यच्चेदमुच्यते ब्रह्म सर्वशब्दावाच्यमिति
१३. अवाच्यत्वभङ्गः
न्यायामृतम्
यच्चेदमुच्यते ब्रह्म सर्वशब्दावाच्यमिति । तत्रावाच्यपदेनोच्यते चेद्वाच्यत्वसिद्धिः । नापि तेनापि लक्ष्यते । अवाच्यरूपमुख्यार्थस्यान्यस्याभावात् । भावे वा ब्रह्म नावाच्यं किन्तु तीरवद् अवाच्यरूपमुख्यार्थ सम्बन्धिमात्रमिति स्यात् । मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटशब्दोऽपि घटलक्षकः स्यात् । एवं निर्विशेषं स्वप्रकाशं परमार्थ-सदित्यादिशब्दैर्ब्रह्मोच्यते चेद्वाच्यत्वसिद्धिः । नापि तैरपि लक्ष्यते । निर्विशेष स्वप्रकाशादिरूपमुख्यार्थस्यान्यस्याभावात् । एवं लक्ष्यशब्देनोच्यते चेद्वाच्यत्वसिद्धिः । लक्ष्यते चेल्लक्ष्यत्वहानिः । गङ्गाशब्दलक्ष्यस्याऽगङ्गात्ववल्लक्ष्यपदलक्ष्यस्यालक्ष्यत्वात् । ननु निर्विशेषादिशब्दानां विशेषाभावादिविशिष्टं वाच्यम् । तच्च न ब्रह्म । तस्य विशेषाभावा-द्युपलक्षितत्वादिति चेत्, तर्हि विशेषाभावोपलक्षितशब्दवाच्यत्वम् अनिवार्यम् ।
ननु विशेषाभावोपलक्षितत्वादिकं वा तद्विशिष्टत्वं वा निर्विशेषादिपदवाच्यम् । तच्च न ब्रह्म किन्तु तदाश्रयव्यक्तिभूतं विशेष्यम् । एवं च मुख्यार्थसिद्धिः । ब्रह्मणो निर्विशेषादिशब्दलक्ष्यत्वेऽपि निर्विशेषत्वाद्य हानिश्चेति चेन्न, व्यक्तिः शब्दार्थः जातिस्तूपधानमिति मते, जातिविशिष्टा व्यक्तिः शब्दार्थ इति मते च यत्र विशेष्ये निर्विशेषत्वादिकं तस्य तदवाच्यत्वायोगात् । जातिरेव शब्दार्थः, व्यक्तिस्तु लक्ष्येति मतस्य च व्युत्पत्तिविरोधादिनाऽन्यत्र निरासात् । अस्मिन्पक्षे घटादिव्यक्तेरपि घटादिशब्दावाच्यत्वेन ब्रह्मणस्ततो विशेषार्थं जातिवाचिभिः सत्यादिशब्दैः मञ्चशब्देन पुरुष इव ब्रह्म जात्याधारव्यक्तिसम्बन्धितयैव लक्ष्यत इति वक्तव्यत्वेन मुख्यार्था-भावादिदोषतादवस्थ्याच्च । सत्यं ज्ञानमित्यादौ ब्रह्मणः सत्यत्वादिधर्माश्रयतयैव लक्ष्यत्वे घटादिवत् सखण्डार्थत्वापाताच्च । किञ्च निर्गुणस्वप्रकाशादेरब्रह्मत्वे यद्यद् ब्रह्मतयेष्टं तत्तदब्रह्मेति साधु समर्थितो ब्रह्मवादः ।
नन्ववाच्यादिशब्दाः समस्तरूपाः लक्ष्यादिशब्दास्तु यौगिकाः । उभयेषामपि वाक्यतुल्यत्वान्न वाचकतेति चेन्न, अन्विताभिधानपक्षे तेषामपि वाचकत्वात् । अभिहितान्वयपक्षेऽपि वाक्य एवाभिहितान्वय स्वीकारेण प्रकृतिप्रत्यययोरन्विताभि-धायित्वात् । समासे पदार्थसंसर्गस्य यौगिके प्रकृतिप्रत्ययार्थसंसर्गस्य चानभिधेयत्वेऽपि पदार्थस्य प्रत्ययार्थस्य च वाच्यत्वात् । तदर्थस्य च ब्रह्मणः वाच्यत्वापरिहाराच्च । यदि तु ब्रह्म न पदाद्यर्थः किन्तु पदाद्यर्थसंसर्गरूपं तर्हि सखण्डं स्यात् । यदि तु अवाच्य-मित्यादौ पदद्वयादिकं न स्वार्थसंसर्गपरं किन्तु ब्रह्ममात्रलक्षकं तर्हि न तेनावाच्य-त्वादिसिद्धिः । तस्मान्निर्विशेषादिशब्दवाच्यत्वं दुर्वारम् । तदुक्तम्–
पदं च निर्गुण इति कथं गौणं वदिष्यति ।
गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ।। इति ।
येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदम् ।। एवं च–
अवाच्यलक्ष्यादिपदैर्लक्ष्यं चेद्वाच्यतादिकम् । इति ।
स्यान्नदीशब्दलक्ष्यस्यानदीत्वमिव हि ध्रुवम् ।। ‘यतो वाचो निवर्तन्ते, अशब्द-मस्पर्शम्’ इत्यादिश्रुतिस्तु अद्भुतत्वाद्यभिप्राया ।
न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः ।। इत्यादौ दर्शनात् ।
‘अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।
आनन्दगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ।।
अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि ।। इत्युक्तेश्च ।
पराभिमतार्थे अशब्दमित्यादिशब्दवाच्य त्वस्यापि निषेधेन अशब्दशब्दावाच्यस्या-शब्दत्वासिद्ध्या स्वव्याघाताच्च । ‘यतो वाचः’ इत्यत्र मनसा सहेति श्रुतम् । अतो वृत्तेरिवान्तःकरणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोगाच्च । ‘यतः’ ‘आनन्दं ब्रह्मणः’ इति यदानन्दाद्यनेकशब्दमुख्यार्थत्वाय निवर्तन्त इत्येकामुख्यार्थ त्वस्यैव न्याय्यत्वाच्च । त्वन्मते ‘यतो वाचो निवर्तन्ते’ इत्यादेरपि लक्षणया चिन्मात्रपरत्वेन वाच्यत्वा विरोधित्वाच्च । ‘अथ कस्मादुच्यते ब्रह्मेति तस्मादुच्यते परं ब्रह्मेति’ इति श्रुत्या ‘वचसां वाच्यमुत्तमं परमात्मेति चाप्युक्तः’ इत्यादिस्मृत्या ‘वेदान्ततात्पर्यविषयो ब्रह्म वाच्यम्, वस्तुत्वाल्लक्ष्यत्वाच्च, तीरवत् । परमार्थसदादिपदं कस्यचिद्वाचकं पदत्वाद्, घटपदवत् । सत्यज्ञानादिवाक्यं वाच्यार्थतात्पर्यवत्पदयुक्तम्, वाक्यत्वात्, अग्निहोत्रादिवाक्यवदित्याद्यनुमानैश्च विरोधाच्च ।
विपक्षे लक्ष्यत्वं न स्यात् । तथा हि– लाक्षणिकशब्दो न श्रुत एवार्थान्तरधीहेतुः । तत्रागृहीतशक्तिक त्वात् । किन्तु पूर्वधीस्थे वाच्यार्थेऽनुपपत्तिदर्शने सति तत्त्यागेन स्वरूपतो वाच्यार्थसम्बन्धित्वेन चावगत स्यार्थान्तरस्य बोधकः । गङ्गाशब्दादौ तथा दर्शनात् । अन्यथाऽतिप्रसङ्गाच्च । तथा च ब्रह्मणोऽपि लक्ष्यत्वे वाच्यार्थसम्बन्धित्वेन ज्ञेयत्वात् । औपनिषदत्वश्रुत्या वेदैकगम्यस्य चाशब्देनाज्ञेयत्वात् । स्वप्रकाशतया नित्यसिद्धौ च शब्दवैयर्थ्यात् । अवाच्ये च शब्दस्य लक्षकस्यैव वक्तव्यत्वात् । तत्रापि वाच्यसम्बन्धित्वेन ज्ञेयत्वेनानवस्थेति कथमवाच्ये लक्षणा । एवं च–
वाच्ययोगितया बुद्धं लक्ष्यं ब्रह्म च वैदिकम् ।
अवाच्यं चेति वक्तव्ये लक्षके ह्यनवस्थितिः ।।
न च वाचकस्यापि गृहीतसङ्गतिकस्यैव बोधकत्वात्सम्बन्धग्रहणस्य च सम्बन्धि-ज्ञानाधीनत्वात्, सम्बन्धिनश्च ब्रह्मणः शब्दैकगम्यत्वात्, तवाप्यनवस्थेति वाच्यम् । यौगिकशब्दानां वाक्यतुल्यत्वेन सङ्गतिग्रहणानपेक्षणात् । एवमवाच्यं चेद् ब्रह्म न सिद्ध्येत् । स्वतः सिद्धेर्निरस्तत्वात् । औपनिषदत्वेन चाशब्देनासिद्धेः । लक्षकस्य च शब्दस्य वाच्यार्थसम्बन्धित्वेन ज्ञातं प्रत्येव साधकत्वेनावाच्यस्य सिद्ध्ययोगात् । ननु चात्र पक्षो ब्रह्म पदवाच्यं चेत्सिद्धसाधनम् । लक्ष्यं चेद्विरोधः । अत एवावाच्यत्वे लक्ष्यत्वं न स्यादिति तर्कोऽप्ययुक्तः । आपाद्यापादकयोरप्रसिद्ध्या व्याप्त्यसिद्धेश्च । उक्तं हि–
कथं लक्ष्यत्वमत्यन्तावाच्यस्येति न चोद्यताम् ।
अत्यन्तावाच्यशब्देन लक्ष्यस्यैवावबोधनात् ।।
इति चेन्न, वेदान्ततात्पर्यविषयत्वादिना रूपेण पक्षीकरणात् । अन्यथा त्वदीयेऽ-वाच्यत्वानुमानेऽपि पक्षो ब्रह्म वाच्यं चेद्विरोधः, लक्ष्यं चेदाश्रयासिद्धिरिति स्यात् । अस्ति च यत्र प्रयोजकाभावस्तत्र प्रयोज्याभाव इति सामान्यव्याप्तिः । उक्ता च लक्ष्यत्वे वाच्यत्वस्य तन्त्रता । न चेक्षुक्षीरमाधुर्यादौ वाक्यार्थे च व्यभिचारः । तस्यापि माधुर्य-वाक्यार्थादिसाधारणशब्दवाच्यत्वात् ।
विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् ।
गुडस्य पनसादीनां निर्हारीत्यभिधीयते ।।
इत्युक्तत्वेन अन्विताभिधानस्यान्यत्र समर्थितत्वेन चासाधारणशब्दवाच्यत्वाच्च । अभिहितान्वयपक्षेऽपि वाक्यार्थो नोच्यते नापि लक्ष्यते किन्त्वन्विताभिधाने विशेषान्वय इव वृत्तिं विनैव संसर्गमर्यादया प्रतीयत इति तार्किकमते वाक्यार्थे लक्ष्यत्वस्याप्य-भावाच्च । न च वाक्यार्थशब्दस्य समासत्वेन लक्षकत्वान्न वाचकतेति वाच्यम् । समासस्य लक्षकत्वपक्षेऽपि राजपुरुष इत्यत्र राजशब्दस्येव वाक्यशब्दस्य षष्ठ्यर्थ लक्षकत्वेऽपि पुरुषशब्दस्येव अर्थशब्दस्य वाचकत्वात् । एतेन समासस्य वाक्यतुल्य-त्वेनाभिहितान्वयेऽभिधानं विनैव स्वार्थबोधकतेति निरस्तम् । वाक्यशब्दार्थशब्दयोर्यावर्थौ तत्संसर्गत्वेन रूपेण समासावाच्यत्वेऽपि अर्थत्वरूपेणार्थपदवाच्यत्वात् । ननु प्रवृत्तिनिमित्ताभावात्कथं वाच्यत्वम् ? उक्तं हि–
‘‘दृष्टा गुणक्रियाजातिरूढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभि-धीयते’’ ।। इति । न च घटादाविवारोपितं निमित्तमस्तीति शङ्क्यम् । आरोपिते श्रुतितात्पर्यायोगेन तात्पर्यविषयस्य वाच्यत्वायोगादिति चेन्न । सत्यादिशब्दानां लक्षकत्वे सिद्धे निमित्ताभावस्तस्मिंश्च सिद्धे लक्षकत्वम् इत्यन्योऽन्याश्रयात् । स्वरूपमात्र-प्रश्नोत्तरत्वेन तल्लक्षकतेत्यस्य च निरासात् । निर्विशेषवाक्यस्य च स्वरूपमात्रपरत्वे सत्यत्वाद्यविरोधात् । तस्य निर्विशेषत्वविशिष्टपरत्वे तु निमित्तस्य सत्वेन निर्विशेष-शब्दवाच्यत्वापातात् । अभावनिमित्तकशब्दवाच्यत्वे च निर्गुणत्वभङ्गे उक्तरीत्या प्रामाणिक त्वाविशेषेण भावनिमित्तकशब्दवाच्यत्वस्यापि दुर्वारत्वात् । तस्माद् ब्रह्मणि सर्वेषां वैदिकशब्दानां लक्षणेत्येतदयुक्तम् । उक्तं हि–
एकस्यापि च शब्दस्य गौणार्थस्वीकृतौ सताम् ।
महती जायते लज्जा यत्र तत्राखिला रवाः ।।
अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् ।
कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ।। इति ।
तस्माद्यौगिकानन्तवैदिकशब्दवाच्यत्वादनन्तगुणं ब्रह्म जीवादिभिन्नम् ।
।। इति अवाच्यत्वभङ्गः ।। १३ ।।
अद्वैतसिद्धि:
निर्धर्मकतयाऽवेद्यतया च ब्रह्म आनन्दादिपदलक्ष्यं, न वाच्यम्, प्रवृत्तिनिमित्ताभावादिति । ननु अवाच्यशब्देनोच्यते चेद्वाच्यत्वसिद्धिः । लक्ष्यते चेदवाच्यरूपमुख्यार्थस्याभावात्कथं लक्षणा ? भावे वा ब्रह्म नावाच्यं, किन्तु तीरवदवाच्यरूप मुख्यार्थसम्बन्धिमात्रमिति स्यात् । मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि घटलक्षकं स्यादिति चेन्न, अवाच्यरूपमुख्यार्थाभावेऽपि नञ्समभिव्याहृत-वाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानात् । एवं निर्विशेषपदमपि, अखण्डपदलक्षकतायामेव मुख्यार्थावश्यम्भावनियमात् । नन्वेवं लक्ष्यपदेनापि लक्ष्यत्वे तीरस्यागङ्गात्ववद् ब्रह्मणोऽलक्ष्यत्वापत्तिरिति चेन्न, इष्टत्वात्, सर्वथा निर्धर्मकत्वात्, लक्ष्यव्यवहारस्य च वाच्यत्वाभाव निबन्धनत्वात् । तथा प्रतिपादिकं प्राक् । न चैवं लक्ष्यत्वाभावेन वाच्यत्वव्यवहारप्रसङ्गः । गौणस्य तस्यापीष्टत्वात् । सत्यज्ञानादिपदानां च कल्पितधर्मवाचिनां ब्रह्मरूपव्यक्तिलक्षकतयाऽखण्डार्थत्वा-नपायात् । न च सत्त्वादिधर्माश्रयतया लक्ष्यत्वाभावे मञ्चसम्बन्धित्वमात्रेण लक्ष्यस्य पुंसः अमञ्चत्ववत् सत्त्वादिसम्बन्धित्वमात्रेण लक्ष्यस्य ब्रह्मणः असत्त्वाद्यापत्तिरिति वाच्यम् । कल्पितचन्द्रत्वादिजातेः परमार्थचन्द्रादिव्यक्तितादात्म्येनाचन्द्रत्वाभाववदत्रापि सत्त्वाद्यभावानापत्तेः । तदुक्तम्– ‘लक्ष्यव्यक्तिरपि ब्रह्म’ इति । अत एव– स्वप्रकाशादेरब्रह्मत्वे यद्यद् ब्रह्मतयेष्टं तत्तदब्रह्मेति साधु समर्थितो ब्रह्मवाद इति निरस्तम् ।
यत्तु निर्विशेषादिपदानां च समासपदतया लक्ष्यादिपदानां यौगिकतया वाक्यतुल्यत्वान्न वाचकतेति वक्तुमशक्यम् । अन्विताभिधानपक्षे तेषामपि वाचकत्वात् । अभिहितान्वयपक्षेऽपि वाक्य एवाभि-हितान्वयस्वीकारेण प्रकृतिप्रत्ययोरन्विता भिधायकत्वाद्वाक्यतुल्यस्यापि वाचकत्वाद् ब्रह्मणः पदार्थसंसर्ग-रूपत्वे सखण्डत्वापत्त्या पदार्थत्वे वाच्यत्वापरिहारादिति । तन्न । पदलक्ष्यत्वेऽप्यपदार्थत्वोपपत्तेः । अखण्डत्वेऽपि वाक्यार्थत्वस्योपपादितत्वाद् अन्विताभिधानेऽन्वितवाचकस्यापि स्वरूपे लक्षणाङ्गी-कारात् । न च तर्ह्यवाच्यत्वासिद्धिः । अखण्डब्रह्मसिद्ध्युपायत्वेन प्राप्तस्यावाच्यत्वादेः निवारका-भावेनानुषङ्गिकतया सिद्धेः । ‘यतो वाचो निवर्तन्ते, अशब्दमस्पर्शम्’ इत्यादिश्रुतयश्चात्रानुसन्धेयाः । अवाच्यशब्दवदशब्दशब्देऽपि व्याघाताभावात् । न चेयं श्रुतिरद्भुतत्वाभिप्राया । श्रूयमाणार्थत्वे बाधकाभावात् । न च ‘यतो वाचः’ इत्यत्रापि मनसा सहेति श्रुतमतो वृत्तेरिवान्तःकरणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोगः । लक्षणायाः स्वीकारेण शक्तिमात्रस्यैव निराकरणात् । न च आनन्दाद्यनेकपदामुख्यार्थत्वापेक्षया निवर्तन्त इत्येकपदार्थामुख्यत्वमेव युक्तमिति– वाच्यम्, ब्रह्मणो निर्धर्मकतया तत्र शक्त्यभावेन बहुत्वस्याप्रयोजकत्वाद्वाच्यत्व विरोध्यर्थद्वारैवाखण्डार्थपरतया तद्विरोधतादवस्थ्यात् । अत एव कस्मादुच्यते परं ब्रह्मेत्यादिश्रुतेः ‘परमात्मेति चाप्युक्त’ इत्यादिस्मृतेश्च तत्तच्छब्दबोध्यत्वमात्रेण वाच्यत्वाभिलापः, न तु शक्यत्वाभिप्रायेणेति ताभ्यां न विरोधः । तात्पर्यविषयो ब्रह्म वाच्यं, वस्तुत्वाल्लक्ष्यत्वाच्च तीरवदिति चेत्, निर्धर्मकतया वाच्यत्वबाधात्, तदुन्नीतसधर्मकत्वाद्युपाधि सम्भवाच्च । परमार्थसत्यपदादिकं कस्यचिद्वाचकम्, पदत्वादित्यपि न, किमत्र पदत्वम् ? न तावत्सुप्तिङन्तत्वम् । समासपदस्याशक्तत्वेन राजपुरुषादौ व्यभिचारात् । नापि शक्तत्वम्, साध्याविशेषाद्, अवयवद्वारा समासपदस्य वाचकत्वं चेदिष्टमेव । नापि सत्य-ज्ञानादिवाक्यं वाच्यार्थतात्पर्यवच्छब्दयुक्तं वाक्यत्वादित्यपि, ‘विषं भुङ्क्ष्व’ इत्यादौ व्यभिचारात् ।
ननु– अवाच्यत्वे लक्ष्यत्वानुपपत्तिः, वाच्यार्थसंबन्धित्वेन ज्ञातस्यैव लक्ष्यत्वात्, तज्ज्ञानं च न शब्दभिन्नेन, उपनिषन्मात्रगम्यत्वात्, नापि स्वप्रकाशतया, नित्यसिद्धे शब्दवैयर्थ्यात् । अवाच्य-शब्दस्य च लक्षकस्यैव वक्तव्यत्वात्तत्रापि वाच्यसम्बन्धित्वेन ज्ञेयत्वेऽनवस्थेति चेन्न, तथा ज्ञानमुपस्थितावुपयोगि । ब्रह्म स्वप्रकाशतया स्वत एवोपस्थितमिति किं तेन ? न चैवं शब्दवैयर्थ्यम् । आवरणाभिभावकवृत्तावुपयोगात् । अत एव नानवस्था । तस्मात् प्रवृत्तिनिमित्तस्य दुर्निरूपत्वाद-वाच्यत्वम् । तदुक्तम्–
दृष्टा गुणक्रियाजातिसम्बन्धाः शब्दहेतवः ।
नात्मन्यन्यतमो ह्येषां तेनात्मा नाभिधीयते ।। इति ।
न चारोपितगुणाश्रयतया वाच्यता । तस्य तात्पर्याविषयतया तात्पर्यविषयेऽवाच्यत्वस्य स्थितत्वात् । न च सत्यादिपदानां लक्षकत्वे सिद्धे निमित्ताभावः, तस्मिंश्च लक्षकत्वमिति परस्पराश्रयः । निर्विशेषवाक्येन नेति नेतीत्यनेनैव निमित्ताभावस्य सिद्धत्वात् । न च निर्विशेषवाक्यस्य स्वरूपमात्रपरत्वे प्रवृत्तिनिमित्ताविरोधः । निर्विशेषत्वविशिष्टपरत्वे च तस्यैव सत्त्वेन निर्विशेष-पदवाच्यत्वस्यैव प्रसङ्ग इति वाच्यम् । द्वारतया उपस्थितस्य स्वपरविरोधित्वान्निर्विशेषस्य वाच्यत्वा-सम्भवाच्च । तस्मान्निर्विशेषत्वादेव जीवब्रह्माभेदः सिद्धः, भेदकासम्भवात् ।
तथा च–
ब्रह्मण्यवाच्ये यो विद्वान्वाच्यतामधिगच्छति ।
स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम् ।।
।। इत्यद्वैतसिद्धौ ब्रह्मणः शब्दावाच्यत्वोपपत्तिः ।। १३ ।।
न्यायामृततरङ्गिणी
अवाच्येति ।। नन्ववाच्यरूपमुख्यार्थाभावेऽप्यवाच्यपदस्य वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानम् । मैवम् । अवाच्यपदजन्यज्ञानविषये ब्रह्मणि वाच्यत्वात्यन्ता-भावोऽस्ति चेद् ब्रह्मावाच्यपदवाच्यं स्यात् । न चेत्तर्हि तद्विरुद्धवाच्यत्वापत्त्या ब्रह्मणो वाच्य-पदवाच्यत्वापत्तेः । परस्परविरहरूपयोरेकस्य बाधेऽपरस्य धर्मिसत्वनियमात् ।। मुख्यार्थ-सिद्धिरिति ।। निर्विशेषादिपदानामित्यनुषङ्गः ।। निर्विशेषत्वाद्यहानिरिति ।। निर्विशेषत्व-रूपधर्मबहि र्भावेन निर्विशेषत्वाश्रयव्यक्तेर्लक्ष्यत्वान्न निर्विशेषत्वहानिः । गङ्गापदेन गङ्गात्वा-नाश्रयस्य लक्ष्यत्वाद्गङ्गापदलक्ष्ये गङ्गात्वहानिरेव ।। उपधानमिति ।। शक्तिग्रहदशायां तटस्थैव जातिर्व्यक्तीनामनुगमिकेत्यर्थः ।। मुख्यार्थाभावादीति ।। शक्यमञ्चत्वतदाश्रयव्यक्तितल्लक्ष्य-पुरुषाणामिव शक्यनिर्विशेषत्वतदाश्रयव्यक्तितल्लक्ष्यब्रह्मणां त्रयाणामभावात् । ब्रह्मभिन्नस्य निर्विशेषपदस्य वाच्यत्वाभावात् । ब्रह्मणश्च निर्विशेषपदलक्ष्यत्वाङ्गीकारादित्यर्थः ।। सत्यं ज्ञानमिति ।। जातिः शब्दार्थ इति मते गोत्वाश्रयतया गोर्लक्ष्यत्ववत्सत्यत्वाश्रयतयैव ब्रह्मव्यक्तिर्लक्ष्येति सखण्डार्थत्वम् ।
निर्विशेषलक्ष्यादिपदानां ब्रह्मान्यस्य मुख्यार्थस्याभावात्ते ब्रह्मवाचका इत्युक्तं तत्र शङ्कते– नन्विति ।। समासे प्रत्येकपदयोरिव समासस्याप्यन्वितवाचकत्वमस्तीत्याह– अन्वितेति ।। ननु न समासेऽपि शक्तिकल्पनं, गौरवादत आह– समास इति ।। तदुक्तमिति ।। ईक्षत्यधिकरणनुव्याख्यान इति शेषः ।। पदं चेति ।। निर्गुण इति पदं गुणवद्वस्तु कथं वदिष्यति । व्याघातात् । तत्परिहाराय निर्गुणपदेन स्ववाच्यगुणाभावविशिष्टद्वारा निर्गुणमुप-लक्ष्यं चेदपि तथापि तत्पदं लक्ष्यपदम् । ब्रह्मणो वाचकमङ्गीकरणीयमित्यर्थः ।। येनेति ।। येन पुरुषेण ब्रह्म लक्ष्यमिति प्रोक्तं स लक्ष्यशब्देन ब्रह्मावदत् । लक्ष्यपदं वाचकं तत्र प्रयुक्तवानित्यर्थः । ऊदे ऊचे ।। यतो वाच इत्यत्रेति ।। अन्तःकरणवृत्तिव्याप्ये ब्रह्मणि श्रुतस्यापि मनोवृत्तिनिषेधस्य सङ्कोचवद्वाग्वृत्तिनिषेधस्यापि सङ्कोचः कार्यः ।। यत इति ।। ‘यतो वाचो निवर्तन्ते अप्राप्यमनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’ इति श्रुतौ यत इति शब्दस्य आनन्दब्रह्मशब्दादीनां च ब्रह्मवाचकत्वरूपमुख्यार्थात् ‘निवर्तन्ते’ इति पदमेव प्रच्यावनीयम् । तथा च यत्पदस्य आनन्दादिपदानां च बहूनामनुग्रहः स्यादित्यर्थः ।
त्वन्मत इति ।। यतो वाचो निवर्तन्त इत्यस्य ब्रह्मवाच्यत्वनिषेधार्थकत्वाभावात् ।। वेदान्तेति ।। अत्र पक्षासिद्ध्यादिकं स्वयमनुपदमेव परिहरिष्यति । न च सधर्मकत्वमुपाधिः । साध्योपाध्योः केवलान्वयितया तद्व्यतिरेकाद्यसाधनात् ।। पदत्वादिति ।। न च समासादिपदे व्यभिचारः । तस्याप्यवयवद्वारा वाचकत्वात् । ब्रह्मणस्त्ववयवार्थत्वे सखण्डत्वापातः ।। सत्येति ।। न च ‘विषं भुंक्ष्व’ इत्यादौ व्यभिचारः । तत्रापि वाच्यार्थपरत्वस्योपपादितत्वात् ।। शब्दवैयर्थ्यादिति ।। न चावरणाभिभावकवृत्तौ शब्दस्योपयोगः, घटादेः प्रत्यक्षत्वमेव, शब्दस्तु तदावरणनिवर्तकवृत्तौ हेतुरित्यापातात् ।। वाच्येति ।। गङ्गापदादौ वाच्यसम्बन्धितया ज्ञातं तीरादिकं लक्ष्यं दृष्टम् । ब्रह्मणो वाच्यसम्बन्धितयाऽवगतिस्तु मानान्तरागम्यत्वाद-वाच्यत्वाच्च लक्षकपदेनैव वाच्या । लक्षकपदं तु वाच्यसम्बन्ध्यवयवसम्बन्धितया ज्ञातमेव बोधयतीति । तथा ज्ञानार्थं ब्रह्मणि लक्षकपदान्तरमेव प्रयोक्तव्यमित्यनवस्थितिर्लक्षकपद इत्यर्थः ।
यौगिकेति ।। यौगिकपदावयवार्थसंसृष्टरूपेणोपस्थिते ब्रह्मरूपे सम्बन्धिनि पदान्तरस्य शक्तिरूपः सम्बन्धो ग्रहीष्यते । तव तु नैवं परिहारः । अखण्डार्थत्वहानेः ।। ब्रह्म न सिद्ध्येदिति ।। प्रत्यक्षानुमानलौकिकशब्दानां ब्रह्मण्यप्रवृत्तेर्वैदिकशब्द वाच्यत्वस्याप्यनङ्गीकारे वाच्यत्वव्याप्यलक्ष्यत्वस्याप्यभावापत्त्या ब्रह्म न सिद्ध्यदित्यर्थः ।। अप्रसिद्ध्येति ।। वाच्यत्वलक्ष्यत्वयोः केवलान्वयितया तदभावाप्रसिद्धिः ।। व्याप्तीति ।। वाच्यत्वं न लक्ष्यत्वव्यापकमित्यर्थः । पक्षमदृढमतर्कोपि युक्त इत्यत आह– अस्ति चेति ।। न वयं यत्र वाच्यत्वं न तत्र लक्ष्यत्वं नेति व्याप्तिं ब्रूमः किन्तु यत्र प्रयोजकं न तत्र प्रयोज्यं नेति । भवति च वाच्यत्वं लक्ष्यत्वे प्रयोजकम् । वाच्यसम्बन्धित्वेनोपस्थितिं विना लक्ष्यत्वायोगात् । लक्ष्यत्ववाच्यत्वयोर्व्याप्यव्यापकभावे व्यभिचारं परिहरति– न चेक्षुक्षीरेति ।। उक्ताश्च गन्धादिषु विशेषाः महाभाष्ये षष्ठी इत्यत्र सूत्रे । घनस्य तीव्रः वदनस्य मृदुरिति तत्रैव कैयटे । तीव्रो गन्धस्य विशेषः मृदुत्वं स्पर्शस्येति ।
अभिहितेति ।। अभिहितान्वयपक्षे तार्किकमते च वाक्यार्थे हेतोरेवगमनान्न व्यभिचार इत्यर्थः । वाक्यार्थादिसाधारणशब्दवाच्यत्वाद्वाक्यार्थे न व्यभिचार इत्यत्र शङ्कां निरस्यति– न च वाक्यार्थेति ।। समासस्य लक्षकत्वे वाचकत्वमप्यस्तीत्याह– समासस्येति ।। पुरुषशब्दस्येवार्थशब्दस्य वाचकत्वादित्यर्थः । नन्वर्थशब्दस्य वाचकत्वेऽपि वाक्यार्थशब्दस्य न वाचकत्वम् । मैवम् । वाक्यशब्दस्य लक्षकत्वेऽपि वाक्यार्थशब्दस्य न लक्षकत्वमिति समत्वात् ।। संसर्गरूपेणेति ।। तेन रूपेण समासालक्ष्यत्वाच्च न व्यभिचार इति भावः ।। एकस्यापि चेति ।। यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागे-नामुख्यार्थस्वीकृतौ कृतायां सत्यां महती लज्जा जायते तत्राखिला अपि शब्दा अमुख्यार्था इति वदतां, तस्यात्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं लज्जा कथं न जायेत । केभ्यः । तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना ।
।। इति अवाच्यत्वभङ्गः ।। १३ ।।
न्यायामृतकण्टकोद्धारः
ननु ब्रह्मणोऽपि निर्धर्मिकतया प्रवृत्तिनिमित्तविधुरतयाऽवाच्यत्वात्कथमपुनरुक्तानन्त-शब्दवाच्यत्वं तथाऽनन्तगुणत्वमित्यतो निर्धर्मकत्वमसिद्धम् । सगुणवादे सधर्मकत्वस्य स्थापित-त्वात् । तथा च प्रवृत्तिनिमित्त सम्भवाद्वाच्यत्वं युक्तमित्यभिप्रेत्यावाच्यत्वे बाधकानि वक्तुं परमतमनुवदति– यच्चेदमिति ।। अभावादिति ।। तथा च मुख्यार्थसम्बन्धरूपलक्षणासिद्धिरिति भावः ।। स्यादिति ।। तथा च ब्रह्मणो वाच्यत्वसिद्ध्यर्थं सर्वपदलक्ष्य त्वस्याभावेऽन्यस्यैव वाच्यत्वं सिद्ध्यतीत्यर्थान्तरमिति भावः । ननु मुख्यार्थाभावेऽपि लक्षणा स्वीक्रियत इत्यत आह– मुख्यार्थहीनस्यापीति ।। न च नञ्समभिव्याहृतवाच्यशब्दस्य मुख्यार्थाभावे वाच्यत्वात्यन्ता-भावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानमिति वाच्यम् । मुख्यार्थाभावेन लक्षणानुपपत्तौ चोदितायामस्य व्यधिकरणत्वात् । किञ्च वाच्यत्वात्यन्ताभावो ब्रह्मणि बोध्यतेऽन्यत्र वा ? तटस्थ-तया वा ? नाद्यः । वाच्यत्वप्रतिपादकश्रुतिविरोधेन तस्य बोधयितुमशक्यत्वात् । न द्वितीयः । अन्यस्यैव वाच्यत्वापत्तेः । न तृतीयः । ब्रह्मणीव घटादावपि पर्यवसानस्य वक्तुं शक्यत्वात् । ब्रह्मणो वाच्यत्वासिद्धेश्च ।। मुख्यस्यान्यस्याभावादिति ।। तथा च लक्षणासिद्धिः । ब्रह्मणो
निर्विशेषत्वाद्यसिद्धिश्चेति शेषः ।। अनिवार्यमिति ।। तथा च न सर्वथा वाच्यत्वसिद्धिरिति भावः ।
ननु यत्र लक्ष्यं वाच्यानन्तर्गतं तत्र लक्ष्यं वाच्यसम्बन्धितया सिद्ध्यद् वाच्यान्यदेव सिद्ध्यति । यत्र च तदन्तर्गतं तत्र न तत्सम्बन्धितया सिद्धिः । प्रकृते च विशिष्टं वाच्यम् । तदन्तर्गतमेव विशेष्यं ब्रह्म वाच्यत्वेऽपि ब्रह्मणो नावाच्यत्वाद्यसिद्धिरिति शङ्कते– नन्विति ।। तत्पदावाच्यत्वा-योगादिति ।। तथा च निर्विशेषत्वादिकं तत्प्रतिपादकपदावाच्यत्वञ्च व्याहतमिति भावः । उपलक्षणमेतत् । लक्षणायामपि निर्विशेषत्वादिसिद्ध्यङ्गीकारे सत्यादिपदलक्ष्यत्वेऽपि सत्त्वादि-सिद्धिर्दुर्वारेति लक्षणयाऽखण्डार्थत्वमिति मतं भज्येतेत्यपि द्रष्टव्यम् । न चानन्त्य व्यभिचाराभ्यां व्यक्तिपक्षस्य दुष्टत्वाज्जातिपक्षे लाघवाज्जातिरेव पदार्थ इत्यतः एवमपि पूर्वोक्तदोषतादवस्थ्य-मित्याह– अस्मिन्पक्ष इति ।। मञ्चशब्देन यथा मञ्चाश्रितपुरुषलक्षणा तथेत्यर्थः । अवाच्यादि-शब्देभ्यः ब्रह्मणः सिद्धिः वाक्यार्थतया उत पदार्थतया । न द्वितीय इत्याह– अन्वितेति ।। न चान्वितवाचकत्वेऽपि स्वरूपलक्षणैवेति वाच्यम् । अन्वितस्वरूपातिरिक्तरूपाभावात् । अन्वयाना-लिङ्गिते लक्षणेति वाच्यम् । तादृशस्य शब्दात्पूर्वमसिद्धत्वेन तत्र लक्षणायोगात् ।
अन्विताभिधायित्वादिति ।। तथा च ब्रह्मणः प्रत्ययार्थत्वेन वाच्यत्वसिद्धिरिति भावः ।। तस्येति ।। न च वाच्यत्वाभावेऽपि लक्षणया पदार्थत्वमिति वाच्यम् । ब्रह्मातिरिक्तशक्त्यभावेन तत्र लक्षणानुपपत्तेः । प्रथममाशङ्क्य निषेधति– यदि चेति ।। संसर्गस्य सखण्डत्वनियमादिति भावः । नन्ववागादिपदं नञर्थसंसर्गपरलक्षणया ब्रह्ममात्र परमित्यत आह– यदि त्विति ।। उपसंहरति– तस्मादिति ।। उक्तानि दूषणानि सिद्धान्तसिद्धानीत्याह– उक्तञ्चेति ।। निर्गुण इत्यादिपदं कथं गुणादिविशिष्टं वदिष्यति व्याघातात्, गुणाभावोपलक्ष्यं निर्गुण इति पदं वदिष्यतीति यदि तर्हि तदपि गुणाभावोपलक्ष्यपदमपि वाचकमिति सर्वथा वाच्यत्वसिद्धिरिति सम्मतिश्लोकार्थः । उक्तमर्थं श्लोकेन सङ्गृह्णाति– एवञ्चेति ।। ननु यदि ब्रह्मणो वाच्यत्वमङ्गीक्रियते तर्हि यतो वेत्यादि श्रुतिविरोधः । तत्रावाच्यत्वस्याप्रतिपादनादित्यत आह– यत इति ।। न च श्रूयमाणार्थबाधका-भावान्नाद्भुतत्वाद्यभिप्रायता श्रुतेरिति वाच्यम् । बाधकानामुक्तत्वाद्वक्ष्यमाणत्वाच्च ।
नन्वद्भुतत्वाद्यभिप्रायेणावाच्यत्वप्रयोगस्य क्वाप्यदर्शनाद् ब्रह्मणि अद्भुतत्वाभिप्रायेणावाच्यतेत्यत्र किं प्रमाणमित्यत आह– अद्भुतत्वादिति ।। लोकव्यवहारोऽपि प्रमाणमित्याह– अवाच्य-मितीति ।। भुवि लोकोऽपि आश्चर्यतमम् अवाच्यमिति वक्तीत्यर्थः । नन्वेवं कल्पना किमर्थं क्रियते पराभिमत एवार्थः किं न स्यादित्यतो बाध्यबाधकादित्युक्त मात्रानुपपत्तेश्चेत्याह– पराभिमतार्थ इति ।। शब्दावाच्यत्वसिद्ध्यर्थमशब्दवाच्यत्वं स्वीकर्तव्यम् । अन्यथा गङ्गाशब्दा-वाच्यस्यागङ्गात्ववत् अशब्दशब्दवाच्यस्याशाब्दत्वासिद्धेः । तथा च व्याघात इत्यर्थः । किञ्च यतो वेत्यत्र सर्वथा वाक्प्रवृत्तिनिषेधोऽयुक्तः । मनसा सहेत्यनेन सहपाठादित्याह– यतो वाच इत्यत्रेति ।। न च लक्षणया वाक्प्रवृत्तेरङ्गीकारान्नोक्तदोष इति वाच्यम् । सङ्कोचस्यावश्यकत्वे साकल्येनावाच्यमित्येव न्याय्यम् । अन्यथा वाच्यत्वाभावे लक्षणाभावेन पूर्वोक्तदोषतादवस्थ्यात् ।। यत इति ।। न च ब्रह्मणो निर्धर्मकत्वेन प्रवृत्तिनिमित्ताभावेन वाच्यत्वायोगादनेकेषाम् अमुख्यार्थतेति वाच्यम् । निर्धर्मकत्वभावाभावाभ्यां व्याघातात् । सधर्मकत्वस्योपपादितत्वाच्च । शक्यतावच्छेदकाभावे शक्त्यभाववल्लक्ष्यतावच्छेदकाभावे लक्षणाया अप्ययोगाच्च ।
सम्मत इति ।। न च वाच्यत्वविरोध्यवान्तरार्थस्वीकाराद्विरोधित्वमिति वाच्यम् । तत्र तात्पर्याभावेन तद्विरोधस्याकिञ्चित्करत्वात् । तात्पर्याङ्गीकारे च श्रुतितात्पर्यविषयस्य सत्यत्व-नियमेनाद्वैतव्याकोपात् । यतो वेत्यादेः सर्वथाऽवाच्यत्वपरत्वे श्रुतिस्मृत्यनुमानविरोध इत्याह– अन्येति ।। श्रुतौ स्मृतौ च वच्धातुप्रयोगात्, तस्य च वाच्यत्व एव योगात्, निरवकाशत्वेन बलवत्त्वम् । यतो वा इत्यादौ तु न तथात्वमिति भावः ।। वेदान्तेति ।। अत्र विशिष्टब्रह्मणो वाच्यत्वस्य परेणापि स्वीकारात्सिद्धसाधननिवृत्तये पूर्वप्रतीकं ब्रह्मेति स्वरूपकीर्तनम् । यद्वा स्वमते वेदान्तानामपि उपासनादाववान्तरतात्पर्यसम्भवात् तद्दोषतादवस्थ्यमिति ।। ब्रह्मेति ।। वस्तुत्वा-दिति ।। नन्वसतोऽपि असदादिशब्दवाच्यत्वाङ्गीकारेण तस्य सपक्षत्वात् तत्र हेतोरवृत्तौ असाधारण्यमिति वाच्यम् । कस्मिंश्चित् सपक्षे वृत्तिमात्रेणासाधारण्यासम्भवात् । ननु वस्तुत्वस्य वाच्यत्वप्रयोजकत्वेऽसतो वाच्यत्वं न स्यात् । तत्प्रयोजकवस्तुत्वाभावादिति वाच्यम् । वस्तुत्वस्य ज्ञेयत्वपरत्वेन तत्रापि तद्भावादिति भावः । न च निर्धर्मकत्वादिना सत्प्रतिपक्षत्वम् । तस्य प्रागेव व्याघातेन दूषितत्वात् ।
पदत्वदिति ।। न च पदत्वं सुप्तिङ्ङन्तत्वं वा ? शक्तत्वं वा ? नाद्यः । समासपदे व्यभिचारात् । न द्वितीयः । साध्याविशेषादिति वाच्यम् । आद्यपक्षस्यैव युक्तत्वात् । समासपदेऽपि शक्त्यङ्गीकारेण व्यभिचाराभावात् ।। वाक्यत्वादिति ।। न च ‘विषं भुङ्क्ष्व’ इत्यत्र व्यभिचारः । तत्रापि विषभुजिपदाभ्यां परगृहभोजननिवृत्तिलक्षणायामपि वाच्यार्थतात्पर्यकलोटः सत्त्वेन व्यभिचाराभावात् । वेदवाक्यत्वादिति वा हेतुः, अतो न कश्चिद्दोषः । अप्रयोजकत्वं परिहरति– विपक्ष इति ।। वाच्यत्वाभावेऽपि लक्ष्यत्वमस्त्वित्यत आह– तथा हीति ।। बोधक इति ।। लाक्षणिकशब्द इत्यनुषज्यते । नन्वेवं कल्पने प्रमाणाभाव इत्यत आह– गङ्गाशब्दा-विति ।। अन्यथा मुख्यार्थतानुपपत्याद्य ननुसन्धानेऽपि यदि लक्षणा तर्हि गङ्गायां जलमित्यत्रापि लक्षणा स्यादित्यर्थः । ननु ब्रह्मणो वाच्यसम्बन्धित्वेन ज्ञानमावश्यकमस्तु । तच्च शब्दातिरिक्तप्रमाणेन भविष्यतीत्यत आह– औपनिषदत्वश्रुत्येति ।।
ननु स्वप्रकाशतयैव ब्रह्मणः सिद्धिरस्त्वित्यत आह– स्वप्रकाशतयेति ।। न चावरणाभि-भवजनकवृत्यर्थं शब्दापेक्षेति वाच्यम् । प्रकाशमाने आवरणायोगस्योक्तत्वात् । उपलक्षणमेतत् । त्वया चावेद्यत्वस्य स्वप्रकाशार्थतया स्वीकृतत्वेनाङ्गीकारादिति भावः ।। अवाच्ये लक्षणेति ।। तथा चानवस्थालक्षणात् प्रतिपक्षबाधकसम्भवान्नाप्रयोजकतेति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति– एवं चेति ।। ननु वाच्यत्वाङ्गीकारेऽप्यनवस्था तुल्येत्याशङ्क्य निषेधति– न चेति ।। यौगिकशब्दानामिति ।। तथा च वाक्यार्थतया ब्रह्मोपस्थितौ तत्र शब्दस्य सङ्गतिग्रहणं युक्तमिति भावः । न चैवमेव मयापि वक्तुं शक्यत इति वाच्यम् । त्वन्मते ब्रह्मणोऽखण्डत्वेन वाक्यार्थत्वायोगात् । विपक्षे बाधकान्तरमाह– एवमवाच्यं चेदिति ।। ननु स्वत एव ब्रह्म सिद्ध्यत्वित्यत आह– स्वत इति ।। नन्वनुमानादिना सिद्ध्यत्वित्यत आह– औपनिषदत्वे-नेति ।। तर्हि शब्देनैव लक्षणया सिद्ध्यत्वित्यत आह– लक्षकस्य चेति ।। वाच्यत्वाभावे लक्षणायोगस्य पूर्वमेवोक्तत्वादिति भावः । तथा च नाप्रयोजकतेति भावः ।
वाच्यत्वानुमाने दोषं शङ्कते– नन्विति ।। अत्र वाच्यत्वानुमाने । अत एवेति परामृष्टं हेतुमाह– आपाद्यापादकयोरिति ।। न चासति उभयाभावप्रसिद्धिः । तस्याप्यसदादि-शब्दवाच्यत्वात् । अवाच्यस्यापि लक्ष्यत्वमित्यत्रापि सम्मतिमाह– उक्तं हीति ।। वेदान्तेति ।। ब्रह्मपदं तु स्वरूपकथनार्थं, ब्रह्मपदतात्पर्यविषयत्वादिना पक्षतावच्छेदकान्तरकथनार्थं वेति भावः ।। अन्यथेति ।। वेदतात्पर्यविषयत्वादिना पक्षतानङ्गीकारे इत्यर्थः । व्याप्त्यसिद्धिं परिहरति– अस्ति चेति ।। न च सामान्यव्याप्त्या विशेषापादनमदृष्टचरमिति वाच्यम् । प्रेक्षावत्प्रवृत्तिविषयत्व सफलत्वयोर्व्याप्तिदर्शनेन यागादिक्रियायाः स्वर्गसाधनत्वानुमानदर्शनादिति भावः । ननु प्रयोज्यप्रयोजकभाव एवासिद्ध इत्यत आह– उक्ता चेति ।। वस्तुत्वानुमाने व्यभिचारमाशङङ्क्य निषेधति– न चेति ।। यद्वा भट्टमतेनोभयत्रापि व्यभिचारमाशङ्क्य निषेधति । अत एवोत्तरत्र वाक्यार्थस्य लक्ष्यत्वाभावोपपादनमिति भावः ।
किं साधारणशब्दवाच्यत्वं नास्तीत्युच्यते उतासाधारणशब्दवाच्यत्वम् ? नाद्य इत्याह– तस्यापीति ।। न द्वितीय इत्याह– विशदमिति ।। अन्वितेति ।। यद्यप्यवाच्यमित्यादि समासादिपदानां लक्ष्य इत्यादियौगिकपदानाञ्च न विशिष्टे शक्तिस्तथाप्यन्विताभिधानस्वीकारेणा-वाच्यलक्षणपदान्तर्गतप्रत्येकपदानामपि अन्योन्यपदार्थसंसर्गरूप विशिष्टवाक्यार्थवाचकत्वापरिहारात् । अन्यत्र समासेऽपि शक्तिसमर्थनाच्चेति भावः । लक्ष्यत्ववदिति हेतोः वाक्यार्थे अभावाच्च न वाक्यार्थे व्यभिचारः इत्याह– अभिहितेति ।। तथा चाभिहितान्वयपक्षेऽपि तार्किकमत इव वाक्यार्थ-भानसम्भवान्न तत्र लक्ष्यतेति भावः । न च वाक्यार्थः प्रकारतया प्रतीयतेऽतस्तत्प्रतीत्यर्थं लक्षणेति वाच्यम् । असिद्धेः । वाक्यार्थादिसाधारणशब्दवाच्यत्वमुक्तमाशङ्क्य निषेधति– न चेति ।। समासेऽपि शक्तिरावश्यकी मुख्यार्थान्वयानुपपत्तिप्रतिसन्धानं विनापि समासार्थप्रतीतेः । तथा च न व्यभिचार इति । सत्येव समाधाने समासे लक्षणां स्वीकृत्य समाधत्ते– समासस्येति ।। एतेनेति परामृष्टं हेतुमाह– वाक्यशब्दार्थशब्दयोरिति ।।
ननु तथाप्यनुमानमयुक्तं यदि वाच्यं स्यात् प्रवृत्तिनिमित्तवत् स्यात् । न च तदस्ति इति प्रतिकूलतर्कपराहतत्वादिति शङ्कते– नन्विति ।। सत्यादिशब्दानामिति ।। न च प्रवृत्तिनिमित्ता-भावो निर्गुणं निष्क्रियमित्यादिवाक्यसिद्धोऽतो नान्योन्याश्रयतेति वाच्यम् । तस्य व्याहतत्वेन धर्मसामान्याभावाप्रतिपादकत्वात् । विशेषाभावपरतयाप्युपपत्तेः । तथा च यः सर्वज्ञ इत्यादि-श्रुतिबलात् प्रवृत्तिनिमित्तानां गुणादीनां भावान्न प्रतिकूलतर्क इति भावः । किञ्च किं सत्यादिपदानां लक्षकत्वं स्वरूपमात्रप्रश्नोत्तरत्वेन वा ? निर्विशेषवाक्यानुरोधेन वा ? नाद्य इत्याह– स्वरूपेति ।। न द्वितीय इत्याह– निर्विशेष वाक्यस्य वेति ।। निर्विशेषवाक्यं किं लक्षणया स्वरूपमात्रपरम् उत विशेषाभावविशिष्टपरम् ? नाद्यः अविरोधित्वात् । न द्वितीय इत्याह– तस्येति ।। नन्वभावनिमित्तशब्दवाच्यत्वमङ्गीक्रियते न भाव निमित्तकशब्दवाच्यत्वमित्यत आह– अभावेति ।। उपसंहरति ।। तस्मादिति ।। इदं सर्वं दूषणजातं सिद्धान्त सिद्धमित्याह– उक्तं हीति ।। परम-प्रकृतमुपसंहरति– तस्मादिति ।। यौगिकेत्यादि हेतुगर्भम् । तथा चानन्तगुणत्वादनन्तगुणरहिताद् भिन्नमित्यर्थः । इति अवाच्यत्वभङ्गः ।। १३ ।।
न्यायामृतप्रकाशः
अन्यस्येति ।। ब्रह्मातिरिक्तस्येत्यर्थः ।। भावे वेति ।। अवाच्यरूपमुख्यार्थस्य ब्रह्म-व्यतिरिक्तस्य भाव इत्यर्थः ।। तीरवदिति ।। गङ्गापदमुख्यार्थस्य प्रवाहस्य तीरान्यस्य सत्वात्तीरं मुख्यार्थसम्बन्धिमात्रमेव न तु तत्र गङ्गात्वमस्ति । एवमवाच्यपदमुख्यार्थभूतं यदस्ति तत्सम्बन्ध्येव ब्रह्म । न तु स्वयमवाच्यमित्यर्थः ।। हीनस्यापीति ।। अवाच्यपदस्येत्यर्थः ।। घट इति ।। तथा च तत्र त्वया वाच्यं घटपदेन घटरूपार्थस्य लक्ष्यत्वे तद्वाच्यमुख्यार्थस्यान्यस्याभावान्न लक्षकत्व-मिति तत्प्रकृतेऽपि तुल्यमिति भावः ।। इत्यादिशब्दैरिति ।। ब्रह्ममात्रनिष्ठतया प्रसिद्धैस्तद्व्यतिरिक्त-मुख्यार्थप्रसक्तिशून्यैरित्यर्थः ।। अन्यस्येति ।। शुद्धब्रह्मातिरिक्तस्येत्यर्थः । भावे वा ब्रह्म न निर्विशेषादिरूपं किन्तु तीरवन्निर्विशेषादिरूपमुख्यार्थसम्बन्धिमात्रमिति स्यात् । मुख्यार्थहीनस्यापि लक्षकत्वे घटशब्दोऽपि घटलक्षकः स्यादिति भावः । तमेवोपपादयति– गङ्गेति ।। ‘निर्विशेषादि-रूपमुख्यार्थस्यान्यस्याभावात्’ इत्येतदयुक्तमित्या शयेन शङ्कते– नन्विति ।। ननु तर्हि विशिष्टस्यापि ब्रह्मत्वे ब्रह्मण एव वाच्यत्वसिद्धिरिति चेत्तत्राह– तच्चेति ।। पुनर्निर्विशेषादिपदमुख्यार्थभूतमन्य-दस्तीत्याशङ्कते– नन्विति ।। तच्चेति ।। निर्विशेषादिपदवाच्यं वस्त्वित्यर्थः । तर्हि ब्रह्म कीदृशमित्यत आह– किन्त्विति ।। तदाश्रयेति ।। निर्विशेषत्वाद्याश्रयेत्यर्थः । ‘सिद्धिः’ निर्विशेषादिपदानामिति शेषः । नन्वेवं गङ्गापदलक्ष्यस्य तीरस्यागङ्गात्ववन्निर्विशेषादिशब्दलक्ष्यस्य न निर्विशेषत्वादिकमित्यत आह– ब्रह्मण इति ।। जातिरेव शब्दार्थः तदाश्रयव्यक्तिर्लक्ष्येति मते सत्पदलक्ष्यस्यापि घटादेर्मुख्यार्थसम्बन्धित्वेनासत्वा योगात् । एवं निर्विशेषादिपदलक्ष्यस्यापि ब्रह्मणो मुख्यार्थभूत-निर्विशेषत्वाश्रयत्वेन तत्सम्बन्धितया तदसिद्ध्ययोगात् ।
‘सत्वादीनां तु जातीनां व्यक्तितादात्म्यदर्शनात् ।
लक्ष्यव्यक्तिरपि ब्रह्मसत्वादि न जहाति न ।।’
इत्युक्तत्वात् । नदीशब्देन तु नदीत्ववाचिना तदाश्रयव्यक्तेर्न लक्षणा किन्तु तदाश्रयव्यक्ति-सम्बन्धिनः तीरस्येति तस्यानदीत्वमिति वैषम्यादिति भावः ।। जातिस्त्विति ।। अनन्तासु व्यक्तिषु शक्तिग्रहासम्भवेन शक्तिग्रहदशायां तत्स्थैव जातिर्व्यक्तीनामनुगमिकेत्यर्थः । शक्तिग्रहाधिकरणी-भूतव्यक्त्यनुगमकत्वमुपधानशब्दार्थः । विशेष्ये विशेष्यव्यक्तौ । ननु जातिर्वाच्या व्यक्तिर्लक्ष्येति मताश्रयणान्न दोष इति चेन्न । तस्य मतस्यायुक्तत्वादित्याह– जातिरेवेति ।। व्युत्पत्तीति ।। व्युत्पत्तेर्वृद्धव्यवहारसाध्यत्वात्तस्य च व्यक्तावेव सम्भवेन जातावसम्भवादित्यर्थः । अन्यत्र तर्कताण्डवे ।। अस्मिन्निति ।। जातिः शब्दार्थः तदाश्रयव्यक्तिर्लक्ष्येति मताङ्गीकारे घटादिव्यक्तेरपि घटादि-शब्दावाच्यत्वेन ब्रह्मणोऽपि तद्वत्सत्यादिपदावाच्यत्वे ततो विशेषाभावप्रसङ्गेन तदर्थं घटादेर्मुख्यार्थ-सम्बन्धित्वेन लक्ष्यत्वं, ब्रह्मणस्तु मुख्यार्थाश्रयव्यक्तिसम्बन्धित्वेन लक्ष्यत्वेऽङ्गीकार्ये मञ्चत्वाधारमञ्च-रूपव्यक्तिसम्बन्धिपुरुषेषु अमञ्चत्ववद् ब्रह्मणोऽपि सत्यत्वनिर्विशेषत्वाद्यभावादिकं दुर्वारमित्यर्थः ।। मुख्यार्थाभावादीति ।। शक्यमञ्चत्वतदाश्रयव्यक्तितल्लक्ष्यपुरुषाणामिव शक्यनिर्विशेषत्वतदाश्रयव्यक्ति-तल्लक्ष्यब्रह्मणां त्रयाणामभावात् । ब्रह्मभिन्नस्य निर्विशेषपदवाच्यस्याभावात् । ब्रह्मणश्च निर्विशेषपदलक्ष्य-त्वाङ्गीकारादित्यर्थः ।
ननु घटादिसाधारण्येनैव ‘सत्यं ज्ञानम्’ इत्यादौ ब्रह्मणः सत्वादिधर्माश्रयतयैव लक्ष्यत्वमस्त्वित्यत आह– सत्यमिति ।। जातिः शब्दार्थ इति मते घटत्वाश्रयतयैव घटादिव्यक्तिर्लक्ष्येतिवत्सत्यत्वा-श्रयतयैव ब्रह्मव्यक्तिर्लक्ष्येति सखण्डार्थत्वमेवेत्यर्थः ।। अब्रह्मेति ।। निर्गुणत्वाद्यधिकरणस्य ब्रह्मत्वा-नङ्गीकारादित्यर्थः । अवाच्यलक्ष्यादिपदानां ब्रह्मान्यस्य मुख्यार्थस्याभावात्ते ब्रह्मवाचका इत्युक्तम् । तत्र शङ्कते– नन्विति ।। समस्तेति ।। नञ्पदस्य वाच्यपदस्य च समस्तत्वादित्यर्थः । यौगिकाः । लक्षधातोः कर्मणि ण्यत्प्रत्यये सति निष्पन्नस्य यौगिकत्वादिति भावः । उभयेषां समस्तानां यौगिकानां चेत्यर्थः ।। नेति ।। तथा च मुख्यार्थाभावेऽपि संसर्गलक्षकत्वाङ्गीकाराद् ब्रह्मलक्षकत्वं युक्तम् । पदस्य लक्षकत्वाङ्गीकारे हि तस्य मुख्यार्थो वक्तव्यः । मया तु वाक्यस्य लक्षकत्वमङ्गीकृतं तस्य तु नार्थवाचकत्वमतो न तस्य मुख्यार्थोऽपेक्षितः । तथा च मुख्यार्थाभावेऽपि लक्षकत्वं युक्तमित्यर्थः ।। अन्वितेति ।। पदसमुदायो हि वाक्यम् । समुदायो हि समुदायिभूतपदात्मक एव । एवं सति पदानाम् अन्विताभिधानाङ्गीकारेणान्वयस्य वाच्यत्वाङ्गीकारात्पदसमुदायात्मकानां समस्तानां यौगिकानां च शब्दानां वाचकत्वादित्यर्थः ।
ननु पदैरभिहिताः पदार्था एवान्वयं बोधयन्तीति मते समस्तस्य यौगिकस्य वाक्यस्य न वाक्यार्थ-भूतान्वयार्थत्वं न वा लक्षकत्वम् । मुख्यवृत्तिं लक्षणारूपां च वृत्तिं विनैवान्वयबोधाङ्गीकारेण पदभिन्नेषु पदार्थेषु च वृत्त्यभावेनान्वयस्याशाब्द त्वाङ्गीकारादिति चेत्तत्राह– अभिहितेति ।। पदाभिहितपदार्थ-बोध्यान्वयस्य वृत्तिं विनैवाभिधायकत्वरूपाभिहितान्वयस्य वाक्य एवाङ्गीकारेण वाक्यान्तर्गतपदनिष्ठ-प्रकृतिप्रत्यययोस्तावत्स्वार्थवाचकत्वमेवास्ति तन्मते । अतः सर्वथा वाचकत्वाभावो नास्ति । न ह्येवं सत्यादिवाक्यान्तर्गतस्य कस्यचिद्वा पदस्य वाचकत्वं त्वया स्वीकृतमिति भावः । वाक्यतुल्यत्वान्न वाचकतेत्यत्र दूषणान्तरमाह– समास इति ।। अवाच्यमित्यत्रेत्यर्थः । यौगिके लक्ष्यमित्यत्र ।। अनभिधेयत्वेऽपीति ।। वृत्तिं विनैव संसर्गबोधकत्वाङ्गीकारादिति भावः । समासे पदार्थस्य, यौगिके प्रकृत्याद्यर्थस्येत्यर्थः । तथा च सर्वथाऽवाचकत्वं नास्ति । तदन्तर्गतस्य पदादेर्वाचकत्वाङ्गीकारात् । सत्यादिवाक्यपदार्थभूतस्य ब्रह्मणो वाच्यत्वमनिवार्यमिति भावः ।
ननु मया ब्रह्म पदार्थरूपत्वेन न स्वीकृतं येन वाच्यत्वं स्यात् किन्तु वृत्तिं विनैव बोध्यो यः संसर्गस्तद्रूपत्वाङ्गी कारादित्यत आह– यदित्विति ।। नन्वन्यत्र कुत्रचिदब्रह्मपरे समासे यौगिके वाक्ये पदार्थस्य प्रत्ययार्थस्य च वाच्यत्वेऽपि अवाच्यं लक्ष्यमित्यादौ समासादिवाक्ये पदद्वयस्य प्रकृतिप्रत्यययोर्वा न प्रत्येकं स्वार्थसंसर्गपरत्वं, येन पदार्थस्य ब्रह्मणो वा वाच्यत्वापत्तिः । किं नाम सर्वेषामपि लक्षणया ब्रह्ममात्रपरत्वादिति चेत्तत्राह– यदि त्विति ।। तर्हीति ।। ब्रह्मस्वरूप-मात्रपरत्वेन तदवाच्यत्वे लक्ष्यत्वे च तात्पर्याभावान्नावाच्यलक्ष्यादिपदेन ब्रह्मणोऽवाच्यत्वादि सिद्धि-रित्यर्थः ।। स्यादिति ।। अवाच्यत्वपदलक्ष्यस्यावाच्यत्वाभावादिति भावः । तत्र दृष्टान्तो नदीति । ननु ‘यतो वाचो निवर्तन्ते’ इत्यादिश्रुत्याऽवाच्यत्वसिद्धिरित्यत आह– यत इत्यादिना ।। अशब्द-मित्यादेः सर्वथाऽवाच्यत्वाभिप्राये बाधकमाह– परेति ।। अशब्दत्वासिद्ध्येति ।। गङ्गापदलक्ष्यस्य तीरस्यागङ्गात्ववदित्यर्थः । मनोवृत्तेः सर्वथा निषेधायोगे हेतुः अन्तःकरणवृत्तिव्याप्य इति ।
एवं चान्तःकरणवृत्तिव्याप्ये ब्रह्मणि श्रुतस्यापि मनोवृत्तिनिषेधस्य साकल्यादिना सङ्कोचवद् वाग्वृत्तिनिषेधस्यापि साकल्येनावाच्यत्वादिना सङ्कोचः कार्य इत्याह– यत इति ।। किञ्च ‘यतो वाच’ इत्यादिश्रुतौ यत इत्यादिबहूनां पदानां ब्रह्मवाचकत्वरूपमुख्यार्थलाभाय निवर्तन्त इत्येकमेव पदं साकल्येन प्रतिपादनान्निवर्तत इति स्वार्थात्प्रच्यावनीयम् । बहुबाधस्याऽन्याय्यत्वात् ‘त्यजेदेक’मिति न्यायाच्चेत्याह– यत इति ।। अविरोधित्वादिति ।। दण्डीति वाक्यस्य देवदत्त इति वाक्येनाविरोध-दर्शनेन विशिष्टपरस्य विशेष्यपरत्वाविरोधादित्यर्थः । वाच्यत्वप्रतिपादकश्रुति स्मृत्यनुमानविरोधाच्च नाऽवाच्यत्वमित्याह– अथेत्यादिना ।। ब्रह्म वाच्यं लक्ष्यत्वात्तीरवादित्यनुमानेऽप्रयोजकत्वपरिहाराय ‘सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः’ इति भाष्यं हृदि निधाय हेतूच्छित्तिबाधकमाह– विपक्ष इति ।। स्वरूपत इति ।। स्वरूपतस्तीरत्वादिना रूपेणावगतस्य वाच्यार्थनदीसम्बन्धित्वेन चावगतस्य तीरादिरूपार्थान्तरस्य लाक्षणिको गङ्गादिशब्दो बोधक इत्यर्थः ।। अन्यथेति ।। किन्तु पूर्वधीस्थे वाच्यार्थ इत्युक्तप्रमेयानङ्गीकार इत्यर्थः ।
अतिप्रसङ्गादिति ।। गङ्गापदेन घटस्यापि लक्ष्यत्वप्रसङ्ग इत्यर्थः । ज्ञेयत्वं च तस्य न शब्देतरप्रमाणेन, वेदैकगम्यत्वात् । तदपि कुतः ‘औपनिषदः पुरुषः’ इति श्रुतेरित्याह– औपनिष-दत्वेति ।। ननु वाच्यार्थसम्बन्धित्वादिना ब्रह्मज्ञानमपि शब्देनैव भवतीति चेत्तत्राह– अवाच्ये चेति ।। वाच्येति ।। वैदिकम् औपनिषदं ब्रह्म वाच्यसम्बन्धितया बुद्धं चेल्लक्ष्यं, नान्यथा तद्बोधश्च नाशब्दे-नेति वैदिकपदमेव वक्तव्यं तेनापि ब्रह्म वाच्यमिति पुनर्लक्षक एव पदे वक्तव्ये सत्यनवस्थितिमाशङ्क्य परिहरति– न चेति ।। शब्दैकेति ।। तस्यापि गृहीतसङ्गतिकस्यैव बोधकत्वादनवस्थेत्यर्थः ।। यौगिकेति ।। पदानामितरत्र लोके सङ्गतेर्गृहीतत्वात्तत्समुदायरूपवाक्येन सङ्गतिग्रहणानपेक्षेणार्थोऽपूर्व एव भासत इत्यङ्गीकारान्नानवस्थेत्याशयः । अवाच्यत्वाङ्गीकारे ब्रह्मासिद्धिरूपं बाधकान्तरं चाह– एवमिति ।। न सिद्ध्येदिति ।। प्रत्यक्षानुमानलौकिकशब्दानां ब्रह्मण्यप्रवृत्तेः । वैदिकशब्दवाच्यत्वस्य च त्वयाऽनङ्गीकारात् । लक्षकस्य च शब्दस्य वाच्यार्थसम्बन्धित्वेन येन पुंसा ब्रह्म ज्ञातं तं प्रत्येव सिद्धिजनकत्वेन वाच्यार्थसम्बन्धित्वेन ज्ञानस्य चोक्तरीत्याऽसम्भवेनावाच्यरूपब्रह्मसिद्ध्ययोगादित्यर्थः ।
ननु चात्रेति ।। ‘ब्रह्म वाच्यं लक्ष्यत्वात्’ इत्यत्र पक्षीभूतं ब्रह्म ब्रह्मपदवाच्यमुत ब्रह्मपदलक्ष्यम् । नाद्यः । ब्रह्मपदवाच्यं ब्रह्म वाच्यमिति साधने सिद्धसाधनता । उपलक्षणमेतत् मम आश्रयासिद्धिश्च । द्वितीये विरोधः । एवमनुमानस्य पक्षाविवेकेन दुष्टत्वादनेनैव विकल्प्य दूषणेन अवाच्यत्वे लक्ष्यत्वं न स्यादिति तर्कोऽप्ययुक्तः वाच्यत्वलक्ष्यत्वयोः केवलान्वयित्वेन तदभावरूपापाद्यापादकयोर-प्रसिद्धिश्चेत्यर्थः । तथा चैवं पक्षस्य विवेक्तुमशक्यत्वान्न वाच्यत्वानुमानं युक्तमिति भावः । ननु ब्रह्मणोऽवाच्यत्वेऽपि लक्ष्यत्वायोगेन त्वदभिमतं लक्ष्यत्वमपि न सिद्ध्येदिति चेन्न एवमुक्तरीत्या वाच्यत्वानुपपत्तौ लक्ष्यत्वं स्वत एव सिद्धं भविष्यतीति न पुनस्तत्र पृथक् प्रमाणं वक्तव्यमित्याशयेन तत्र सम्मतिमाह– उक्तं हीति ।। अत्यन्तावाच्यशब्देनैवेत्यन्वयः ।। अन्यथेति ।। वेदान्ततात्पर्य-विषयीभूतं वस्त्वित्येवं रूपेण पक्षीकारेण ‘ब्रह्म अवाच्यं प्रवृत्तिनिमित्तशून्यत्वात्’ इति वक्ष्यमाणानुमाने ब्रह्मपदवाच्यं पक्षश्चेत्तत्रावाच्यत्वसाधने विरोधः । ब्रह्मपदलक्ष्यं पक्षश्चेन्ममाश्रयासिद्धिरित्यर्थः ।
ननु वेदान्ततात्पर्यविषयीभूतं ब्रह्म अवाच्यं चेल्लक्ष्यं न स्यादित्यत्र वाच्यत्वलक्ष्यत्वयोः केवलान्वयि-त्वेनापाद्या पादकयोरप्रसिद्ध्या व्याप्यत्वासिद्धिश्चेत्युक्तं दूषणं सामान्यव्याप्त्युक्त्या परिहरति– अस्ति चेति ।। ननु स्यादियं व्याप्तिः यदि लक्ष्यत्वे वाच्यत्वं प्रयोजकं स्यादित्यत आह– उक्ता चेति ।। अनवस्थादिना उपपादितेत्यर्थः ।। व्यभिचार इति ।। लक्ष्यत्वेऽपि वाच्यत्वाभावाद् ‘ब्रह्म वाच्यं लक्ष्यत्वात्’ इत्यनुमाने व्यभिचार इत्यर्थः ।। माधुर्येति ।। माधुर्यमित्येवंरूपो, वाक्यार्थ इत्येवंरूपो यः साधारणशब्दस्तद्वाच्यत्वादित्यर्थः ।। इत्युक्तत्वेनेति ।। तथा च क्षीरमाधुर्यादेः सूदशास्त्रप्रसिद्ध-विशदाद्यसाधारणशब्दवाच्यत्वादित्यर्थः । वाक्यार्थभूतान्वयवाचकत्वादित्याह– अन्वितेति ।। अभिहितान्वयवादिनां तार्किकाणां मते तु वाक्यार्थस्य पदवृत्तिविषयत्वाभावेन तत्र लक्ष्यत्वस्यैवाभावेन न व्यभिचार इत्याह– अभिहितेति ।। ‘पक्षेऽपि, तार्किकमते च वाक्यार्थे लक्ष्यत्वस्याप्यभावात्’ इत्यन्वयः । तत्र दृष्टान्तः अन्वितेति ।। सामान्यतः कारकपदानां च क्रियान्विते स्वार्थे शक्तिः । क्रियापदानां च कारकान्विते स्वार्थे शक्तिरिति पक्षे विशेषान्वये पदवृत्तिं विनैव प्रतीयमाने लक्ष्यत्वा-भाववद् वाक्यार्थेऽपि लक्षत्वाभावात् । तथा च पदवृत्तिं विनैव संसर्गमर्यादया वाक्यार्थः प्रतीयत इति तार्किकमतेऽपि वाक्यार्थस्य लक्ष्यत्वाभावादित्यर्थः । अस्माभिस्तु सामान्यान्विताभिधानशक्तिरेव पदान्तरसमभिव्याहारेण विशेषान्वये पर्यवस्यतीत्यङ्गीकारेण शक्तिरूपपदवृत्तेरेवाङ्गीकाराद् वृत्तिं विनैव विशेषान्वयः प्रतीयत इत्यपि केषाञ्चिन्मतमिति द्रष्टव्यम् ।
यदुक्तं वाक्यार्थस्यापि वाक्यार्थ इति साधारणशब्देनैव वाच्यत्वादिति, तदयुक्तं, वाक्यार्थशब्दस्य समस्तवाक्यत्वेन वाचकत्वाभावात्किन्तु लक्षकत्वमेव । अतो व्यभिचार एवेत्याशङ्क्य निषेधति– न चेति ।। समासस्य लक्षकत्वेऽपि वाचकत्वमप्यस्तीत्याह– समासस्येति ।। समासस्य लक्षकत्व-पक्षेऽपि न समग्रपदानामपि लक्षकत्वम् । यथा राजपुरुष इति षष्ठीसमासे राजशब्दस्य षष्ठ्यर्थस्य राजसम्बन्धित्वस्य लक्षकत्वेऽपि पुरुषशब्दस्तु न लक्षकः किन्तु मुख्यार्थ एव । एवं वाक्यस्यार्थो वाक्यार्थ इत्यत्रापि वाक्यशब्दस्य षष्ठ्यर्थस्य वाक्यसम्बन्धित्वस्य लक्षकत्वेऽपि अर्थशब्दस्तु मुख्यार्थ एव । अतो न समस्तवाक्यार्थशब्दस्य लक्षकत्वमेवेत्यर्थः । ‘पुरुषशब्दस्येवार्थशब्दस्य वाचकत्वात्’ इत्यन्वयः । समासस्य वाक्यार्थशब्दस्य । अभिधानं विनैव पदशक्तिं विनैवेत्यर्थः ।। स्वार्थेति ।। लक्षणया वाक्यार्थबोधकतेत्यर्थः । तथा च वाक्यार्थे व्यभिचार इति भावः । एतेनेत्युक्तमेव विशदयति– वाक्येति ।। अर्थपदेति ।। तथा च साध्यस्यापि सत्वान्न व्यभिचार इत्यर्थः । रूढ्या इत्यत्र रूढिः सङ्केतः । अमीषां मध्ये ।
‘घटादाविव’ इति मायावादिशिष्यस्यैव शङ्का न तत्ववादिन इत्यवधेयम् । घटादौ घटत्वादि-कमेवारोपितम् । आरोपितं व्यावहारिकं, निमित्तं गुणादिरूपम् । तथा च वाच्यत्वं युक्तमिति भावः ।। अयोगेनेति ।। अतत्वावेदकत्वेनाप्रामाण्यापत्त्या आरोपितनिमित्ते श्रुतितात्पर्यायोगात् । तथा च श्रुतितात्पर्यविषयस्य ‘श्रुतितात्पर्यविषय निमित्तशून्यस्य’ वाच्यत्वायोगादित्यर्थः ।। तस्मिंश्च सिद्ध इति ।। वाचकत्वाभावे सिद्ध इति शेषः । ननु सत्यादिपदानां स्वरूपमात्रप्रश्नोत्तरत्वेन तयोर्वैयधि-करण्यानुपपत्त्यैव लक्षकत्वमङ्गीक्रियते न तु निमित्ताभावेन । अतो नान्योन्याश्रय इत्यत आह– स्वरूपमात्रेति ।। किञ्च ब्रह्मणि सत्यादिपदप्रवृत्तिनिमित्तगुणाभावः । कुतः । निर्विशेषत्वप्रतिपादक-वाक्यविरोधादिति चेन्न । तस्यापि ब्रह्मस्वरूपमात्रे तात्पर्यम् उत निर्विशेषत्वादिविशिष्टे । नाद्य इत्याह– निर्विशेषेति ।। निर्विशेषत्वप्रतिपादकेत्यर्थः ।। सत्यत्वादीति ।। विशेष्यपरविशिष्टपर-वाक्ययोरविरुद्धत्वेन स्वरूपमात्रपरनिर्विशेषवाक्यस्य निर्विशेषत्वे तात्पर्याभावेन सत्यत्वादिवैशिष्ट्य-प्रतिपादकसत्यादिवाक्याबाधकत्वादिति भावः । द्वितीये त्वाह– निमित्तस्येति ।। निर्विशेषत्वविशिष्टे तात्पर्ये निर्विशेषशब्दप्रवृत्तिनिमित्तस्यापि श्रुतितात्पर्य विषयत्वेन सत्वात्तन्निमित्तकनिर्विशेषशब्दवाच्यत्वं स्यादित्यर्थः । ननु निर्विशेषत्वरूपप्रवृत्तिनिमित्तस्याभावरूप त्वात्तन्निमित्तकनिर्विशेषशब्दवाच्यत्व-मङ्गीकृतम् । न तु सत्यत्वादिभावरूपप्रवृत्तिनिमित्तकसत्यादिपदवाच्यत्वमिति चेत्तत्राह– अभावेति ।। वक्ष्यमाणमुपक्षिपन्नुपसंहरति– तस्मादिति ।। अवाच्यत्वभङ्गविवरणम् ।। १३ ।।
न्यायकल्पलता
ननु निर्धर्मकतयाऽवेद्यतया च ब्रह्म आनन्दादिपदलक्ष्यं न वाच्यम् । प्रवृत्तिनिमित्ताभावरदिति पराभिमतम् अनूद्य दूषयति– यच्चेदमिति ।। अवाच्येति ।। नन्ववाच्यरूपमुख्यार्थाभावेऽपि नञ्समभिव्याहृतवाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानम् इति । मैवम् । अवाच्यपदजन्यज्ञानविषये ब्रह्मणि वाच्यत्वात्यन्ताभावोऽस्ति चेद् ब्रह्मावाच्यपदवाच्यं स्यात् । न चेत्तर्हि तद्विरुद्धवाच्यत्वापत्त्या ब्रह्मणो वाच्यपदवाच्यत्वापत्तेः। परस्परविरहरूपयोरेकस्य बाधेऽपरस्य धर्मिसत्तासमसत्तात्वनियमादिति भावः ।। मुख्यार्थसिद्धिरिति ।। निर्विशेषादिपदानामित्यनुषङ्गः ।। निर्विशेषत्वाद्यहानिरिति ।। निर्विशेषत्वरूपधर्मबहिर्भावेन निर्विशेषत्वाश्रयव्यक्तेर्लक्ष्यत्वान्न निर्विशेषत्वहानिः । गङ्गापदे तु गङ्गात्वानाश्रयस्य लक्ष्यत्वाद्गङ्गापदलक्ष्ये गङ्गात्वहानिरेवेति शङ्कार्थः ।। उपधानमिति ।। शक्तिग्रहदशायां तटस्थैव जातिर्व्यक्तीनामनुगमिकेत्यर्थः ।। मुख्यार्थाभावादीति ।। शक्यमञ्चत्वतदाश्रयव्यक्तितल्लक्ष्य पुरुषाणामिव शक्यनिर्विशेषत्वतदाश्रयव्यक्तितल्लक्ष्यब्रह्मणां त्रयाणामभावात् । ब्रह्मभिन्नस्य निर्विशेषपदवाच्यस्यसत्वात् । ब्रह्मणश्च निर्विशेषपदलक्ष्यत्वाङ्गीकारा-दित्यर्थः ।। सत्यं ज्ञानमिति ।। जातिः शब्दार्थ इति मते गोत्वाश्रयतया गोर्लक्ष्यत्ववत्सत्य-त्वाश्रयतयैव ब्रह्मव्यक्तिर्लक्ष्येति सखण्डार्थत्वम् ।
निर्विशेषलक्ष्यादिपदानां ब्रह्मान्यस्य मुख्यार्थस्याभावात्ते ब्रह्मवाचका इत्युक्तं, तत्र शङ्कते– नन्विति ।। समासे प्रत्येकपदयोरिव समासस्याप्यन्वितवाचकत्वमस्तीति समाधत्ते– अन्वितेति ।। ननु न समासेऽपि शक्तिकल्पनं, गौरवादत आह– समास इति ।। तदुक्तमिति ।। ईक्षत्यधिकरणनु-व्याख्यान इति शेषः ।। पदं चेति ।। निर्गुण इति पदं कथं गुणबद्धं वदिष्यति । व्याघातात् । तत्परिहाराय निर्गुणपदेन स्ववाच्यगुणाभावविशिष्टद्वारा निर्गुणमुपलक्ष्यं चेत्, ‘अपि’ तथापि ‘तत्पदं’ लक्ष्यपदम् । ब्रह्मणो वाचकमङ्गीकरणीयमित्यर्थः ।। येनेति ।। येन पुरुषेण ब्रह्म लक्ष्यमिति प्रोक्तं स लक्ष्यशब्देन ब्रह्मावदत् । लक्ष्यपदं वाचकं तत्र प्रयुक्तवानित्यर्थः । ऊदे ऊचे ।। यतो वाच इत्यत्रेति ।। अन्तःकरणवृत्तिव्याप्ये ब्रह्मणि श्रुतस्यापि मनोवृत्तिनिषेधस्य सङ्कोचवद्वाग्वृत्तिनिषेधस्यापि सङ्कोचः कार्यः ।। यत इति ।। ‘यतो वाचो निवर्तन्ते अप्राप्यमनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’ इति श्रुतौ यत इति शब्दस्य आनन्दब्रह्मशब्दादीनां च ब्रह्मवाचकत्व-रूपमुख्यार्थात् ‘निवर्तन्ते’ इति पदमेव प्रच्यावनीयम् । तथा च यत् इतिपदस्य आनन्दादिपदानां च बहूनामनुग्रहः स्यादित्यर्थः ।
त्वन्मत इति ।। यतो वाचो निवर्तन्त इत्यस्य ब्रह्मवाच्यत्वनिषेधार्थकत्वाभावात् ।। वेदान्तेति ।। अत्र पक्षासिद्ध्यादिकं स्वयमनुपदमेव परिहरिष्यति । न च सधर्मकत्वमुपाधिः । साध्योपाध्योः केवलान्वयितया तद्व्यतिरेकाद्यसाधनात् ।। पदत्वादिति ।। न च समासादिपदे व्यभिचारः । तस्याप्यवयवद्वारा वाचकत्वात् । ब्रह्मणस्त्ववयवार्थत्वे सखण्डत्वापातः ।। सत्येति ।। न च ‘विषं भुंक्ष्व’ इत्यादावनैकान्त्यम् । तत्रापि वाच्यार्थपरत्वस्योपपादितत्वात् ।। शब्दवैयर्थ्यादिति ।। न चावरणाभिभावकवृत्तौ शब्दस्योपयोगः, घटादेः प्रत्यक्षत्वमेव, शब्दस्तु तदावरणनिवर्तकवृत्ति(त्तौ)-हेतुरित्यापातात् ।। वाच्येति ।। गङ्गादिपदादौ वाच्यसम्बन्धितया ज्ञातं तीरादिकं लक्ष्यं दृष्टम् । ब्रह्मणो वाच्यसम्बन्धितयाऽवगतिस्तु मानान्तरागम्यत्वादवाच्यत्वाच्च लक्षकपदेनैव वाच्या । लक्षकपदं तु वाच्य(सम्बन्ध्यवयव)सम्बन्धितया ज्ञातमेव बोधयतीति । तथा ज्ञानार्थं ब्रह्मणि लक्षकपदान्तरमेव प्रयोक्तव्यमित्यनवस्थितिर्लक्षकपद इत्यर्थः ।
यौगिकेति ।। यौगिकपदावयवार्थसंसृष्टरूपेणोपस्थिते ब्रह्मरूपे सम्बन्धिनि पदान्तरस्य शक्तिरूपः सम्बन्धो ग्रहीष्यते । तव तु नैवं परिहारः । अखण्डार्थत्वहानेः ।। ब्रह्म न सिद्ध्येदिति ।। प्रत्यक्षानुमानलौकिकशब्दानां ब्रह्मणि साक्षादप्रवृत्तेर्वैदिकशब्दवाच्यत्वस्याप्यनङ्गीकारे वाच्यत्वव्याप्य-लक्ष्यत्वस्याप्यभावापत्त्या ब्रह्म न सिद्ध्येदित्यर्थः । शङ्कते– ननु चेति ।। अप्रसिद्ध्येति ।। वाच्यत्वलक्ष्यत्वयोः केवलान्वयितया तदभावप्रसिद्धेः (।। व्याप्तीति ।।) वाच्यत्वं न लक्ष्यत्वस्य व्यापकमतो व्याप्त्यभाव इति शङ्कार्थः । पक्षं द्रढयति– वेदान्तेति ।। तर्कोऽपि युक्त इत्यत आह– अस्ति चेति ।। न वयं ‘यत्र वाच्यत्वाभावस्तत्र लक्ष्यत्वाभावः’ इति व्याप्तिं ब्रूमः किन्तु यत्र प्रयोजकं न तत्र प्रयोज्यं नेति । भवति च वाच्यत्वं लक्ष्यत्वे प्रयोजकम् । वाच्यसम्बन्धित्वेनोपस्थितिं विना लक्ष्यत्वायोगात् । लक्ष्यत्ववाच्यत्वयोर्व्याप्य व्यापकभावे व्यभिचारं परिहरति– न चेक्षुक्षीरेति ।। उक्ताश्च गन्धादिषु विशेषाः महाभाष्ये षष्ठी इत्यत्र सूत्रे । (घृतस्य) घनस्य तीव्रः चन्दनस्य मृदुरिति । तत्रैव कैयटे । तीव्रो गन्धस्य विशेषः(णम्) मृदुत्वं स्पर्शस्येति ।
अभिहितेति ।। अभिहितान्वयपक्षे तार्किकमते च वाक्यार्थे हेतोरेवागमनान्न व्यभिचार इत्यर्थः । वाक्यार्थादिसाधारणशब्दवाच्यत्वाद्वाक्यार्थे न व्यभिचार इत्यत्र शङ्कां निरस्यति– न च वाक्यार्थेति ।। समासस्य लक्षकत्वे वाचकत्वमप्यस्तीत्याह– समासस्येति ।। पुरुषशब्दस्येवार्थशब्दस्य वाचक-त्वादित्यन्वयः । नन्वर्थशब्दस्य वाचकत्वेऽपि वाक्यार्थशब्दस्य न वाचकत्वम् । मैवम् । वाक्यशब्दस्य लक्षकत्वेऽपि वाक्यार्थशब्दस्य न लक्षकत्वमिति साम्यात् ।। संसर्गरूपेणेति ।। तेन रूपेण समासलक्ष्यत्वाच्च न व्यभिचार इति भावः ।। एकस्यापि चेति ।। यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां सत्यां महती लज्जा जायते तत्राखिला अपि शब्दा अमुख्यार्था इति वदन् यः तस्य वादिनः, आत्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं वक्तुं लज्जा कथं न जायेत । केभ्यः । तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति अनुव्याख्यानयोजना । उपसंहरति– तस्मादिति ।।
।। इति अवाच्यत्वभङ्गः ।। १३ ।।