।। आत्म-विषयेति ।। सा चान्ततश्चरमवृत्तिरेवेति भावः । किञ्च कथं ज्ञानाश्रयगतत्वमज्ञानस्य । वृत्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिदनाश्रितत्वात् । नन्वन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तेस्तत्प्रतिफलितचैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वम् । किञ्चिदवच्छिन्नतदाश्रितस्यापि तदाश्रितनिर्विशेषचिदाश्रितत्वानपायात् । कर्णशुष्कल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशा-श्रितत्ववदिति चेन्न । अज्ञानस्य निर्विशेषचिदाश्रितत्वाङ्गीकारविरोधात् । अदृष्टोपगृहीत-कर्णशुष्कल्यवच्छिन्नस्यैव नभस श्रोत्रत्वम् । अन्यथा बाधिराभावप्रसङ्गः । अतिरिक्त-विशिष्टानभ्युपगन्तृमतेऽनुपपत्तिरेवेति दूषणं सूचयितुं दिगित्युक्तम् ।

।। यत इति ।। प्रागभावस्याज्ञानभिन्नत्वान्न ज्ञाननिवर्त्यत्वमित्यर्थः ।। अभावेति ।। प्रमाणज्ञानं स्वप्रागभावनिवृत्तिरेव न तु तन्निवर्तकमिति न प्रमाणज्ञानप्रागभावस्तन्निवर्त्य इत्यर्थः । न च प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते नैतदुक्तमिति युक्तम् । अनवस्थापातेन तस्याप्रामाणिकत्वात् ।। शेषेति ।। न च प्रतियोगिविशेषणत्वेनाखण्डा-भावसम्पादकतया न वैय्यर्थ्यमिति वाच्यम् । तत्वनिर्णयकथायां लघुना साध्यनिर्देशेन साध्यसिद्धौ सम्भवत्यामखण्डाभावान्तर्भावेण साध्यस्यानिर्देश्यत्वात् । अन्यथाऽखण्डाभाव-न्यायेनाखण्डोपाधावपि तदनापत्तेः ।। आवरणत्वायोगादिति ।। तथा च तद्विशेषणविशिष्टं साध्यं पक्षे बाधितमित्यर्थः । नन्वज्ञानादिसाक्षितया चितो भासमानत्वेऽपि अस्ति प्रकाशत इति व्यवहाराभावेन तदंशेऽज्ञानावरणमस्तीति शङ्कानिरासायोक्तम् ।। निर्विशेषेति ।। सत्ताप्रकाशयोः प्रकाशमानचिन्मात्रत्वेन तद्व्यवहारानुपपत्तेरित्यर्थः । तदुक्तमनुव्याख्याने निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेदिति ।। स्वोत्पादकादृष्टेति ।। अदृष्टस्यावरणत्वा-भावादित्यर्थः ।। शेषेति ।। स्वविषयेत्यस्येत्यर्थः । एतेन यददृष्टं स्वजनकं विषयान्तर-ज्ञानप्रतिबन्धकतया तदावरकं तादृशादृष्टपूर्वकत्वेनार्थान्तरवारणाय स्वविषयेति विशेषणमिति निरस्तम् । स्वजनकं स्वविषयज्ञानान्तरप्रतिबन्धकतया स्वविषयावरणं चादृष्टविशेष-मादायार्थान्तरतादवस्थ्याच्च ।। वृत्तिरिति ।। वृत्तिश्चिदुपरागार्थेति मते चितोऽनावृतत्वेन वृत्तेरावरणनिवर्तकत्वं नास्तीत्यर्थः ।। घटाकारेति ।। घटाकारवृत्यादिनैव घटप्रकाशकघटा-धिष्ठानचैतन्यस्य आवरणाभिभवरूपाभिव्यक्तेर्जातत्वेन घटज्ञानरूपस्य घटाधिष्ठानचैतन्य-स्यावरणनिवर्तकत्वं नास्तीत्यर्थः ।

ननु वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा घटप्रकाशकम् । तच्च घटाधिष्ठानचैतन्यस्य प्रमेय-भूतस्यावरणं निवर्तयतीति शङ्कां परिहर्तुमुक्तम् ।। वृत्तिरिति ।। ज्ञाने ज्ञेयाध्यासस्यालाभा-दित्यर्थः ।। चरमेति ।। ननु चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः । कारणात्मनाऽवस्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वमपीति चेन्न । तावताऽपि ज्ञाननिवर्त्यत्वाव्याहतेः ।। अज्ञानस्येति ।। वृत्यादिरूपस्य ज्ञानस्याज्ञानाश्रय-चिन्मात्रानाश्रितत्वादित्यर्थः । नन्वन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा ज्ञानं चिदाश्रितमेव । न हि किञ्चिदवच्छिन्नाश्रितस्यापि तदवच्छेद्याश्रयत्वमपैति । कर्ण-शुष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववदिति । मैवम् । त्वन्मतेऽवच्छेद्या-वच्छिन्नयोर्भेदात् । अन्यथा विशिष्ठनिष्ठयोदृश्यत्वमिथ्यात्वयोर्विशेष्यनिष्ठत्वं स्यात् । किञ्च वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा न घटादिज्ञानम् । तत्र तदनध्यासात् । किन्तु वृत्याद्यभि-व्यक्तं घटाद्यधिष्ठानचैतन्यं घटादिज्ञानम् । तच्च नाज्ञानाश्रयचिन्मात्राश्रितम् । तदिदमुक्तं तदभिव्यक्ताधिष्ठानचैतन्यस्य वेति । प्रमाणज्ञानस्यान्तःकरणनिष्ठत्वादावरणस्य विषयनिष्ठ-त्वान्न तयोः समानदेशत्वमित्याह ।। त्वन्मत इति ।। आद्येति ।। न चाद्यविशेषणेन प्रागभावो व्यवच्छिद्यते । स्वनिवर्त्येत्यनेन तु अत्यन्ताभाव इति युक्तम् । स्वप्राक्पद-विरहितेनाद्यविशेषणेनैवोभयव्यवच्छेदसम्भवादित्यर्थः ।। अविद्येति ।। अज्ञानसिद्धिरेव स्यान्न तु सिद्धसाधनादिकमित्यर्थः ।

ननु अस्ति प्रकाशत इति व्यवहारविरोधित्वरूपमावरणत्वं भावाभावसाधारणमत आह ।। तथात्व इति ।। तस्येति ।। असाधारण्येन व्यपदेशा भवन्तीति न्यायेन मात्रशब्दान्त-र्भावेन वा स्वविषयमात्रावरणत्वरूपार्थलाभसम्भवादित्यर्थः ।

यत्तु स्वप्रागभावव्यतिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकं साध्यम् । स्व-विषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमिति द्वितीयं साध्यमिति साध्यद्वये तात्पर्यमिति । तन्न । उक्तरीत्या ज्ञानाज्ञानयोः समानदेशत्वाभावात् । प्रागभावस्य स्वनिवर्त्यत्वाभावेन प्रथमसाध्ये स्वप्रागभावव्यतिरिक्तेत्यस्य वैय्यर्थ्याच्च । द्वितीयसाध्ये आवरणपूर्वकमित्येतावतैव पूर्णत्वाच्च ।। अप्रयोजकतेति ।। एतच्चोपलक्षणम् । यादृशसाध्यनिर्देशं विना विवादपद-साध्यसिद्धिर्न भवति तादृशं साध्यं निर्देष्टव्यमित्यर्थः । तेनार्थान्तरादिवारकविशेषणानां नानुपादानप्रसङ्गः । एतेनेश्वरानुमानेऽदृष्टप्रागभावव्याप्यप्रागभावाप्रतियोगीति विशेषणं विनाऽ-भावकार्यत्वहेतोरप्रयोजकत्वाभावात् तद्विशेषणमप्यनुपादेयं स्यादिति निरस्तम् । अदृष्टप्राग-भावेत्यादिविशेषणं विनाऽर्थान्तरापत्या तद्वारकत्वेन तत्सार्थक्यात् । अत एव ब्रह्म स्वसमानसत्ताकजीवप्रतियोगिकभेदवत् अभ्रान्तित्वादित्यनुमाने कल्पितभेदवत्तयाऽर्थान्तर-निवृत्तये स्वाभिमतसाध्यसिद्धये स्वसमानसत्ताकेति विशेषणं तथाऽत्रापीति निरस्तम् । तत्रार्थान्तरवारणावत् । प्रकृते तदभावात् ।। शब्दसाम्येनेति ।। पर्वतमहानसवृत्तिधूम-व्यक्त्योर्भेदेऽपि धूमत्वस्यैकत्ववत् ज्ञानप्रभयोरेकं प्रकाशत्वं नास्तीत्यर्थः । पक्षदृष्टान्त-योरनुगतो हेतुर्नास्तीत्यत्रोपष्ठंम्भकमाह ।। उक्तं चेति ।। अहङ्कारस्यात्मव्यतिरिक्तत्व-साधकसंविदभिन्नस्यात्मनः स्वप्रकाशत्वं साधयितुं सविदोऽस्वप्रकाशत्वे विश्वस्यानवभासप्रसङ्ग इति दूषणेऽभिहिते नन्वप्रकाशमानमेव ज्ञानं चक्षुरादिवद्विषयमवभासयेदिति कुतो विश्वस्या-नवभास इति शङ्किते विषयप्रकाशजनने न चक्षुषः प्रकाशकत्वं सवेदनं तु स्वयमर्थप्रकाश एव प्रदीपवदवभासमानमेवार्थं प्रकाशयतीति परिहृते ननु प्रदीपालोकस्याप्यर्थानुभवजननेनैव चक्षुरादिवदर्थप्रकाशकताऽस्त्विति पुनः शङ्कायां ज्ञानप्रकाश्यत्वादज्ञानविरोधिनोऽन्यदेवालोक-प्रकाश्यत्वं तमोविरोधितया प्रसिद्धं तदव्यवधानेनालोकेन क्रियते इत्यादिना चक्षुरपेक्षया आलोकसंवेदनयोर्वैलक्षण्यमभिधाय आलोकसंवेदनयोरपि प्रकाशकत्वे वैलक्षण्यमस्तीति विवरणोऽभिहितमित्यर्थः ।

सङ्गृह्णाति ।। एवं चेति ।। प्रमाणस्येति ।। चरमवृत्तेरित्यर्थः ।। अध्यासेति ।। प्रकाशमानस्यैवाधिष्ठानत्वादित्यर्थः । नन्वधिष्ठानचितः प्रकाशेऽपि अस्ति प्रकाशत इत्यादि-रूपेण न प्रकाशत इति चेन्न । निरस्तत्वात् । व्याहत्यापि दूषयति ।। किञ्चेति ।। अस्याः अज्ञानविषयिण्याः ।। प्रकाशितेति ।। विशेषणभावाद्विशिष्टहेतोरभावे प्रकाशित-प्रकाशकत्वं, विशेष्याभावात्तदभावेऽप्रकाशकत्वं स्यादित्यगत्याऽनुमितौ विशिष्टाभावस्यासम्भव इत्यर्थः ।। उभयथेति ।। आद्ये सिद्धसाधनात् द्वितीये बाधादनुमितिर्व्यर्था । अर्थविषया न भवति । विगतार्थत्वाद्विरुद्धार्थत्वाच्चेत्यर्थः । पराभिमतानुमितौ विकल्पनान्न सिध्यसिद्धि-व्याघातः ।। तदिति ।। अप्रकाशितेत्यर्थः ।। अत्रैवेति ।। पक्षबहिर्भावे व्यभिचारः । पक्षत्वे तु बाध इत्यर्थः ।। अस्या इति ।। उत्पत्स्यमानत्वेन पराभिमताया अनुमिते-रित्यर्थः । केचित्तु विवादगोचरापन्नमित्यनेन जन्यसविकल्पकाजन्यचाक्षुषघटप्रमाणज्ञानं विवक्षितम् । परमते जन्यज्ञानमात्रस्य सविकल्पकजन्यत्वात्सविकल्पकस्य जन्यज्ञान-जन्यत्वाच्च पक्षाप्रसिद्धिवारणाय जन्यसविकल्पकाजन्येत्युभयोपादानम् । अनेन धारावाहिक-द्वितीयादिबुद्धिव्युदासः । पराभिमतेश्वरज्ञानव्यावृत्तये चाक्षुषप्रमाणज्ञानेति । साध्ये च स्वशब्दः समभिव्याहृतपरः । स्वप्रागभावपदेन स्वसमानाधिकरणप्रागभावः कथ्यते । स्व-विषयावरणेति स्वजननायोग्यम् । स्वनिवर्त्येति स्वजन्यध्वंसप्रतियोगि । स्वदेशगतेति स्वाश्रये वर्तमानम् । एवं च पक्षीभूतज्ञानस्य घटपटादेः संयोगजनकत्वसम्भवात् तत्प्राग-भावस्तन्निवर्त्य इति संयोगादिप्रागभावात्मत्वस्वजनकादृष्टेच्छाप्रागभावपूर्वकत्वेनार्थान्तर-व्यावृत्तये प्रातिलोम्येन विशेषणानि । अज्ञानं चैवंविधमिति न बाधः । अथवा प्रमाण-ज्ञानस्य प्रागभाव एव स्वप्रागभावः । स्वविषये संशयादिजनकतायोग्यमेव स्वविषयावरणम् । स्वसत्ताक्षणनियतध्वंसप्रतियोगि स्वनिवर्त्यम् । ततश्च प्रागभावोऽपि परमते विशेषादर्शनतया संशयादिजनक इति स्वप्रागभावस्वजनकादृष्टान्धकारादिव्यावृत्तये स्वप्रागभावेत्यादिविशेष-णानि । परमते मनःसंयोगपूर्वकत्वेनार्थान्तरनिवृत्तये स्वनिवर्त्येतीत्याहुः ।

अत्रोच्यते । पटबुभुत्सयोन्मीलितेन चक्षुषा दैवात् घटपटसंयोगे सति बुभुत्साप्राबल्या-त्पटज्ञानानन्तरं जायमाने घटचाक्षुषज्ञाने पटज्ञानपूर्वकत्वेना सिद्धसाधनम् । पटज्ञानं हि स्वशब्दनिर्दिष्टघटज्ञानसमानाधिकरणप्रागभावव्यतिरिक्तं स्वजननायोग्यं स्वजन्यध्वंसप्रतियोगि स्वाश्रयगतं च भवति । द्वितीयसाध्येऽपि यत्र घटे पाषाणादिसंशयानन्तरं विशेषदर्शनं विनैव समीपगमनादिना घट इति चाक्षुषं प्रमाणज्ञानं जायते तत्र पूर्वतनसंशयमादाय सिद्ध-साधनम् । घटविषयकसंशयोऽपि धर्मिज्ञानकोटिज्ञानत्वादिना घटविषयकसंशयान्तरजननयोग्य इति घटप्रमाविषयावरणं भवति । स्वसत्ताक्षणनियतध्वंसप्रतियोगी च भवतीति । यथाश्रुतेन स्वविषयावरणपूर्वकमित्यनेनैव साध्यसिद्धेरुक्तकुसृष्टेरनादरणीयत्वाच्च । ग्रन्थस्वारस्यस्य त्वया त्यक्तत्वाच्च । नन्वन्धकारनिवृत्त्यव्यवहितोत्तरकालीनचाक्षुषज्ञानं पक्षत्वेनाभिमतम् । साध्यं च स्वसमानाधिकरणप्रागभावव्यतिरिक्तेत्यादि विवक्षितमिति चेन्न ।  स्मृत्यभावमात्रेणास्मृतस्य स्मृत्यनन्तरं स्मृतत्ववत् पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य तस्मिन्सति प्रकाशितत्वो-पपत्याऽप्रयोजकत्वात् । एतच्चाकर एव स्पष्टम् । अन्धकारनिवर्तकत्वं चोपाधिः ।।

।। अनादित्वे सतीत्यादि ।। नन्वनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भाव-विलक्षणाया निवर्त्यत्वोपपत्तेर्न विरोध इति चेन्न । अनादित्वे सत्यभावविलक्षणत्वेना-निवर्त्यत्वस्यापि प्रसङ्गेनाभावविलक्षणनिवृतौ सादित्वस्यैव प्रयोजकत्वात् । न च द्वितीयानुमाने अनाश्रितत्वमात्रवृत्तित्वमुपाधिः । ध्वंसत्वे साध्याव्याप्तेः ।। निवर्त्यत्वं वेति ।। न चैतयोः सकलनिवर्त्यावृत्तित्वमुपाधिः । विनाशसामग्रीयुक्तत्वे साध्याव्यापकत्वात् । न च विनाशसामग्रीयुक्तत्वेऽनादिभावनिष्ठत्वस्य वाऽनाद्यभावविलक्षणनिष्ठत्वस्य वाऽभावो नेति न तत्र साध्याव्याप्तिरिति वाच्यम् । अभावविलक्षणस्य विनाशे सादित्वस्य प्रयोजकत्वे-नानादिभावे विनाशसामग्रीयुक्तत्वस्याभावात् । साध्यव्यापकोपाधिव्यतिरेकनिश्चयवति विनाश-सामग्रीयुक्तत्वेऽनादिभावनिष्टत्वादेः साध्यव्यतिरेकस्य सन्दिग्धत्वेन निश्चितसाध्यव्यापका-भाववति व्याप्यसंशयरूपव्यभिचारसंशयेनोपाधेर्व्यतिरेकव्याप्त्यसिद्धेश्च ।। अनादित्वं वेति ।। कारणशून्यत्वमित्यर्थः । न चात्र सकलानाद्यवृत्तित्वमुपाधिः । निश्चितोपाधिव्यतिरेकवति प्रागभावाप्रतियोगित्वादौ साध्यस्य सन्देहेनोपाधेर्व्यतिरेकव्याप्त्यसिद्धेः ।। प्रमाणज्ञानं वेति ।। न चात्र प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति वाच्यम् । आवाभ्यामप्रसिद्ध-प्रतियोगिकस्याप्यभावस्य स्वीकारात् ।। आत्मगतत्वाभावादिति ।। न च वृत्तिरूपैको-पाध्यारूढत्वेन प्रमायाश्चैत्रगतत्वमिति वाच्यम् । तथा च प्रमातृप्रमाणप्रमेयसाङ्कर्यापत्या तत्परिहाराय कल्पितभेदमादाय व्यवस्थायास्त्वयाऽपि वाच्यत्वेन प्रमातत्प्रागभावयोर्न चैत्रगतत्वम् । वृत्तेरन्तःकरणगतत्वाच्चेत्यर्थः ।। साध्य इति ।। चैत्रप्रमायाः पक्षीकृतायाः प्रमामात्रप्रागभावनिवर्तकत्वनिश्चयेन प्रमापदस्याव्यावर्तकत्वादित्यर्थः ।। प्रकरणसमता चेति ।। तेनैव हेतुना सत्प्रतिपक्षतेत्यर्थः । ननु सत्प्रतिपक्षानुमाने चैत्रासमवेतत्वमुपाधिः । चैत्रप्रमा न चैत्रगतानादिनिवर्तिका प्रमात्वात् मैत्रप्रमावदित्यनुमानेन चैत्रप्रमाप्रागभावोऽपि न सिद्ध्येदित्याभाससाम्यमित्यत आह ।। न चात्रेति ।। आत्मत्वादौ साध्याव्याप्तेरित्यर्थः । आभाससाम्यं परिहरति ।। उक्तेति ।।

ननु जन्ममात्रे चैत्रगतप्रमाभावातिरिक्तस्वप्रागभावनिवर्तकत्वेनोपाधिसाध्ययोः सत्वा-त्तद्व्यतिरेकसहचाराग्रह इत्यत आह ।। व्यतिरेकेति ।। आकाशादिरप्युत्पन्न इति पक्षे प्रागभाव उपसंहारस्थलं मतान्तरे तु आकाशादिरपीति बोध्यम् ।। चैत्रप्रमेति ।। अनेन प्रागभावद्वयसिद्ध्यापत्तिः ।। घट इति ।। एतेन तु प्रागभावव्यतिरिक्तमनादिभूतं घटविरोधि सिद्ध्यति ।। चैत्रेच्छा वेति ।। अनेन प्रागभावद्वेषाभ्यामतिरिक्तमिच्छाविरोधिभूतं, अप्रामा-प्रागभावाज्ञानाभ्यामन्यदप्रमानिवर्त्यं च सिद्ध्यतीत्यतिप्रसङ्ग इत्यर्थः ।। चैत्रनिष्ठत्वे सतीति ।। एतच्च निवर्तकत्वविशेषणम् । चैत्रप्रमायां चैत्रनिष्ठत्वस्य विशेषणस्य सत्वेन तद्विशिष्टस्य चैत्रप्रमाभावातिरिक्तानादिनिवर्तकत्वस्यानधिकरणत्वे साध्यमाने विशेष्यभूतस्य निरुक्तनिवर्तकत्वस्यानधिकरणत्वं सिद्ध्यतीत्यर्थः । नन्वत्र चैत्रावृत्तित्वमुपाधिरित्यत आह ।। न चेति ।। एतदुपाधित्वे सतीति ।। एतच्च बुद्ध्या विविक्तस्य साध्यव्यापकत्वस्य विशेषणम् । साध्यव्यापकत्वानधिकरणत्वमादाय पक्षे साध्यसिद्धिः ।। अत एवेति ।। आभाससाम्यसत्प्रतिपक्षादिनेत्यर्थः ।। किञ्चेति ।। अभावभ्रमादौ व्यभिचारेणाज्ञानस्य भ्रमानुपादानत्वादित्यर्थः ।। एतज्जनकेति ।। एतज्जनकबाध्यातिरिक्तोपादानक इति पर्यवसितार्थः । न च बाध्यस्याजनकत्वादेतज्जनकबाध्याप्रसिद्ध्या तदतिरिक्ताप्रसिद्धिरिति वाच्यम् । प्रतियोग्यप्रसिद्धेरभावप्रसिद्धिं प्रति गुणत्वेन दोषत्वाभावात् ।। प्रयत्नान्यत्वे सतीति ।। एतच्च प्रवृत्यभाव एव निवृत्तिरिति मतमाश्रित्य प्रयत्ने व्यभिचारवारणाय । मतान्तरे तु प्रवृत्तेर्निवृत्या निवृत्तेश्च प्रवृत्या समानाधिकरणत्वेन साध्यसत्वाद्व्यभिचाराभावेन तदनुपादेयमिति ध्येयम् । नन्विच्छाविरोधिद्वेषसिद्धावपि अनिच्छा यथा न सिद्ध्यति तथा ज्ञानविरोधिनः सिद्धावपि कथमज्ञानसिद्धिरित्यत आह ।। ज्ञानेति ।। एतेनेत्युक्तमेव दूषणजातं विशदयति ।। अप्रयोजकत्वादीति ।। पूर्वं कृत्यभावमात्रेणाकृतस्य कृति-वत्स्मृत्यभावमात्रेणास्मृतस्य स्मृतिवच्चेत्यादिनोक्तस्येति शेषः । एतेनैव ज्ञानविरोधित्वमनादि-भावत्वसमानाधिकरणं सकलज्ञानविरोधिवृत्तित्वात् दृश्यत्ववत् । अनाद्यभावविलक्षणत्वं वा ज्ञानविरोधिवृत्ति अनाद्यभावविलक्षणमात्रवृत्तित्वात् । अभिधेयत्ववदित्यपि निरस्तम् ।।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायां हि नानुमाऽज्ञानसाधिका ।।

न्यायामृतसौगन्ध्यम्

यच्चात्र विवरणानुमानं प्रमाणं विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषया-वरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकं अप्रकाशितार्थप्रकाशकत्वात् । अन्धकारे प्रथमोत्पन्न प्रदीपप्रभावत् । स्वप्रागभावस्वोत्पादकादृष्टस्वोत्पत्तिप्रतिबन्धकादृष्टविषयगताज्ञातत्वैरर्थान्तरता- वारणाय क्रमेण साध्यविशेषणानीति । तन्न । धारावाहिकद्वितीयादिबुद्धिषु बाधासिद्ध्यापत्तेः । न च (धारावाहिकबुद्धीनां) तत्तत्कालावच्छिन्नार्थविषयकत्वेनाज्ञातज्ञापकत्वात् नोक्तदोषः, (अनात्माकारप्रमाणवृत्तीनां तत्तदवच्छिन्नचैतन्यविषयत्वेन स्वविषयावरणनिवर्तकत्वात्) चित्त्वेनैव प्रकाशप्रसक्तिः न त्वनवच्छिन्नचित्त्वेन गौरवादिति वाच्यम् । तत्तत्काला-वच्छिन्नस्य चैतन्यस्य शुद्धभिन्नत्वे तस्य दृश्यत्वेन तत्र मिथ्यात्वं नेति व्यभिचारः । तदभिन्नत्वे तद्दोषतादवस्थात् ।

ज्ञानमज्ञानस्यैव निवर्तकमिति नियमात् स्वनिवर्त्यपदेनैव अर्थान्तरवारणेनेतरपदानां वैय्यर्थ्यात् । न च प्रमात्वेन ज्ञाननिवर्त्यत्वमन्येषां नेत्यत्र तात्पर्यम् । भ्रमस्याज्ञान-तदधीनान्यतरानिवर्तकत्वेन प्रमात्वेनैव सर्वनिवर्तकत्वात् । अज्ञानातिरिक्तस्य स्वविषया-वरणत्वाभावेन तेनैव सर्वपदान्तरवैयर्थ्यात् । न च अस्ति प्रकाशते इत्यादिव्यवहार-विरोधित्वरूपावरणत्वं स्वप्रागभावे स्वोत्पत्तिप्रतिबन्धकादृष्टेऽप्यस्तीति वाच्यम् । स्वप्रकाश-निर्विशेषस्वरूपातिरिक्तसत्ताप्रकाशयोस्त्वन्मते असत्वात् ।

किञ्च जडेऽज्ञानस्यानङ्गीकारात् चितश्चाज्ञानादिसाक्षितया सदा भासमानत्वात् आवरण-स्यैवाप्रसिद्धिः । एतेनाज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽप्यस्ति प्रकाशते इति व्यवहाराभावेन तदंशे अज्ञानावरणमावश्यकमिति निरस्तम् । मोक्षे उक्तव्यवहाराभावेना-ज्ञानावरणापाताच्च ।

किं च ज्ञानाश्रयगतत्वमज्ञानस्यासिद्धम् । न चान्तःकरणस्य चिदाश्रितत्वेन तद्वृत्ते-स्तत्प्रतिफलितज्ञानस्य वा चिदाश्रितत्वसम्भवः । किञ्चिदवच्छिन्नतदाश्रितस्यापि तदाश्रित-त्वानपायात् । कर्णशष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववदिति वाच्यम् । वृत्तेस्तत्प्रतिबिम्बितस्य च त्वन्मते ज्ञानत्वाभावात् । ज्ञानज्ञेययोर्हि आध्यासिकसम्बन्धः, स चोभयत्र नास्ति, किं तु वृत्त्यभिव्यक्ताधिष्ठानचैतन्ये सोऽस्ति । तदेव ज्ञानं, तच्चानाश्रित-मेव । किञ्चिदवच्छिन्नतदाश्रितस्य तदाश्रितत्वे साक्षात् ज्ञानस्याज्ञानाश्रयाश्रितत्वालाभात् । न हि घटाश्रितं घटत्वं साक्षाद्भूतलाश्रितमिति व्यवहृतिः ।

किञ्च प्रमाणज्ञानालोकसाधारणमेकं प्रकाशत्वमप्यसिद्धम् । न च प्रकाशकत्वं प्रकाशक-पदवाच्यत्वं अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम् । प्रकाशपदवाच्यत्वस्याति-प्रसक्तत्वात् । अज्ञानान्धकारानुगताप्रकाशस्याप्रसिद्ध्या तद्विरोधित्वासम्भवात् । न च प्रकाशकपदेन शास्त्रे सर्वदेशकालयोर्वा व्यवह्रियमाणत्वं तद्विवक्षितमिति वाच्यम् । ज्ञाना-लोकसाधारणतया व्यवह्रियमाणत्वस्याप्यनुगतस्यासिद्धेः । उक्तं च विवरणे ‘ज्ञान-प्रकाश्यत्वादज्ञानविरोधित्वादन्यदेव आलोकप्रकाश्यत्वं तमोविरोधित्वं नामे’ति ।

एतेन एवं चाप्रकाशितार्थगोचरत्वे सति प्रकाशशब्दवाच्यत्वादप्रकाशविरोधिप्रकाश-कत्वादिति वा हेतुः पर्यवसित इति निरस्तम् । स्वप्रकाशचितः सर्वदा भासमानत्वेना-प्रकाशितार्थगोरचत्वस्यैवासिद्धेः ।

किञ्च गोपदवाच्यत्वेन पृथिव्या अपि शृङ्गित्वानुमानापाताच्च । किञ्चाज्ञानानुमितेः प्रकाशितार्थप्रकाशकत्वं अप्रकाशकत्वं वा स्यादिति उभयथा व्यर्थत्वापत्या अप्रकाशितार्थ-प्रकाशकत्वमवश्यं वाच्यम् । तथा च तत्र व्यभिचारः ।

किञ्चानादित्वे सति भावत्वं अभावविलक्षणत्वं च न निवर्त्यनिष्ठं अनादिभावमात्र-वृत्तिधर्मत्वात्, अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा आत्मत्ववत् । निवर्त्यत्वं वा नानादि-भावनिष्ठं अनाद्यभावविलक्षणनिष्ठं नेति वा निवर्त्यमात्रवृत्तित्वात् प्रागभावत्ववत् । अनादित्वं वा नावरणनिष्ठं अनादिभाववृत्तित्वात् प्रागभावत्ववत् । प्रमाणज्ञानं वा अभावान्यानाद्य-निवर्तकं ज्ञानत्वात् भ्रमवत् इत्यादिना सत्प्रतिपक्षता, कृत्यभावमात्रेणाकृतस्य कृतिवत् पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं च । ननु अनादिभावत्वस्य निवर्त्यावृत्तित्वेऽपि अविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेर्न विरोध इति चेन्न । अभावविलक्षणे अज्ञाने भावादिवैलक्षण्यस्य व्याहतत्वात् । अनादित्वे सति अभावविलक्षण-त्वेनानिवर्त्यत्वस्यापि प्रसङ्गेन अभावविलक्षणवृत्तौ सादित्वस्यैव प्रयोजकत्वात् । न च द्वितायानुमाने अनाश्रितभावमात्रवृत्तित्वमुपाधिः । अत्यन्ताभावत्वान्योन्याभावत्वध्वंसत्वेषु साध्याव्याप्तेः । न चात्यन्ताभावादयोऽधिकरणातिरिक्ता नाङ्गीक्रियन्त इति वाच्यम् । सप्रतियोगिकाभावनिष्प्रतियोगिकनिर्विशेषब्रह्मणोरभेदासम्भवात् । स्वप्रागभावव्यतिरिक्तेति विशेषणं वदता विवरणेन ध्वंसस्य प्रतियोगिभिन्नत्वाङ्गीकारात् । न च तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपाधिः । ध्वंसप्रतियोगित्वलक्षणानित्यत्वे साध्याव्याप्तेः । न च पञ्चमे सकलानाद्यवृत्तित्वमुपाधिः । प्रागभावप्रतियोगित्वरूपे नित्यत्वे साध्याव्याप्तेः । न चोक्त-नित्यत्वे आवरणावृत्तित्वं सन्दिग्धम् । उपाधेः साध्यव्यापकत्वसन्देहेन तदभावस्य साध्या-भावासाधकत्वात् । न च षष्ठे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिः । आवाभ्यां अप्रसिद्ध-प्रतियोगिकस्याप्यभावस्य स्वीकारात् ।

यत्तु तत्त्वप्रदीपिकोक्तम् । चैत्रप्रमा चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका प्रमात्वात् मैत्रप्रमावत् । विगीतो विभ्रमः एतज्जनकाबाध्यातिरिक्तोपादानकः विभ्रमत्वात् सम्मतवदिति । तन्न । प्रमायास्तत्प्रागभावस्य च चैत्रगतत्वाभावात् । न च वृत्तिरूपैकोपाध्यारूढत्वेन प्रमायाश्चैत्रगतत्वमिति वाच्यम् । वृत्यारूढस्य विषयेणाध्यासिकसम्बन्धाभावेन विषय-प्रकाशत्वरूपज्ञानत्वाभावात् । शुद्धचित्तोऽनाश्रितत्वाच्च । चैत्रप्रमा स्वप्रागभावातिरिक्तानादि-भावनिवर्त्तिका न चैत्रसमवेतत्वात् सुखादिवत् । चैत्रप्रमा चैत्रगतस्यानादिभावस्य निवर्तिका न प्रमात्वात् मैत्रप्रमावत् । चैत्रप्रमा स्वप्रागभावातिरिक्तभावनिवर्तिका प्रमात्वात् मैत्रप्रमावत् । घटश्चैत्रेच्छा वा चैत्राप्रमा वा स्वप्रागभावातिरिक्तानादिनिवर्तिका घटत्वादिच्छात्वाद्वा अप्रमात्वाद्वा घटान्तरवत् मैत्रेच्छावत् मैत्राप्रमावद्वेत्याभाससाम्यम् ।

द्वितीयानुमानमप्यशुद्धम् । विगीतो विभ्रमः एतज्जनकबाध्यातिरिक्तोपादानकः विभ्रमत्वात् सम्मतवत् इति सत्प्रतिपक्षात् । न च बाध्यस्य त्वन्मतेऽजनकत्वात् साध्याप्रसिद्धिः । पक्षविशेषणकानुमाने साध्याप्रसिद्धेरदोषत्वात् । प्रतियोग्यप्रसिद्धिरभावप्रसिद्धिं प्रत्यनुगुणत्वाच्च ।

एतेन विमता प्रमा प्रमाभावातिरिक्तस्य अनादेर्निवर्तिका कार्यत्वात् घटवत् ज्ञानत्वाद्वा भ्रमवत् । भ्रमानुत्तरप्रमा स्वप्रागभावातिरिक्तस्वविरोधिनिवर्तिका प्रमात्वात् भ्रमोत्तरप्रमावत् । ज्ञानत्वं स्वविषयावरणनिवर्तकनिष्ठं अप्रकाशितार्थप्रकाशवृत्तित्वादालोकत्ववत् । अनित्यज्ञानं अभावत्वानधिकरणस्वविरोधिसमानाधिकरणं प्रयत्नान्यत्वे सति सविषयत्वे सति अनित्यत्वात् अनित्येच्छावत् । इच्छा हि स्वविरोधिद्वेषसमानाधिकरणा ज्ञानविरोधिभावश्चाज्ञानमित्यादि नवीनानुमानानि निरस्तानि । विमता प्रमा स्वप्रागभावातिरिक्तस्याभावस्यानिवर्तिका कार्यत्वात् घटवत् । प्रमा स्वाभावातिरिक्तस्वविरोध्यनादिनिवर्तिका ज्ञानत्वात् भ्रमवदित्याभाससाम्य-माद्ये । द्वितीयतृतीययोः विमता प्रमा स्वप्रागभावातिरिक्तानादेर्निवर्तिका न कार्यत्वात् घटवत् । ज्ञानत्वं स्वविषयावरणनिवर्तकनिष्ठं न गुणत्वव्याप्यत्वात् रूपत्वादिवदिति सत्प्रतिपक्षात् । चतुर्थे संस्कारे व्यभिचारात् ।

ननु ज्ञानविरोधित्वं अनादिभावत्वसमानाधिकरणं सकलज्ञानविरोधिवृत्तित्वात् दृश्यत्व-वत् । यद्वा अनाद्यभावविलक्षणत्वं ज्ञानविरोधिवृत्ति अनाद्यभावविलक्षणमात्रवृत्तित्वात् अभिधेयत्ववदिति चेन्न । आद्ये ज्ञानत्वावच्छिन्नप्रतियोगिताकाभावत्वे व्यभिचारात् । द्वितीये अनाद्यभावविलक्षणत्वं न ज्ञानविरोधिवृत्ति भावमात्रवृत्तित्वादभावविलक्षणमात्रवृत्तित्वादिति सत्प्रतिपक्षात् ।

।। इति अविद्यानुमानभङ्गविवरणम् ।।