यच्चेदमुच्यते अधिष्ठानांशे इन्द्रियजन्यान्तःकरणवृत्तिरध्यस्तांशे ..
७६. भ्रमस्य अद्वैतभिमतज्ञानद्वयात्मकत्वभङ्गः
न्यायामृतम्
यच्चेदमुच्यते अधिष्ठानांशे इन्द्रियजन्यान्तःकरणवृत्तिरध्यस्तांशे तदजन्या-विद्यावृत्तिरिति ज्ञानद्वयम् । न चैवमख्यात्यापत्तिः, तादात्म्यस्यापि भानादिति । तन्न, त्वन्मते इदमंशस्याप्यध्यस्त्वेनेदमितिज्ञानं द्व्यात्मकमिदं रूप्यमिति ज्ञानं त्र्यात्मकं स्वाप्नशुक्त्यादाविदं रूप्यमितिज्ञानं चतुरात्मकमिति प्रसङ्गात्, शङ्खे पीतत्वे पश्यामीति पीतत्वांशे चाक्षुषत्वादिजातिविशेषस्यानुव्य-वसायाच्च, रूप्यज्ञानस्याविद्यावृत्तित्वेन प्रातिभासिकत्वे प्रतिभासावश्यम्भावा-दध्यस्तविषयज्ञानस्य चाध्यस्तत्वनियमादविद्यावृत्तेरप्यविद्यावृत्त्यन्तर-प्रतिबिम्बितचैतन्यवेद्यत्वमेवं तस्य तस्यापीत्यनवस्थानाच्च, अज्ञानस्य रूप्याकारज्ञानात्मना परिणामे रूप्यमिति प्रतीतेर्ज्ञानगताकारेणैवोपपत्तेः, भ्रमस्य चातीतादिज्ञानवदर्थाभावेऽपि सम्भवाद्रूप्याकाराविद्यावृत्तिवैयर्थ्याच्च, दोषाणां स्वाश्रयजन्य एवातिशयहेतुत्वेनेन्द्रियदोषप्रयुक्तभ्रमत्वाश्रये करणा-न्तराजन्ये च रूप्यज्ञाने इन्द्रियकरणत्वस्य दुर्वारत्वाच्च । अन्यथा त्वचा शङ्खं चक्षुषा च शुक्तिसादृश्यं ज्ञात्वा निमीलितनेत्रस्य नेत्रगतदोषात् पीतत्व-रूप्यादिभ्रमः स्यात् । रूप्येदमंशयोस्तादात्म्यभानेनाख्यातिवैषम्येऽपि ज्ञानैक्यानुभवविरोध स्याख्यातिपक्षदोषस्य साम्याच्च ।
एतेन विषययोरध्यस्तेनाभेदेनैकत्वापन्नत्वात्, ज्ञानयोरप्यैक्यमुपचरितमिति निरस्तम्, ज्ञानैक्यानुभवविरोधाद्, एकविषयकधारावाहिक ज्ञानानामप्यैक्यानु-भवापाताच्च, कल्पितस्यार्थैक्यस्य ज्ञानैक्योपचाराहेतुत्वाच्च । एतेन यथेद-मंशावच्छिन्नचैतन्याविद्याविवर्तत्वाद्रूप्यमिदन्त्वेन भाति, तथेदंवृत्त्यवच्छिन्न-चैतन्याविद्याकल्पितत्वाद्रूप्यज्ञानमिदंज्ञानत्वेन भातीति निरस्तम् । बाध-कालेऽर्थयोरिव ज्ञानयोरपि भेदधीप्रसङ्गाद् इदंवृत्तेर्ज्ञातैकसत्त्वेन तदवच्छिन्न-चैतन्येऽज्ञानाभावाच्च, शुक्तितत्त्वं जानतः इदं वृत्तितत्वं चाजानतः पुंसः रूप्यनिवृत्तावपि तज्ज्ञानानुवृत्तिप्रसङ्गाच्च, अबाधितज्ञानैक्यानुभवविरोधाच्च । न चेन्द्रियेणाध्यस्तस्यासम्प्रयोगो बाधकः तस्य प्रमायामे वापेक्षितत्वेनाप्रमायां दोषमपेक्ष्यैवेन्द्रियस्य हेतुत्वोपपत्तेः रूप्यं प्रत्यप्यङ्गुल्यग्रनिर्देशचेलाञ्चल-बन्धनादिना शुक्तेरेवाधिष्ठानत्वेन तदवच्छिन्नचैतन्यस्यानधिष्ठानत्वाच्च ।
न चाविद्यावृत्तेर्ज्ञानत्वाभावाज्ज्ञानैक्यधीः परोक्षाध्यासे चैतन्यप्रतिफलना-भावे नाध्यस्तांशे जानामीत्यनु(व्यवसाया)भवायोगात्, ज्ञाने अपवादाद-प्रामाण्यमित्यस्यायोगाच्च, विवरणेऽन्तःकरणपरिणामे ज्ञानत्वोपचारादित्युक्त्या तद्वृत्तावपि ज्ञप्तित्वाभावाच्च प्रकाशचैतन्यस्य प्रतिफलनोपाधित्वस्य चाविद्या-वृत्तावपि सत्त्वाद् अज्ञाननिवर्तकत्वस्य च धारावाहिकद्वितीयाद्यन्तःकरण-वृत्तावप्यभावात् । न च वृत्तिभेदेऽपीदं रूप्ययोरिदमंशावच्छिन्नसाक्षिवेद्यत्वेन फलैक्येन ज्ञानैक्यधीः परोक्षभ्रमे अपरोक्षैकरसचैतन्यरूपफलैक्याभावात्, त्वन्मते इदंरूप्ययोः यथाक्रममिदं रूप्याकारान्तःकरणाविद्यावृत्तिप्रतिबिम्बि-ताभ्यां वा तदभिव्यक्ताभ्यामिदमंशान वच्छिन्नाभ्यामिदमंशरूप्याधिष्ठान-चैतन्याभ्यां वा वेद्यत्वेनावच्छिन्नस्य फलस्य भिन्नत्वाच्च । अफलचिन्मात्रा-भेदस्य च सर्वत्र सत्वात् । न हि रूप्यं प्रतीवेदमंशं प्रत्यपीदमंशा-वच्छिन्नचैतन्यमधिष्ठानम्, आत्माश्रयात् । नापीदमंशं प्रतीव रूप्यं प्रत्यपीद-मंशानवच्छिन्नमधिष्ठानम्, इदं रूप्यमितिधीविरोधात् । एतेनेदमंशावच्छिन्न-चैतन्यस्यैवेदंवृत्तौ रूप्यवृत्तौ च प्रतिफलनात् ज्ञानैक्यमिति निरस्तम् । क्रमिकयोरिदमितिज्ञानयोरप्यैक्यापातात्, समूहालम्बनज्ञानस्यापि भेदापाताच्च, तस्यातदकाररूप्यवृत्तौ प्रतिफलनायोगाच्च । अन्यथा रूप्याधिष्ठानेदं वृत्तिप्रति-फलितचितैव रूप्यप्रतीतिसम्भवाद्रूप्याकारा विद्यावृत्तिर्व्यर्था, तस्माज्ज्ञानै-क्यानुभवविरोधो दुष्परिहरः । तिक्तो गुड इत्यादावपि मधुरो गुडः सुरभि-चन्दनमित्यादाविव ज्ञा(मा)नान्तरोपनीतविशेषणविषयकमेव ज्ञानम् । तस्माच्छुक्तिरूप्याद्यपि नानिर्वाच्यं सुतरां जगदिति पारमार्थिकमेव तदिति ।
अद्वैतसिद्धि:
तस्मादधिष्ठानांशे अन्तःकरणवृत्तिः अध्यस्तांशे चाविद्यावृत्तिः । तस्यां च तादात्म्यस्य भानात् नाख्यातिमतप्रवेशः ।
ननु एवमिदमंशस्याप्यध्यस्तत्वेन इदमिति द्व्यात्मकम्, इदं रूप्यमिति च त्र्यात्मकम्, स्वप्ने इदं रूप्यमिति ज्ञानं चतुरात्मकं च स्यादिति चेन्न, इदन्त्वस्याध्यस्तत्वेऽपि नेदमिति द्व्यात्मकम्, इदन्त्वाद्यधिष्ठानस्य स्वप्रकाशकत्वात् । न हि वयं सर्वत्राध्यासे द्व्यात्म्यकतां ब्रूमः, अपि त्वन्तःकरणवृत्तिसव्यपेक्षाधिष्ठानप्रकाशे । अत एव नेदं रूप्यमिति त्र्यात्मकम्, स्वप्ने तु चतुरात्मकत्वशङ्का सर्वथाऽनुपपन्ना, इदं रूप्ययोरप्यध्यसनीयत्वाद्, अविद्या-वच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वात् । न च रूप्यज्ञानस्याचाक्षुषत्वे ‘रूप्यं पश्यामी’ इति चाक्षुषत्वानुभवविरोधः, चाक्षुषेदंवृत्त्यवच्छिन्नचैतन्यस्थाविद्यापरिणामत्वेन चाक्षुषत्वोपचाराद्, अनुभवत्वमात्रानुभव एव ‘आत्मनं पश्यामि’ इत्युल्लेखदर्शनाच्च । ननु रूप्यज्ञानस्याविद्यावृत्तित्वेन प्रातिभासिकतया प्रतिभासावश्यम्भावेनाध्यस्तविषयज्ञानस्य चाध्यस्तत्वनियमेनाविद्यावृत्तेरपि अविद्यावृत्तिप्रतिबिम्बतचैतन्यवेद्यत्वम्, एवं तस्यापि तस्यापीत्यवस्थितिरिति चेत्, सत्यमेतत् । न पुनरनवस्था, अविद्यावृत्तिप्रतिभासके चैतन्ये अविद्यावृत्तेः स्वत एव उपाधित्वेन वृत्त्यन्तरानपेक्षत्वात् ।
ननु अज्ञानस्य रूप्याकारज्ञानात्मना परिणामे रूप्यमिति प्रतीतेर्ज्ञानगताकारेणैवोप पत्तावतीतविषयकज्ञानन्यायेन वोपपत्तौ रूप्यरूपाविद्यापरिणामकल्पना न युक्तेति चेन्न, ज्ञानाकारेणैव सविषयकत्वे साकारवादप्रसङ्गात् । अतीतविषयवदुपपादनेऽपि अपरोक्षत्वानु-पपत्तेरुक्तत्वात् । न च दोषाणां स्वाश्रय एवातिशयहेतुत्वेन चक्षुर्गतदोष जन्यो भ्रमः कथमचाक्षुषः स्यात् ? अन्यथा त्वचा गृहीते शङ्खे चक्षुषा गृहीते रूप्यसादृश्ये च निमीलितचक्षुषोऽपि पीतभ्रमरूप्यभ्रमयोरापत्तेरिति वाच्यम्, दोषाणां स्वाश्रय एवातिशयज नकत्वमित्यस्यैवासिद्धेः नियामकाभावात् । न चोक्तातिप्रसङ्गो नियामकः, स्वसम्बन्धिनि कार्यजनकत्वाङ्गीकारेणानतिप्रसङ्गात् । सम्बन्धश्च स्वाश्रयजन्यज्ञानविषयत्वरूपः । स च न तद्वति संस्कारविषयग्रहीन्द्रियजन्याधिष्ठानज्ञानस्यापरोक्षभ्रमहेतुत्वात् त्वचा गृहीते तदभावात् सादृश्यं गृहीत्वा चक्षुर्निमीलनस्थले इदंवृत्तिसद्भावे प्रमाणाभावेन नातिप्रसङ्गापादनं शक्यम् । तत्सत्त्वे इष्टापत्तिरेव ।
ननु एवं वृत्तिभेदज्ञानैक्यानुभवविरोधः । न च अध्यस्तेनाभेदेन विषययोरेकतापन्नत्वात् ज्ञानयोरैक्यमुपचर्यत इति वाच्यम्, एवमेकत्वप्रतिपादकप्रयोग समर्थनेऽपि अनुभवविरोधस्या-परिहारादिति चेन्न, विषययोरभेदाध्यासे ज्ञानयोरप्यभेदाध्यास इत्यस्य उपचारशब्दार्थ-त्वेनानुभवविरोधाभावात् । न च तर्हि धारावाहिकज्ञानेष्वैक्याध्या सापत्तिः विषयैक्यज्ञानस्या-रोपनिदानस्य सत्त्वादिति वाच्यम्, आरोपस्य कारणानापाद्यत्वात् । न च विषयैक्यस्य ज्ञानैक्याध्यासनिमित्तत्वं न दृष्टमिति वाच्यम्, पूर्वोक्तयुक्त्या ज्ञानभेदे सिद्धे अपूर्व-कल्पनायामपि दोषाभावात् । यद्वा यथेदमंशावच्छिन्नचैतन्यगता विद्यापरिणामत्वात् रूप्यमिदन्त्वेन भाति, तथेदमाकारान्तःकरणवृत्त्य वच्छिन्नचैतन्यगताविद्यापरिणामत्वेन रूप्यज्ञानमिदंज्ञानत्वेन भाति । न च तर्हि बाधकाद्विषययोरिव ज्ञानयोरपि भेदधीप्रसङ्गः, विषयभेदग्रहज्ञानभेदग्रहयोर्भिन्नसामग्री कत्वेनापादनस्याशक्यत्वात् । केचित्तु भ्रमकाले विषयैक्यग्रहनियमवत् न ज्ञानैक्यग्रहनियमः, तं विनापि प्रवृत्त्याद्युपपत्तेः, तथा च बाधकाले न तदनैक्यग्रहनियमोऽपीति आहुः । न च इदं वृत्तेर्ज्ञातैकसत्त्वेन तदवच्छिन्न-चैतन्यगताज्ञानमेव नास्तीति वाच्यम्, वृत्तेः साक्षिवेद्यत्वेन यद्यपि तद्गोचराज्ञानं नास्ति, तथापि तदवच्छिन्नचैतन्ये शुक्त्यवच्छिन्नगोचराज्ञानसत्त्वात् । तथा च इदं वृत्तिराश्रया-वच्छेदिका न तु विषयावच्छेदिकेति वस्तुस्थितिः । अत एव शुक्तितत्त्वं जानतः इदंवृत्तितत्वं चाजानतो रूप्यनिवृत्तावपि तदज्ञानानुवृत्तिप्रसङ्ग इति निरस्तम्, शुक्तितत्त्वाज्ञानस्यैव उभयपरिणामत्वात्, इदमंशस्तदाकारवृत्तिश्च एतद्द्वयमाश्रयमात्रावच्छेदकमित्युक्तत्वात् । न चैवमपि अबाधितज्ञानैक्यानुभवविरोधः, अध्यस्तेन सहेन्द्रियासम्प्रयोगस्यैव बाधकत्वात् । न च सन्निकर्षः प्रमासामग्री, करणानां प्राप्यकारित्वनियमेन सन्निकर्षस्यापि सामान्यसामग्री-त्वात् । न हि दृष्टा छिदा दारुवियुक्तकुठारेणेत्यन्यत्र विस्तरः ।
यत्तु शुक्तिरेव विवर्ताधिष्ठानमस्तु, न चैतन्यमिति, तन्न, अधिष्ठानस्य भ्रमजनका-ज्ञानविषयत्वेन तदकल्पिततया सत्यत्वनियमात्, शुक्तेश्च मिथ्यात्वात् । यद्वा अविद्यावृत्तेर्न ज्ञानत्वम्, अतः ज्ञानैक्यधीः, ज्ञानत्वस्याज्ञाननिवर्तकमात्रवृत्तित्वात् । न च एवं धारा-वाहनस्थले द्वितीयादिज्ञाने ज्ञानत्वं न स्यादिति वाच्यम्, तस्यापि तत्तत्कालविशिष्टग्राहक-त्वेनागृहीतग्राहकतया ज्ञाननिवर्तकत्वात् । वस्तुतस्तु यावन्ति ज्ञानानि तावन्त्यज्ञानानीति व्यवहितज्ञानेनैवाव्यवहितज्ञानेनापि अज्ञाननिवर्तनादिति न काप्यनुपपत्तिः । परोक्षस्थलेऽपि प्रमातृगताज्ञाननिवृत्तिरस्त्येवेति तत्र जानामीति प्रत्ययः । तेन सहाभेदग्रहात् परोक्षभ्रमेऽपि जानामीति प्रत्ययः । न च विवरणे अन्तःकरणपरिणामे ज्ञानत्वोपचारात् इदं वृत्तेरपि ज्ञानत्वोक्तौ विवरणविरोधः, तस्य प्रकाशत्वनिबन्धनज्ञानपदप्रयोगविषयत्वमित्येतत्परत्वात्, न त्वज्ञाननिवर्तकत्वनिबन्धनज्ञानपदप्रयोगोऽप्यौपचारिक इति तस्यार्थः । तथा चाविद्यावृत्तौ यत्र ज्ञानपदप्रयोगः, तत्रौपचारिक एव । न च अविद्या वृत्तेरज्ञानत्वे ज्ञानस्यौत्सर्गिकं प्रामाण्यमिति विरुध्येत, निरपवादनियमस्यैव सम्भवादिति वाच्यम्, इच्छाजनकवृत्तिमात्रस्य ज्ञानत्वमभिप्रेत्य उत्सर्गत्वोक्तेः । यद्वा वृत्तिभेदेऽपि इदंरूप्ययोरिदमंशावच्छिन्न चैतन्य-प्रकाश्यत्वेन फलैक्यात् ज्ञानैक्यधीः । न च परोक्षभ्रमे अपरोक्षैकरसचैतन्यरूप फलैक्या-भावात् कथं तन्निबन्धनज्ञानैक्यानुभव इति वाच्यम्, तत्र फलैक्यमप्युपचर्य ज्ञानैक्योपचार इत्येव विशेषात् ।
ननु त्वन्मते यथाक्रममिदंरूप्याकारान्तःकरणवृत्त्यविद्यावृत्तिप्रतिबिम्बिताभ्यां वा तदभि-व्यक्ताभ्यां वा, इदमंशावच्छिन्नतदनवच्छिन्नाभ्यामिदमंशरूप्याधिष्ठानचैतन्याभ्यां वा, वेद्यत्वेनावच्छिन्नफलस्य भेदात् कथं फलैक्यम् ? अनवच्छिन्नफलीभूतचिन्मात्राभेदस्य सर्वत्र समानत्वात् । नहीदमंशेऽपि तदवच्छिन्नमेव चैतन्यमुपादानम्, आत्माश्रयात् । न वा रूप्ये इदमंशानवच्छिन्नमुपादानम्, ‘इदं रूप्यम्’ इति प्रतीत्यनुपपत्तेरिति चेन्न, अविद्या-वृत्तिस्तावन्नाज्ञाननाशिका, किन्त्वन्तःकरणवृत्तिरिदमाकारा । तथा च तदभिव्यक्तचैतन्यमेव रूप्यमभिव्यनक्तीति फलैक्यसम्भवात् । न ह्यवच्छेदकभेदेन फलभेदः किन्तु व्यञ्जकभेदेन । तथा च परमार्थसच्चैतन्यमधिष्ठानमध्यस्तज्ञानस्य । तच्च द्विविधं व्यावहारिकसत् प्रातिभासिकसच्चेति । तदुक्तं ‘प्राग् व्यावहारिकसत्त्वविषयत्वात् प्रत्यक्षं नागमबाधकमिति’ । परमार्थसत्त्वमादाय त्रिविधं सत्त्वम् । इति भ्रमस्य वृत्तिद्वयत्वोपपत्तिः ।
न्यायामृततरङ्गिणी
।। त्वन्मत इति ।। नन्विदमंशस्याध्यस्तत्वेऽपि नेदमिति द्व्यात्मकम् । इदन्त्वाधिष्ठानस्य च स्वप्रकाशत्वात् । न हि वयं सर्वत्राध्यासे द्व्यात्मकतां ब्रूमः । अपि त्वन्तःकरणवृत्तिसापेक्षाधिष्ठानप्रकाशा इति । मैवम् । इदमंशाधिष्ठानस्य स्वयम्प्रकाशः इदमंशावच्छिन्नस्य वृत्तिकृत इति द्व्यात्मकता स्पष्टैव ।। स्वाप्नेति ।। ननु स्वप्ने शुक्तीद-मंशरूप्ययोरुभयोरप्यध्यस्तत्वादविद्यावच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वान्न च रूपत्वमिति चेन्मैवम् । स्वप्ने इदमंशस्याबाधेन तदंशे उत्कृष्टाऽविद्यावृत्तिः । रूप्यस्य स्वप्न एव बाधेन तदंशेऽपकृष्टा सेति द्व्यात्मकता अविद्याधिष्ठानचिन्मात्रे स्वयं प्रकाशः स्वप्नाधिष्ठानेऽविद्यावच्छिन्नेऽविद्यावृत्तिप्रयुक्तः प्रकाश इति चतुरात्मताया दुर्वारत्वात् ।। चाक्षुषत्वादीति ।। न च चाक्षुषेदं वृत्त्यवच्छिन्नचैतन्यस्याविद्यापरिणामत्वेन चाक्षुष-त्वोपचार इति वाच्यम् । इदं पश्यामीतिवत् पीतं पश्यामीत्यनुभवेनोपचारकल्पने मानाभावात् ।। अध्यस्तत्वनियमादिति ।। तथा च न केवलसाक्षिभास्यत्वमिति भावः ।। अनवस्थानादिति ।। नन्वविद्यावृत्तिप्रतिभासके चैतन्येऽविद्यावृत्तेः स्वत एवोपाधित्वेन वृत्त्यन्तरानपेक्षत्वन्नानवस्थेति चेन्मैवम् । अविद्यावृत्तेः प्रातिभासिकतया प्रतीतिं विना सत्त्वायोगेन तत्प्रतीतौ तस्यासत्त्वं सत्त्वे च तस्या उपाधित्वमित्यन्योन्याश्रयात् ।
ननु ज्ञानाकारेणैव सविषयकत्वे साकारवादापातोऽतीत विषयवदुपपादनेऽप्य-परोक्षत्वानुपपत्तिरित्यत आह ।। ज्ञानगताकारेणैवेति ।। ज्ञानस्वरूपमात्रेणेत्यर्थः । अविद्यावृत्तेः परोक्षवृत्तिविलक्षणाकारत्वेनार्थं विनाप्यपरोक्षत्वोपपत्तेः ।। अन्यथेति ।। दोषाणां स्वाश्रयजन्य एवातिशयाधाकत्वाभावे ।। पीतत्वेति ।। पीतत्वादिविषयोऽ-विद्यावृत्तिरूपो भ्रमः स्यात् ।। ज्ञानैक्यानुभवविरोधादिति ।। एकत्वप्रयोग-समर्थनेऽप्यनुभवविरोधस्यापरिहारात् ।। एकविषयेति ।। एकविषयकप्रत्यक्षानुमित्यादी-नामप्यैक्यापातादित्यपि बोध्यम् ।। कल्पितस्येति ।। बाधकालेऽर्थैक्याभावेऽपि ज्ञानैक्यानुभवादित्यर्थः ।। बाधकाल इति ।। इदं वृत्त्यवच्छिन्नचैतन्यतादात्म्ये-नाननुभवादित्यपि बोध्यम् ।। भेदधीप्रसङ्गादिति ।। न च भेदग्रहसामग्रीभेदान्न भेदग्रहः । कदाचिदपि बाधकाले वृत्तेर्भेदग्रहस्यासिद्धेः । सर्वदा भेदग्रहसामग्रीविरहस्य वक्तु-मशक्यत्वात् । तन्न । न हि प्रवृत्त्यादिप्रतिबन्धार्थं वृत्तिभेदग्रहमाचक्ष्महे । किं तु बाधेनार्थयोरिव ज्ञानयोरपि भेदग्रहम् । अर्थतथात्वव्यवस्थाप कत्वाद्बाधस्य ।। इदं वृत्तेरिति ।। नन्विदं वृत्तेर्ज्ञातैकसत्त्वेन तदवच्छिन्नचैतन्यविषयका ज्ञानाभावेऽपीदं वृत्त्यवच्छिन्नचैतन्याश्रितं शुक्त्यवच्छिन्नचैतन्यगोचरमज्ञानमस्त्येव । तथा चेदं वृत्तिराश्रयावच्छेदिका न तु विषयावच्छेदिकेति । मैवम् । अधिष्ठानावरणं विनाऽन्यथा-भावरूपविवर्तायोगात् । आवरणं च तद्विषयकत्वं विना न युक्तमितीदं वृत्तिविषयका-ज्ञानस्यैव वक्तव्यत्वात् ।। शुक्तितत्वमिति ।।
ननु शुक्तितत्वाज्ञानस्यैवोभयपरिणामित्वाच्छुक्तितत्वज्ञाने च तदज्ञाननाशाद्रूप्यतद्वृत्त्यो र्निवृत्तिरिति । मैवम् । अज्ञानद्वयविवर्तत्वोक्त्यायोगात् ।। रूप्यं प्रतीति ।। रूप्यमुद्दिश्य । ननु मिथ्याभूतशुक्तेर्नाधिष्ठानत्वम् । सत्यस्यैवाधिष्ठानत्वात् । मैवम् । शुक्तेरपि सत्यत्वात् । त्वन्मते शुक्त्यवच्छिन्नचैतन्यस्यापि तात्विकत्वाभावाच्च ।। अविद्या-वृत्तेरिति ।। अज्ञाननिवर्तकस्यैव ज्ञानत्वादिति भावः ।। परोक्षेति ।। अविद्यावृत्तिस्तु न ज्ञानम् । तत्प्रतिफलितचैतन्यमपि परोक्षाध्यासेनास्तीति किं कृतस्तत्र जानामीति व्यवहारः स्यादित्यर्थः ।। अपवादादिति ।। इदं वृत्तेः सर्वत्र प्रमात्वादविद्यावृत्तेरज्ञानत्वाज्ज्ञाने प्रमात्वनियम एव स्यादित्यर्थः । न चात्र ज्ञानपदेनेच्छाजनकवृत्तिरेव विवक्षितेति वाच्यम् । अविद्यावृत्तेज्ञार्नत्वाभावे इच्छाजनकत्वस्यैवासम्भवात् । किं च किमविद्यावृत्ते-र्मुख्यज्ञानत्वं नास्त्यौपचारिकमपि वा । आद्य आह ।। विवरण इति ।। व्याख्यातमेतत् । द्वितीयं त्वविद्यावृत्तावप्यस्तीत्याह ।। प्रकाशकेति ।। इच्छादिविलक्षणवृत्तित्वेनैव चैतन्य-प्रतिफलनोपाधित्वात् ।। फलैक्येनेति ।। भासकचैतन्यं फलम् ।। तदभिव्यक्ताभ्या-मिति ।। एतच्चाधिष्ठानचैतन्यविशेषणम् ।। एतेनेति ।। इदं रूप्याधिष्ठानयोश्चितोर्भेदेन ।। क्रमिकयोरिति ।। एतेन नावच्छेकभेदेन फलभेदः किं तु व्यञ्जकभेदेनेति निरस्तम् । तस्य चैतन्यस्य ।। अन्यथेति ।। अतदाकारवृत्तावप्यन्याधिष्ठानचैतन्यप्रतिफलने ।
ननु यत्र विशेष्यस्य रसनाद्यवेद्यत्वं तत्र रासनस्य रसादेः कथमध्यास इति विशेष्यांशे व्यावृत्तिरिति भ्रमे वृत्तिद्वयसिद्धिरित्यत आह ।। तिक्त इति ।। विशेष्योपनयसहकृतं रसनादिविशेष्ये विशेषणवैशिष्ट्यं गृह्णातीत्येकमेव ज्ञानम् । अन्यथा मधुरो गुड इत्यादावपि वृत्तिद्वयस्वीकारापत्तिस्तुल्यन्यायत्वादित्यर्थः ।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुजं युजि ।
न्यायामृततरङ्गिण्यामनिर्वाच्यस्य खण्डनम् ।।
न्यायामृतकण्टकोद्धारः
किञ्चाविद्यकरजतोत्पत्तिस्वीकारेऽख्यातिपक्षप्रवेशो वृत्तिद्वयस्वीकारवैयर्थ्यं चेति परकीयमतमनुवदति ।। यच्चेदमिति ।। तादात्म्यस्येति ।। शुक्तिरजततादात्म्यस्येत्यर्थः । अख्यातिपक्षे च न तादात्म्यं भासते । अतो न तत्पक्षनिक्षेप इत्यर्थः । अत्र हि तादात्म्यं किमिदं वृत्तौ भासते रजतमिति वृत्तौ वा ? वृत्यन्तरे वा ? नाद्यः । चक्षुस्सन्निकर्ष-जन्यान्तःकरणवृत्तौ तादात्म्यभानसामग््रयभावात् इदमित्यत्र रजततादात्म्यानुल्लेखाच्च । तदनुल्लेखेऽपि तद्भानेऽतिप्रसङ्गात् । अत एव न द्वितीयोऽपि । नापि तृतीयः । इदं रजतमिति वृत्यतिरिक्ततादात्म्यविषयकवृत्तेरनुभवबाधितत्वात् गौरवाच्च । न च तादात्म्य-व्यवहारजनकत्वेन वृत्तिद्वयस्य तादात्म्यभानत्वोपचार इति वाच्यम् । तस्याख्यातिपक्षेऽपि सत्त्वेन तत्पक्षे पातस्यापरिहारात् । न चेदं वृत्युपनीतमिदन्तादात्म्यमविद्यावृत्तौ भासत इति वाच्यम् । तथोल्लेखापत्तेः । स्मृतरजततादात्म्यस्येदंवृत्तावेव भानसम्भवे वृत्तिद्वयस्वीकारानापत्तेश्चेति दोषे सत्यपि दोषान्तरमाह ।। त्वन्मत इति ।। न चेदमंशस्य न द्व्यात्मकतेति वाच्यम् । स्वप्रकाशत्वेन कारणानपेक्षणेऽपि अध्यासस्याधिष्ठान-स्फुरणमारोप्यस्फुरणमिति द्व्यात्मकत्वापरिहारात् । न हि निरधिष्ठानको भ्रमः । तथात्वे जितं सौगतैरिति । न च सर्वत्राध्यासे द्व्यात्मकत्वं नाङ्गीक्रियते । किन्त्वन्तःकरण-वृत्तिसापेक्षाधिष्ठानप्रकाश एवेति वाच्यम् । नियामकाभावे नास्याप्रयोजकत्वात् । त्वन्मते सन् घट इत्यादीनां द्व्यात्मकता च न स्यात् । तथा च सदित्यधिष्ठानब्रह्मरूपसत्ताया अनुवेध इति स्ववचनविरोधः ।। स्वाप्नेति ।। तत्राधिष्ठानव्यक्तेरप्यध्यासात् चतुरात्मकतेति द्रष्टव्यम् । न चेष्टापत्तिः । अनुभवविरुद्धानेकात्मकत्वेऽतिप्रसङ्गात् ।। शङ्ख इति ।। न च चाक्षुषेदं वृत्यवच्छिन्नचैतन्यस्याविद्यापरिणामत्वेन चाक्षुषत्वोपचारः । अनुभवमात्र-निबन्धनश्च पश्यामीति व्यवहारः आत्मानं पश्यतीतिवदिति वाच्यम् । अध्यस्तम-विद्यापरिणाम इत्यस्य प्रागेव दूषितत्वात् । चक्षुषा रूपं पश्यामीत्यादावपि तथात्व-प्रसङ्गाच्च । पश्यामीत्यस्य प्रत्यक्षत्वमात्रनिबन्धनत्वेऽपि चक्षुषा पश्यामीत्यस्य तन्मात्रनिबन्धनत्वायोगाच्च ।। रजतज्ञानस्येति ।। न च शुद्धचैतन्यवेद्यत्वान्नानवस्थेति वाच्यम् । निर्दोषज्ञानवेद्यत्वेऽध्यस्तानुपपत्तेः । रजतस्यैव शुद्धचैतन्यवेद्यत्वेऽविद्या-वृत्तिवैयर्थ्याच्च । न चाविद्यावृत्तिरेव रजतप्रतिभासचैतन्यप्रतिबिम्बनोपाधिः स्वप्रतिभासक-चैतन्यप्रति बिम्बनोपाधिरपीत्यतो नानवस्थेति वाच्यम् । स्वस्यैव स्वप्रतिभासक चैतन्यप्रतिबिम्बनोपाधित्वे आत्माश्रयात् । अन्यथा रजतस्यैव रजतप्रतिभासकचैतन्य-प्रतिबिम्बनोपाधित्वेऽविद्यावृत्तिवैयर्थ्यात् । रजत वृत्योरविद्यापरिणामत्वेन स्वच्छत्वे विशेषाभावात् । तस्मात् स्वभिन्नमेव स्वप्रतिभासकचैतन्यप्रतिबिम्बनोपाधिरिति वक्तव्ये कथं नानवस्थेति चिन्तनीयं सूरिभिः ।। अज्ञानस्येति ।। न च ज्ञानगताकारेणैव सविषयत्वे साकारवादापत्तिरिति वाच्यम् । प्रातिभासिकत्वेऽपि तुल्यत्वात् । सन्निकर्षद्वाराह्यर्थसत्तोपयोगिनी । न च प्रातिभासिकत्वपक्षे सन्निकर्षसम्भवः । अविद्यमानस्यापि दोषवशादपरोक्षत्वोपपत्तेरुक्तत्वाच्च । किञ्च रजतज्ञानस्येन्द्रियजन्यत्व-मवश्यं स्वीकर्तव्यम् । इन्द्रियदोषप्रयुक्तभ्रमत्वाश्रयत्वात् कारणान्तराजन्यत्वाच्च । न चाप्रयोजकत्वं दोषाणां स्वाश्रयजन्य एवातिशयहेतुत्वात् क्रियायाः सकरणकत्व-नियमाच्चेत्याह ।। दोषाणामिति ।। न च दोषाणां स्वाश्रयजन्यज्ञानविषये कार्यजनकत्वनियम इति वाच्यम् । विषयपर्यन्तधावने गौरवात् दोषात् भ्रम उत्पन्न इत्यनुभवविरोधाच्च । न हि दोषादिन्द्रियजन्यज्ञानविषये कार्यमुत्पन्नमित्यनुभव इति भावः ।। अन्यथेति ।। यद्यध्यस्तज्ञानस्येन्न्द्रियजन्यत्वं नाङ्गीक्रियत इत्यर्थः । न च संस्कारविषयग्राहीन्द्रिय जन्याधिष्ठानज्ञानस्य भ्रमहेतुत्वात् । त्वचा गृहीते तदभावान्नोक्तदोष इति वाच्यम् । एवमपि चक्षुषा किञ्चिदिति ज्ञानानन्तरं निमीलितनेत्रस्य पीतत्वभ्रमापत्तेः । चक्षुषा पीतत्वं भातमित्यनुभवविरोधाच्च । इन्द्रियजन्यत्वाङ्गीकारेणैवातिप्रसङ्ग परिहारेऽ-धिष्ठानज्ञानस्य तथा हेतुत्वकल्पने गौरवाच्च । न च सादृश्यमात्रं गृहीत्वा निमीलित-नेत्रस्येदंवृत्यभावेनैव रूप्यज्ञानाभावस्तत्सत्वे इष्टापत्तिरिति वाच्यम् । किञ्चिदिदमिति ज्ञानानन्तरं निमीलितनेत्रस्य इदं रूप्यमिति ज्ञानाभावस्यानुभवसिद्ध त्वेनेष्टापादना-सम्भवात् । तस्मादिन्द्रियजन्यत्वमेव स्वीकर्तव्यमिति भावः ।। ज्ञानैक्येति ।। न च ज्ञानयोरप्यैक्याध्यासात् नैक्यानुभवविरोध इति वाच्यम् । अनुभवसिद्धेन ज्ञानैकत्वेनोपपत्तौ तदसिद्धज्ञानचतुष्टयस्वीकारेणानुभवविरोधपरिहारे गौरवात् । विषयैक्यानुभवमात्रेण ज्ञानैक्याध्यासे व्यभिचारमप्याह ।। एकविषयेति ।। अनारोपितविषयैक्यस्य ज्ञानैक्योप-चारहेतुत्वे दृष्टेऽपि कल्पितस्य न तददृष्टमित्याह ।। कल्पितस्येति ।।
ननु ज्ञानैक्यानुभवो भ्रम एव । यथा रूप्यमिदन्त्वेन दोषाद्भाति । तथा रजतज्ञानमिदं ज्ञानत्वेन भाति । अतो नैक्यानुभवविरोध इति मतान्तरमुक्तदोषेण दूषयितुमनुवदति ।। एतेनेति ।। बुद्धिस्थेन उक्तवक्ष्यमाणदूषणगणेनेत्यर्थः ।। बाधकाल इति ।। न चार्थभेदज्ञानभेदग्रहसामग््रयोः एककालत्वाभावात् भिन्नसामग्रीकत्वाच्च नार्थभेदग्रहकाले ज्ञानभेदग्रहो भवतीति वाच्यम् । अर्थाभेदारोपस्यैव ज्ञानाभेदारोपहेतुत्वेन तद्भेदग्रहकाले तद्भेदग्रहसामग््रया आवश्यकत्वात् कदाचित् कस्यापि ज्ञानभेदग्रहापादनाद्वा न चेष्टापत्ति-रनुभवविरोधात् । न च भ्रमकालेऽर्थैक्यग्रहवत् न ज्ञानैक्यग्रहः । तदभावेऽपि प्रवृत्युप-पत्तेरतो नार्थभेदग्रहकाले ज्ञानभेदग्रह इति वाच्यम् । ज्ञानैक्यानुभवानुरोधेन तदभेदग्रहस्यापि भावात् । न हि प्रयोजनाधीना ज्ञानानुत्पत्तिः अनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनात् । अत एव वक्ष्यति ।। अबाधितेति ।। इदं वृत्तेरिति ।। न च वृत्यवच्छिन्नचैतन्ये ज्ञानाभावेऽपि वृत्यवच्छिन्नेदमंशनिष्ठशुक्तित्वाज्ञानेनैव तादृशारोप इति वाच्यम् । तथात्वे रूप्यवत् रजतज्ञानस्यापीदन्त्वेन भानं स्यात् इदमंशनिष्ठाज्ञानपरिणाम त्वाविशेषात् तदज्ञान-परिणामस्य तदभेदेन भाननियमाच्च । अनेनेदमंशैक्यस्यानुभवाना रूढस्योपपादनेऽपि तदारूढज्ञानैक्यस्यानुपपादनाच्च ।। शुक्तितत्त्वमिति ।। न चोभयस्यापि शुक्तितत्त्वा-ज्ञानपरिणामत्वात् शुक्तितत्वज्ञानेनोभयनिवृत्तिरिति वाच्यम् । उभयोः शुक्तितत्त्वज्ञान-परिणामत्वस्य निरस्तत्वात् ।। अबाधितेति ।। इदं न रजतमितिवत् नेदं ज्ञानं रजतज्ञानमिति बाधाभावादिति भावः ।
ननु प्रत्यक्षबाधाभावेऽपि यौक्तिकबाधोऽस्तीत्याशङ्क्य निषेधति ।। न चेति ।। तस्येति ।। न च करणानां प्राप्यकारित्वनियमेन सन्निकर्षस्य सामान्यसामग्रीत्वमेवेति वाच्यम् । भ्रमस्येन्द्रियजन्यत्वानुभवेनातिप्रसङ्गाभावेन भूमातिरिक्तस्थल एव तादृशनियमस्य स्वीकर्तव्यत्वात् । अधिष्ठानप्राप्तेश्च प्रकृतेऽपि सत्त्वाच्च । विशेषप्राप्तेश्च प्रमायामेवापेक्षित-त्वाच्च ।। रूप्यं प्रतीति ।। अत्र रूप्यं प्रति शुक्तेरेवाधिष्ठानत्वेनेत्यन्वयः । न चाधिष्ठानस्य सत्यत्वनियमात् न शुक्तेरेवाधिष्ठानत्वमिति वाच्यम् । युष्मदित्यादि भाष्योक्तान्योन्यतादात्म्यान्योन्यधर्माध्यासायोगप्रसङ्गात् रूप्यतद्भानयोरिदन्त्वतज्ज्ञानत्वा-ध्यायस्य त्वयैवोक्तत्वेन पूर्वोत्तरविरोधप्रसङ्गाच्च ।। न चेति ।। अज्ञाननिवर्तकस्यैव ज्ञानत्वादविद्यावृत्तेस्तदभावान्न ज्ञानत्वमिति भावः ।। परोक्षेति ।। न च परोक्षवृत्तेरज्ञान-निवर्तकत्वात् तदैक्याध्यासात् परोक्षाध्यासे जानामीत्यनुभव इति वाच्यम् । परोक्षवृत्तेर-ज्ञाननिवर्तकत्वेऽभिव्यक्तापरोक्षैकरसचैतन्या सम्भेदेन विषयस्य परोक्षत्वं स्यात् । न च प्रमातृगताज्ञाननिवर्तकत्वम् । अज्ञानद्वैविध्यस्य प्रागेव निरस्तत्वात् । शुद्धचैतन्यस्याज्ञान-निवर्तकत्वाभावेन श्रुत्यादिना ज्ञानत्वप्रतिपादनं तत्र न स्यात् । न च प्रकाशकत्व-रूपज्ञानत्वस्य तत्रापि सम्भव इति वाच्यम् । अविद्यावृत्तावपि तद्व्यवहारकारणत्वादि-रूपस्य ज्ञानत्वस्य सम्भवात् । ज्ञानपदस्यानेकार्थत्वापत्तेश्च । व्यवहारस्य तुल्यत्वेन मुख्यत्वामुख्यत्वयोर्विनिगमकाभावात् ।। ज्ञान इति ।। न चेच्छाकारणवृत्तिमात्रे ज्ञानत्व-मित्यभिप्रायेण तदुक्तिरिति वाच्यम् । इच्छाजनकवृत्तित्वस्यैव मुख्यज्ञानत्वेनानुभव-विरोधापरिहारात् ।। विवरण इति ।। न च विवरणं प्रकाशकत्वरूपज्ञानत्वाभिप्रायमिति वाच्यम् । अन्तःकरणवृत्यतिरिक्तस्य प्रकाशत्वाभावेन तस्यैव प्रकाशकत्वात् । यथा चान्तःकरणवृत्यतिरिक्तविषयप्रकाशो नास्ति तथोक्तं पुरस्तात् ।। अज्ञानेति ।। न च धारावाहिकद्वितीयादिवृत्तौ तत्तत्कालादिविशिष्ट वस्तुग्राहित्वेनागृहीत्वादज्ञाननिवर्तकत्व-मस्त्येवेति वाच्यम् । अस्याविद्यावृत्तावपि वक्तुं शक्यत्वेन ज्ञानैक्यानुभवविरोधापरिहारात् । न ह्यविद्यावृत्या रजतं गृहीतमेव गृह्यते अपूर्वस्यैवोत्पन्नस्य ग्रहात् । न चाविद्या-वृत्तेश्चैतन्यप्रतिबिम्बनोपाधित्वमेवेति वाच्यम् । धारावहनद्वितीयादिबुद्धावपि तुल्यत्वात् ।। न चेति ।। अत्र फलैक्येन ज्ञानैक्यधीरिति कोऽर्थः । फलैक्येन ज्ञानैक्यमुपचर्यते वा प्रमीयत इति वा आरोप्यत इति वा ? नाद्यः कार्यैक्येन ज्ञानैक्योपचारस्याख्यातिवादेऽपि सत्वादनुभवविरोधाच्च । न द्वितीयो वास्तवज्ञानैक्यस्य त्वयाऽनङ्गीकारात् । अन्यथा वृत्तिद्वयाभ्युपगमविरोधः । न तृतीयो बाधकाले ज्ञानभेदप्रतीतिप्रसङ्ग इति चेदस्यापि दूषणे सत्येव दूषणान्तरमाह ।। परोक्षभ्रम इति ।। न च तत्रापि फलैक्यमुपचर्य ज्ञानैक्य-मुपचर्यत इति वाच्यम् । अनुभवाविरोधेनैकज्ञानत्वे सम्भवति उपचारोपचारकल्पनाया अन्याय्यत्वात् । अन्यथाऽतिप्रसङ्गात् ।। इदंरूप्ययोरिति ।। न चेदमाकारान्तः करण-वृत्तेरेवाविद्यानिवर्तकत्वात् तदभिव्यक्तचैतन्यमेव रूप्यमप्यभिव्यनक्तीति वाच्यम् । तथात्वे रूप्याकाराविद्यावृत्तिवैयर्थ्यप्रसङ्गादिति ।। एतेनेति ।। परोक्षभ्रमे चैतन्यप्रतिफलनाभावेन ज्ञानैक्यानुभवो न स्यादिति दूषणेनेत्यर्थः ।। क्रमिकयोरिति ।। तत्रापीदमंशावच्छिन्नस्यैव द्वये प्रतिफलनादिति भावः ।। समूहेति ।। तत्रापि तत्तदाकारवृत्तिभेदस्य फलैक्यस्य च सत्त्वादिति भावः ।। तस्येति ।। इदमंशावच्छिन्नचैतन्यस्येत्यर्थः । अतदाकारवृत्तौ अनिदमाकारवृत्तौ । रूप्याकारवृत्तावित्यर्थः ।। अन्यथेति ।। यदीदमंशावच्छिन्नचैतन्येनैव रजतभानमित्यर्थः । उपपादितमैक्यानुभवमुपसंहरति ।। तस्मादिति ।। ननु तिक्तो गुड इत्यत्र कथं ज्ञानैक्यम् । तिक्तत्वादेस्तस्मिन् जन्मन्यननुभूतत्वेनोपनयाभावादित्यत आह ।। तिक्त इति ।। स्मृत्युपनयासम्भवेऽपि अनुभवेनोपनयसम्भवादिति भावः । परमप्रकृतमुपसंहरति ।। तस्मादिति ।। इति भ्रमस्याद्वैत्यभिमतज्ञानद्वयात्मकत्वभङ्गः ।
न्यायामृतप्रकाशः
तदजन्येति ।। इन्द्रियाजन्येत्यर्थः । अख्यातीति ।। यथा प्राभाकरैर्ज्ञानद्वयमङ्गीकृत्या-न्यथाख्यातिर्नास्तीत्युच्यते एवं ज्ञानद्वयाङ्गीकारेण विशिष्टैकज्ञानरूपान्यथाख्यात्यभावापत्ति-रित्यर्थः ।। तादात्म्यस्यापीति ।। प्राभाकरैस्तादात्म्यभानानङ्गीकारात् अस्माभिश्चार्थयो-स्तद्भानाङ्गीकारात् विशिष्टैकज्ञानरूपान्यथा ख्यातिर्युक्तेत्यर्थः ।। अध्यस्तत्वेनेति ।। इदमंशावच्छिन्ने चैतन्येऽध्यस्तत्वेनेदं रजतमिति ज्ञानमपि तदधिष्ठानचैतन्यज्ञानमेकं, तत्रांशेऽपि तत् शुक्तिरूपेदमंशज्ञानमपरमिति द्व्यात्मकमित्यर्थः ।। स्वाप्नेति ।। वस्तुतो जाग्रत् शुक्तिज्ञानस्य द्व्यात्मकत्वात् तस्यैव स्वप्ने इदमिति इदन्त्वेन ज्ञाने सति स्वाप्न-रूपप्रातिभासिक तृतीयज्ञानापत्तेः तत्र पुना रूप्यज्ञानंं चतुर्थं प्राप्तमिति स्वाप्नशुक्तौ इदं रजतमिति ज्ञानं चतुरात्मकमापन्नमित्यर्थः ।। चाक्षुषत्वादिति ।। दृशेः पश्यादेशे सति निष्पन्नस्य पश्यामीत्यस्य चाक्षुषज्ञानार्थकत्वेन पीतत्वादेः चाक्षुषत्वस्यानुव्यवसायसिद्धत्वात् पीतत्वांशेऽविद्यावृत्त्यङ्गीकारे अविद्यावृत्तेरान्तरत्वेन पीतत्वादेरप्यान्तरत्वापत्त्या तस्य चाक्षुषत्वे त्वगाद्यनुव्यवसायविरोधः स्यादित्यर्थः । अध्यस्तांशेऽविद्यावृत्त्यङ्गीकारेऽनवस्था च स्यादित्याह ।। रूप्यज्ञानस्येति ।। प्रातिभासिकत्वमिति ।। अविद्यावृत्तेरपीति शेषः ।। अवश्यम्भावादिति ।। प्रतिभासमात्रशरीरत्वस्यैवप्रातिभासिकत्वादित्यर्थः ।
नन्वविद्यावृत्तेरपि कुतः प्रातिभासिकत्वम्? येन प्रतिभासावश्यम्भाव इत्यत आह ।। अध्यस्तेति ।। अध्यस्तं यत् रूप्यज्ञानं तद्विषयकं यत् ज्ञानम् अविद्यावृत्तिरूपं तस्याप्यध्यस्तरूप्यविषयकरूप्यज्ञानवत् अध्यध्यस्तत्वनियमात् प्रातिभासिकत्वनियमा-दित्यर्थः ।। वृत्त्यन्तरेति ।। अध्यस्तत्वेन साक्षिभास्यत्वाभावादिति भावः । किं च त्वन्मते रूप्यज्ञानतदज्ञानयोरुभयोरप्यध्यस्तत्वेनोभयत्राप्यविद्यावृत्तिरङ्गीकृता, तत्र रूप्यज्ञानाकारा-विद्यावृत्तिरेवाऽस्तु । रूप्यांशेऽपि रूप्याकाराविद्यावृत्तिर्व्यर्थेत्याह ।। अज्ञानस्येति ।। परिणामेऽङ्गीकृते सति रूप्याकाराविद्यावृत्तिवैयर्थ्यादित्यन्वयः ।
ननु रूप्याकाराविद्यावृत्तेरभावे रूप्यप्रतीतिः न स्यादित्यत उक्तम् ।। रूप्यमितीति ।। ज्ञानगताकारेणैवेति ।। ज्ञानस्य निराकारत्वादत्राकारशब्दो ज्ञानरूपपरः । तथा च रूप्य-ज्ञानाकाराविद्यावृत्तिपरिणाममानस्वरूपमात्रेणैव रूप्यप्रतीतिसम्भवात् न तदर्थं रूप्याकारा-विद्यावृत्तिरङ्गीकार्येत्यर्थः । न च रूप्याकाराविद्यावृत्त्यभावे रूप्याभावप्राप्त्या प्रातिभासिक-विषयाभावेन कथं भ्रमत्वमिति वाच्यम् । अर्थाभावेऽपि भ्रमरूपं ज्ञानमस्तु, विषया-भावेऽप्यतीतादिज्ञानदर्शनादित्याह ।। भ्रमस्य चेति ।। अध्यस्तांशे इन्द्रियाजन्याविद्या-वृत्त्यन्तरमङ्गीकृतं, तद् दूषयति ।। दोषाणामित्यादिना ।। रूप्यादिज्ञानस्य भ्रमत्वं तावदिन्द्रियदोषप्रयुक्तम् । अत इन्द्रियदोषप्रयुक्तभ्रमत्वाश्रये रूप्यज्ञाने इन्द्रियकरणत्वेन तज्जन्यत्वमेव वाच्यं न तु तदजन्यत्वम्, इन्द्रियदोषप्रयुक्तभ्रमत्वाश्रयत्वे तत्करणकत्वं कुत इत्यत उक्तं दोषाणामिति ।। काचादीनां स्वाश्रयभूतचक्षुरादिजन्य एव ज्ञाने भ्रमत्वरूपाति-शयहेतुत्वादित्यर्थः ।
ननु कारणान्तरजन्यत्वेन भ्रमत्वमस्तु, न त्विन्द्रियदोषप्रयुक्तत्वेन, येनेन्द्रियकरणकत्वं स्यादित्यत आह ।। कारणान्तरेति ।। दोषातिरिक्तनिरूक्तभ्रमहेतुभूतकारणान्तराभावा-दित्यर्थः। रूप्यज्ञानस्येन्द्रियकारणकत्वमनङ्गीकृत्याविद्यापरिणामत्वाङ्गीकारे बाधकमाह ।। अन्यथेति ।। त्वया शङ्खज्ञानानन्तरमधिष्ठानज्ञानस्य जातत्वात् निमीलितनेत्रस्यापि नेत्रगत-दोषादन्तरेवाविद्यावृत्तिरूपपीतत्वभ्रमः स्यात्, चक्षुषा शुक्तिसादृश्यं च ज्ञात्वा निमीलितनेत्र-स्यापि अधिष्ठानज्ञानादेः सत्वात् नेत्रगतदोषान्तरे वाविद्यावृत्तिरूपरूप्यादिभ्रमः स्यादित्यर्थः । न चेष्टापत्तिः । अनुभवविरोधादिति ध्येयम् ।। रूप्येति ।। भ्रममनङ्गीकृत्य ज्ञानद्वय-मित्यङ्गीकुर्वता प्राभाकरमतापेक्षया तादात्म्यस्य भानाङ्गीकारेण भ्रममङ्गीकृत्यैकत्वप्रयोग-समर्थनात् वैषम्यमस्ति यद्यपि, तथाऽपि ज्ञानद्वयाङ्गीकारपक्षे ख्यातिवादिनां यो दोषोऽभि-धीयत इदं रूप्यत्वेन जानामीति ज्ञानैक्यावगाह्यनुव्यवसायविरोधरूपः स तावत् तवापि स्यादेव ज्ञानद्वयैक्यानङ्गीकारादिति भावः । विषययोः, इदमंशरूप्याद्यधिष्टानारोप्ययोः एकत्वा-पन्नत्वादित्यन्वयः । तत् कथमित्यत्रोक्तम् । अध्यस्तेनाभेदेनेति । अध्यस्ताधिष्ठानयोः योऽभेदः, आरोपितं यत् तादत्म्यं तेन सद्भावेन निमित्तेन, आरोपिततादात्म्यभानाङ्गीकारात् विषययोरैक्यसद्भावेन तद्ज्ञानयोरैक्यमुचितमिति यत् केनचिदुक्तं तदप्येनेनैव निरस्त-मित्यर्थः । एतेनेत्युक्तमेव विशदयति ।। ज्ञानैक्येति ।। ज्ञानयोरैक्याभावे तदैक्यावगाह्यनु-व्यवसायविरोध इत्यर्थः । अन्यथाऽनुव्यवसायस्य भ्रान्तित्वापत्तिरित्यर्थः । ज्ञानैक्ये विषयैक्यनिमित्तत्वेऽतिप्रसङ्गमाह ।। एकेति ।। ज्ञानानामैक्यापत्त्या तदवगाह्यनुव्यवसाया-पातादित्यर्थः । इदमुपलक्षणम् । एकविषयकप्रत्यक्षानुमित्यादीनामप्यैक्यं स्यादित्यपि द्रष्टव्यम् ।। ओतुत्वादिति ।। बाधकालेऽर्थस्य निवृत्तत्वेनार्थैक्याभावेऽपि ज्ञानैक्यानुभवादित्यर्थः । ज्ञानद्वयस्याप्यैक्येन भानं पुनः केनचिदुक्तं निमित्तान्तरमाशङ्क्य निराकरोति ।। एतेनेति ।। विवर्तत्वात् कल्पितत्वात् । रूप्यं रूप्यरूपो विषयो इदन्त्वेन इदमंशरूपविषयाभेदेन पूर्वविषययोरभेदोऽध्यस्ताभेदो निमित्ततया केनचिदुक्तम् । अनेन तु इदमंशावच्छिन्नचैतन्या-विद्याविवर्तत्वरूपं निमित्तान्तरमुक्तमिति भेदः । इदमर्थावच्छिन्नचैतन्याविद्याकल्पितत्वात् ज्ञानं ज्ञानैक्येन भातीत्यर्थः । एतेनेत्युक्तमेव विशदयति ।। बाधकाल इति ।। अर्थयो-रैक्यस्य बाधितत्वेन नेदं रजतमिति रूप्येदमंशयोर्भेदो बाधकाले प्रतीयते । एवं ज्ञानैक्यस्य कल्पितत्वे बाधकाले ज्ञानयोरपि भेदः प्रतीयेतेत्यर्थः । रूप्यज्ञानस्येदं ज्ञानत्वेन भाने इदं वृत्यवच्छिन्नचैतन्याज्ञानकल्पितत्वं निमित्तमित्युक्तम् । तदसदित्याह ।। इदं वृत्तेरिति ।। यथेदमंशावच्छिन्नचैतन्येऽविद्याऽस्ति एवमिदं वृत्त्यवच्छिन्नचैतन्ये नाविद्याऽस्ति इदं वृत्तेः इदं ज्ञानस्य ज्ञातैकसत्त्वादिति भावः । शुक्तित्वमिति ।। शुक्तित्वरूपशुक्तितत्वज्ञानेन शुक्त्य-वच्छिन्नचैतन्याविद्याया नष्टत्वात् तदुपादानरूपं निवृत्तम् । तन्निवृत्तावपि कदाचिदिदं वृत्तेर्यत् तत्त्वम् इदं वृत्तित्वादिरूपं तद्ज्ञानाभावेनेदं वृत्त्यवच्छिन्नचैतन्याविद्याया रूप्यज्ञानो-पादानभूताया अनिवृत्तत्वेन रूप्यज्ञानानुवृत्तिः स्यात् । न चेष्टापत्तिः । शुक्तितत्वज्ञानेन रूप्यनिवृत्तावपि रूप्यज्ञानानुवृत्तिकल्पनस्यानुभवविरुद्धत्वादित्यर्थः । अस्मिन्नपि पक्षे पूर्वोक्तं दूषणमाह ।। अबाधितेति ।।
नन्वध्यस्तांशेऽविद्यावृत्तिरेव वक्तव्या, नेन्द्रियवृत्तिः । अध्यस्तांशेन्द्रियसन्निकर्षायोगात् इत्याशङ्क्य निराकरोति ।। न चेति ।। असम्प्रयोगः सन्निकर्षाभावः । तस्य इन्द्रिय-सन्निकर्षस्य ।। दोषमिति ।। तथा च स एवाध्यस्तेनेन्द्रियसन्निकर्ष इति भावः । यच्चोक्तं शुक्त्यवच्छिन्नचैतन्यरूपाधिष्ठानाविद्याकल्पितत्वात् रूप्यमिदन्त्वेन भातीति तदयुक्तम् । शुक्त्यच्छिन्नचैतन्यस्य रूप्याधिष्ठानत्वाभावादित्याह ।। रूप्यं प्रत्यपीति ।। चैलाञ्चलं चैलखण्डः शुक्तेरधिष्ठानत्वे तत्र रूप्यभ्रमेण ‘इदं रूप्यम्’ इत्यङ्गुल्यग्रेण निर्देशः, सन्तोषेण चैलखण्डेन बन्धनं इत्यादिकं चाधिष्ठानभूतशुक्तिकायामुपपन्नम् । तदवच्छिन्नचैतन्य-स्याधिष्ठानत्वे न तत् प्रति ‘इदम्’ इत्यङ्गुल्यग्रनिर्देशो युक्तः, रूपादिरहितस्य चाक्षुष-ज्ञानेऽभानात् । न वा चैलखण्डेन चैतन्यबन्धनं युक्तम्, अतो न तदधिष्ठानमिति भावः ।। ज्ञानत्वाभावादिति ।। अज्ञानविवर्तकत्वस्यैव ज्ञानत्वेन, अविद्यावृत्तेस्तदभावात् न ज्ञानत्वम् । इदमंशाकारान्तःकरणवृत्तिरेव च ज्ञानमिति जानामीति ज्ञानैक्यधीर्युक्तेति भावः ।। परोक्षेति ।। परोक्षाध्यासस्थले इदमंशाकारान्तःकरणवृत्तिस्तु नास्त्येव । अविद्यावृत्तिस्तु न ज्ञानम् । तत्प्रतिफलितचैतन्यमपि तत्र नास्तीति, किं कृतः तत्र जानामीति व्यवहार इत्यर्थः । अपवादादिति इदं वृत्तेः सर्वत्र प्रमात्वात्, अविद्यावृत्तेश्चाज्ञानत्वात् ज्ञाने प्रमात्व-नियम एव स्यात्, नाप्रामाण्यमिति भावः । किं चाविद्यावृत्तेर्ज्ञाप्तिरूपं मुख्यज्ञानत्वं नास्तीत्येतदन्तःकरणवृत्तावपि तुल्यम् । अतो जानामीत्यनुभवायोग एवेत्याशयेनाह ।। विवरण इति ।।
ननु ज्ञानरूपचैतन्यप्रतिफलनरूपोपाधित्वसद्भावात् अन्तःकरणवृत्तेर्ज्ञानत्वमिति चेत् तर्ह्यविद्यावृत्तेरपि चैतन्यप्रतिफलनरूपोपाधित्वसद्भावाद् ज्ञानत्वस्यैव प्राप्तेरविद्यावृत्तेर्ज्ञानत्वा-भावादित्येतत् वचनमयुक्तमित्याशयेनाह ।। प्रकाशेति ।। नन्वज्ञाननिवर्तकत्वादन्तःकरण-वृत्तेर्ज्ञानत्वमिति चेत् तत्राह ।। अज्ञानेति ।। द्वितीयेति ।। तत्र प्रथमज्ञानेनैवाज्ञानस्य निवृत्तत्वात् द्वितीयज्ञानं व्यर्थं, तत्रान्तःकरणवृत्त्यन्तराभावेन तत्प्रतिबिम्बितचैतन्याभिव्यक्त-चैतन्यरूपफलमेव नास्ति । तथात्वेऽभिव्यक्तचित्सम्बन्धेन विषयस्याप्यापरोक्ष्यापत्तेः । अतः परोक्षभ्रमस्थले जानामीति ज्ञानैक्यानुभवो न स्यादिति भावः । किं च त्वन्मते फलैक्य-मप्यसिद्धमित्याह । त्वन्मत इति वृत्तिप्रतिबिम्बितचैतन्यं वा तदभिव्यक्ताधिष्ठानचैतन्यं वा ज्ञानमिति मतद्वयाभिप्रायेणेदम् । अवच्छिन्नस्य विशिष्टस्य । तथा चायं विवेकः, इदमर्थस्य इदमाकारान्तःकरणवृत्तिप्रतिबिम्बतचैतन्यवेद्यत्वात् रूप्यस्य च रूप्याकाराविद्यावृत्ति-प्रतिबिम्बितचैतन्यवेद्यत्वात् । तथा चेदमाकारान्तःकरणवृत्तिप्रतिबिम्बतचैतन्यरूपफलस्य रूप्याकाराविद्यावृत्तिप्रतिबिम्बितचैतन्यरूपफलस्य च विशिष्टस्य भिन्नत्वात् तथेदमंशस्य शुद्धचैतन्येऽध्यस्तत्वेनेदमाकारान्तःकरणवृत्तिप्रतिबिम्बितचैतन्याभिव्यक्तेदमंशानवच्छिन्नं यदिदमंशाधिष्ठानचैतन्यं तद्वेद्यत्वेन तादृशचैतन्यरूपफलस्य भिन्नत्वात् रूप्यस्य चेदमंशा-वच्छिन्नचैतन्येऽध्यस्तत्वेन रूप्याकाराविद्यावृत्तिप्रतिबिम्बितचैतन्याभिव्यक्तं यदिदमंशा-वच्छिन्नरूप्याधिष्टानचैतन्यं तद्वेद्यत्वेन इदमंशावच्छिन्नचैतन्यरूपफलस्य भिन्नत्वादित्यर्थः ।
नन्विदं रूप्यवृत्योरुक्तरीत्या फलभेदेऽपि चैतन्यमात्रं तावदेकमेवास्तीति ज्ञानैक्यधी-र्युक्तेति चेत् न । अफलरूपचिन्मात्राभेदस्य सर्वघटपटादिसाधारण्येन सर्वगतत्वात् सर्वज्ञाना-नामैक्यधीः स्यादित्यतिप्रसङ्ग इति भावेनाह ।। अफलेति ।। यदुक्तमवच्छिन्नस्य फलस्य भिन्नत्वादिति, तन्न । रूप्यं प्रतीदमंशावच्छिन्नचैतन्यमेवाधिष्ठानम् । अतः फलैक्यमिति तत्राह ।। न हीत्यादिना ।। ज्ञानैक्यमिति ।। प्रतिफलितचैतन्यस्यैकत्वादित्यर्थः । दूषणान्तरमाह ।। क्रमिकयोरिति ।। इदमंशावच्छिन्नचैतन्ययोश्च विजातीययोरिदं रूप्यज्ञानयोरैक्ये क्रमेण जायमानयोरिदमिति सजातीययोः ज्ञानयोरप्यैक्यापत्तिः । इदमंशा-वच्छिन्नचैतन्यस्य ज्ञानैक्यप्रयोजकस्य सत्त्वादित्यर्थः । चैतन्यैक्यस्य ज्ञानैक्यप्रयोजकत्वे चैतन्यभेदस्य ज्ञानभेदप्रयोजकत्वमुक्तं स्यात् । तथा च घटपटाविति समूहालम्बनज्ञानस्यापि भेदापत्तिः । घटपटावच्छिन्नयोश्चैतन्ययोर्भेदादित्याह ।। समूहेति ।। किं चेदमाकारवृत्तौ इदमंशावच्छिन्नचैतन्यस्य प्रतिबिम्बनं युक्तम् । रूप्यवृत्तौ तस्या रूप्याकारत्वेनेदमाकारत्वा-भावात् न युक्तमित्याह ।। तस्यातदाकारेति ।। अनिदमाकारेत्यर्थः ।। अन्यथेति ।। इदमंशावच्छिन्नचैतन्यस्यैवेदं वृत्तौ रूप्यवृत्तौ च प्रतिफलनाङ्गीकारे रूप्याधिष्ठानभूता या इदं वृत्तिप्रतिफलिता चित् इदमंशावच्छिन्नरूपा तयैव रूप्यप्रतीत्युपपत्तौ रूप्याकाराऽविद्यावृत्ति-र्व्यर्थेत्यर्थः । ज्ञानैक्यानुभवविरोधोपपादनमुपसंहरति ।। तस्मादिति ।।
ननु तिक्तो गुड इति चाक्षुषुभ्रमो भवति । तत्र विशेष्यस्य रसनेन्द्रियाविषयत्वात् तत्र रासनस्य तिक्तरसस्य कथमध्यासः स्यादित्यधिष्ठानांशे चक्षुरिन्द्रियवृत्तिः आरोप्यतिक्तरसांशे तु रासनवृत्तिरिति भ्रमे वृत्तिद्वयसिद्धिरित्यत आह ।। तिक्त इति ।। यथा मधुरो गुड इति चाक्षुषप्रमारूपज्ञानं सम्भवति, यथा वासुरभिचन्दनमिति चाक्षुषं ज्ञानं, तत्र यथा रसनेन्द्रियेण घ्राणेन वोपनीतो मधुरो रसो गन्धो वा चक्षुषा प्रतीयमाने विशेष्यभूते गुडे चन्दने वा भाति । एवं च मानान्तरोपनीतविशेषणविषयकमेकमेव चाक्षुषं ज्ञानं भवति । एवं प्रकृतेऽपि मानान्तरोपनीततिक्तरसविशेषणकं गुडविशेष्यकमेकमेव चाक्षुषभ्रमरूपं ज्ञानं भवतीति न भ्रमे वृत्तिद्वयमित्यर्थः । अन्यथा मधुरो गुड इत्यादि प्रमायामपि वृत्तिद्वयं स्वीकार्यं स्यात् । तुल्यन्यायादिति भावः । उत्तरग्रन्थमुपक्षिपन् अनिर्वचनीयत्वनिराकरणमुपसंहरति । तस्मा-दिति ।। सुतरामिति ।। दृष्टान्ताभावादिति भावः । तत् जगत् ।
न्यायकल्पलता
तादात्म्यस्येति ।। इदंरूप्ययोरिति शेषः ।। त्वन्मत इति ।। नन्विदमंशस्या-ध्यस्तत्वेऽपि नेदमिति द्व्यात्मकम् । इदन्त्वाधिष्ठानस्य च स्वप्रकाशत्वात् । न हि वयं सर्वत्राध्यासे द्व्यात्मकतां ब्रूमः । अपि त्वन्तःकरणवृत्तिसापेक्षाधिष्ठानप्रकाशे ।। अत एव नेदंरूप्यमिति त्र्यात्मकमिति । मैवम् । इदमंशाधिष्ठानस्य स्वयम्प्रकाशः इदमंशावच्छिन्न-वृत्तिकृत इति द्व्यात्मकतायाः स्पष्टत्वात् ।। स्वाप्न इति ।। ननु स्वप्ने शुक्तीदमंश-रूप्ययोरुभयोरप्यध्यस्तत्वादविद्यावच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वान्न च रूपत्व-मिति चेत् । न । स्वप्नेऽपीदमंशस्याबाधेन तदंशे उत्कृष्टाऽविद्यावृत्तिः । रूप्यस्य तु स्वप्न एव बाधेन तदंशेऽपकृष्टा सेति द्व्यात्मकताया अविद्याधिष्ठानचिन्मात्रे स्वयं प्रकाशः स्वप्नाधिष्ठानेऽविद्यावच्छिन्नेऽविद्यावृत्तिप्रयुक्तः प्रकाश इति चतुरात्मकतायाश्च दुर्वारत्वात् ।। चाक्षुषत्वादीति ।। यत्तु चाक्षुषेदं वृत्त्यवच्छिन्नचैतन्यस्याविद्यापरिणामत्वेन चाक्षुषत्वोपचार इति । तन्न । इदं पश्यामीतिवत् पीतं पश्यामीत्यनुभवेनोपचारकल्पने मानाभावात् ।। अध्यस्तत्वनियमादिति ।। तथा च न केवलसाक्षिभास्यत्वमिति भावः ।। अनवस्थाना-दिति ।। न चाविद्यावृत्तिप्रतिभासे चैतन्येऽविद्यावृत्तेः स्वत एवोपाधित्वेन वृत्त्यन्तरा-नपेक्षत्वान्नानवस्थेति वाच्यम् । अविद्यावृत्तेः प्रातिभासिकतया प्रतीतिं विना सत्त्वायोगेन तत्प्रतीतौ तस्याः सत्त्वं सत्त्वे च तस्या उपाधित्वमित्यन्योन्याश्रयात् ।
ननु ज्ञानाकारेणैव सविषयकत्वे साकारवादापातः । अतीत विषयवदुपपादनेऽप्य-परोक्षत्वानुपपत्तिरित्यत आह ।। ज्ञानगताकारेणैवेति ।। ज्ञानस्वरूपमात्रेणेत्यर्थः । अविद्यावृत्तेः परोक्षवृत्तिविलक्षणाकारत्वेनार्थं विनाप्यपरोक्षत्वोपपत्तेः ।। अन्यथेति ।। दोषाणां स्वाश्रयजन्य एवातिशयाधाकत्वाभावे ।। पीतत्वेति ।। पीतत्वादिविषयोऽविद्या-वृत्तिरूपो भ्रमः स्यात् ।। ज्ञानैक्यानुभवविरोधादिति ।। एकत्वप्रयोगसमर्थनेऽप्यनुभव-विरोधस्यापरिहारात् ।। एकविषयेति ।। एकविषयकप्रत्यक्षानुमित्यादीनामप्यैक्या-पातादित्यपि बोध्यम् ।। कल्पितस्येति ।। बाधकालेऽर्थैक्याभावेऽपि ज्ञानैक्यानुभवादित्यर्थः ।। बाधकाल इति ।। इदं वृत्त्यवच्छिन्नचैतन्यतादात्म्येनाननुभवादित्यपि बोध्यम् ।। भेदधीप्रसङ्गादिति ।। न च विषयभेदग्रहज्ञानभेदग्रहयोः भिन्नसामग्रिकत्वेन भेदग्रहेनेति देश्यम् । न कदाचिदपि बाधकाले वृत्तेर्भेदग्रहस्यासिद्धेः । सर्वदा भेदग्रहसामग्रीविरहस्य दुर्वचत्वादिति भावः । केचित्तु भ्रमकाले विषयैक्यग्रहनियमवन्न ज्ञानैक्यग्रहः । तं विनापि प्रवृत्याद्युपपत्तेः । तथा च बाधकाले नतद्भेदग्रहः इत्याहुः । तन्मन्दम् । न हि प्रवृत्त्यादि-प्रतिबन्धार्थं वृत्तिभेदग्रहमाचक्ष्महे । किं तु बाधेनार्थयोरिव ज्ञानयोरपि भेदग्रहप्रसङ्गम् । अर्थतथात्वव्यवस्थापकत्वाद्बाधस्येति ।। इदं वृत्तेरिति ।। नन्विदं वृत्तेर्ज्ञातैकसत्त्वेन साक्षि-वेद्यतया यद्यपि तदवच्छिन्नचैतन्यविषयकाज्ञानं नास्ति । तथापीदं वृत्त्यवच्छिन्नचैतन्याश्रितं शुक्त्यवच्छिन्नचैतन्यगोचरमज्ञानमस्त्येव । तथा चेदं वृत्तिराश्रयावच्छेदिका । न तु विषयावच्छेदिकेति । मैवम् । अधिष्ठानावरणं विनाऽन्यथाभावरूपविवर्तायोगात् । आवरणं च
तद्विषयकत्वमन्तरेणानुपपन्नमितीदं वृत्तिविषयकाज्ञानस्यैव वक्तव्यत्वात् ।। शुक्तितत्वमिति ।।
ननु शुक्तितत्वाज्ञानस्यैवोभयपरिणामित्वाच्छुक्तितत्वज्ञाने च तदज्ञाननाशाद्रूप्यतद्वृत्त्यो र्निवृत्तिरिति । मैवम् । अज्ञानद्वयविवर्तत्वोक्त्यायोगात् ।। रूप्यं प्रतीति ।। रूप्यमुद्दिश्य । न च मिथ्याभूतशुक्तेर्नाधिष्ठानत्वम् । सत्यस्यैवाधिष्ठानत्वादिति वाच्यम् । शुक्तेरपि सत्यत्वात् । त्वन्मते शुक्त्यवच्छिन्नचैतन्यस्यापि तात्विकत्वाभावाच्चेति भावः ।। अविद्या-वृत्तेरिति ।। ननु अज्ञाननिवर्तकस्यैव ज्ञानत्वान्नाविद्यावृत्तेर्ज्ञानत्वमित्याशङ्क्य निराकरोति ।। न चेति ।। परोक्षेति ।। अविद्यावृत्तिस्तु न ज्ञानम् । तत्प्रतिफलितचैतन्यमपि परोक्षाध्यासेनास्तीति किं कृतस्तत्र जानामीति व्यवहारः स्यादित्यर्थः । एतेन परोक्षस्थलेऽपि प्रमातृगताज्ञाननिवृत्तिरस्त्येवेति तत्र जानामीति प्रत्ययः तेन सहाभेदग्रहात्परोक्षभ्रमेऽपि जानामीति प्रत्यय इति निरस्तम् ।। अपवादादिति ।। इदमाकारवृत्तेः सर्वत्र प्रमात्वाद-विद्यावृत्तेर्ज्ञानत्वाभावात् ज्ञाने प्रमात्वनियम एव स्यादित्यर्थः । न चात्र ज्ञानपदेनेच्छाजनक-वृत्तिरेव विवक्षितेति युक्तम् । अविद्यावृत्तेज्ञार्नत्वाभावे इच्छाजनकत्वस्यैवासम्भवात् । किं च किमविद्यावृत्तेर्मुख्यज्ञानत्वं नास्त्यौपचारिकमपि वा । आद्यं दूषयति ।। विवरण इति ।। व्याख्यातमेतत् । द्वितीयं त्वविद्यावृत्तावप्यस्तीत्याह ।। प्रकाशकेति ।। इच्छादि-विलक्षण-वृत्तित्वेनैव चैतन्यप्रतिफलनोपाधित्वात् ।। फलैक्येनेति ।। भासकं चैतन्यं फलम् ।। तदभिव्यक्ताभ्यामिति ।। एतच्चाधिष्ठानचैतन्यविशेषणम् ।। एतेनेति ।। इदं रूप्याधिष्ठान-योश्चितोर्भेदेनेत्यर्थः ।। क्रमिकयोरिति ।। एतेन नावच्छेकभेदेन फलभेदः किं तु व्यञ्जक-भेदेनेति निरस्तम् । तस्य चैतन्यस्य ।। अन्यथेति ।। अतदाकारवृत्तावप्यन्याधिष्ठान-चैतन्यप्रतिफलने । ननु यत्र विशेष्यस्य रसनाद्यवेद्यत्वं तत्र रासनस्य रसादेः कथमध्यास इति विशेष्यांशे व्यावृत्तिरिति भ्रमे वृत्तिद्वयसिद्धिरित्यत आह ।। तिक्त इति ।। विशेष्योप-नयसहकृतं रसनादि । विशेष्ये विशेषणवैशिष्ट्यं गृह्णातीत्येकमेव ज्ञानम् । अन्यथा मधुरो गुड इत्यादावपि वृत्तिद्वयस्वीकारापत्तिस्तुल्य न्यायत्वादित्यर्थः । उपसंहरति तस्मादिति ।।
श्रीमद्व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुजं युजि ।
न्यायाकल्पलतायां वै ह्यनिर्वाच्यस्य खण्डनम् ।।
।। इति भ्रमस्य औत्यभिमतज्ञानद्वयात्मकत्वभङ्गः ।।