किञ्च न तावच्छक्तितात्पर्यावधारणं वा तद्विशिष्टशब्दावधारणं वा ..

३. परमते श्रवणादिविध्यनुपपत्तिः

न्यायामृतम्

किञ्च न तावच्छक्तितात्पर्यावधारणं वा तद्विशिष्टशब्दावधारणं वा तात्पर्यप्रमाप-कलिङ्गावधारणं वा आगमाचार्योपदेशजन्यज्ञानं वा श्रवणम् । परमते ज्ञानविध्य-भावात् । अवाच्ये च ब्रह्मणि १शक्त्यसम्भवात् । तात्पर्यमपि न तावदापातधीजन्यस्य विचारनिवर्त्यस्य संशयस्य धर्मिणि । तस्य प्रागेव निश्चितत्वेन तन्निश्चयार्थं तात्पर्यनिश्चियसाधनस्य विचारस्य वैयर्थ्यात् । अन्यथा विचारानन्तरमपि संशयादिप्रसङ्गात् । नापि संशयधर्मिगतप्रकारविशेषे तद्विशिष्टे तदुपलक्षिते वा । अखण्डार्थताहानेः । नापि गुरुमुखाद्वेदान्तानां ब्रह्मणि संयोजनं श्रवणम् । संयोगस्याऽप्युक्ततात्पर्यावधारणाद्यनातिरेकात् । नापि वाक्यविशेषप्रयोगरूपवादकथा श्रवणम् । तत्र श्रवणपदाप्रयोगात् । अत एव न परमते मनननिदिध्यासनविधिर्युक्तः । तयोरपि ज्ञानविशेष व्यतिरेकेण दुर्निरूपत्वात् । न चानिच्छतोऽपि दुर्गन्धादि-ज्ञानदर्शनेन ज्ञानस्याविधेयत्वेऽपि निदिध्यासनस्य ज्ञानसन्तानत्वेन विधेयत्वम् । अनिच्छतोऽपि दुर्गन्धज्ञानसन्तानदर्शनात् । न चावधारणं नाम न ज्ञानं किन्तु ध्यानम् उभयविजातीयं चेतोवृत्त्यन्तरं वा । ‘श्रवणादिक्रिया तावत्कर्तव्येह प्रयत्नतः’ इति सुरेश्वरेण क्रियाशब्दप्रयोगादिति वाच्यम् । तात्पर्यरूपे विषये उपक्रमादिरूपे प्रमाणे च सति जायमानस्य तस्य ज्ञानाद्वहिर्भावानुपपत्तेः । न हि वाचो धेनुत्वेनोपासनादिकं प्रमाणवस्तुपरतन्त्रम् । एतेन तर्कात्मको विचारः श्रवणमिति प्रत्युक्तम् । व्याप्तिज्ञानपरतन्त्रत्वेनानुमितेरिव तर्कज्ञानस्याप्यपुंतन्त्रत्वात् । न हि पुंतन्त्रः प्रतिमादौ नारायणाद्यारोपो व्याप्तिज्ञानाद्यपेक्षः । तस्मात्–

श्रुत्यादेर्धीस्वरूपत्वाद् विध्यनर्हत्वतो धियाम् ।

परपक्षे नैव युक्तः श्रवणादिविधिः क्वचित् ।।

।। इति परमते श्रवणादिविध्यनुपपत्तिः ।। ३ ।।

अद्वैतसिद्धि:

ननु किमिदं श्रवणं नाम ? शक्तितात्पर्यावधारणं वा ? तद्विशिष्टशब्दावधारणं वा ? तात्पर्य-प्रमापकलिङ्गावधारणं वा ? आगमाचार्योपदेशजज्ञानं वा ? नाद्यः । अवाच्ये ब्रह्मणि शक्त्यसम्भवात् । तात्पर्यमपि न तावदापातधीजन्यस्य विचारनिवर्त्यस्य संशयस्य धर्मिणि, तस्य प्रागेव निश्चितत्वेन तन्निश्चयार्थं तात्पर्यनिश्चयसाधनस्य विचारस्य वैयर्थ्यात् । अन्यथा विचारानन्तरमपि संशयादि-प्रसङ्गात् । नापि संशयधर्मिगतप्रकारविशेषे तद्विशिष्टे तदुपलक्षिते वा अखण्डार्थताहानेः । अवधारणस्य ज्ञानत्वे विधेयत्वस्य त्वयाऽनङ्गीकारात् । अत एव न द्वितीयादि । नापि गुरुमुखाद्वेदान्तानां ब्रह्मणि संयोजनं श्रवणम् । तस्याद्यपक्षानतिरेकात् । नापि वाक्यविशेषप्रयोगरूपवादकथा श्रवणम् । तत्र श्रवणपदाप्रयोगात् । अत एव मनननिदिध्यासनयोरपि न विधिः । तयोरपि ज्ञानानतिरेकादिति चेन्न । आद्यपक्षस्यैव क्षोदक्षमत्वात् । न च तत्र शब्दशक्त्यसम्भवो दोषः । शुद्धे शक्त्यसम्भवेऽपि विशिष्टशक्तेस्तद्वोधोपयोगिन्या अवधारणीयायाः सम्भवात् । तात्पर्यस्यापि संशयधर्मिणो निश्चितत्वेन तत्रासम्भवेऽपि संशयकोट्युपलक्षिते निर्विशेषे सम्भवेन विचारावैयर्थ्यात् । न चाखण्डार्थताहानिः । स्वरूपमात्रोपलक्षकतया अखण्डार्थताया उपपादितत्वात् । न चावधारणस्य ज्ञानरूपतया अविधेयता । तस्य तर्कत्वेन ज्ञानविजातीयचेतोवृत्त्यन्तरत्वात् । सुरेश्वराचार्यैः ‘श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नतः’ इति श्रवणादौ क्रियापदप्रयोगात् । एवमेव मनननिदिध्यासनयोरपि विधेयत्वमुन्नेयम् । न च तात्पर्यरूपे विषये उपक्रमादिरूपे च प्रमाणे सति जायमानस्य तस्य ज्ञानबहिर्भावानुपपत्तिः । तद्बहिर्भूतवाग्धेनूपासनादौ प्रमाणवस्तुपरतन्त्रत्वादर्शनादिति वाच्यम् । मन्मते लिङ्गस्य प्रामाण्यानभ्युपगमेन ‘सति प्रमाणे’ इत्यस्यैवाभावाद्, उपक्रमादेः प्रमाणत्वपक्षे तत्पूर्वकालीनत्वेनास्य प्रमाणे सतीत्येतदंशासिद्धेः । तस्मात् श्रवणादेरधीरूपतया मनोव्यापारत्वेन विधेयत्वोपपत्तिः । सिद्धान्तबिन्दुकल्पलतिकयोर्विस्तरः । यच्चानुवादित्वादिवर्णनं वाचस्पत्ये, तत् प्रस्थानान्तरत्वान्न विधित्वोक्तिविरोधि ।। इत्यद्वैतसिद्धौ श्रवणादेर्विधेयत्वोपपत्तिः ।। ३ ।।

न्यायामृततरङ्गिणी

ज्ञानविध्यभावादिति ।। प्रमाणविषयपरतन्त्रस्य ज्ञानस्य पुमतन्त्रत्वेनाविधेयत्वाङ्गीकारात् ।। शक्त्यसम्भवादिति ।। न च शुद्धे शक्त्यसम्भवेऽपि विशिष्टशक्तिरेव तद्बोधोपयोगिनी सैवावधारणीयेति वाच्यम् । शक्तितात्पर्ययोर्भिन्नविषयत्वापातात् । अन्यशक्त्याऽन्योपस्थापने लक्षणयाऽनवस्थापातेन विशिष्टशक्तेः शुद्धबोधानुपयोगितया तत्र शक्त्यवधारणस्य व्यर्थत्वाच्च ।। अखण्डार्थताहानेरिति ।। प्रकारोपलक्षितमपि तदुपलक्षितत्वादिधर्मवदेवेत्यर्थः ।। उपक्रमादि-रूप इति ।। ननु परमते लिङ्गस्य प्रमाणत्वानभ्युपगमेन प्रमाणे सतीत्येतदसिद्धमिति । न । यदेवानुमाने प्रमाणत्वेनाभिमतं परेण तस्यैवात्र प्रमाणशब्देनाभिमतत्वात् । प्रमाण-वस्तुपरतन्त्रस्यापि ज्ञानविजातीयत्वेऽनुमित्यादिकमपि ज्ञानं न स्यात् । नन्वनुमितेरपुन्तन्त्र-त्वादस्तु ज्ञानत्वमिति चेत्समं प्रकृतेऽपीत्याह–  व्याप्तिज्ञानेति ।। ननु व्याप्तिज्ञानापेक्षत्वमेव पुन्तन्त्रत्वमित्यत आह– न हि पुन्तन्त्र इति ।। इति श्रवणादिविध्यनुपपत्तिः ।। ३ ।।

न्यायामृतकण्टकोद्धारः

श्रवणस्वरूपस्यैव निर्वक्तुमशक्यत्वात् परमते श्रवणविधिर्नोपपद्यत इत्यभिप्रेत्य श्रवणं दूषयितुं विकल्पयति– किञ्चेति । आद्यद्वितीययोर्विशेषणविशेष्यभावव्यत्यास एव, न त्वर्थभेद इति द्रष्टव्यम् । आद्यद्वितीययोर्दूषणान्तरमाह– अवाच्ये चेति । अवाच्यत्वेनाभ्युपगत इत्यर्थः । तथा च न साध्याविशेष इति भावः । तात्पर्यमपीति । ननु संशयधर्मिणि तात्पर्य-मित्ययुक्तम् । धर्मिनिश्चयाभावे हेत्वभावेन संशयायोगादित्यत उक्तम् आपातधीजन्य-स्येति । ननु यथाकथञ्चिद् धर्मिधियः संशयनिवर्तकत्वात् कथं तत्सत्वे संशय इत्यत उक्तं विचारनिवर्त्यस्येति । अन्यथेति । निश्चये सत्यपि संशयश्चेदित्यर्थः । अखण्डार्थतेति । निर्विशेषार्थनिष्ठत्वस्याखण्डार्थशब्दार्थत्वादिति भावः । अत एवेत्यस्यार्थमाह– तयोरपीति । उभयविजातीयमिति । ज्ञानध्यानोभयविजातीयमित्यर्थः । नन्वेवं सति वाचो धेनुत्वे-नोपासनस्यापि ज्ञानरूपता स्यादित्यत आह– न हीति । तथा च तस्य प्रमाणवस्त्वन्यतर-जन्यत्वाभावाद् युज्यते ज्ञानबहिर्भाव इति भावः । ननु व्याप्तिज्ञानसापेक्षत्वेऽपि अस्तु पुंतन्त्रत्वमित्यत आह– न हि पुंतन्त्र इति । उक्तमर्थं कारिकारूढं करोति– तस्मादिति ।। इति परमते श्रवणादिविध्यनुपपत्तिः ।। ३ ।।

न्यायकल्पलता

परमतेऽनुपपत्त्यन्तरम् अभ्युच्चिनोति– किञ्चेति ।। ज्ञानविध्यभावादिति ।। प्रमाणविषय-परतन्त्रस्य ज्ञानस्य पुमतन्त्रत्वेनाविधेयत्वाङ्गीकारादित्यर्थः ।। शक्त्यभावात् इति ।। न च शुद्धे शक्त्यसम्भवेऽपि विशिष्टशक्तिरेव तद्बोधोपयोगि(नी) सैवावधारणीयेति वाच्यम् । शक्तितात्पर्ययोर्भिन्न-विषयत्वापातात् । अन्यशक्त्याऽन्योपस्थापने लक्षणयाऽनवस्थापातेन विशिष्टशक्तेः शुद्धबोधानुपयोगितया तत्र शक्त्यवधारणस्य व्यर्थत्वाच्च ।। अखण्डार्थताहानेरिति ।। प्रकारोपलक्षितमपि तदुपलक्षितत्वादि-धर्मवदेवेत्यर्थः ।। उपक्रमादिरूप इति ।। ननु परमते लिङ्गस्य प्रमाणत्वानभ्युपगमेन प्रमाणे सतीत्येतदसिद्धमिति चेत् । न । यदेवानुमाने प्रमाणत्वेनाभिमतं परेण तस्यैवात्र प्रमाणशब्देनाभिमत-त्वात् । प्रमाणवस्तुपरतन्त्रस्यापि ज्ञानविजातीयत्वेऽनुमित्यादिकमपि ज्ञानं न स्यात् । नन्वनुमितेरपुंतन्त्रत्वादस्तु ज्ञानत्वमिति चेत्समं प्रकृतेऽपीत्याह– व्याप्तिज्ञानेति ।। ननु व्याप्तिज्ञानापेक्षत्वमेव पुन्तन्त्रत्वमित्यत आह– न हि पुन्तन्त्र इति ।। सङ्गृह्णाति– श्रुत्यादेरिति ।। श्रवणादेरित्यर्थः ।

।। इति श्रवणादिविध्यनुपपत्तिः ।। ३ ।।