एतेन ‘अहं ब्रह्मास्मि’ इत्याद्यपि व्याख्यातम्

२९. अहं ब्रह्मास्मीत्यादिश्रुत्यर्थः

न्यायामृतम्

एतेन ‘अहं ब्रह्मास्मि’ इत्याद्यपि व्याख्यातम् । उक्तरीत्या एकपदलक्षणया ब्रह्मसाहचर्यादिना जीवे ‘ब्रह्म’ इति व्यपदेशस्य वा, सादेश्यादिना ब्रह्मणि ‘अहम्’ इतिव्यपदेशस्य वोपपत्तौ पदद्वयलक्षणयैक्य परत्वायोगात् । किञ्च अहंशब्दो जीवान्तर्यामिणि मुख्यः ।

सर्वान्तर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते ।

एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः ।।

इत्यादिस्मृतेः ‘अहं मनुरभवं सूर्यश्च’ इत्यन्तर्यामिणि अहंशब्दप्रयोगाच्च । न हि त्वत्पक्षेऽपि विशिष्टचैतन्यरूपो वामदेवो विशिष्टचैतन्यरूपम् अनुसूर्यादिर्भवति । अहं, मन्वादिशब्दैश्चिन्मात्रलक्षणायां चोत्तमपुरुषायोगः । ‘अहं भूमिमददामार्याय’ इत्याद्ययोगश्च । न हि चिन्मात्रं भूमिमदात् । भगवान्विष्णुर्हीन्द्राय भूमिमदात् तस्मादहं नामाभवत्तस्योपनिषदहमिति, ‘अहंनामा हरिर्नित्यमहेयत्वात्प्रकीर्तितः’ इत्यादिश्रुतेश्च । श्रुत्यन्तरे ‘अहं तत्तेजोरश्मीन्नारायणं पुरुषं जातमग्रतः तमिममहं विजानाति’ इति ओये अहंशब्दप्रयोगाच्च । अन्यथा ‘अहं विजानामि’ इति स्यात् । ततश्चान्तर्याम्यैक्यमेवात्रोच्यते । उक्ता चान्तर्यामिणि नियम्यानन्त्यादिना भेद-प्रसक्तिः । तथा च श्रुत्यन्तरम्– ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इति । अन्यथा ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इति छान्दोग्ये ‘स एनान् ब्रह्म गमयति’ इति भेदपरोत्तरवाक्यविरोधः ।

किञ्च ‘स य एतमेवं विद्वानुपास्ते’ इत्युत्तरवाक्ये उपास्तिश्रवणात् त्वन्मते चोपास्यस्यारोपितत्वान्नानेनैक्य सिद्धिः । ‘योऽसावसौ पुरुषः सोऽहमस्मि वायुः’ इतीशावास्ये च ‘वायुरनिलममृतमथेदं भस्मान्तं शरीरम्’ इत्युत्तरवाक्यविरोधः । न हि शरीरादेरपि जीवैक्यम् । ‘अग्ने नय सुपथा राये अस्मान्’ इत्यादि भेद परोत्तर-वाक्यविरोधश्च । ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्यैतरेये च ‘चक्षुर्मित्रस्य वरुणस्याग्नेः’ इति भेदपरोत्तरमन्त्रविरोधः । ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मि’ इति बृहदराण्यके च ‘तद्यो यो देवानां प्रत्युबुध्यत तथा ऋषीणां तथा मनुष्याणाम्’ इति भेदपरवाक्यशेषविरोधः । किञ्चात्र वाक्ये ब्रह्मण एव प्रकृतत्वात् नानेन जीवब्रह्मैक्यसिद्धिः । ‘य एवं वेदाहं ब्रह्मस्मि’ इत्युत्तरवाक्ये तु ‘इति’ शब्दयोगात् त्वन्मते चेतिशब्दयुक्तानाम् ‘आदित्यो ब्रह्म’ इत्यादीनामुपासनार्थत्वात् । ‘अथ योऽन्यां देवतामुपास्ते’ इत्युत्तरवाक्ये उपास्तिश्रवणाच्च नानेनैक्यसिद्धिः ।

यद्वाऽत्र ब्रह्मशब्दो बृंहणार्थ इति न परब्रह्मैक्यसिद्धिः । अन्यथा पूर्ववाक्ये ‘आत्मानमेवावेत्’ इत्यनेनैव ब्रह्मेति ज्ञानस्य सिद्धत्वाद् ब्रह्मास्मीति व्यर्थम् । एतेन– ‘अहं हरिः सर्वमिदं जनार्दनः’ इत्यादि स्मृतयोऽपि व्याख्याताः । ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः इत्यत्राप्यन्तर्यामि-भेदज्ञानी निन्द्यते । अन्यथा पदद्वयादिलक्षणादिदोषात् । यद्वा योऽन्यो जीवः अन्यां विलक्षणां देवतामुपास्ते । किमिति ? अन्योऽसौ परमात्मा अहमस्मीति न स वेद यथा पशुरित्यर्थः, अन्यथाऽहमर्थस्यापि विशेष्यत्वे देवतामुपास्त इत्ययुक्तम् । न च व्यवहितान्वयदोषः, ‘यस्य येनार्थसम्बन्धः’ इति न्यायेन सन्निधानाद्योग्यतायाः प्रबलत्वात् । अथवा स्वातन्त्र्येणाऽन्यसद्भावनिषेधाय श्रुतिस्त्वियम् ।

अन्योऽसावन्योऽहमस्मीति पश्यन्नज्ञ इति स्म ह ।

 आह तद्ब्रह्मणोऽधीना भिन्ना जीवास्तु सर्वशः’

इत्यादिस्मृतेः स्वातन्त्र्यज्ञानी पशुरित्यर्थः ।

केचित्तु ‘उपास्ते’ इत्यादिश्रवणात्पुंप्रयत्नसाध्यज्ञानविजातीयवृत्त्यन्तररूपोपासनाया एव निषेधः, न तु ज्ञानस्येत्याहुः । ‘स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति’ सत्यत्रापि द्वितीयो ब्रह्मशब्दो जीवपरः । ‘बृह जातिजीवकमलासनशब्दराशिषु’ इति वचनात् । ‘ब्रह्माणि जीवाः सर्वेऽपि’ इत्यादिस्मृतेश्च । ‘द्वे ब्रह्मणी वेदितव्ये’ इत्यादौ जीवे तत्प्रयोगाच्च । तथा च यः परमं ब्रह्म वेद स जीव एव भवति न तु परं ब्रह्मेत्यर्थः । अत एवाद्यो ब्रह्मशब्दः परमत्वेन विशेषितः । यद्वा ब्रह्म भवति बृंहितत्वरूपब्रह्मत्वाक्रान्तो भवतीत्यर्थः । ‘सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत्’ इतिवत् । न हि शूद्रः स्वपूज्यब्राह्मणव्यक्तिरेव भवति किन्तु ब्राह्मणत्व-जात्याक्रान्तः । ब्रह्मण्यपि ब्रह्मशब्दस्य बृंहणार्थत्वाद्, ‘ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता’ इति स्मृतेश्च । ‘अस्य महिमानमिति वीतशोकः’ इति वाक्यशेषाच्च । अन्यथा पूर्वत्र ‘यथा नद्यः स्यन्दमानाः’ इति भिन्ननदीसमुद्रदृष्टान्तोक्तिः । ‘परात्परं पुरुषमुपैति दिव्यम्’ इति ब्रह्मप्राप्त्युक्तिश्चायुक्ता स्यात् । किञ्च त्वत्पक्षे नित्यं ब्रह्मभूतस्यापूर्वब्रह्मभावोक्तिरयुक्ता । आरोपनिवृत्तेः साध्यत्वेऽप्यशाब्दत्वात् । ‘ब्रह्मैव सन्ब्रह्माप्येति’ इत्यत्रापि जीव एव सन् ब्रह्म प्राप्नोतीति कर्तृकर्मभावेन भेद एवोच्यते । ‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इत्यत्रापि एकीभावः स्थानैक्यं मत्यैक्यं सादृश्यं वा, न स्वरूपैक्यम् ।

अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा ।

एकीभावस्तथा प्रोक्तो नैकीभावः स्वरूपयोः ।। इति वचनात् ।

अह्नीतस्ततो गता गावः सायं गोष्ठे एकीभवन्ति’ ‘एकीभूता नृपाः सर्वे ववर्षुः पाण्डवं शरैः’ ‘अस्मिन्ग्रामे महाजना एकीभूताः’ ‘कीटो भ्रमरेणैकीभूतः’ इत्यादौ प्रयोगाच्च । त्वत्पक्षे ऐक्यस्य प्रागेव सिद्धत्वादभूततद्भावार्थच्विप्रत्ययबाधः । तथा सकृत्प्रयुक्तस्यैकीभवन्तीत्यस्य कर्मसु निवृत्तिरर्थः, विज्ञानात्मन्यैक्यमर्थ इति अनेकार्थत्वम् । तथा ‘परेऽव्यये’ इति श्रुतसप्तमीहानिः, अश्रुततृतीयाकल्पनापत्तिः । तथा ‘निरञ्जनः परमं साम्यमुपैति’ इति पूर्ववाक्येन ‘परात्परं पुरुषमुपैति दिव्यम्’ इत्युत्तरवाक्येन च विरोधः स्यात् । नाप्यन्तर्यामिप्रकरणस्थं ‘नान्योऽतोऽस्ति द्रष्टा’ इति वाक्यं अक्षरप्रकरणस्थं ‘नान्यदतोऽस्ति द्रष्ट्र’ इति वाक्यं चैक्ये मानम् । ‘अतः’ इत्यनेन प्रस्तुतं सर्वनियन्तारं परामृश्य, अन्यो द्रष्टा नास्तीत्युक्ते अस्मिन्ग्रामे अयमेव सर्वनियोजकः, नान्यः पुरुषोऽस्तीत्यादावन्यशब्दस्य प्रस्तुतसदृशान्यपरतया व्युत्पन्नत्वेनेहापि सर्वनियामकद्रष्ट्रन्तरनिषेधात् ।

उक्तं हि– ‘समानमितरच्छ्येनेन’ इत्यत्र इतरशब्दस्य पूर्वनिर्दिष्टसदृशपरत्वम् । एवं च ‘कन्दर्पः सुन्दरो लोके नान्योऽस्तीह पुमान्’ इत्युक्ते कन्दर्पतोऽन्यः पुमान्नेति न प्रतीयते किन्तु कन्दर्पसदृशः सुन्दरो नेति भासते । एवं परात्मसदृशद्रष्ट्रभावोऽत्र भासते । अन्यथा अन्तर्यामिवाक्ये ‘य आत्मनोऽन्तरः, यमात्मा न वेद, यस्यात्मा शरीरं य आत्मानमन्तरो यमयति’ इति पूर्ववाक्येन ‘एष त आत्माऽऽन्तर्याम्यमृतः अतोऽन्यदार्तम्’ इत्युत्तरवाक्येन च विरोधः । तत्र परमात्मनोऽन्यं चेतनम् अङ्गीकृत्य तस्यार्तियुक्तत्वेनास्वातन्त्र्यस्यैवोक्तेः । अक्षरवाक्ये च ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादि पूर्ववाक्येन विरोधः स्यात् । ‘द्वितीयाद्वै भयं भवति’ इत्यस्यापि विरोधिनः समानाद्भयं भवतीत्येवार्थः । लोके तादृशादेव भयदर्शनात् । अस्य च लोकसिद्धानुवादित्वात् । ‘समानाद्धि भयं भवेत्’ इति स्मृतेश्च । पूर्वत्र ‘तस्मादेकाकी बिभेति’ इति, उत्तरत्र च ‘तस्मादेकाकी न रमते’ इति श्रवणाच्च । ‘यदा ह्यैवैष एतस्मिन्नुदरमन्तरं कुरुते’ इत्यत्रापि एतस्मिन्निति विशेषणात्स्वगतस्यैव भेदस्य निषेधः । एवं ‘एको देवः सर्वभूतेषु गूढ’ इत्यादि श्रुतिः, ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः’ इति स्मृतिश्चान्तर्याम्यैक्यपरा । भूतशब्दस्य ‘यतो वा इमानि भूतानि जायन्ते यत्प्रयन्त्यभिसंविशन्ति’ इत्यादाविव चेतनपरत्वात् ।

यावन्मोक्षं तु भेदः स्याज्जीवस्य परमस्य च ।

ततः परं न भेदोऽस्ति भेदहेतोरभावतः ।।

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।।

इत्यादिस्मृतिष्वपि भेदशब्दो मित्रभेद इत्यादाविव वैमत्यार्थः । ‘जीवस्य परमैक्यं तु बुद्धिसारूप्यमेव च’ इत्यादिस्मृतेः । जीवस्य हि आमोक्षमीश्वरकाम विरुद्धकामिता न तु मोक्षे । अत एव मुक्तः सत्यकामः । असन्तमभद्रमित्यर्थः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ इत्यस्यापि क्षेत्रज्ञं सर्वज्ञं मां सर्वक्षेत्रेष्वपि विद्धीत्यर्थः । तत्रैव–

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ।।

तत् क्षेत्रं यच्च यादृक्च तत्समासेन मे शृणु । इत्युक्त्वा–

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ।।

इत्याद्युक्त्वा ‘एतत्क्षेत्रं समासेन सविकारमुदाहृतम्’ इत्यनेन ‘यस्य पृथिवी शरीरम्’ इति श्रुत्या ईश्वरशरीरतयोक्तं चेतनाचेतनात्मकं सर्वं क्षेत्रमित्युक्तत्वात् । मोक्षधर्मे–

क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे ।

तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ।। इति

प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।

क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम् ।।

इति चोक्तेः । न चैवं रूढार्थत्यागः । जीवेऽपि क्षेत्रज्ञशब्दस्य यौगिकत्वात् ‘शास्त्रस्था वा’– इति न्यायाच्च । एवमन्यान्यपि वाक्यानि योज्यानि । तस्मान्नागम ऐक्ये प्रमाणम् ।। ।। अहं ब्रह्मास्मीत्यादिश्रुत्यर्थः ।। २९ ।।

अद्वैतसिद्धि:

बृहदारण्यकस्थितस्य तु ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मि’ इति वाक्यस्यानुपासना प्रकरणस्थतया अभेदप्रमापकत्वमेव । न च ‘तद्यो यो देवानां प्रत्यबुद्ध्यत, स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ इति भेदपरवाक्यशेषविरोधः । तत्रापि देवादिषु प्रबुद्धं पुरुषं निर्धार्य ‘स एव तदभवत्’ इति ब्रह्माभेदपरत्वेन भेदपरत्वाभावात् । न च– अत्र वाक्ये ब्रह्मण एव प्रकृतत्वान्नानेन जीवब्रह्मैक्यसिद्धिरिति शङ्क्यम्, य्•ो देवानाम्’ इति जीवपरामर्शि-वाक्यशेषानुसारेण ब्रह्मपदस्य कार्यब्रह्मपरत्वात् । शुद्धब्रह्मपरत्वे च बोधनिमित्तस्य तस्मात्तत्सर्व-मभवदिति सार्वात्म्यलक्षणफलकीर्तनस्यायुक्तत्वापत्तेः । न च– ‘नाम ब्रह्मेत्युपासीतादित्यो ब्रह्मेत्यादेश’ इत्यादावितिशब्दशिरस्कतया नामाद्यभेदाभावादत्रापीतिशब्दशिरस्कतया ब्रह्मभेदाभाव इति शङ्क्यम्, अनुपासनाप्रकरणस्थत्वेनाभेदाविवक्षाया नाम ब्रह्मेत्यादाविव वक्तुमशक्यत्वात् । न चेतिशब्दवैयर्थ्यम्, आत्मेत्येवोपासीत इत्यादाविव शब्दज्ञानयोः स्वाभाविकसकर्मकत्वप्राप्तौ तन्निराकरणपरत्वेनोपयोगात् । यच्च– अहं शब्दो जीवान्तर्यामिणि मुख्यः, ‘अहं मनुरभवं सूर्यश्च’ इति अन्तर्यामिण्यहंशब्दप्रयोगात्,

सर्वान्तर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते ।

एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः ।।

इति वचनाच्चेति, तन्न । ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इति न्यायेन वामदेवजीवचैतन्यस्य वस्तुतो ब्रह्माभेदेन सूर्यादिभावस्योक्ततया अन्तर्यामिपरत्वाभावात् । ‘तद्यो यो देवानां प्रत्युबुद्ध्यत स एव तदभवत्’ इति पूर्ववाक्ये तत्त्वबोधनिमित्तकब्रह्मभावस्य प्रकृततया ‘पश्यन् प्रतिपेदे’ इत्यादेरपि बोधनिमित्तब्रह्मभावपरतया अन्तर्यामिपरत्वाभावात् । स्मृतेरपि असाधारणतत्तदात्मनि शक्तेरावश्यकतया तत्सहचारेणान्तर्यामिणि ‘एषोऽहम्’ इत्यादिप्रयोगः, न तु सर्वस्वरूपत इति । निषेधस्य तूपहितयोरैक्याभावनिबन्धनत्वान्न विरोधः । अत एव– विशिष्टचैतन्यरूपे वामदेवे विशिष्टचैतन्य-रूपमनुसूर्यादिभावो न सम्भवतीति निरस्तम् । शास्त्रदृष्ट्या तूक्तत्वात् । न च तर्हि शुद्धचिति ‘अभवम्’ इत्युत्तमपुरुषायोगः । भूतपूर्वगत्या सम्भवात् । न च– अहं भूमिमददामार्यायेत्याद्ययोगः, न हि चिन्मात्रं भूमिदात्रितिवाच्यम्, उपहितचितमादाय तेषामुपपत्तेः । ‘अहं नामाभवत्३ ‘तस्योप-निषदहम्’ इत्यादेश्च तादृशोपासनापरत्वेन शक्तिनिर्णायकत्वाभावात् । तस्मान्नान्तर्याम्यभेदपरेयं श्रुतिः । अन्तर्यामिणि भेदाप्रसक्तेश्च । न च नियम्यानन्त्यादिना प्रसक्तिः । एकस्मिन्नपि जीवे अनेकावयव-नियामकत्वस्यैकस्मिन्नपि राजन्ये अनेकदेशनियामकत्वस्य च दर्शनात् । ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इत्यस्यापि नान्तर्याम्यैक्यपरता । ‘ब्रह्मविदाप्नोति परम्’ इत्यादिना शुद्धस्य ब्रह्मणः प्रकृततया तस्मिन्नुपाधिकृतभेदस्य तात्त्विकत्वप्रसक्तौ तन्निराकरणार्थत्वेन ऐक्योपदेशोपपत्तेः । न चैवं छान्दोग्ये ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इत्यत्र ‘स एवैनान् ब्रह्म गमयति’ इत्यत्र भेदपरोत्तरवाक्यविरोधः, तस्य उपासनाप्रकरणस्थत्वेनाहं ग्रहोपासनापरतया विरोधाभावात् । न चोपासनाप्रकरणस्थितवाक्यबलादैक्यासिद्धावपि अनुपासनाप्रकरणस्थितादपि तदसिद्धिः शङ्क्या । अन्यशेषत्वस्य तस्य तत्प्रयोजकस्याभावात् । ‘अथ योऽन्यां देवतामुपास्ते’ इत्युत्तरवाक्यस्य भेदज्ञाननिन्दापरतया तदनुसारेण पूर्ववाक्यस्योपासनापरत्वायोगात् ।

यत्तु ब्रह्मशब्दोऽत्र बृंहणार्थ इति न परब्रह्मैक्यसिद्धिः । अन्यथा पूर्ववाक्ये ‘आत्मानमेवावेदहम्’ इत्यनेनैव ब्रह्मेति ज्ञानस्य सिद्धत्वाद् ब्रह्मास्मीति व्यर्थमिति, तन्न । आत्मशब्देन जीवचैतन्यमनूद्य बृंहितत्वाद्युपलक्षितब्रह्मचैतन्याभेदविधिपरत्वेन सार्थकत्वात् । तथा च स्मृतिः ‘अहं हरिः सर्वमिदं जनार्दन’ इत्यादिकापि सङ्गच्छते । यत्तु ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः’ इत्यत्रान्तर्यामिभेदज्ञाननिन्दनमिति, तन्न, अन्तर्यामिणोऽप्रकृतत्वात् पदद्वय लक्षणादेस्तात्पर्यानुरोधेन लब्धत्वात् । यत्तु अत्र योऽन्यो जीवोऽन्यां विलक्षणां देवतामुपास्ते अन्योऽसौ परमात्मा अहमस्मीति न स वेद यथा पशुरित्यर्थ इति, तत्तुच्छम्, व्यवहितान्वयदोषात् । अहंशब्द-सन्निहितान्य इत्यस्य य इत्यत्र नयनात् । न च ‘यस्य येनार्थसम्बन्ध’ इति न्यायेन सन्निधाना-द्योग्यतायाः प्रबलत्वमिति शङ्क्यम्, यथास्थितार्थसम्बन्धेऽप्युक्तक्रमेण योग्यतासत्त्वात् । न चेयं श्रुतिः स्वातन्त्र्येणान्यसद्भावनिषेधिका, अन्यत्वप्रतियोगिनि स्वातन्त्र्योपस्थापकपदाभावात् । यत्तु कैश्चिदुपास्त इति श्रवणात् प्रयत्नसाध्यज्ञानविजातीयवृत्त्यन्तररूपपोपासनाया एव निषेधः, न तु ज्ञानस्येत्युक्तम्, तन्न । ‘तद्यो यो देवानां प्रत्यबुध्यत’ इति पूर्ववाक्ये न स वेदेति निन्दावाक्ये च वेदनस्यैव निर्देशात् मध्यस्थितोपास्तेरपि ज्ञानपरत्वात् ।

एवं मुण्डके ‘स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्येतदपि वाक्यमभेदपरमेव । न च– द्वितीयब्रह्मशब्दो जीवपर एव, तस्य जातिजीवकमलासनाद्यनेकार्थत्वात्, द्वे ब्रह्मणी इत्यादौ जीवे ब्रह्मशब्दप्रयोगसम्भवाच्च, यः परमं ब्रह्म वेद स जीव एव भवति, न तु परमं ब्रह्मेत्यर्थः । अत एव आद्यो ब्रह्मशब्दः परमत्वेन विशेषित इति– वाच्यम्, जीवे ब्रह्मपदप्रयोगसम्भवेऽपि प्रकृते परब्रह्मोपदोपादानमेवोचितम्, जीवभावस्याब्रह्मभावस्य च प्रागेव सिद्धतया ब्रह्मज्ञानसाध्यत्वाभावात् । एवं च अर्थाद् द्वितीयब्रह्मभवनमपि परमत्वविशेषितमेव । यच्च ब्रह्म भवतीत्यस्य बृंहितत्वरूप-ब्रह्मत्वाक्रान्तो भवतीत्यर्थः । ‘सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेद्’ इतिवत् । न हि शूद्रोऽपि पूजितब्राह्मणव्यक्तिर्भवति, किन्तु ब्राह्मणत्वजात्याक्रान्त इति, तन्न, पूर्वोक्तयुक्त्या प्रकृते व्यक्त्यभेदस्यैव सम्भवेन दृष्टान्तवैषम्यात् । न च– ‘अस्य महिमानम्’ इति वाक्यशेषात्तदीय-महत्त्वप्राप्तिरेव, न तु तद्भाव इति युक्तम्, देहेन्द्रियादिप्रपञ्चविलक्षणं यो वेद, प्रपञ्चं तद्विभूतिं च यो वेद, स वीतशोको भवतीत्येवंपरत्वात् । न च ‘यथा नद्यः स्यन्दमानाः’ इति भिन्ननदी-समुद्रदृष्टान्तोक्तिरयुक्तेति वाच्यम् । स्पष्टभेदविलयनमात्रपरत्वेन दृष्टान्तोपपत्तेरुक्तत्वात् । ‘परात् परं पुरुषमुपैति दिव्यम्’ इति न देशान्तरस्थब्रह्मप्राप्त्युक्तिपरा, तस्याः सगुणोपासनाफलत्वेन ब्रह्मविद्या-फलत्वासम्भवेन स्वरूपभूतब्रह्मप्राप्तिपरत्वात् ।

न च– औतमते नित्यं ब्रह्मभूतस्यापूर्वब्रह्मभावोक्तिरयुक्तेति वाच्यम्, कण्ठगतचामीकरादौ भ्रान्तिनिवृत्तिमात्रेण प्राप्तप्राप्तिरूपतया फलत्वदर्शनात् । न चारोपनिवृत्तेरशाब्दत्वम्, श्रुतार्थापत्ति-गम्यतया शाब्दत्वोपपत्तेः । ‘ब्रह्मैव सन् ब्रह्माप्येति’ इति श्रुतिरप्यैक्यपरा । न चात्र प्रथमब्रह्मपदस्य जीवपरत्वाभावे कर्तृकर्मभावविरोधः, साक्षात्कारप्राक्कालीनौपाधिकभेदमादाय तादृङ्निर्देशोपपत्तेः । ‘परेऽव्यये सर्व एकीभवन्ति’ इत्येतदप्यभेदे मानम् । न च ‘गावः सायं गोष्ठ एकीभवन्ति’ । ‘एकीभूता नृपाः सर्वे ववर्षुः पाण्डवं शरैः’ । ‘कीटो भ्रमरेणैकीभूतः’ इति स्थानैक्य–मत्यैक्य–सादृश्यनिबन्धनैकी-भावस्य गोनृपकीटभ्रमरादौ दर्शनात् । अत्रापि तैरेव निमित्तैः गौण एकीभाव इति– वाच्यम् । मुख्यत्वे सम्भवति गौणत्वस्यायोगात् । ब्रह्मैक्यमात्रपरत्वेन सकृदुच्चरितस्य नानेकार्थपरत्वशङ्कापि । न चैक्यस्य प्रागेव सिद्धतया अभूततद्भावार्थच्विप्रत्ययायोगः । स्वगृहनिक्षिप्ताज्ञातनिधिवत् सतेऽप्यावृतत्वेनाभूत-समतया च्विप्रत्ययोपपत्तेः । न च ‘परेऽव्यये’ इति श्रुतसप्तमीहानिरश्रुततृतीयाकल्पनापत्तिश्चेति– वाच्यम् । श्रुत्यन्तरानुसारेण सप्तम्या अननुसरणीयत्वात् । न च ‘परमं साम्यमुपैति ’ ‘परात्परं पुरुषमुपैति’ इति पूर्वोत्तरवाक्यविरोधः । तस्य प्रागेव निरासात् । तथाऽन्तर्यामिप्रकरणस्थं ‘नान्योऽतोऽस्ति द्रष्टा’ इति वाक्यम्, अक्षरप्रकरणस्थं ‘नान्यदतोऽस्ति द्रष्ट्र’ इति वाक्यं च ऐक्ये प्रमाणम् । न चात इत्यनेन प्रस्तुतं सर्वनियन्तारं परामृश्य ‘अन्यो द्रष्टा नास्ती’त्युक्तेः स्वनियामकद्रष्ट्रन्तरनिषेध आयाति, न तु द्रष्टृसामान्यनिषेधः । ‘अस्मिन् ग्रामे अयमेव सर्वनियामको नान्यः पुरुषोऽस्ति’ इत्यदावन्यशब्दस्य प्रस्तुतसदृशान्यपरतया व्युत्पन्नत्वात् ‘समानमितरच्छ्येनेन’ इत्यत्र इतरशब्दस्य पूर्वनिर्दिष्टसदृशपरत्वोक्तेश्चेति– वाच्यम् । अनेन ह्येतत्सर्वं वेदेति प्रतिज्ञातस्य एकविज्ञानेन सर्वविज्ञानस्योपपादनार्थम् अन्यत्वेन प्रतीतेन जीवेनाभेदबोधनात् । अचेतनवर्गस्य ‘अतोऽन्यदार्तं, ‘नेति नेतीति’ निषेधाच्च जीवब्रह्माभेद एव वाक्यप्रमेयः । दृष्टान्ते तु अभेदस्या-विवक्षितत्वात् त्वदुक्तप्रकाराश्रयणे बाधकाभावात् ।

न चात्राप्यन्तर्यामिवाक्ये ‘य आत्मनोऽन्तरः यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति’ इति पूर्ववाक्येन ‘एष त आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तम्’ इत्युत्तरवाक्येन च विरोधः । तत्र परमात्मनोऽन्यं चेतनम् अङ्गीकृत्य तस्यार्तियुक्तत्वेनास्वातन्त्र्यस्यैवोक्तिरिति वाच्यम् । पूर्ववाक्यस्यौपाधिकभेदमात्रेणोपपत्तेः । उत्तरवाक्येन न चेतनान्तरस्यार्तियोगो विधीयते, किन्तु ‘एषोऽन्तर्यामी ते आत्मा’ इति जीवस्वरूपभूतादन्तर्यामिणो व्यतिरिक्तं सर्वम् आर्तं विनश्वरमिति वा मिथ्येति वा बोधनान्न विरोधशङ्का । अत एव अक्षरवाक्येऽपि ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिपूर्ववाक्येन विरोध इत्यपास्तम् । किञ्च ‘द्वितीयाद्वै भयं भवति’ इति भेदस्य भयहेतुत्वेन निन्दितत्वादप्यभेद एवोपनिषद्गम्यः । न च– अस्य विरोधिनः समानाद् भयं भवतीत्येवार्थः, लोके तादृशादेव भयं भवतीति लोकसिद्धानुवादित्वात् पूर्वत्र । ‘तस्मादेकाकी बिभेति’ उत्तरत्र ‘तस्मादेकाकी न रमते’ इति श्रवणाच्चेति वाच्यम् । यन्मदन्यन्नास्ति कस्मान्न बिभेमीति तत एवास्य भयं वीयायेति श्रुतेः । सामान्यतो द्वितीयमात्रदर्शनस्यैव भयहेतुत्वाद् विशेषकल्पनायोगात् । एकाकी बिभेतीति पूर्ववाक्ये परमार्थदर्शनरहितस्य तन्निमित्तभयसम्भवाद् एकाकी बिभेतीत्युक्तम् । उत्तरवाक्ये तस्मादेकाकी न रमत इत्यत्र इष्टसंयोगजन्यरतेरेकाकिन्यभावाद् एकाकिनो रतिर्नास्तीत्युक्तम् । ततश्चातत्त्वज्ञविषयोक्तवाक्यानुसारेण तत्त्वज्ञविषयमध्यवाक्यस्य स्वार्थसमर्पणे-नाप्युपयुक्तत्वात् तद्विरोध्यर्थपरत्वायोगात् । ‘एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति’ इति भेदनिन्दयाप्यभेदसिद्धिः । न च एतस्मिन्निति श्रवणात् स्वगतभेदनिषेधोऽयम्, न भेदमात्रनिषेध इति शङ्क्यम् । अल्पार्थकान्तरशब्दस्वारस्यादप्यर्थकोत्पदस्वारस्याद्, एतस्य प्रतियोगित्वेनानुल्लेखाच्च भेदमात्रनिषेधपरतया तद्विशेषनिषेधपरत्वकल्पनायोगात् । एवं ‘एको देवः सर्वभूतेषु गूढः’ इत्यादि-श्रुतिरप्यत्रैक्यप्रमाणम् । न च– अर्न्ताम्यैक्यपरेयं श्रुतिः, ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादा-विव भूतशब्दस्य चेतनपरत्वादिति वाच्यम् । दृष्टान्तासम्प्रतिपत्तेः । चेतनस्य जायमानत्वाद्ययोगाद्, भूतहिंसानिषेधवाक्य इव चेतनाधिष्ठितप्राणशरीरादेरेव भूतशब्दवाच्यत्वात् । अत एव ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः’ इत्यादिस्मृतिरपि । एवं–

यावन्मोहं तु भेदः स्याज्जीवस्य परमस्य च ।

ततः परं न भेदोऽस्ति भेदहेतोरभावातः ।।

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।।

इत्यादिस्मृत्या भेदस्याविद्यकत्वप्रतीतेरभेद एव तात्त्विक इति गम्यते । न चात्र भेदशब्दो मित्रभेद इत्यादाविव वैमत्यार्थः, तथा सति लक्षणापत्तेः, अन्योऽन्याभावादेरेव मुख्यत्वात्, श्रुतार्थत्याग-स्यान्याय्यत्वात् । ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ इत्यादिस्मृतिरप्यत्र मानम् । न च क्षेत्रज्ञं सर्वज्ञं मां सर्वक्षेत्रेषु विद्धीत्यर्थः । ‘महाभूतान्यहङ्कारः’ इत्याद्युक्त्वा ‘एतत्क्षेत्रं समासेन सविकारमुदाहृतम्’ इत्यनेन ‘यस्य पृथिवी शरीरम्’ इत्यादिश्रुत्येश्वरशरीरतयोक्तं चेतनाचेतनात्मकं सर्वं क्षेत्रमित्युक्तत्वादिति वाच्यम् । सर्वनियामकतया सकलक्षेत्रसम्बन्धस्य प्रागेव सिद्धेः पौनरुक्त्यापत्तेः । तत्तत्क्षेत्राधिष्ठातृत्वेन क्षेत्रज्ञपदवाच्यजीवाभेद परत्वस्यैवोचितत्वात् । अत एव–

क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे ।

श्रुतानि वेत्ति योगात्मा ततः क्षेत्रज्ञ उच्यते ।।

प्रकृतेश्च विकाराणां द्रष्टारमगुणात्मकम् ।

क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम् ।।

इत्यादिस्मृतौ क्षेत्रज्ञशब्दस्य सर्वान्तर्यामिसर्वज्ञपरत्वेऽपि प्रकृते तदसम्भवः जीवे सुप्रसिद्धत्वाच्च । न च शास्त्रस्था वेति न्यायः, तस्य एकतराशास्त्रीयविषयत्वात् । एवमन्यान्यपि वाक्यानि यथासम्भवमैक्ये योज्यानि । तस्मादागम ऐक्ये मानम् । इत्यद्वैतसिद्धौ अहं ब्रह्मास्मीत्या-द्यनेकश्रुतिस्मृत्यर्थकथनम् ।। २९ ।।

न्यायामृततरङ्गिणी

लक्षणां विनैवेष्टसिद्धिरित्याह– किञ्चेति ।। अन्तर्यामिण्यहंशब्दस्य मुख्यत्वाय तत्र तस्य श्रौतप्रयोगमप्याह ।। अहं मनुरिति ।। नन्वेतन्मन्त्रद्रष्टरि वामदेव एवाहंशब्दोऽस्त्वित्यत आह– न हीति ।। ननु ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इति न्यायेन वामदेवजीवचैतन्यस्य वस्तुतो ब्रह्माभेदेन सूर्यादिभाव उच्यतेऽतो न विरोध इत्यत आह– अहमिति ।। तथा सति वामदेवशब्दे चिन्मात्रलक्षणापत्तौ ‘अभवम्’ इत्युत्तमपुरुषायोगः ।। अहं भूमिमिति ।। चिन्मात्रस्य सूर्यादिभवनसम्भवेऽपि भूमिदानं न सम्भवति । ननु चिन्मात्रस्येवान्तर्यामिणोऽपि भूमिदानं न सम्भवतीत्यत आह– भगवानिति ।। विष्णुर्व्यापनशीलः सर्वान्तर्यामी । ‘एको विष्णुर्महद्भूतम्’ इति स्मृतेः । प्रसिद्धं हीन्द्रायेन्द्रेण राज्यं दत्तमिति ।। मन्त्रवर्णोऽपि–

सखे विष्णो वितरं विक्रमस्व र्द्यौर्देहि लोकं वज्राय विष्कभे ।

 हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः’ ।। इति ।

अस्यार्थो माधवीये– हे सखे विष्णो वितरम् अत्यन्तं विक्रमस्व विक्रमं कुरु । हे द्यौः त्वं वज्राय वज्रस्य विष्कभे विष्कंभाय लोकम् अवकाशं देहि । हे विष्णो त्वं चाहं चोभावपि वृत्रम् असुरं हनाव हन्वः । सिन्धून् वृत्रावष्टब्धनदीः रिणचाव स्रावयावः त इमे विसृष्टाः सिन्धव इन्द्रस्य प्रसवे यन्तु प्रेरणे गच्छन्तु । तमिममर्थं सङ्गृह्य श्लोकैः शौनको दर्शयति–

त्रीन् लोकानभिवृत्यैतान्वृत्रस्तस्थौ स्वया त्विषा ।

तन्नाशकाद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोऽब्रवीत् ।

वृत्रं हनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके ।

उद्यतस्य तु वज्रस्य द्यौर्ददातु ममान्तरम् ।

तथेति विष्णुस्तच्चक्रे द्यौश्चास्य विवरं ददौ ।

तदेतदखिलं प्रोक्तं सखे विष्णविति ह्यृचा ।। इति ।

तथा विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।

शतं महिषान् क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ।

हे इन्द्र त्वेषितः त्वया प्रार्थितः उरुक्रमो विष्णुः, विश्वा पूर्णानि ता तानि धनानि आहरत् इत् एव । तानि कानि । शतं अपरिमितान् महिषान् प्रशस्तान् पदार्थान् क्षीरपक्वमोदनं च आहरत् । इन्द्रः भवान् एमुषं आमुषं आकारस्य एकारः छान्दसः । धनानां आमुषं वराहनामकम् असुरं अविध्यदिति शेषः । इत्यादिष्विन्द्राय विष्णू राज्यादि दत्तवानिति । ‘अस्येदमातुः सवनेषु सद्यः’ इत्यत्रापीयं कथा श्रूयते । ततश्चान्तर्यामिणो विष्णुत्वात्तस्य भूमिदानादि युज्यते ।। ततश्चान्तर्याम्यैक्यमिति ।। न चात्र ‘अहमस्मि’ इत्युत्तमपुरुषायोगः । अन्तर्यामिणोऽपि प्रत्यक्त्वात्तत्पराहंशब्दयोगेऽपि जीवपराहंशब्दयोग इवोत्तमपुरुषोपपत्तिः । अन्तर्यामिभेदनिराकरणं श्रुतावदृष्टचरमिति शङ्कां निराकरोति– तथा चेति ।। ननु ‘ब्रह्मविदाप्नोति परम्’ इत्यादिना शुद्धस्य ब्रह्मणः प्रकृततया तस्मिन्नुपाधि-कृतभेदस्य तात्विकत्वप्रसक्तौ तन्निराकरणार्थत्वात् ‘स यश्चायम्’ इत्यादेर्नान्तर्याम्यैक्य-परत्वम् । मैवम् । ब्रह्मणि भेदनिराकरणस्याप्यन्तर्यामिणि भेदनिराकरणतुल्यत्वात् ।। अन्यथेति ।। अहंब्रह्मणोरभेदपरवाक्यानां जीवब्रह्माभेदपरत्वे ।। स एनानिति ।। ‘अथ यदु चैवास्मिंच्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषो हरिः’ इत्यारभ्य ‘तत्पुरुषो मानवः स एनान्ब्रह्म गमयत्येष देव पथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त’ इत्यादिना विरोधः । अस्मिन् ब्रह्मविदि । शव्यं शवसम्बन्धि कर्म । आशौच-कर्मकरणाकरणाभ्यां ब्रह्मविदां नोत्कर्षापकर्षौ किन्तु ब्रह्मविदोऽर्चिरादिमार्गेण गच्छन्त्येवेति श्रुत्यर्थः ।।

किञ्चेति ।। ‘अथ हैनं गार्हपत्योऽनुशशास य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति’ इत्युपास्तिः श्रूयते । उपास्तिवाक्यस्य चोपासनायाः कर्तव्यत्वे वस्तुतस्तथात्वे च न तात्पर्यमित्यर्थः । किञ्च ब्रह्मविद्यार्थं सत्यकामाख्यस्य गुरोः कुले वसन्तं गुर्वनुज्ञयाऽग्नीन् परिचरन्तं गुरुणा बहुकालम् अनुपदिष्टविद्यत्वाद् अनश्नन्तमुपकोसलं प्रति कृपालुभिरग्निभिरुक्तं ‘य एष आदित्य’ इत्यादि । तत्र न विशिष्टचैतन्यरूपाणां गार्हपत्याद्यग्नीनां सूर्येणैक्यं सम्भवति किन्त्वन्तर्याम्यैक्यमेव । ननूपासनाप्रकरणस्थादैक्यासिद्धावप्यनुपासनाप्रकरणस्थाद् यः प्रसिद्धः असौ आदित्यमण्डलस्थः असौ पुरुषः परिपूर्णः सः प्रसिद्धः परिपूर्ण एवाहमस्मीत्येवमर्थकाद् ‘योऽसौ’ इति वाक्यादैक्यसिद्धिः स्यादत आह– योऽसाविति ।। वायुरनिलमिति ।। ‘पूषन्नेकर्षे यमसूर्यप्राजापत्यव्यूहरश्मीन्समूहतेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि’ इति पूर्वेण च विरोधः । ननु पूषन्नित्याद्यमन्त्रे हे पूषन् हे एकर्षे हे यम हे प्रजापतेरपत्यभूत इति सूर्यं सम्बोध्य सौरकिरणानामपसरणं प्रार्थ्यते तदैक्यज्ञानाय । वायुरनिलमित्यत्र तु मरणकाले वायुः प्राणः अनिलं बाह्यवायुं यात्विति शेषः । अमृतं आनन्दात्मरूपम् अहमस्मीति पूर्वेण सम्बन्धः । अथ वायुगमनानन्तरम् इदं प्रत्यक्षं शरीरं भस्म अन्ते यस्य तत् पृथिवीं यात्विति शेषः इत्येवार्थसत्त्वान्न पूर्वोत्तराभ्यां विरोध इत्यत आह– न हीति ।।

अयं भावः । ‘वायुरनिलम्’ इत्यादेरेकवाक्यतयाऽन्वये शरीरादेरैक्यं स्यात् । भिन्नतयाऽ-न्वये तु वाक्यभेदोऽध्याहारादिदोषप्रसङ्गः । वायोर्बाह्यवायुं प्रति गमनस्य शरीरस्य भस्मभावस्य चावश्यम्भावित्वात्प्रार्थनानुपपत्तिश्च । एकस्यासावित्यस्य वैयर्थ्यं च । तस्मात् हे पूषादिगुण मदीयान् रश्मीन् व्यूह तेजश्च समूह । स्वरूपभूतं बाह्यं च मदीयं ज्ञानं विस्तारयेति यावत् । तथा च यत्ते रूपं कल्याणतमं तत्ते प्रसादादहं पश्यामि योऽसौ प्रसिद्धः असौ असुशब्दवाच्ये प्राणे स्थितः पुरुषः स एव ओयत्वजीवान्तर्यामित्वाभ्यां नित्यसत्तामानाभ्याम् ‘अहम्, अस्मि’ शब्दाभिधेयस्तञ्च पश्यामीति । नन्वेतदयुक्तं, प्रत्यक्षत एव देहस्य भस्मान्तत्वदर्शना-द्देहनाशे च तदन्तर्गतजीववन्मरणाद्यवश्यम्भावादित्याशङ्कायामिदमुच्यते वायुरनिलमित्यादि । तस्यार्थः । यद्यपीदं शरीरं भस्मान्तं तथापि तदन्तर्गतस्य परमेश्वरस्य न मरणादिदोषः । कुतः । अकारवाच्यो विष्णुः नीडं स्थानमस्य सोऽनिलः । अनिलः परमेश्वराश्रितो वायुरपि यदामृतः अथ तदा परमेश्वरोऽमृत इति किं वक्तव्यमित्ययमर्थोऽस्य वाक्यस्य ईशावास्यभाष्य-तट्टीकानुसारेण ज्ञेयः ।।

अग्ने नयेति ।। हे अग्ने देव विश्वानि सर्वाणि वयुनानि विद्वान् जानासि त्वं, अतः राये मोक्षाख्यधनार्थम् अस्मान् सुपथा शोभनमार्गेण नय, जुहुराणं कुटिलम् एनः अस्मत्सकाशात् युयोधि वियोजय ते तुभ्यं भूयिष्ठां नम उक्तिं नमस्कारं विधेम एषा ते अपचितिरित्यर्थः ।। चक्षुरिति ।। अत्र मित्रादिदेवानां भेदेन निर्देशान्मन्त्रस्य भेदपरत्वम् । चित्रं देवानामिति मन्त्रस्यायमर्थः । देवानाम् अनीकं समूहरूपं चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् उदगात् उदयाचलं प्राप्तमासीत् । कीदृशं, मित्रस्य मित्राद्युपलक्षितानां सर्वेषां चक्षुः प्रकाशकम् उदयं प्राप्य वा दिवं पृथिवीम् अन्तरिक्षं च आप्राः स्वकीयेन तेजसा आ समन्तात् प्रा पूरणे इति धातोर्लङ् पुरुषव्यत्ययः अदादित्वाच्छपो लुक् । मण्डलान्तर्गतः सूर्याख्यो नारायणः जगतां स्थावराणां च आत्मा चैतन्यप्रद इति ।। तद्यो यो देवा-नामिति ।। नन्वत्र देवादिषु प्रबुद्धं पुरुषं निर्धार्य स एव तदभवदिति ब्रह्माभेदपरत्वेन ब्रह्मभेद-परत्वाभावः । मैवम् । बहुमुक्तिरबोद्धुस्तदभाव इति भेदस्य स्पष्टं प्रतीतेः । न चायं मिथ्याभेदः । स्वतः प्रमाणसिद्धस्य मिथ्यात्वानुपपत्तेः ।।

किञ्चात्रेति ।। ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्व-मभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्’ इति वाक्ये प्रकृतं ब्रह्म आत्मानमेव ब्रह्मत्वेनावेदित्यवगम्यते न तु जीवः स्वात्मानं ब्रह्मतयाऽवेदिति । येन जीवब्रह्मैक्यपरमिदं वाक्यं स्यादित्यर्थः । ननु ‘यो यो देवानाम्’ इति जीवपरर्षि-वाक्यशेषानुसारेण ब्रह्मशब्दः कार्यब्रह्मपरः । मैवम् । ‘तदाहुर्यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मनुष्या मन्यन्ते किमु तद् ब्रह्मावेद्यस्मात्तत्सर्वमभवत्’ इति पूर्वकण्डिकायां यस्य ब्रह्मणो विज्ञानेन सर्वभवनरूपफलावाप्तिः तस्याकार्यस्य ब्रह्मणः प्रकृतत्वात् । न हि कार्यब्रह्मविद्यायाः सार्वात्म्यं फलम् । न च शुद्धब्रह्मणो बोधनिमित्तस्य सार्वात्म्यस्याभावात् ‘तस्मात्तत्सर्वमभवत्’ इति बोधनिमित्तकसार्वात्म्य लक्षणफलस्य कीर्तनमयुक्तमिति वाच्यम् । स्वस्य पूर्णत्वानुभवोद्रिक्तानन्दात्सर्वात्मकत्वोपपत्तेः । ननु तथर्षीणां तथा मनुष्याणां ‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ इति ‘तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मि’ इति ‘स इदं सर्वं भवति’ इति जीवपरवाक्यगत ‘अहं ब्रह्मास्मि’ इति वाक्येन ब्रह्मैक्यसिद्धिः स्यादित्यत आह– य एवं वेदेति ।

ननु तद्वाक्ये इतिशब्दश्रवणेऽपि नोपासाऽऽश्रीयतेऽत आह– अथ योऽन्यामिति ।। ननु ‘यो यो देवानां प्रत्यबुध्यत’ इति पूर्ववाक्येन ‘स वेद’ इत्युत्तरवाक्ये च वेदनस्य निर्देशान्मध्यस्थितोपास्तिरपि ज्ञानमेव । मैवम् । लक्षणापत्तेः ।। अनेनेति ।। य एवं वेदाहं ब्रह्मेत्यनेन नैक्यसिद्धिः ।। यद्वाऽत्रेति ।। ‘ब्रह्म वा’ इत्यादिवाक्यप्रकृतं ब्रह्म अहं बृंहितः पूर्णोऽस्मीत्यात्मानमवेदित्यर्थसम्भवेन न ततो जीवब्रह्मैक्यसिद्धिः ।। अन्यथेति ।। ब्रह्म-शब्दस्य बृंहणार्थत्वानङ्गीकारे प्रसिद्धब्रह्मार्थकत्वाङ्गीकारे । ननु परमते उपासनायामर्थासत्त्वेऽपि भवन्मते तस्यामर्थोऽस्ति । अतो भेदोपास्तिनिन्दानुपपत्तिरत आह– अथ योन्यामिति ।। अन्यथेति ।। भेदज्ञानिनिन्दापरत्वे अदःशब्दास्मच्छब्दबोध्यविशिष्टयोर्भेदस्य सत्वे न तज्ज्ञानिनो निन्द्यत्वाभावात्ताभ्यां शब्दाभ्यां भागत्यागलक्षणया चिन्मात्रमुपलक्ष्य तद्भेदज्ञानी निन्द्यत इत्यर्थवर्णने पदद्वयलक्षणादोष इत्यर्थः ।। अन्यथेति ।। ‘अन्योऽसावहमन्यः’ इति प्रकारेण देवतामुपास्त इत्यर्थकरणे अदःशब्दार्थसमकक्ष्यतयाऽहमर्थस्याप्युपास्तिं प्रति विशेष्यतया तस्मिन् देवतात्वायोगः ।। व्यवहितेति ।। अहंशब्दसन्निहित ‘अन्य’ इत्यस्य य इत्यत्र नयनात् ।। यस्येति ।। व्याख्यातमेतत् ‘न तु तद्दितीयमस्ति’ इति श्रुत्यर्थ-निरूपणे ।। स जीव एव भवतीति ।। ननु जीवभावस्य प्रागपि सिद्धतया ब्रह्मवेदनसाध्य-त्वानुपपत्तिः । मैवम् । जीवो भवतीत्यस्य मरणादिदुःखाभावे तात्पर्यात् । नन्वेवमशाब्दोऽर्थः स्यादित्याशङ्क्य तवापि सममित्याह– किञ्च त्वत्पक्ष इति ।। ननु कण्ठगतचामीकरादा-विवारोपिताब्रह्मत्वनिवृत्तिरेव ब्रह्मत्वप्राप्तिरत आह– आरोपितेति ।। स्थानैक्ये उदाहरणमाह– अह्नीति ।। मत्यैक्ये नृपा महाजनाश्च । सादृश्ये कीटोदाहरणम् ।। सकृदिति ।।

गताः कलाः पञ्चदशप्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ।।

इति श्रुतौ पञ्चदशकलाः प्रतिष्ठाः स्वमूलरूपं प्रति गताः सर्वे देवाः स्वमूलदेवताः प्रतिगताः कर्माणि निवृत्तानि विज्ञानात्मा च परेणैकीभूत इत्यर्थकरणे वाक्यभेदादिदोष इत्यर्थः ।। अतोऽन्यदार्तमिति ।। न चार्तशब्देन मिथ्येति वा विनश्वरमिति वोच्यतेऽतो न विरोध इति वाच्यम् । ‘आर्तो जिज्ञासुरर्थार्थी’ इत्यादौ दुःखिनीव मिथ्यादौ तदप्रयोगात् ।। समानादिति ।। ननु ‘सोऽबिभेत्तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मात्तु बिभेमीति तत एवास्य भयं वीयाय कस्माध्द्यभेष्यत् द्वितीयाद्वै भयं भवति’ इति श्रुतौ द्वितीयमात्रदर्शनस्यैव सामान्यतो भयहेतुत्वाद्विशेषकल्पनायोग इत्यत आह– लोक इति ।। अन्यथा ‘यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय’ इत्यत्र द्वितीयाभावस्य भयाभावहेतुत्वकथनमयुक्तम् स्यात् । द्वितीयाभावस्येव द्वितीयस्य भयहेतोः सत्त्वात् ।। उत्तरत्रेति ।। ‘स वै नैव रेमे तस्मादेकाकी न रमते’ इति श्रुतेः ।। यदा ह्येवैष इति ।। नन्वल्पार्थक ‘अर’शब्दस्वारस्यादपिशब्दार्थक ‘उत्’पदस्वारस्यादेतच्छब्दार्थस्य प्रतियोगित्वेनानुपादानाच्च भेदमात्रनिषेधपरतया स्वगतभेदनिषेधपरत्वायोगः । मैवम् । यदिन्यायेन, ‘इमौ स्निग्धौ’ इत्यादिलौकिकरीत्या च भेदप्रयोगित्वेनैतस्मिन्निति शब्दनिर्दिष्टस्य सन्निहितस्यैवान्वये उदरशब्दयोरस्मन्मते स्वारस्यात् ।।

एको देव इति ।। ननु नात्रान्तर्याम्यैक्यं शक्यं वक्तुम् । भूतशब्दस्य चेतनपरत्वाभावात् । भूतहिंसानिषेधवाक्य इव चेतनाधिष्ठितशरीरादेरेव भूतशब्दवाच्यत्वादत आह– भूतशब्द-स्येति ।। न च चेतने जनेरयोगः, जनेरनेकविधत्वेन चेतनेपि तत्सम्भवात् । ननु वैमत्यार्थत्वे भेदशब्दस्य लक्षणापत्तिः । तस्यान्योन्याभावेरूढत्वादत आह– जीवस्येति ।। ऐक्य-व्याख्यात्र्या स्मृत्या तद्विपर्ययो भेदोऽप्यर्थाद्व्याख्यात इति भावः । ननु ‘सर्वक्षेत्रेषु क्षेत्रज्ञं जीवं मां विद्धि’ इत्येतदर्थकं ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्यादिवाक्यमैक्ये प्रमाणमत आह– क्षेत्रज्ञं चापीति ।। क्षेत्रज्ञस्य जीवात्पृथगुक्तेर्न क्षेत्रज्ञो जीव इत्याह– प्रकृतश्चेति ।। क्षेत्रज्ञ इति ।। क्षेत्रज्ञः शुद्धः परमात्मा अविकर्तुर्जीवस्य मया रचिताः अनित्याः एताः विभूतीः आविर्हिताः तिरोहिताश्च विचष्टे प्रकटयति ।। शास्त्रस्था वेति ।। व्याख्यातमेतत् ।। ।। अहंब्रह्मास्मीत्यादिश्रुत्यर्थः ।। २९ ।।

न्यायामृतकण्टकोद्धारः

ननु ‘अहं ब्रह्मास्मि’ इत्यादिनाऽभेदस्य निर्णीतत्वात् तदनुसारेण ‘तत्त्वमसि’ इत्यादेर्योज्यत्वान्न तद्वाक्यं भेदपरमित्यतस्तदेतद्व्याख्यानेन व्याख्यातमित्याह– एतेनेति । अतिदिष्टं हेतुं दर्शयति– उक्तरीत्येति । ‘एकपदलक्षणया’ इत्यङ्गीकृत्योक्तम् । साऽपि नास्मन्मत इत्याह– किञ्चेति । ननु योगरूढ्योर्मुख्यत्वात् तत्रापि योगाद् रूढेर्मुख्यत्वात् ब्रह्मणि च तदभावात् कथं ब्रह्मण्यहं शब्दो मुख्य इत्यत आह– सर्वेति । अत्र नाम्नाऽभिधीयत इत्युक्तत्वाद् रूढिसिद्धिः । योगस्तु ओयत्वादहं नामेति स्मृत्युक्तो द्रष्टव्यः । न चान्त-र्यामिणि जीवसाहचर्यात् तद्वाचकाहमादिशब्दप्रयोग इत्येवम्परतया स्मृतिर्नेयेति वाच्यम् । ‘अभिधीयते’ इत्यभिधानस्यैव स्मृत्युक्तत्वात् । ननु रूढेर्बहुलप्रयोगनिबन्धनत्वात् अन्तर्यामिणि च प्रयोगाभावात् कथं तत्र रूढिरित्यत आह – अहमिति । न च ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इत्युक्तन्यायेन ‘तत्त्वमसि’ इत्यत्रेवात्रैक्योपदेशो, नान्तर्याम्यैक्याभि-प्रायेणेति वाच्यम् । तत्राप्यन्तर्यामिदृष्ट्येत्येव सूत्रार्थः न तु भवद्रीत्या चैतन्यैक्यमात्रमर्थः । ‘तत्वमसि’ इत्यादेस्तु यथा भेदपरत्वं तथोपपदादितम् । न च ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’ इति पूर्ववाक्ये तत्वबोधनिमित्तकब्रह्मभावस्य प्रकृततया ‘पश्यन् प्रतिपदे’ इत्यादेरपि बोधनिमित्तब्रह्मभावपरतयाऽन्तर्यामिपरत्वाभाव इति वाच्यम् । तद्वाक्यस्य मुक्तभेद-परत्वेन त्वदुक्तार्थपरत्वाभावात् । यथा चैतत् तथाऽग्रे उपपादयिष्यामः । उदाहृतस्मृति-विरोधाच्च । न च स्मार्तनिषेधस्योपहितैक्यनिषेधपरतया चिन्मात्रैक्ये न विरोध इति वाच्यम् । न तु सर्वस्वरूपत इति साक्षान्निषेधस्यैवाभिधानात् । अत एवाह– न हीति । ननु शास्त्रदृष्ट्या चिन्मात्रलक्षणया प्रयोग इत्यत आह– अहमिति । न च भूतपूर्वगत्याऽयम् । ‘अहं मनुः’ इत्यादिना चिन्मात्रस्यैव प्रकृतत्वाद् भूतपूर्वगतेश्च निरस्तत्वात् । भगवतोऽहंशब्दवाच्यत्वे श्रुत्यादिकं दर्शयति– तस्मादिति । न चेदं श्रुत्यादिकमुपासनापरमिति वाच्यम् । उपासनावाचकाश्रवणात् । असदुपासनाया निषेधाच्च । अन्यथा ‘सत्यं ज्ञानम्’ इत्यादेरप्युपा-सनापरत्वे शून्यवादापातात् ।

परमप्रमेयमुपसंहरति– ततश्चेति । ‘अहं ब्रह्मास्मि’ इत्यत्रेत्यर्थः । नन्वन्तर्यामिणि भेदस्याप्रसक्ततया तदैक्यकथनमयुक्तमित्यत आह– उक्ता चेति । न च नियम्यानन्त्यादिना नियामके भेदप्रसक्तिरयुक्ता । एकस्यैव जीवस्यानेकशरीरावयवनियामकत्वदर्शनात् । राजादेश्चानेकदेशनियामकत्वदर्शनाच्चेति वाच्यम् । जीवेऽप्यंशविशेषाभावेऽवयव नियामकत्वा-सम्भव एव । स्वरूपेणैवानेकनियामकत्वेन भेदस्योक्ततया राजदृष्टान्तायोगात् । न हि राजादिः स्वस्वरूपेणानेकनियामकः । किन्तु भृत्यादिद्वारेणेत्यलम् । ननु नियम्यभेदेन नियामकभेदप्रसक्तौ नियामकैक्यकथनं क्वापि नोपलब्धमित्यत आह– तथा चेति । नन्वत्र ‘ब्रह्मविदाप्नोति परम्’ इति ब्रह्मणः प्रकृतत्वेन तद्भेदस्यौपाधिकत्वमेव, न तु तात्विकत्व-मित्यत्रोच्यत इति चेन्न । स एक इति भेदनिषेधस्यैव प्रतीयमानत्वात् । तात्विकत्वनिषेध ज्ञापकाभावात् । लक्षणाया अयुक्तत्वाच्चेत्यलं पल्लवेन ।

नन्वहमादिशब्दानां जीवादिमात्रपरतया जीवब्रह्मैक्यं ‘सोऽहम्’ इत्यत्र प्रतिपाद्यते । अतस्तत्समाख्यया प्रकृतेऽपि स एवार्थ इत्यतस्तत्राप्यन्तर्याम्यैक्यमेवार्थोऽन्यथोत्तरवाक्यविरोध इत्याह– अन्यथेति । अहमादिशब्दानामन्तर्यामिपरत्वानङ्गीकार इत्यर्थः । ‘स एनान्’ इत्यत्र प्राप्यप्रापकतया भेदोक्तिः द्रष्टव्या । न चात्र ब्रह्मशब्दस्य गौणब्रह्मपरतया तेन भेदस्याङ्गी-कृतत्वान्न शुद्धब्रह्माभेदे तद्विरोध इति वाच्यम् । परं जैमिनिरिति सुत्रकारेणैव मुख्यत्वेन ब्रह्मशब्दस्य परब्रह्मपरत्वाङ्गीकारात् । परब्रह्मण एव शुद्धत्वात् । ननु नानेन वाक्येन जीवब्रह्म-भेदसिद्धिः । तस्य व्यावहारिकभेदानुवादकत्वेन तत्र तात्पर्याभावात् । पूर्ववाक्यं तु अपूर्वार्थत्वेन तात्पर्ययुक्तत्वेन बलवत्त्वान्नैक्यसिद्धिरित्यत आह– किञ्चेति । तथा चैक्य-वाक्यस्याप्युपासनायामेव तात्पर्यान्नैक्यसिद्धिः । अन्यथा वाक्यभेदापत्तेरिति भावः । व्यावहारिकभेदस्याद्याप्यसिद्धत्वात् अनुवादस्य च प्रयोजनाभावात् जीवपरमात्मभेदस्य च श्रुतिं विनाऽसिद्धेः तत्राप्यपूर्वत्वेन बलवत्त्वात् पूर्वोक्तदूषणमपि निरवद्यम् । नन्वीशावास्ये ‘योऽसावसौ पुरुषः सोऽहमस्मि वायुः’ इत्यत्र जीवपरमात्मनोरभेद उच्यते । तदनुसारेण भेदवाक्यान्यभेदपराण्येवेत्यत आह– योऽसाविति । जीवपरमात्माभेदपरत्वेन व्याख्यायमान इत्यर्थः । कथमेतद्वाक्यविरोध इति चेत्, इदं हि परमात्मनो जीवशरीरस्थत्वे शरीरस्य प्रत्यक्षेण भस्मान्तत्वदर्शनात् जीववन्मरणशङ्कायां प्रवृत्तम् । तथा चानेन जीववैलक्षण्यं प्रतिपाद्यते यद्यपीदं शरीरं भस्मान्तम् तथापि तत्स्थः परमात्मा नित्य एव । यतो वायुरमृतः स्मृतः । ननु वायोरमृतत्वे परमात्मनः किमायातमिति चेत् तन्नित्यत्वेऽनिल इत्यनेन अः निलोऽस्येति वा, अस्य निल इति वा व्युत्पत्त्या परमात्माश्रितत्वस्य तदाश्रयत्वस्य वा हेतूकरणात् ।

न चेदं द्वितीयान्तं कथं प्रथमान्तवायुरित्यस्य विशेषणमिति वाच्यम् । व्यत्ययेन प्रथमान्तत्वोपपत्तेः । न च वायुरनिलं प्राप्यामृतो भवतु, इदं तु शरीरं भस्मान्तं भूयादित्यर्थः किं न स्यादिति वाच्यम् । अवश्यभाविन्यर्थे प्रार्थनानुपपत्तेः । तथा चानेन जीववन्मरणा-भावरूपवैलक्षण्यप्रतिपादनाद् अस्य जीवभेदपरत्वम् । तथा च सन्दंशन्यायेन योऽसावित्यस्य भेदपरत्वमेव । यदि च सामानाधिकरण्यबलेनैक्यपरत्वं तर्हि शरीरादिनाप्यैक्यप्रसङ्गः । न च तद्युक्तमित्याह– न हीति । शरीरत्वाज्जीवस्यापि नाशप्रसङ्ग इति भावः । इष्टापत्तौ चोत्तरवाक्यविरोध इत्याह– अग्ने नयेति । अत्र जीवस्य भगवत्प्राप्तिरूपमोक्षप्रतिपादनादिति भावः । यद्वा चशब्दस्वारस्यात् ‘योऽसौ’ इत्यस्यैक्यपरत्वे विरोधान्तरमनेनोच्यते । ‘अग्ने नय’ इत्यस्य भगवत्प्राप्तिपरतया भेदपरत्वादिति । ननु तथाप्यैतरेये ‘तद्योऽहम्’ इत्यनेन जीवब्रह्मैक्यप्रतिपादनमस्तु । तस्य तत्परत्वेन उत्तरविरोधाभावादित्यत आह– तद्योऽहमिति । अत्र मन्त्रे मित्रादीनां ‘चक्षुः’ इत्यनेन प्रकाशकत्वोक्त्या भेदप्रतीतिः । न च ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इत्यात्मशब्देन स्थावरजङ्गमात्मकजगत्स्वरूपत्वमुच्यत इति कथं भेदपरत्वमिति वाच्यम् । आत्मशब्दस्यादानादि कर्तृत्वार्थत्वेन तस्यात्यन्तभेदपरत्वात् । स्वरूपपरत्वे षष्ठ्या औपचारिकत्वापत्तेः ।

ननु बृहदारण्यके ‘अहं ब्रह्मास्मी’ति जीवपरमात्मनोरभेदाभिधानात् तदनुसारेण भेदवाक्यानि योजनीयानीत्यत आह– ब्रह्म वा इदमिति । बृहदारण्यके च नाभेदः प्रतिपाद्यः । यतः उत्तरवाक्यविरोध इति योजना । न च ‘तद्यः’ इत्यत्राप्यभेद एव प्रतिपाद्यते । अतः कथं तद्विरोध इति वाच्यम् । अस्याभेदपरत्वे ‘यो योऽबुध्यत स एव तदभवत्’ इत्यनेनैव पूर्त्या देवानामित्यादि तारतम्यकथनवैयर्थ्यापत्तेः । तथा च ‘तद्यः’ इति भेदपरमेव । तद्विरोधात् पूर्ववाक्यमपि भेदपरमेवेति भावः । किञ्चात्र ‘अहं ब्रह्मास्मि’ इति सामानाधिकरण्यात् जीवब्रह्मणोरैक्यं प्रतिपाद्यत इति वाच्यम् । न चाहंशब्देन जीव उच्यते । किन्तु ‘तदात्मानमेवावेत्’ इति पूर्ववाक्ये ब्रह्मणः एव प्रकृतत्वेनाहंशब्देन ब्रह्म-ग्रहणादित्याह किञ्चेति ।। अस्तु वाऽहंशब्देन जीवग्रहणं तथापि नानेन जीवपरमात्मैक्य-सिद्धिः । अस्य तत्र तात्पर्याभावात् । कुत इत्यत आह– य एवं वेदेति । नन्वितिशब्द-सद्भावेऽपि कुतो जीवब्रह्मैक्यतात्पर्याभाव इत्यत आह– त्वन्मते चेति । उभयत्र तात्पर्ये वाक्यभेदः स्यात् । अन्यथादित्यादीनामपि ब्रह्मैक्यसिध्यापत्तेः । जीवब्रह्मैक्यपरत्वाभावे ज्ञापकान्तरमाह अथेति । न चेतिशब्दादि यत्र श्रूयते तस्य तत्परत्वं मास्तु । ‘तदात्मानमेवा-वेदहं ब्रह्मास्मि’ इत्यस्य तत्परत्वे न कोऽपि दोष इति वाच्यम् । एतत्प्रकरणगतस्यात्रा-प्यन्वयात् फलवाक्यसमानार्थत्वाच्च । यद्वाऽस्यार्थान्तरसम्भवान्नानेन जीवब्रह्मैक्यसिद्धिरित्याह– यद्वेति । अन्यथेति । ब्रह्मशब्दस्य बृंहणाद्यर्थत्वानङ्गीकार इत्यर्थः । सिद्धत्वात् । प्रश्नोत्तरवाक्यपर्यालोचनयेति भावः । ब्रह्मास्मीति व्यर्थमिति । नन्वनेनात्मनमिति जीवचैतन्यमनूद्य तस्य ब्रह्मचैतन्याभेदबोध इति न वैयर्थ्यमिति वाच्यम् । तथापि आत्मा ब्रह्मेति वा अहमिति वा एकवाक्येनैव पूर्त्या ब्रह्मास्मीत्यस्य वैयर्थ्यापरिहारात् । एतेनेति । श्रुतिव्याख्यानेनेत्यर्थः । सावकाशान्येतानि वाक्यानि निरवकाशभेदवाक्यबलात् अन्यथा योजनीयानीति भावः ।

ननु भेदवाक्यानुसारेणाभेदवाक्यानि योजनीयानीति कथमुच्यते ? ‘अथ योऽन्यामिति वाक्ये भेदज्ञानिनो निन्दितत्वेन भेदवाक्यानां तत्परत्वाभावादित्यत आह– अथ योऽन्या-मिति । न चान्तर्यामिणोऽप्रकृतत्वात् कथं तद्भेदज्ञानिन इति वाच्यम् । ‘अहं ब्रह्मास्मि’ इत्यादावहंशब्देनान्तर्यामिणः प्रकृतत्वात् । अन्यथेति । जीवपरभेदज्ञानिनिन्दापरत्वाङ्गीकारे इत्यर्थः । न च तात्पर्यबलादेव लक्षणासिद्धिरिति वाच्यम् । तात्पर्यस्याद्यप्यसिध्याऽ-न्योन्याश्रयात् । अन्यथेति । उक्तयोजनानङ्गीकार इत्यर्थः । न ह्यहमर्थस्य विशेष्यत्वे अहमर्थोपासना स्यात् । तथा च ‘देवतामुपास्ते’ इत्यनन्वितमेव स्यादिति भावः । यस्येति । इदं तु ‘आनन्तर्यमचोदना’ इत्येतद्विवरण एव विवृतम् । न च सन्निहितान्वयेऽपि योग्यताऽ-स्तीति वाच्यम् । ‘देवतामुपास्ते’ इत्यस्यान्वयाभावेनायोग्यताया उक्तत्वात् । अथवेति । न च स्वातन्त्र्योपस्थापकपदाभावात् स्वातन्त्र्यनिषेधोऽयुक्त इति वाच्यम् । स्वातन्त्र्यस्यैव मुख्यत्वेन मुख्यामुख्ययोरिति न्यायेन स्वतन्त्रस्यैव शब्दात् प्रतीतेः । यद्वाऽन्यशब्देन स्वातन्त्र्यं प्रतिपाद्यते । लोके सोऽन्यः अहमन्य इत्युक्ते स्वातन्त्र्यप्रतीतेरिति भावः । केचित्त्विति । न च पूर्ववाक्ये ‘तद्यः’ इत्यत्र ‘न स वेद’ इति निन्दावाक्ये च वेदनस्यैवोक्तत्वेन तन्मध्य-पतितस्य ‘उपास्ते इत्यस्यापि वेदनपरत्वस्यैव युक्तत्वादिति वाच्यम् । ‘उपास्ते’ इत्यस्य विशेषत्वेन तदनुसारेण सामान्यस्य योजनीयत्वात् । विशेषस्य निरवकाशत्वात् । ‘उपास्ते’ इत्यस्य ज्ञानविजातीयवृत्त्यन्तरत्वम् अप्रामाणिकमिति सूचनाय ‘केचित्’ इत्युक्तम् ।

ननु मुण्डके ‘स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्यत्र जीवस्य ब्रह्मभाव उच्यते । न चेयं श्रुतिरन्यथाव्याख्यानमर्हति । अब्रह्मत्वव्यावर्तकैवकारबलेन निरवकाशत्वादित्यत आह– स य इति । ननु न ब्रह्मशब्दस्य जीवे शक्तिः । तज्ज्ञापकाभिधानादेरभावात् । नापि लक्षणा । मुख्यार्थे सम्भवति लाक्षणिक ग्रहणानुपपत्तेरित्यत आह– बृह जातीति । तथा चाभिधानादिसद्भावात् शक्तिरेवेति भावः । द्वितीयब्रह्मशब्दस्य जीवपरत्वे ज्ञापकमाह– अत एवेति । नन्विदं वाक्यं ब्रह्मज्ञानफलपरम् । तत्र ब्रह्मभावो नाम जीवभाव इति व्याख्यायते चेत् तस्य प्रागपि सिद्धत्वाद् ब्रह्मज्ञानफलता न स्यादिति चेन्न । अत्र हि अवधारणबलेन जीव एव भवति, न तु जीवत्वं जहातीत्यर्थः । जीवत्वं च प्राणधारकत्वम् । तथा च प्राणवियोगलक्षणमरणाभावरूपमुक्तिप्रतिपादकत्वेन फलपरत्वोपपत्तेः । सततमरणा-भावस्यैव मुक्तित्वात् । यद्वेति । न च ‘सोऽयं गकारः’ इत्यादाविव नात्र जात्यभेदग्रहणं युक्तम् । दृष्टान्ते तु जात्यभेदो बाधकाद् गृहीतः । न चात्र मुख्याभेदे बाधकमस्ति । येन जात्यभेदग्रहणं स्यादिति वाच्यम् । प्रकृतेऽपि श्रुत्यादेर्बाधकस्य सत्वात् । बाधकान्तरं चाह– ब्रह्मत्वमिति ।

अस्य महिमानमिति । न च प्रपञ्चम् अस्य महिमानं विभूतिरूपं वेदेत्यर्थपरत्वम् अस्य वाक्यस्येति वाच्यम् । अध्याहारदोषप्रसङ्गात् महिमशब्दस्य महत्वपरत्वस्य सुप्रसिद्धत्वेन प्रमाणविरुद्धविभूतिपरत्वानुपपत्तेश्च । अन्यथेति । न च तद्वाक्यं विलयमात्रपरं, न भेदपरमिति वाच्यम् । भेदपरत्वस्य सुदृढं प्रतीतेः । न च ‘परात्परम्’ इति सगुणो-पासनफलमिति वाच्यम् । परात्परमिति विशेषणात् । सगुणोपास्त्या च परात्परप्राप्त्यनुपपत्तेः । ननु ब्रह्मभावस्य नित्यत्वेऽप्यारोपिताब्रह्मत्वनिवृत्तेः साध्यत्वसम्भवात् तथोक्तिः । यथा कण्ठामणौ विद्यमानेऽप्यज्ञानविपरीतज्ञाननिवृत्त्या प्राप्तकण्ठमणिरित्युक्तिरित्यत आह– आरो(पित)पनिवृत्तेरिति । अशाब्दत्वात् ब्रह्मभावशब्दाप्रतिपाद्यत्वात् । न च श्रुतार्थापत्तिलभ्यत्वादारोपनिवृत्तेः शाब्दत्वमिति वाच्यम् । ‘यश्चार्थादर्थो न स चोदनार्थः’ इति न्यायात् । ब्रह्मभावस्य प्रकारान्तरेण व्याख्यातत्वेन श्रुतार्थापत्तेरभावाच्च । अज्ञात-विपरीतज्ञातकण्ठमणिस्थलेऽपि ज्ञातकण्ठमणिरित्येवोच्यते, न प्राप्तकण्ठमणिरिति दृष्टान्तोऽप्यसङ्गत एवेति भावः । वाक्यान्तरेऽप्ययमेव न्यायो द्रष्टव्य इत्याह– ब्रह्मैवेति । न च काल्पनिकभेदमादाय कर्तृकर्मभावोपपत्तिरिति वाच्यम् । भेदस्य काल्पनिकत्वा-सिध्याऽन्योन्याश्रयात् । ऐक्यनिर्देश एव काल्पनिकैक्यमादायेति वक्तुं शक्यत्वाच्च । ननु तथापि ‘परेऽव्यये सर्व एकीभवन्ति’ इति ऐक्यप्रमाणस्य विद्यमानत्वात् अस्य च पूर्ववद् व्याख्यानायोगात् एतदनुसारेण भेदवाक्यानि योजनीयानीत्यत आह– कर्माणीति ।

ननु मुख्ये बाधक एव गौणार्थस्य स्वीकरणात् प्रकृते च बाधकाभावात् कथं स्थानैक्याद्यर्थत्वमिति चेन्न । श्रुत्यादेर्बाधकस्योक्तत्वात् । बाधकान्तरं चाह– अविरोधश्चेति । ननु स्थानैक्यादिनिमित्तैक्यव्यपदेशस्य क्वाप्यदर्शनात् कथं तन्निमित्तैक्य व्यपदेशो व्याख्यायत इत्यत आह– अह्नीति । त्वत्पक्ष इति । न च ज्ञानाभावमात्रेण च्विप्रत्ययोपपत्तिरिति वाच्यम् । श्रुतैक्यस्यैवातद्भाव सम्भवेऽश्रुतज्ञानातद्भावकल्पनाऽयोगात् । तथेति । न चेदं वाक्यमात्मैक्यमात्रपरमिति अर्थद्वयकल्पना नास्तीति वाच्यम् । ऐक्यमात्र-परत्वज्ञापकाभावात् । अनेकपदमुख्यार्थ त्यागप्रसङ्गाच्च । तथा ‘परे’ इति । न च सप्तम्यविवक्षितेति वाच्यम् । अविवक्षाकारणाभावात् । न चैक्यश्रुत्यन्तरानुसारेण सप्तमी नेयेति वाच्यम् । पुण्यपापविधूननस्य निरञ्जनत्वस्य मोक्षं विनाऽनुपपत्तेः । ननु तथाप्यन्तर्याम्यक्षरप्रकरणस्थ वाक्याभ्यामैक्यं प्रतिपाद्यते । तत्रान्तर्याम्यक्षरातिरिक्तद्रष्ट्रन्तर-निषेधादित्यत आह– नापीति । न चानेन ‘एतत्सर्वं वेद’ इति प्रतिज्ञातस्यैकविज्ञानेन सर्वविज्ञानस्योपपादनार्थमस्य प्रवृत्तत्वेनात्र जीवाभेद एव तात्पर्यम् । न तु सदृश द्वितीयाभाव इति वाच्यम् । एकविज्ञानेन सर्वविज्ञानस्य प्राधान्यादिनोपपादनात् । प्राधान्योपपादनार्थं सदृशद्वितीयनिषेधोपपत्तेः । न च ‘ततोऽन्यदार्तम्, ‘नेति नेति’ इत्यादावचेतननिषेधः क्रियते । अतस्तद्विरोध इति वाच्यम् । एकत्र जीव चैतन्यस्य दुःखित्वस्य परत्र ब्रह्मणः सर्ववैलक्षण्यस्य चोक्तत्वेनाचेतननिषेधाभावात् ।

ननु चान्यशब्दस्य सदृशान्यवाचकत्वं न दृष्टमित्यत आह – उक्तं हीति । सप्तमाध्याये प्रथमपादे द्वितीयाधिकरणे चिन्तितम् । ‘समाने पूर्ववत्त्वात् उत्पन्नाधिकारः स्यात्’ । इषावेकाहे श्रूयते ‘समानमितरच्छ्येनेन’ इति । तत्र संशयः । किमयम् अनुवाद उत श्येनवैशेषिकाणामतिदेशविधिरिति । पूर्वपक्षस्तु इतरशब्दस्य सन्निहितवाचकत्वात् श्येनवैशेषिकाणां चासन्निहितत्वात् न तद्वाचकः । किन्तु चोदक प्राप्तास्तु ज्योतिष्टोमधर्माः । ते श्येनेऽपि विद्यन्ते इति तत्सादृश्यमिषो रासादयन्तीति तदपेक्षोऽयमनुवाद इति । सिद्धान्तस्तु सत्यम् इतरशब्दः सन्निहितमभिधत्ते । न तु तन्मात्रम् । किन्तु पूर्वनिर्दिष्टसदृशं सन्निहितं च यद्द्वयं तदभिधत्ते । तदिह यत् सन्निहितं ज्यौतिष्टोमिकं न तत् पूर्वोक्तसदृशम् । न प्राकृतानि, सप्ताहादीनां पूर्वमुक्तत्वात् । यत्त्वप्राकृतं लोहितोष्णीषादिकं श्येनवैशेषिकं तद् यद्यप्यसन्निहितं, तथापि सादृश्यमस्तीति अवश्यहातव्येऽन्यतरस्मिन् वचनार्थवत्वाय सन्निधिं हित्वा सादृश्यपरिग्रहेण श्येनवैशेषिकाणामतिदेशेन विधिरिति । अन्यथेति । सदृश द्रष्ट्रन्तरनिषेधानङ्गीकारे इत्यर्थः । न च पूर्ववाक्यमौपाधिकभेदपरमिति वाच्यम् । स्वाभाविक-भेदपरत्वे बाधकाभावात् । अन्यथाऽभेदवाक्यमेवौपाधिकाभेदपरमिति स्यात् । ननूत्तरवाक्यमपि न चेतनस्यार्तिविधायकम् । किन्तु एषोऽन्तर्यामी ते आत्मेति जीवस्वरूपातिरिक्तस्य नश्वरत्वं मिथ्यात्वं वा बोधयतीति न विरोधशङ्केति चेन्न । आर्तशब्दस्य मिथ्यात्वादावशक्तेः अन्तर्यामिण एव पृष्टत्वेन तस्यैवात्मशब्दवाच्यत्वमुच्यत इति नानेनान्तर्यामिणो जीवैक्यमुच्यत इति तद्विरोधोऽपरिहार्य एवेति भावः । विरोधप्रकारं दर्शयति– तत्रेति । एवमक्षरवाक्येऽपि पूर्वोत्तरवाक्यविरोध उपपादनीयः ।

ननु ‘द्वितीयाद्वै भयं भवति’ इति द्वितीयमात्रस्य भयहेतुत्वेन निषेधादत्रापि द्वितीयमात्रनिषेधो युक्त इत्यत आह– द्वितीयाद्वै भयमिति । ननु सामान्यपरत्वे बाधकसद्भाव एव विशेषपरत्वम् । न च प्रकृते तदस्तीत्यत आह– लोक इति । सन्दंश-न्यायेनाप्यस्य समानद्वितीयनिषेधपरत्वमित्याह– पूर्वत्र चेति । ननु पूर्ववाक्ये इष्टसंयोगजन्यरतेरेकाकिनोऽसम्भवात् एकाकिनो रतिर्नास्तीत्युक्तम् । तथा च तदज्ञविषयम् । एवं सति तदनुसारेण कथं तत्वज्ञविषयं वाक्यमन्यथा व्याख्यायत इति चेन्न । तन्न्यायेनास्यापि तत्वज्ञविषयत्वाभावात् । अतो यथा तत्वविषयता अस्य वाक्यस्य तथा पूर्ववाक्यस्यापि वक्तुं शक्यत्वात् । ननु ‘उदरमन्तरं कुरुते’ इत्यत्र भेदज्ञानस्यानर्थहेतुत्वोक्तेर्न भेदवाक्यानां भेदपरत्वमित्यत आह– यदा ह्येवेति । पदिन्यायेनोपस्थितस्यैव प्रतियोगित्वसम्भवेऽनु-स्थितत्प्रतियोगिकल्पना न युक्तेति भावः । न चाल्पार्थकारशब्दास्वारस्यमिति वाच्यम् । भेदसहिताभेदनिवारकतया स्वारस्योपपत्तेः । उक्तन्यायमन्यत्राप्यतिदिशति– एवमिति ।

भूतशब्दस्येति । न च दृष्टान्तासम्प्रतिपत्तिः । जीवानां जायमानत्वाद्ययोगादिति वाच्यम् । शरीरादिसम्बन्धेन जायमानत्वादिसम्भवात् । ‘अभिसंविशन्ती’त्युक्तमोक्षान्वयार्थं भूतशब्देन चेतनस्यैव ग्राह्यत्वाच्च । ननु ‘विभेदजनकज्ञान इत्यादिस्मृतिषु भेदस्य सावधिकत्वासत्त्वादेरुक्तत्वाद् भेदो न तात्विकोऽभेद एव तात्विक इत्यत आह– यावदिति । न च भेदशब्दस्य वैमत्यार्थत्वे मुख्यार्थत्यागः । अन्योन्याभावस्यैव मुख्यार्थत्वादिति वाच्यम् । वैमत्ये बहुलप्रयोगेण रूढलक्षणात्वात् । मुख्यार्थभेदनित्यत्वादिवाक्यविरोधात् । वैमत्यार्थत्वं स्मृत्यादिसिद्धमित्याह– जीवस्येति । ननु तथा च जीवब्रह्मभेदे तद्विरोध इत्यत आह– क्षेत्रज्ञं चापीति । ननु क्षेत्रज्ञमिति सर्वज्ञमिति व्याख्यातं, तन्न युक्तम् । क्षेत्रशब्दस्य चेतनाचेतनात्मकजगत्परत्वे प्रमाणाभावादित्यत आह– तत्रैवेति । न च सर्वनियामकतया सर्वक्षेत्रसम्बन्धस्य प्रागेव सिद्धत्वात् पुनस्तदभिधाने पौनरुक्त्यमिति वाच्यम् । क्षेत्रशब्दस्य व्याख्यानार्थं पूर्वसिद्धस्याप्यनुवादसम्भवात् । यद्वा सर्वनियामकतया सिध्यन् सर्वसम्बन्धो राजादिवन्न । किन्तु तत्र तत्र स्थित्वा तन्नियामकत्वमिति दर्शयितुमस्य प्रवृत्तिरिति न पौनरुक्त्यम् । मोक्षधर्मे ईश्वरस्यैव क्षेत्रज्ञत्वोक्तेर्जीवस्य तदभावोक्तेश्च क्षेत्रज्ञशब्देनेश्वर एव ग्राह्य इत्याह– मोक्षधर्मे चेति । शास्त्रस्था वेति न्यायश्च पूर्वमेव विवृतो द्रष्टव्यः । उक्तन्यायमन्यत्राप्यतिदिशति– एवमिति । इति अहंब्रह्मास्मीत्यादि श्रुत्यर्थः ।। २९ ।।

न्यायामृतप्रकाशः

किञ्चात्रवाक्य इति ।। बृहदारण्यकवाक्य इत्यर्थः ।। यस्य येनेति ।। ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः । ग्राह्यः’ इति वचनादित्यर्थः ।। इति श्रवणादिति ।। ‘उपास्ते’ इति पुम्प्रयत्नसाध्यत्वश्रवणात् ज्ञानस्य चातथात्वात् उपासनाया एव तथात्वादिति भावः ।। सर्वक्षेत्रेष्वपि विद्धीति ।। सर्वत्र मम सत्वाच्चेतनाचेतनात्मकेषु प्रतिमात्वेन मच्छरीरभूतेषु स्थितं विद्धीत्यर्थः । चेतनाचेतनात्मकस्य प्रपञ्चस्य क्षेत्रत्वं कुत इत्यत आह– तत्रैवेति ।। गीतायामेवेत्यर्थः । तथापि तस्य शरीरत्वं कुत इत्यत उक्तम् यस्य पृथिवीति ।। तानि वेत्तीति ।। यत इति शेषः । यतो वेत्ति ततः स योगात्मा ज्ञानरूपो भगवान् क्षेत्रज्ञ उच्यत इत्यर्थः ।। रूढार्थेति ।। क्षेत्रज्ञ आत्मा पुरुष इत्यभिधानेन क्षेत्रज्ञशब्दस्य जीवे रूढत्वादित्यर्थः । योगरूढ्योश्च रूढेरेव प्रबलत्वादित्यर्थः । जीवेऽपि न रूढः किन्तु यौगिक एवेत्याह– जीवेऽपीति ।। ननूभयत्रापि यौगिकत्वाविशेषाज्जीवः कुतो न गृह्यत इत्यत आह–  शास्त्रस्था वेति न्यायाच्चेति ।। प्रकृते क्षेत्राणि च शरीराणीति मोक्षधर्माख्यशास्त्रेण क्षेत्रज्ञशब्दस्य ईश्वरे प्रसिद्धत्वात्स एव ग्राह्य इति भावः ।। ।। अहंब्रह्मास्मीति श्रुत्यर्थविवरणम् ।। २९ ।।

न्यायकल्पलता

उक्तातिदेशेनान्यान्यपि वाक्यानि व्याख्येयानीत्याह– एतेनेति ।। लक्षणां विनैवेष्टसिद्धिरित्याह– किञ्चेति ।। अन्तर्यामिण्यहंशब्दस्य मुख्यत्वाय तत्र तस्य श्रौतप्रयोगमप्याह– अहं मनुरिति ।। नन्वेतन्मन्त्रद्रष्टरि वामदेव एवाहंशब्दोऽस्त्वित्यत आह– न हीति ।। ननु ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इति न्यायेन वामदेवजीवचैतन्यस्य वस्तुतो ब्रह्माभेदेन सूर्यादिभाव उच्यतेऽतो न विरोध इत्यत आह– अहमिति ।। तथा सति वामदेवशब्दे चिन्मात्रलक्षणापत्तौ ‘अभवम्’ इत्युत्तमपुरुषायोगः ।। अहम्भूमिमिति ।। चिन्मात्रस्य सूर्यादिभवनसम्भवेऽपि भूमिदानं न सम्भवति । ननु चिन्मात्रस्ये-वान्तर्यामिणोऽपि भूमिदानं न सम्भवतीत्यत आह– भगवानिति ।। विष्णुर्व्यापनशीलः सर्वान्तर्यामी । ‘एको विष्णुर्महद्भूतम्’ इति स्मृतेः । प्रसिद्धं हीन्द्रायेन्द्रेण राज्यं दत्तमिति ।। मन्त्रवर्णोऽपि–

सखे विष्णो वितरं विक्रमस्व र्द्यौर्देहि लोकं वज्राय विष्कभे ।

हनाववृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टा ।। इति ।

अस्यार्थो माधवीये– हे सखे विष्णो वितरम् अत्यन्तं विक्रमस्व विक्रमं कुरु । हे द्यौः त्वं वज्राय वज्रस्य विष्कभे विष्कम्भाय लोकम् अवकाशं देहि । हे विष्णो त्वं चाहं चोभावपि वृत्रम् असुरं हनाव हन्वः सिन्धून् वृत्रावष्टब्धनदीः रिणचाव स्रावयावः । त इमे विसृष्टाः सिन्धवः, इन्द्रस्य प्रसवे यन्तु प्रेरणे गच्छन्तु । तमिममर्थं सङ्गृह्य श्लोकैः शौनको दर्शयति ।

त्रीन् लोकानभिवृत्यैतान्वृत्रस्तस्थौ स्वया त्विषा ।

तन्नाशकाद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोऽब्रवीत् ।

वृत्रं हनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके ।

उद्यतस्य तु वज्रस्य द्यौर्ददातु ममान्तरम् ।

तथेति विष्णुस्तच्चक्रे द्यौश्चास्य विवरं ददौ ।

तदेतदखिलं प्रोक्तं सखे विष्णविति ह्यृचा ।। इति ।

तथा–

विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।

शतं महिषान् क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ।

हे इन्द्र त्वेषितः त्वया प्रार्थितः उरुक्रमो विष्णुः, विश्वा पूर्णानि ताः तानि धनानि आहरत् इत् एव । तानि कानि । शतं अपरिमितान् महिषान् प्रशस्तान् पदार्थान् क्षीरपक्वमोदनं च आहरत् । इन्द्रः भवान् एमुषं आमुषं आकारस्य एकारः छान्दसः । धनानां आमुषं वराहं नामकम् असुरं अविध्यदिति शेषः । इत्यादौ विष्णुरिन्द्राय राज्यं दत्तवानिति श्रूयते१ । ततश्चान्तर्यामिणो विष्णुत्वात्तस्य भूमिदानादि युज्यते ।। ततश्चान्तर्याम्यैक्यमिति ।। न चात्र ‘अहमस्मि’ इत्युत्तमपुरुषायोगः । अन्तर्यामिणोऽपि प्रत्यक्त्वात्तत्पराहंशब्दयोगेऽपि जीवपराहंशब्दयोग इवोत्तमपुरुषोपपत्तिः । अन्तर्यामिभेदनिराकरणं श्रुतावदृष्टचरमिति शङ्कां निराकरोति– तथा चेति ।। ननु ‘ब्रह्मविदाप्नोति परम्’ इत्यादिना शुद्धस्य ब्रह्मणः प्रकृततया तस्मिन्नुपाधिकृतभेदस्य तात्विकत्वप्रसक्तौ तन्निराकरणार्थ-त्वात् ‘स यश्चायम्’ इत्यादेर्नान्तर्याम्यैक्यपरत्वम् । मैवम् । ब्रह्मणि भेदनिरासस्याप्यन्तर्यामिणि भेदनिराकरणतुल्यत्वात् । अहंब्रह्मणोरभेदपरवाक्यानां जीवब्रह्माभेदपरत्वे बाधकमाह– अन्यथेति ।। स एनानिति ।। ‘अथ यदु चैवास्मिंच्छव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसम्भवन्त्यर्चिषो हरिः’ इत्यारभ्य ‘तत्पुरुषो मानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानव-मावर्तं नावर्तन्त’ इत्यादिना विरोधः । अस्मिन् ब्रह्मविदि । शव्यं शवसम्बन्धि कर्म । शावकर्मकरणा-करणाभ्यां ब्रह्मविदां नोत्कर्षापकर्षौ किन्तु ब्रह्मविदोऽर्चिरादिमार्गेण ब्रह्म गच्छन्त्येवे(ति श्रु)त्यर्थः ।।

किञ्चेति ।। ‘अथ हैनं गार्हपत्योऽनुशशास य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति’ इत्युपास्तिः श्रूयते । उपास्तिवाक्यस्य चोपासनायाः कर्तव्यत्वे वस्तुनस्तथात्वे च न तात्पर्यमित्यर्थः । अपि च ब्रह्मविद्यार्थं सत्यकामाख्यस्य गुरोः कुले वसन्तं गुर्वनुज्ञयाऽग्नीन् परिचरन्तं गुरुणा बहुकालम् अनुपदिष्टविद्यत्वाद् अनश्नन्तमुपकोसलं प्रति कृपालुभिरग्निभिरुपदिष्टं ‘य एष आदित्य’ इत्यादि, तत्र न विशिष्टचैतन्य-रूपाणां गार्हपत्याद्यग्नीनां सूर्येणैक्यं सम्भवति किन्त्वन्तर्याम्यैक्यमेव । ननूपासना प्रकरणस्थादैक्या-सिद्धावप्यनुपासनाप्रकरणस्थाद् यः प्रसिद्धः असौ आदित्यमण्डलस्थः असौ पुरुषः परिपूर्णः सः प्रसिद्धः परिपूर्ण एवाहमस्मीत्येवमर्थकाद् ‘योऽसौ’ इति वाक्यादैक्यसिद्धिः स्यादत आह– योऽसाविति ।। वायुरनिलमिति ।। ‘पूषन्नेकर्षे यमसूर्यप्राजापत्यव्यूहरश्मीन्समूहतेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि’ इति पूर्वेण च विरोधः । ननु पूषन्नित्याद्यमन्त्रे हे पूषन् हे एकर्षे हे यम हे प्रजापतेरपत्यभूत इति सूर्यं सम्बोध्य सौरकिरणानामपसरणं प्रार्थ्यते तदैक्यज्ञानाय । वायुरनिलमित्यत्र तु मरणकाले वायुः प्राणः अनिलं बाह्यवायुं यात्विति शेषः । अमृतं आनन्दात्मरूपम् अहमस्मीति पूर्वेण सम्बन्धः । अथ प्राणनिर्गमनानन्तरम् इदं प्रत्यक्षं (शरीरं) भस्म अन्ते यस्य तत् पृथिवीं यात्विति शेषः इत्यर्थसत्त्वान्न पूर्वोत्तराभ्यां विरोध इत्यत आह– न हीति ।।

अयं भावः । ‘वायुरनिलम्’ इत्यादेरेकवाक्यतयाऽन्वये शरीरादेरप्यैक्यं स्यात् । भिन्नतयाऽन्वये तु वाक्यभेदोऽध्याहारादि दोषप्रसङ्गः । वायोर्बाह्यवायुं प्रति गमनस्य शरीरभस्मभावस्य चावश्यम्भावित्वा-त्प्रार्थनानुपपत्तिश्च । एकस्य ‘असौ’ इत्यस्य वैयर्थ्यं च । तस्मात् हे पूषादिगुण मदीयान् रश्मीन् व्यूह तेजश्च समूह । स्वरूपभूतं बाह्यं च मदीयं ज्ञानं विस्तारयेति यावत् । तथा च यत्ते रूपं कल्याणतमं तत्ते प्रसादादहं पश्यामि यः प्रकाशरूपः असौ प्रसिद्धः । असौ दोषनिरासकत्वाद् असुशब्दवाच्ये स्थितः पुरु सनोति ददातीति पुरुषः स एव ओयत्वजीवान्तर्यामित्वाभ्यां नित्यसत्ता-मानाभ्याम् ‘अहम्, अस्मि’ शब्दाभिधेयस्तञ्च पश्यामीति । नन्वेतदयुक्तं, प्रत्यक्षत एव देहस्य भस्मान्तत्वदर्शनाद्देहनाशे च तदन्तर्गतजीववन्मरणाद्यवश्यम्भावात् इत्याशङ्कायामिदमुच्यते वायुरनिलमित्यादि । तस्यार्थः । यद्यपीदं शरीरं भस्मान्तं तथापि तदन्तर्गतस्य परमेश्वरस्य न मरणादिदोषः । कुतः । अकारवाच्यो विष्णुः नीडं स्थानमस्य सोऽनिलः । अनिलः परमेश्वराश्रितो वायुरपि यदाऽमृतः । अथ तदा परमेश्वरोऽमृत इति किं वक्तव्यमित्ययमर्थोऽस्य वाक्यस्य ईशावास्य-भाष्यतट्टीकानुसारेण ज्ञेयः ।।

अग्ने नयेति ।। हे अग्ने देव विश्वानि सर्वाणि वयुनानि, विद्वान् जानासि त्वं, अतः राये मोक्षाख्यधनार्थम् अस्मान्, सुपथा शोभनमार्गेण नय, जुहुराणं कुटिलम् एनः अस्मत्सकाशात् युयोधि वियोजय ते तुभ्यं भूयिष्ठां नम उक्तिं नमस्कारं विधेम । एषा ते अपचितिरित्यर्थः ।। चक्षुरिति ।। अत्र मित्रादिदेवानां भेदेन निर्देशान्मन्त्रस्य भेदपरत्वम् । ‘चित्रं देवानाम्’ इति मन्त्रस्यायमर्थः । देवानाम्, अनीकं समूहरूपं चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् उदगात् उदयाचलं प्राप्तमासीत् । कीदृशं, मित्रस्य मित्राद्युपलक्षितानां सर्वेषां चक्षुः प्रकाशकम् उदयं प्राप्य वा दिवं पृथिवीम् अन्तरिक्षं च आप्राः स्वकीयेन तेजसा आ समन्तात् प्रा पूरणे इति धातोर्लङ् पुरुषव्यत्ययः अदादित्वाच्छपो लुक् । मण्डलान्तर्गतः सूर्याख्यो नारायणः जगतां स्थावराणां च आत्मा चैतन्यप्रद इति ।। तद्यो यो देवानामिति ।। नन्वत्र देवादिषु प्रबुद्धं पुरुषं निर्धार्य स एव तदभवदिति ब्रह्माभेदपरत्वेन ब्रह्मभेदपरत्वाभावः । मैवम् । बहुमुक्तिरबोद्धुस्तदभाव इति भेदस्य स्पष्टं प्रतीतेः । न चायं मिथ्याभेदः । स्वतः प्रमाणसिद्धस्य मिथ्यात्वानुपपत्तेः ।।

किञ्चात्रेति ।। ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्’ इति वाक्ये प्रकृतं ब्रह्म आत्मानमेव ब्रह्मत्वेना-वेदित्यवगम्यते न तु जीवः स्वात्मानं ब्रह्मतयाऽवेदिति । येन जीवब्रह्मैक्यपरमिदं वाक्यं स्यादित्यर्थः । ननु ‘यो यो देवानाम्’ इति जीवपरर्षिवाक्यशेषानुसारेण ब्रह्मशब्दः कार्यब्रह्मपरः । मैवम् । ‘तदाहुर्यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मनुष्या मन्यन्ते किमु तद् ब्रह्मावेद्यस्मात्तत्सर्वमभवत्’ इति पूर्वकण्डिकायां यस्य ब्रह्मणो विज्ञानेन सर्वभवनरूपफलावाप्तिः तस्याकार्यस्य ब्रह्मणः प्रकृतत्वात् । न हि कार्यब्रह्मविद्यायाः सार्वात्म्यं फलम् । न च शुद्धब्रह्मणो बोधनिमित्तस्य सार्वात्म्यस्याभावात् ‘तस्मात्तत्सर्वमभवत्’ इति बोधनिमित्तकसार्वात्म्य लक्षणफलस्य कीर्तनमयुक्तमिति वाच्यम् । स्वस्य पूर्णत्वानुभवोद्रिक्तानन्दात्सर्वात्मकत्वोपपत्तेः । ननु तथर्षीणां तथा मनुष्याणां ‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ इति ‘तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मि’ इति ‘स इदं सर्वं भवति’ इति जीवपरवाक्यगत ‘अहं ब्रह्मास्मि’ इति वाक्येन ब्रह्मैक्यसिद्धिः स्यादित्यत आह– य एवं वेदेति । ननु तद्वाक्ये इतिशब्दश्रवणेऽपि नोपासाऽऽश्रीयतेऽत आह– अथ योऽन्यामिति ।। ननु ‘यो यो देवानां प्रत्यबुध्यत’ इति पूर्ववाक्येन ‘स वेद’ इत्युत्तरवाक्ये च वेदनस्य निर्देशान्मध्यस्थितोपास्तिरपि ज्ञानमेव । मैवम् । लक्षणापत्तेः ।। अनेनेति ।। य एवं वेदाहं ब्रह्मेत्यनेन नैक्यसिद्धिः ।। यद्वाऽ-त्रेति ।। ‘ब्रह्म वा’ इत्यादिवाक्यप्रकृतं ब्रह्म अहं बृंहितः पूर्णोऽस्मीत्यात्मानमवेदित्यर्थसम्भवेन न ततो जीवब्रह्मैक्यसिद्धिः ।। अन्यथेति ।। ब्रह्मशब्दस्य बृंहणार्थत्वानङ्गीकारे प्रसिद्धब्रह्मार्थकत्वाङ्गीकारे । ननु परमते उपासनायामर्थासत्त्वेऽपि भवन्मते तस्यामर्थोऽस्ति । अतो भेदोपास्तिनिन्दानुपपत्तिरत आह– अथ योन्यामिति ।।

अन्यथेति ।। भेदज्ञानिनिन्दापरत्वे अदःशब्दास्मच्छब्दबोध्यविशिष्टयोर्भेदस्य सत्वे न तज्ज्ञानिनो निन्द्यत्वाभावात्ताभ्यां शब्दाभ्यां भागत्यागलक्षणया चिन्मात्रमुपलक्ष्य तद्भेदज्ञानी निन्द्यत इत्यर्थवर्णने पदद्वयलक्षणादोष इत्यर्थः ।। अन्यथेति ।। ‘अन्योऽसावहमन्यः’ इति प्रकारेण देवतामुपास्त इत्यर्थकरणे अदःशब्दार्थसमकक्ष्यतयाऽह– मर्थस्याप्युपास्तिं प्रति विशेष्यतया तस्मिन् देवतात्वायोगः ।। व्यवहितेति ।। अहंशब्दसन्निहित ‘अन्य’ इत्यस्य य इत्यत्र नयनात् ।। यस्येति ।। व्याख्यातमेतत् ‘न तु तद्दितीयमस्ति’ इति श्रुत्यर्थनिरूपणे ।। स जीव एव भवतीति ।। ननु जीवभावस्य प्रागपि सिद्धतया ब्रह्मवेदनसाध्यत्वानुपपत्तिः । मैवम् । जीवो भवतीत्यस्य मरणादि दुःखाभावे तात्पर्यात् । नन्वेवमशाब्दोऽर्थः स्यादित्याशङ्क्य तवापि सममित्याह– किञ्च त्वत्पक्ष इति ।। ननु कण्ठगतचामी-करादाविवारोपिताब्रह्मत्वनिवृत्तिरेव ब्रह्मत्वप्राप्तिरत आह– आरोपितेति ।। स्थानैक्ये उदाहरणमाह– अह्नीति ।। मत्यैक्ये नृपा महाजनाश्च । सादृश्ये कीटोदाहरणम् ।। सकृदिति ।।

गताः कलाः पञ्चदशप्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ।।

इति श्रुतौ पञ्चदशकलाः प्रतिष्ठाः स्वमूलरूपं प्रति गताः सर्वे देवाः स्वमूलदेवताः प्रतिगताः । कर्माणि निवृत्तानि विज्ञानात्मा च परेणैकीभूत इत्यर्थकरणे वाक्यभेदादिदोष इत्यर्थः ।। अतोऽन्य-दार्तमिति ।। न चार्तशब्देन मिथ्येति वा विनश्वरमिति वोच्यतेऽतो न विरोध इति वाच्यम् । ‘आर्तो जिज्ञासुरर्थार्थी’ इत्यादौ दुःखिनीव मिथ्यादौ तदप्रयोगात् ।। समानादिति ।। ननु ‘सोऽबिभेत्तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मात्तु बिभेमीति तत एवास्य भयं वीयाय कस्माध्द्यभेष्यत् द्वितीयाद्वै भयं भवति’ इति श्रुतौ द्वितीयमात्रदर्शनस्यैव सामान्यतो भयहेतुत्वाद्विशेषकल्पनायोग इत्यत आह– लोक इति ।। अन्यथा ‘यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय’ इत्यत्र द्वितीयाभावस्य भयाभावहेतुत्वकथनमयुक्तम् स्यात् । द्वितीयाभावस्येव द्वितीयस्य भयहेतोः सत्त्वात् ।। उत्तरत्रेति ।। ‘स वै नैव रेमे तस्मादेकाकी न रमते’ इति श्रुतेः ।। यदा ह्येवैष इति ।। नन्वल्पार्थक ‘अर’ शब्दस्वारस्यादपिशब्दार्थक ‘उत्’पद-स्वारस्यादेतच्छब्दार्थस्य प्रतियोगित्वेनानुपादानाच्च भेदमात्रनिषेधपरतया स्वगतभेदनिषेधपरत्वायोगः । मैवम् । यदिन्यायेन, ‘इमौ स्निग्धौ’ इत्यादिलौकिकरीत्या च भेदप्रयोगित्वेनैतस्मिन्निति शब्दनिर्दिष्टस्य सन्निहितस्यैवान्वये उदरशब्दयोरस्मन्मते स्वारस्यात् ।।

एको देव इति ।। ननु नात्रान्तर्याम्यैक्यं शक्यं वक्तुम् । भूतशब्दस्य चेतनपरत्वाभावात् । भूतहिंसानिषेधवाक्य इव चेतनाधिष्ठितशरीरादेरेव भूतशब्दवाच्यत्वादत आह– भूतशब्दस्येति ।। न च चेतने जनेरयोगः, जनेरनेकविधत्वेन चेतनेपि तत्सम्भवात् । ननु वैमत्यार्थत्वे भेदशब्दस्य लक्षणापत्तिः । तस्यान्योन्याभावेरूढत्वादत आह– जीवस्येति ।। ऐक्यव्याख्यात्र्या स्मृत्या तद्विपर्ययो भेदोऽप्यर्थाद्व्याख्यात इति भावः । ननु ‘सर्वक्षेत्रेषु क्षेत्रज्ञं जीवं मां विद्धि’ इत्येतदर्थकं ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्यादिवाक्यमैक्ये प्रमाणमत आह– क्षेत्रज्ञं चापीति ।। क्षेत्रज्ञस्य जीवात्पृथगुक्तेर्न क्षेत्रज्ञो जीव इत्याह– प्रकृतश्चेति ।। क्षेत्रज्ञ इति ।। क्षेत्रज्ञः शुद्धः परमात्मा अविकर्तुर्जीवस्य मया रचिताः अनित्याः एताः विभूतीः आविर्हिताः तिरोहिताश्च विचष्टे प्रकटयति– शास्त्रस्था वेति ।। व्याख्यातमेतत् ।।

।। इति अहंब्रह्मास्मीत्यादिश्रुत्यर्थः ।। २९ ।।