नन्वत्यन्तासत्त्वे कथं निषेधप्रतियोगित्वम् ?
७२. अनिर्वाच्यसाधकनिषेधप्रतियोगित्वान्यथानुपपत्तिभङ्गः
न्यायामृतम्
नन्वत्यन्तासत्त्वे कथं निषेधप्रतियोगित्वम् ? तथा चात्यन्तिकनिषेधप्रति योगित्वरूपबाध्यत्वमेव सत्यसति चानुपपद्यमानमनिर्वाच्यत्वं कल्पयतीति नवीना इति चेन्न, किमिह कथम् असत्त्वस्यात्यन्तिकनिषेधप्रतियोगित्व-रूपत्वेन तदप्रतिक्षेपकत्वात् प्रागभावादिदशायामसत एव घटादेस्तत्प्रति-योगित्वदर्शनेन तस्य रूपादिवद्धर्मिसत्त्वानपेक्षत्वाच्च, असत्त्वाभावादपि लघुत्वेन तत्र सत्त्वस्य तन्त्रतया तद्धीनस्यानिर्वाच्यस्याप्रतियोगित्वापाताच्च, त्वन्मतेऽप्यसतोऽसद्वैलक्षण्यं प्रति प्रतियोगित्वाच्च, असतोऽपि ‘नासदासीत्’ इति श्रौतनिषेधप्रतियोगित्वाच्च । यदि च कुत्रचित्कदाचित्सत एव बाध्यत्वं अभावप्रतियोगित्वं, तर्हि कुत्रचित्कदाचिदसत एव सत्त्वमिति नित्यसर्वगतानां सत्त्वं न स्यात् । आत्यन्तिकं सत्त्वमसत्त्वनिरपेक्षं चेदात्यन्तिकमसत्त्वमपि सत्त्वनिरपेक्षम्, अन्यथा ध्वंसः स्वाधिकरणे प्रतियोगिसत्वापेक्ष इत्यत्यन्ता-भावोऽपि तथा स्यात् । अत्यन्ताभावश्च स्वकाले प्रतियोगिसत्त्वापेक्ष इति ध्वंसोऽपि तथा स्यात् । प्रतियोगिनो असत्त्वेऽपि प्रतियोगित्वस्य सत्त्वं च ध्वंसादिदशायां प्रतियोगिनोऽवर्तमानत्वेऽपि प्रतियोगित्वस्य वर्तमानत्ववत् शशशृृङ्गादेरसत्वेऽपि परोक्षज्ञानादिकं प्रति विषयत्वस्य सत्त्ववद्, असद्वैलक्षण्यं प्रति प्रतियोगित्वस्य सत्त्ववत्, त्वत्पक्षे प्रतियोगिनः सद्विलक्षणत्वेऽपि बाध-गोचरस्य निषेधप्रतियोगित्वस्य सत्त्ववच्च युक्तम् । यदि तु तत्र प्रतियोगित्व-विषयत्वे न धर्मिसत्त्वापेक्षे तर्हीहापि तथा । यदि च तत्र ध्वंसादौ तत्प्रति-योगिकत्वमेव वर्तमानमसद्विषयकज्ञाने च तद्विषयकत्वमेव सद्, असद्वैलक्षण्ये च तत्प्रतियोगिकत्वमेव सत्, न तु प्रतियोगित्वं वर्तमानं सद्वा न वा विषयत्वं सत्, तर्हीहाप्यत्यन्ताभावे तत्प्रतियोगिकत्वं सत्, न तु प्रति-योगित्वमित्यस्तु । न चाभावविरहत्वं प्रतियोगित्वम्, सादृश्यपृथक्त्वादि-प्रतियोगिष्वव्याप्तेः, येनासतः प्रतियोगित्वं न स्यात् । किं तु तज्ज्ञानहेतु-ज्ञानविशेषविषयत्वं तच्चासतोऽप्यस्ति, अन्यथा अभावावधित्वं प्रतियोगित्व-मिति निरवधिकोऽत्यन्ताभावो निष्प्रतियोगिकः स्यात् ।
एतेन प्रतियोगिस्मृतिरूपहेत्वभावादसत्प्रतियोगिकाभावधीरयुक्तेति निरस्तम्, शब्दाभासादिनाऽनुभूतस्य स्मृतिसम्भवाद् भ्रमविषयवच्च प्रतियोगिनोऽप्रामाणि-कत्वेऽपि भ्रमवदभावस्य प्रामाणिकत्वं युक्तम् । न हि प्रमाणस्पृष्टत्वमेव तत् असतोऽप्यसत्त्वेन तत्स्पृष्टत्वात्, किं तु सत्त्वेन ।
नन्वथापि योग्यानुपलब्ध्या अभावो ग्राह्यः योग्यता च प्रतियोगितद-द्व्याप्येतरप्रतियोग्युपलम्भकसामग्री, असति च प्रमासामग्री नास्तीतिदोष-सहितज्ञानसामग्रीरूपा सा वाच्या तस्यां च सत्यां नासतोऽनुपलम्भः, उपलम्भस्यैव सत्त्वाद् अनुपलम्भदशायां च तज्ज्ञानसामग्रीरूपा योग्यतैव नास्तीति कथमसदभावधीः ?
दुष्टोपलम्भसामग्री शशशृृङ्गादियोग्यता ।
तस्यां नानुपलम्भोऽस्ति नास्ति सानुपलम्भने ।।
इति कुसुमाञ्जल्युक्तेरिति चेन्न, या ह्यनुपलब्धिर्यत्र यत्सत्त्वविरोधिनी, तस्या एव योग्यानुपलब्धित्वात् तस्याश्चासत्यपि भावात् । शृृङ्गानुपलब्धिर्हि महत्वे सत्युद्भूतरूपशृृङ्गसत्त्वविरोधिनी न हि प्रतियोगिप्रत्यक्षत्वम् अभाव-प्रत्यक्षत्वे तन्त्रम्, स्तम्भे पिशाचान्योन्याभावस्याप्रत्यक्षत्वापातात्, जल-परमाणौ पृथिवीत्वाभावस्य प्रत्यक्षत्वप्रसङ्गाच्च । कथमन्यथा शशशृृङ्गं नास्तीत्यबाधितधीः ? न च शशे शृृङ्गं नास्तीत्यर्थ इति चिन्तामण्युक्तं युक्तम्, शशशृृङ्गोल्लिखिता भूरित्यादावप्रसिद्धविशेषणत्वोक्त्ययोगाद्, गवि शशशृृङ्गं नास्तीत्यधिकरणान्तरोपादानाच्च शशे शृृङ्गं नास्तीत्यर्थकल्पनेऽपि भूतले घटो नास्तीतिवदसतः संसर्गस्य निषेध्यकोटिनिवेशाच्च, अन्यथा संसर्गस्य सत्त्वापाताद्, गोशृृङ्गं नास्तीतिवद् विशिष्टप्रतियोगित्वप्रतीतेरुक्तरीत्या बाधकाभावेन अन्यथाव्याख्यानायोगाच्च ।
एतेन न प्रतियोगिधीमात्रमभावधीहेतुः, तन्निर्विकल्पकादप्यभावधी-प्रसङ्गात्, किं तु विद्यमानप्रतियोगितावच्छेदकावच्छिन्नतद्धीः । न च शशीयत्वावच्छिन्नशृृङ्गधीरस्तीति सामग््रयभावादेव बाधकान्न व्यधिकरणधर्मा-वच्छिन्नाभावधीरिति चिन्तामण्युक्तं निरस्तम्, शब्दाभासादिना तद्धीसम्भवात् । अन्यथा तन्तुषु पटो नास्तीत्यस्यापि तन्तुसमवेते पटत्वं नास्तीत्यर्थ इति प्रागभावादेरपि स्वसमानकालीनप्रतियोगित्वं स्यात् । एतेनैव सप्तमभावो नास्तीत्यादेः द्रव्यादिषड्लक्षणात्यन्ताभावे भावत्वसामानाधिकरण्यं नास्तीत्यर्थ इति निरस्तम् । शुक्तिरूप्यतादात्म्यवत् संसर्गवच्चात्यन्तासतोऽपि सप्तमपदा-र्थादेः पररीत्या प्रसक्तस्य निषेधसम्भवे कुसृष्टिकल्पनायोगात् । किं चेह भूतले घटो नास्तीति धियः संसर्गाभावो विषयः, न तु घटाभावः इह भूतले घटो नास्तीत्यत्र संयोगो निषिध्यत इत्युदयनोक्तेः भूतले घटोऽस्तीति बुद्धेस्त-त्सम्बन्धविषयत्वेन नास्तीति बुद्धेरपि तदभावविषयत्वाच्च ।
किं च न तावदयं घटप्रागभावो ध्वंसो वा प्रतियोगिसमानकालीनत्वात् । नाप्यत्यन्ताभावः, कदाचित्तत्र घटस्य सत्त्वात् । यदि चैतत्कालावच्छेदे-नात्यन्ताभावस्तर्ह्यत्यन्ताभावातिरिक्तः प्रागभावादिर्न सिद्ध्येत् । संयोगस्य तु भूतत्वे ध्वंसः भावित्वे प्रागभावः कदाप्यभावे त्वत्यन्ताभाव इत्यसतः संसर्गस्य प्रतियोगित्वसिद्धिः । न च घटे सन्नेव संसर्ग इह निषेध्यः तस्यापि घटतुल्यत्वेन प्रागभावादिविकल्पप्रसरात् । यत्तूक्तं वर्धमाने घटत्यन्ताभाव एवायं घटाकालेत्वसम्बन्धान्न भाति घटात्यन्ताभावस्य भूतलेन सह सम्बन्धश्च तत्संयोगध्वंसादिः । अथवा प्रतियोगिभेदेनैव प्रतियोगितावच्छेदक-भेदेनाप्यभावभेदात् संयुक्तघटाभावोऽयं विशिष्टान्तराभाववदुत्पादविनाश-शीलोऽन्य एवेति । तत्र नाद्यः, अभावाधिकरणयोः सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावरूपक्लृप्त सम्बन्धत्यागेन संयोगध्वंसादेः सम्बन्धत्वकल्पने आवश्यकसंयोगध्वंसादेरेव तद्धीविषयत्वोपपत्तेः । अन्यथा घटस्य कपाले-ष्वत्यन्ताभाव एव घटकाले त्वाश्रयाश्रयिभावध्वंसादिरूपसम्बन्धाभावाद-प्रतीतिरिति घटात्यन्ताभावः केवलान्वयी स्यात् । न द्वितीयः, संयोगस्य निषेध्यकोटित्वादिष्टसिद्धेः दण्डे सत्यपि पुरुषाभावेन दण्ड्यभाववद् भूतल-घटसंयोगे सत्यपि घटाभावे संयुक्ताभावस्यादर्शनेन क्लृप्तेः संयोगध्वंसादिभिरेव सर्वोपपत्तौ उत्पादविनाशशीलसंयुक्ताभावान्तरकल्पनायोगाच्च । तस्मादसतोऽपि निषेध्यत्वं युक्तम् ।
अद्वैतसिद्धि:
केचित्तु बाध्यत्वं सत्यसति चानुपपन्नमिति अनिर्वाच्यत्वमिति आहुः । न च अतीते तत्कालासति ध्वंसप्रतियोगित्ववत् सर्वदा असत्यप्यत्यन्ताभावप्रतियोगित्वं स्यात्, तथा च बाध्यत्वं नात्यन्तासत्त्वविरोधीति वाच्यम्; कालान्तरसत्तायाः कालान्तरसत्तां प्रत्यनुपयोगेऽपि विद्यमानतादशायामेव घटादौ ध्वंसप्रतियोगात्वम्; ‘अनित्यो घटोऽस्ति’ इति प्रतीतेः न तु ध्वंसादिकाले घटे ध्वंसप्रतियोगित्वम्; तदानीं घटादीनामेवाभावात् । न च तर्हि घटो न ध्वंसप्रतियोगीति प्रत्ययः स्यात्, न, रूपवानित्यस्यापि प्रसङ्गात् । अथ यावत्सत्त्वं रूपसत्त्वान्नैवम्, समं प्रकृतेऽपि । वस्तुतस्तु, ध्वंसकालेऽपि घटो ध्वस्तः इति ध्वंस-प्रतियोगिता घटे प्रतीयत एव । तथा चानिर्वाच्यत्वेऽपि प्रतियोगित्वादिकमनुपपन्नमेवेति चेत्, सत्यम्, सत्त्वमेव यत्किञ्चित्कालाबाध्यत्वरूपं तत्र प्रयोजकम्, न तु त्रिकाला-बाध्यत्वरूपम्, गौरवात् । न च तर्हि कथं सति बाध्यत्वमनुपपन्नम्, न सन्मात्रे, किन्तु परमार्थसतीत्यवेहि । तथा चानिर्वाच्यतापक्षे नानुपपत्तिः । न च तर्हि कथमसद्वैलक्षण्य-प्रतियोगित्वमसति कथं वा नासदासीदिति श्रौतनिषेधः । असत्त्वं तावन्निस्वःरूपत्वम् । तद्वैलक्षण्यं सत्स्वरूपत्वं तच्च निष्प्रतियेगिकमेव । श्रुत्यर्थोऽपि तदेव । तथा च नास्ति प्रतियोगित्वप्रतिपत्तिः । न च शशशृृङ्गं नास्तीति प्रत्यक्षत एवासति निषेधप्रतियोगित्व-मनुभूयत इति वाच्यम्, योग्यानुपलब्धिस्तावदभावग्राहिका । योग्यता च शशशृृङ्गादीनां दोषघटिता वाच्या । तस्यां नानुपलम्भः । अनुपलम्भे च न सेति योग्यानुपलब्धेरसम्भवात् । तदुक्तं–
दुष्टोपलम्भसामग्री शशशृृङ्गादियोग्यता ।
तस्यां नानुपलम्भोऽस्ति नास्ति सानुपलम्भन ।। इति ।
न च प्रतियोगिसत्त्वविरोध्यनुपलब्धिरेव तद्ग्राहिका, सा च प्रकृतेऽस्त्येवेति वाच्यम्, स्तम्भात्मनि योग्यत्वप्रतिसिद्ध्या पिशाच उपलम्भापादनं सम्भवति । शशशृृङ्गास्तित्वं न योग्यतया व्याप्तम् । यद्बलात्तेन उपलम्भ आपाद्येत । तथा च नात्रप्रतियोगिसत्त्वविरोधिनी अनुपलब्धिः । अत एव पिशाचादीनां भेदः प्रत्यक्षः नात्यन्ताभावः । न च शृृङ्गादिकं योग्यतया व्याप्तमेवेति वाच्यम्, तावता हि शृृङ्गाभाव एव योग्यानुपलब्धिसम्भवः, न त्वलीकाभावे । एवञ्च शशशृृङ्गं नास्तीत्युल्लिखन्त्या अपि बुद्धेः शशे शृृङ्गाभाव एव विषयः । गवि शशशृृङ्गं नास्तीस्यस्या अपि गवाधिकरणकशृृङ्गे शशीयत्वाभावो विषयः, अनन्य-गतिकत्वात् । अत एव गोरनन्वयोऽपि नास्ति, शशशृृङ्गादेरुपस्थित्यभावात् न तदभावग्रह इति तार्किकरीत्या उक्तत्वाच्च । अत एव सप्तमपदार्थत्वनिषेधस्यासम्भवात् पदार्थाः षडेवेत्यत्र कुसृष्टिव्याख्यानम् ।
न च ‘घटो नास्तीति बुद्धेर्घटसंसर्गाभाव एव विषयः, न तु घटाभावः, पूर्वं तत्र घटस्य सत्त्वेन तदत्यन्ताभावस्याभावात्, प्राक्प्रध्वंसाभावयोः प्रतियोगिकाले असम्भावितत्वाद् भेदस्य घटापसरणानपसरणयास्तुल्यत्वात्, संसर्गोऽपि न तात्त्विकः, प्रतियोगिनि पूर्ववद् ध्वंसा-द्यनुपपत्तेः, किन्तु असन् संसर्ग इति वाच्यम्, उक्तमत्रोदयनाचार्यैः ‘यन्निबन्धना हि यत्प्रतीतिः तदभावनिबन्धनैव तदभावप्रतीतिः । इह च घटास्तित्वप्रतीतिः संयोगनिबन्धना, तदभावप्रतीतिः संयोगाभावनिबन्धनैव । स च संयोगस्तात्त्विक एव । न च ध्वंसादि-विकल्पः, घटानयनात् प्राक् संयोगप्रागभावस्य घटे अपसारिते संयोगध्वंसस्य सत्त्वात् । न हि घटे अन्यत्र नीते तद्देशे घटसंयोगोऽस्ति, येन प्रागभावादिर्व्याहन्येत । तथा च संसर्ग-प्रतियोगिकाभावस्वीकारेऽपि नासत्प्रतियोगिकाभावसिद्धिः ।
वस्तुतस्तु घटप्रतियोगिकत्वेनैवाभावस्यानुभवान्नायं संयोगप्रतियोगिको भवितुमर्हति । एवं च सति (१) कालविशेषसंसर्ग्यत्यन्ताभावो वा (२) उत्पादविनाशशीलः तुरीयः संसर्गाभावो वा (३) भूतलादिसंयुक्तस्य घटस्य विशेषणाभावप्रयुक्तविशिष्टाभावो वा अङ्गी-करणीयः । न च अत्राद्य ध्वंसादरुच्छदः कपालेऽपि घटान्यकालसंसर्गिणैवात्यन्ताभावेन तद्व्यवहारोपपत्तिरिति वाच्यम्, ‘दण्डी गौरश्चलतीति विलक्षणव्यवहारत्रये द्रव्यगुणकर्माणि विलक्षणानि हेतुर्यथा, तथात्रापि नास्ति नष्टो भविष्यतीति विलक्षणव्यवहारत्रयस्यैकेनात्यन्ता भावेनोपपादयितुमशक्यत्वाद्विलक्षणाभावत्रयसिद्धिः । समयविशेषसंसर्गश्च तत्समयावच्छिन्नं स्वरूपमेव संयोगध्वंसादिर्वा । न च संयोगादिध्वंसादिनैवावश्यकेन तर्हि प्रतीत्युपपत्तिरिति वाच्यम्, घटप्रतियोगिकत्वेनानुभवानुपपत्तेरुक्तत्वात् । न च कपालेऽपि घटध्वंसादिः सम्बन्धस्थानीयोऽस्तु, एक एवात्यन्ताभावो व्यवहारयत्विति वाच्यम्, विलक्षणव्यवहारत्रया-नुपपत्त्या दत्तोत्तरत्वात् । अत एव द्वितीयतृतीयपक्षावपि क्षोदसहौ, घटप्रतियोगिकत्वानु-भवस्यान्यथा उपपादयितुमशक्यत्वात् । एतेन दण्डसत्त्वेऽपि पुरुषासत्त्वाद्दण्ड्यभावदर्शनादस्तु तत्र विशिष्टाभावः, न चात्र संयोगसत्त्वे संयोग्यभावो दृष्टः, तथा च न विशिष्टस्याभावः, किन्तु विशेषणस्यैवेति निरस्तम्, संयोगिप्रतियोगिकत्वे नानुभवात् । संविदेव हि भगवती वस्तूपगमे शरणमिति । तस्मान्निषेधप्रतियोगित्वान्यथानुपपत्त्यापि अनिर्वाच्यत्वसिद्धिः । इत्यद्वैतसिद्धौ निषेधप्रतियोगित्वानुपपत्त्याऽनिर्वचनीयत्वसमर्थनम् ।
न्यायामृततरङ्गिणी
।। प्रागभावादीति ।। यस्तु प्रागभावादिदशायां घटादेस्तत्प्रतियोगित्वमेव नास्ती-त्याक्रोशति स तु शास्ता यदूनां भविता । कंसवधाख्यानमित्यादिवचः श्रावणीयः । योऽपि चानागतवर्तमानातीतावस्थाः क्रमेणाविर्भावयन्तिरोभावयंश्चानिर्वाच्यो घटः कालत्रयेऽप्यनु-स्यूत इत्याह स तु करके भग्ने पातुं करकान्तरं नाददीत ।। सत्त्वस्येति ।। ब्रह्मणि बाधप्रसङ्गस्त्वसद्विलक्षणत्वस्य बाध्यत्वे तन्त्रत्वेऽपि समान इति भावः । नन्वनिर्वाच्येऽपि सत्त्वमस्ति । न । बाधानुपपत्तेः । पारमार्थिकसत्त्वाभावाद्बाधो भविष्यतीति चेत् तर्हि पारमार्थिकसत्त्वाभावरूपमसत्त्वमेव बाध्यत्वात्सिद्धम् ।। अन्यथेति ।। कुत्रचित्सत एवान्यत्र सत्त्वमिति कल्पने ।। सत्त्वं चेति ।। युक्तमित्यनेन सम्बध्यते । भ्रमविषयोऽपि प्रामाणिक इत्यत आह ।। न हीति ।। दुष्टेति ।। दोषयुक्ता । तस्यां दुष्टसामग््रयां सत्यां शृङ्गानुपलम्भो नास्ति शृङ्गस्यैवोपलम्भात् । शृङ्गानुपलम्भने सा शृङ्गोपलम्भकसामग्री नास्ति । तथा च योग्यतायां नानुपलब्धिरनुपलब्धौ च न योग्यतेत्यर्थः ।। शृङ्गा-नुपलब्धिरिति ।। न चैवं शृङ्गाभावग्राहिण्येव योग्यता न तु शशशृङ्गाभावस्येति वाच्यम् । शृङ्गसामान्याभावग्रहसामग््रया एव विशेषाभावग्रहसामग्रीत्वात् ।। अभावप्रत्यक्षत्व इति ।। अन्योन्याभावस्यात्यन्ताभावस्य च ।
ननु शृङ्गाभावग्रहसामग््रयैव कथं शशशृङ्गाभावग्रह इत्यत आह ।। कथमन्यथेति ।। प्रतीतिबलादेव तथा कल्प्यत इत्यर्थः । प्रतीतेरन्यथासिद्धिमाशङ्क्य निराकरोति ।। न च शश इति ।। शशशृङ्गशब्दस्य शशे शृङ्गमित्यर्थत्वे शशशृङ्गोल्लिखिता भूरित्यादावपि विश-कलितपदार्थसत्त्वादप्रसिद्धिर्न स्यात् ।। गवीति ।। शशान्वितशृङ्गस्य गवि निषेधप्रतीतेः । अन्यथा गोपदार्थानन्वयप्रसङ्गात् । एतेन गवाधिकरणकशृङ्गे शशीयत्वं नास्तीत्यर्थः । तेन न गोपदार्थानन्वय इति निरस्तम् । गोरेवाधिकरणत्वप्रतीतेः ।। भूतल इति ।। भूतले घटसंसर्गविशेषो सन्नेव यो निषिध्यते तथा शशेऽपि शृङ्गसंसर्गो सन्नेवेत्यर्थः । ननूभयत्रापि घटमात्रं शृङ्गमात्रं चोपलक्षणम् । शृङ्गे शशीयत्वग्रहस्यैव शशीयत्वावच्छिन्नशृङ्गग्रहत्वात् ।। संसर्गाभावो विषय इति ।। ननु यन्निबन्धना यत्प्रतीतिस्तदभावनिबन्धनैव तदभाव-प्रतीतिः । इह च घटास्तित्वप्रतीतिः संयोगानिबन्धनेति तदभावप्रतीतिः संयोगा-भावनिबन्धनैव । स च संयोगस्तात्विक एवेत्यत आह ।। भूतले घटोऽस्तीति ।। न हि भूतले घटोऽस्तीति बुद्धिः संयोगमात्रविषया । किं तु भूतलघटसंयोगाविषया अतोऽभावधीरपि तत्संयोगविषयैव । स च संयोगो सन्नेव । तदिदमुक्तम् ।। तत्सम्बन्धेति ।। तदभावेति च ।। प्रागभावादिर्न सिद्ध्येदिति ।। नास्ति नष्टो न भविष्यतीति विलक्षणव्यवहारोऽपि तत्तत्कालरूपविशेषवैलक्षण्यादिति भावः ।। संसर्गस्येति ।। अत एव भूतले घटो नास्तीति धीः । अन्यथा घटो नास्तीत्येव स्यात् ।। अन्य एवेति ।। अत्र एव शब्दात्परं वा शब्दानुषङ्गः । तेन पक्षत्रयं बोध्यम् ।। न द्वितीय इति ।। द्वितीय-तृतीयसमुदाये द्वितीयशब्दः ।। इष्टेति ।। असत्त्वात्संयोगस्य ।। दण्ड इति ।। दण्डी नास्तीति बुद्धिं प्रति विशेषणासङ्कीर्णविशेष्यस्याभावप्रतियोगित्वानुभववदिह संयोगा-सङ्कीर्णस्य घटस्याभावप्रतियोगित्वाननुभवात्संयोगमात्रस्यैवाभावप्रतियोगित्वं कल्प्यत इत्यर्थः । क्लृप्तैरित्यादिना तृतीयपक्षनिराकरणम् ।
न्यायामृतकण्टकोद्धारः
अत्यन्तासत्त्वं किमात्यन्तिकनिषेधप्रतियोगित्वातिरिक्तं वा तदेव वा ? नाद्यस्तद-सम्भवस्योक्तत्वात् । न द्वितीय इत्याह– किमिहेति ।। तथा च न साध्यसाधनभावः सम्भवति । साध्याविशेषादिति भावः । ननु तथापि धर्मिणोऽसत्त्वे कथं धर्माणां सत्त्वम् ? तत्सत्वस्य रूपादिवत् धर्मिसत्तासापेक्षत्वादित्यत आह ।। प्रागभावादिदशायामिति ।। न च घटादेरपि विद्यमानतादशायामेव प्रतियोगित्वम् । अनित्यो घटोऽस्तीति प्रतीतेः इति वाच्यम् । तथासत्यविद्यमानतादशायां घटो न ध्वंसप्रतियोगीति प्रतीतिः स्यात् । घटो ध्वस्तो नास्तीति च प्रतीतेः भ्रान्तित्वापत्तेश्च । न चैवमेवेति वाच्यम् । बाधकाभावात् । न च ध्वंसकालेऽपि घटस्य कारणात्मना सत्त्वात् तत्र प्रतियोगित्वोपपत्तिरिति वाच्यम् । घटावस्थाया एव ध्वंसप्रतियोगित्वेन तस्यासत्त्वात् । अत एव घटो ध्वस्तः कपालं चास्तीति च प्रतीतिः । किञ्च विषयत्वादिधर्माणामिव प्रतियोगित्वादीनामपि अबाधित-प्रतीत्याऽसति सत्वाङ्गीकारे किं बाधकम् ? येनासतः प्रतियोगित्वं न स्यात् । अन्यथाऽ-सतः प्रतियोगित्वानङ्गीकारे बाधकमाह ।। असत्त्वाभावादपीति ।। तन्त्रतया तन्त्रत्वा-पत्या त्वन्मत इति शेषः । तेन नापसिद्धान्तादीति भावः । न च किञ्चित्काला-बाध्यत्वरूपमेव सत्त्वं प्रयोजकं न तु त्रिकालाबाध्यत्वरूपं गौरवादिति वाच्यम् । एवं हि अनिर्वाच्याविरोधिनः सत्त्वस्य प्रयोजकत्वेऽसत्वाविरोधिनः प्रतीतत्वरूपस्य सत्त्वेन प्रतीतत्वरूपस्य वा मयापि प्रयोजकस्य वक्तुं शक्यत्वात् । न च सत्त्वमेव नेति वाच्यम् । त्वदुक्तेऽपि तथाभावस्य वक्तुं शक्यत्वात् । किञ्चित्कालाबाध्यत्वस्यासत्यपि वक्तुं शक्यत्वाच्च ।। त्वन्मतेऽपीति ।। न चासत्त्वं निःस्वरूपत्वं तद्वैलक्षण्यं च सस्वरूपत्वं तच्च निष्प्रतियोगिकमेवेति वाच्यम् । शुक्तिरजतादेः स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वपक्षे निःस्वरूपत्वेन सस्वरूपत्वानुपपत्तेः । असद्वैलक्षण्येन ज्ञाने प्रतियोगित्वबुद्धेरनिवारणाच्च ।। असतोऽपीति ।। न च श्रुत्यर्थोऽपि स एवेति वाच्यम् । एवं हि नासदासीदित्यस्य सस्वरूपमासीदित्यर्थः स्यात् । तथा च सन्नासीदित्यनेन विरोध इति श्रुत्यर्थः परस्परव्याहतः स्यात् ।
विपक्षबाधकेनाप्यसतः प्रतियोगित्वं समर्थयते ।। यदि चेति ।। वैषम्यं शङ्कते ।। आत्यन्तिकेति ।। आत्यन्तिकमसत्त्वमपीति ।। अत्यन्ताभावप्रतियोगित्व स्यैवा-सत्वादिति भावः ।। अन्यथेति ।। यदि चेत्तर्हि अतिप्रसङ्ग इत्यर्थः । ननु तथापि धर्मिणोऽसत्त्वे धर्मसत्त्वं कथमङ्गीकर्तव्यं कुत्राप्यदृष्टत्वादित्यत आह ।। प्रतियोगिनोऽ-सत्वेऽपीति ।। यथा चैतत्तथा प्रागेवोपपादितम् ।। न चेति ।। न चासतो विरहरूपत्वं युक्तम् । तथा सत्यसत्वहानेरिति वाच्यमिति शेषः ।। सादृश्येति ।। न चाभाव-प्रतियोगित्वस्येदं लक्षणमिति वाच्यम् । अन्योन्याभावप्रतियोगिन्यव्याप्तेः । न च संसर्गाभावप्रतियोगित्वस्य लक्षणं असदभावश्चात्यन्ताभाव एवेति संसर्गाभाव एवेति वाच्यम् । अभावस्य विरह इत्यत्र षष्ठ्यर्थस्य सम्बन्धमात्रत्वेऽतिप्रसङ्गात् प्रतियोगित्वादि-रूपत्वे चात्माश्रयात् स्वरूपविशेषत्वे च ध्वंसादिदशायां स्वरूपाभावेन प्रतियोगित्वा-भावापत्तेः । किन्त्वित्यादिना निरुच्यमानमेव प्रतियोगित्वं वाच्यमिति तच्चासतोऽप्यस्तीति कथं न प्रतियोगित्वमिति भावः । अत्र येनासतः प्रतियोगित्वं न स्यात्तादृशं प्रतियोगित्व-लक्षणम् । न चेदं तथा । सादृश्यादिप्रतियोगिष्वव्याप्तेरिति योज्यम् । अन्यथाऽ-संमतिप्रसङ्गादिति ।। अन्यथेति ।। यद्यभावविरहत्वमेव प्रतियोगित्वं तदाऽतिप्रसङ्ग इत्यर्थः ।। एतेनेति ।। असतः प्रतियोगित्वोपपादनेनेत्यर्थः । यद्वा वक्ष्यमाणेनेत्यर्थः । नन्वसतः प्रतियोगिनोऽप्रामाणिकत्वे तदभावस्याप्यप्रामाणिकत्वं स्यादिति चेत् किमसद्यदाऽप्रामाणिकं तदभावोऽप्रामाणिक इति विशेषव्याप्तिमवलम्ब्योच्यते उत निरूपकस्य यद्भवति तन्निरूप्यस्येति सामान्यव्याप्तिम् ? नाद्यः स्वपरासम्मतेः । न द्वितीय इत्याह ।। भ्रमविषयवच्च ।। ननु तथाप्यसतः प्रामाणिकत्वं स्यात् प्रमाणज्ञानविषयत्वादित्यत आह ।। न हीति ।।
ननु तथापि शशशृङ्गाद्यभावो ज्ञातुं न शक्यते सामग््रयभावादिति शङ्कते ।। नन्विति ।। प्रतियोगितद्व्याप्येत्यादिका न योग्यानुपलब्धिः । संयोगाभावप्रत्यक्षेऽभावात् । प्रतियोगितद्व्याप्येतरसंयोगोपलम्भक सम्बन्धिद्वयप्रत्यक्षस्य संयोगाभावप्रत्यक्षस्थले अभावात् किन्तु तर्कितप्रतियोगित्वसत्व विरोधिन्यनुपलब्धिर्योग्यानुपलब्धिः । सा च प्रकृतेऽस्तीत्याह ।। या हीति ।। न च शशशृृङ्गास्तित्वं न योग्यतया व्याप्तम् । अतस्तदुपलम्भा-पादनमशक्यमेवेति वाच्यम् । महत्वसमानाधिकरणोद्भूतरूपवदवयवास्तित्वस्य स्वयोग्यतया व्याप्ततया शशशृृङ्गास्तित्वस्यापि तथात्वे योग्यताया आवश्यकत्वेन तदुपलम्भापादन-सम्भवात् । अत एवाह ।। महत्वे सतीत्यादि ।। ननु प्रतियोगिप्रत्यक्षाभावे कथं तदभावप्रत्यक्ष इत्यत आह ।। न हीति ।। स्तम्भ इति ।।
नन्वन्योन्याभावप्रत्यक्षे प्रतियोगिप्रत्यक्षस्या तन्त्रत्वेऽपि संसर्गाभावप्रत्यक्षे तत्तन्त्र-त्वमेव । अन्यथा धर्माभावस्य आत्मनि प्रत्यक्षत्वापातादिति चेन्न । उक्तानुपलब्धि-मत्त्वेनैवाभावमात्रस्य प्रत्यक्षत्वेऽतिप्रसङ्गाभावे सति प्रतियोगिप्रत्यक्षत्वस्यापि प्रयोजकत्व-कल्पने गौरवात् । धर्माद्यभावस्योक्तानुपलब्धिरहितत्वेनैव न प्रत्यक्षत्वम् । न हि योग्यवृत्तिजातेरिव योग्यवृत्तिगुणस्यापि प्रत्यक्षत्वम् । गुरुत्वादेरतथात्वात् । अत एव टीकाकारीयं योग्यानुपलब्ध्युपपादनमविकलम् अनुमानप्रकाशे । तथा च योग्यानुप-लब्धिसत्वात् शशशृृङ्गाभावप्रत्यक्षोपपत्तिः ।। कथमन्यथेति ।। यद्यसच्छशशृृङ्गप्रतियोगिको गवाद्यधिकरणकोऽभावो नाङ्गीक्रियत इत्यर्थः । यथाकथञ्चित् तत्रापि प्रसिद्धेः सम्पादयितुं शक्यत्वात् । न चाखण्डशशशृृङ्गादि प्रायेणाप्रसिद्धिकथनमिति वाच्यम् । अखण्डस्याप्रतीतौ तादृशाभिप्रायासम्भवात् । प्रतीतौ च प्रकृतेऽप्यनुभवसिद्धाखण्डभावप्रतीतिसम्भवे तद्विरुद्ध-कल्पनानौचित्यात् ।। गवीति ।। न च गवाधिकरणे शृृङ्गे शशीयत्वं नास्तीत्यर्थ इति वाच्यम् । शशपदस्य शृृङ्गपदेन समस्तत्वेन नञाऽन्वयायोगात् प्रतीतपदान्वयपरित्यागे बाधकाभावेनाऽन्यथाऽन्वयपरिकल्पनायोगाच्च ।। शश इति ।। न च दृष्टान्तोऽसम्प्रतिपन्न एवेति वाच्यम् । घटसंसर्गस्यारोपेऽपि तस्यान्यत्र सत्वे प्रमाणाभावस्यान्यत्रोपपादितत्वात् । एवं योग्यानुपलब्धिरूपं कारणमुपपाद्य प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानरूपकारण-मप्युपपादयति ।। एतेनेति ।। अन्यथेति ।। एवं सामग््रयुपपत्तावपि असत्प्रतियोगिका-भावो नाङ्गीक्रियते प्रतीतेरन्यविषयत्वं कल्प्यते तदेत्यर्थः । न च पटत्वाभावप्रतीतितो भविष्यतीत्यादि विलक्षणप्रतीत्या प्रागभावादिः स्वसमानकालीनप्रतियोगिको नाङ्गीक्रियते इति वाच्यं तर्हि प्रकृतेऽपि विलक्षणप्रतीत्यैवासदभावः स्वीकर्तव्य इति तुल्यम् ।। एतेनैवेति ।। असदभावप्रतीत्युपपादनेनेत्यर्थः ।। शुक्तिरूप्येति ।। यथा च तयोरसत्त्वं तथाऽन्यत्र सत्त्वे प्रमाणाभावेनोपपादितम् ।
प्रकारान्तरेणासत्प्रतियोगिकोऽभावः स्वीकर्तव्य इत्युपपादयति ।। किञ्चेति ।। ननु घटसंयोगाभावविषयत्वे घटसंयोगो नास्तीति प्रतीतिः स्यात् । घटस्य प्रतियोगित्वानुभवो विरुद्ध्येत । बाधकाभावेऽप्यनुभवस्यान्यविषयत्वेऽतिप्रसङ्गादित्यत आह ।। किञ्चेति ।। तथा च बाधकस्य सत्त्वादन्यविषयत्वं स्वीकर्तव्यमिति भावः । न च संयोगाभावपक्षेऽपि घटास्तित्वप्रयुक्तनास्तित्वप्रतीतेः संयोगप्रागभावप्रध्वंसान्यतरविषयत्वमेवेति नास-त्प्रतियोगिकत्वमिति वाच्यम् । यत्र घटसंयोगो नाभून्न भविष्यति तत्र नास्तीति बुद्धेः प्रागभावादिविषयत्वसम्भवात् । न चैवं घटस्यैवासतोऽभावः किं न स्यात् तथा-सत्यनुभवोऽप्यनुकूलितः स्यात् । किं संयोगाभावग्रहणेनेति वाच्यम् । क्वचिद्विद्यमानस्यैव घटस्यान्यत्रात्यन्ताभावप्रतीत्या तस्यासत्त्वासम्भवात् संयोगाभावपर्यन्तधावनस्योचितत्वात् ।। यदि चेति ।। उपलक्षणमेतत् । भूतलसंयुक्तत्वादिविशेषणाभावप्रयुक्तविशिष्टाभावतु-रीयात्यन्ताभावावपि ग्राह्यौ । अत्र चोदयनवचनविरोधे घटमात्रप्रतियोगिकत्वानुभवविरोधे
च सति दूषणान्तरमाह ।। तर्हीति ।। न च विलक्षणव्यवहारादिना तत्सिद्धिरिति वाच्यम् । विलक्षणव्यवहारस्याप्यङ्गी कृतत्रितयाभावेनैवोपपत्तावतिरिक्तकल्पनायां मानाभावात् ।
ननु घटसंयोगाभावपक्षे कथमसदभावसिद्धिरिति तत्राह ।। संयोगस्यत्विति ।। तस्यापीति ।। न च घटे सत एव संसर्गस्य यत्र देशान्तरे घटसंयोगो न वृत्तस्तत्राभावः किं न स्यादिति वाच्यम् । अप्रसक्तस्य निषेधप्रतियोगित्वासम्भवेनारोपितस्यैव प्रति-योग्यधिकरणसंसर्गस्य प्रतियोगित्वसम्भवेन तदन्यस्य तत्कल्पने गौरवात् । अत्यन्ताभाव-पदप्रयोगसामर्थ्यादपि असत एव प्रतियोगित्वं ज्ञायत इति भावः । विद्यमानस्यैवाभाव इत्यत्र वर्धमानोक्तं दूषयितुमनुवदति ।। यत्त्विति ।। प्रतियोगितावच्छेदकभेदेनापीति । अन्यथैकघटप्रतियोगिकानां प्रागभावादीनामभेदापातात् । न च प्रतियोगिभेदाभावेऽपि प्रतियोगिताभेदात्तद्भेद इति वाच्यम् । तद्भेदस्यैव ज्ञातुमशक्यतया तेन तदनिर्वाहात् । ततः प्रतियोगितावच्छेदकभेदेनाभावभेदो वाच्यः । एवं च प्रागभावादीनामपि भेदः सम्भवति । उत्तरकालावच्छिन्नघटत्वस्य प्रागभावप्रतियोगितावच्छेदकत्वात् । पूर्वकालावच्छिन्नघटत्वस्य ध्वंसप्रतियोगितावच्छेदकत्वात् । तादात्म्यावच्छिन्नघटत्वस्या न्योन्याभावप्रतियोगिता-वच्छेदकत्वात् । संसर्गावच्छिन्नघटत्वस्यात्यन्ताभावप्रतियोगितावच्छेदकत्वात् । एवं च कृते रूपत्वतत्तद्रूपत्वादिप्रतियोगितावच्छेदकभेदात् सामान्याभावविशेषा भावयोर्भेदसिद्ध्या वायौ पृथिव्यादि यः प्रत्येकरूपाभावे निश्चितेऽपि रूपत्वावच्छिन्नस्य तस्यानिश्चयात् वायौ रूपं न वेति संशयोऽप्युपपद्यत इति भावः । अन्य एवेत्यनन्तरं वेत्यनुषङ्गात् पक्षत्रयं बोध्यम् ।। अवश्यकेति ।। उपलक्षणमेतत् । क्लृप्तत्वाच्चेत्यपि ग्राह्यम् ।। अन्यथेति ।। यदि संयोगप्रागभावादिविषयत्वं नाङ्गीक्रियत इत्यर्थः ।। न द्वितीय इति ।। उपलक्षणं चैतत् । न तृतीय इत्यपि द्रष्टव्यम् ।। संयोगस्येति ।। घटमात्रप्रतियोगिकत्वानुभवविरोधश्चेत्यपि इष्टव्यम् ।। दण्ड इति ।। तत्रैव विशिष्टाभावो यत्र विशेषणे सति विशेष्यविरहप्रयुक्त-विशिष्टाभावप्रतीतिः । अन्यथा विशेष्याभावः क्वापि न सिद्ध्येदिति भावः । क्लृप्तैरित्यादिना तृतीयनिराकरणम् । तस्मादसतोऽपि प्रतियोगित्वसम्भवात् न तदन्यथाऽनु-पपत्त्याऽनिर्वचनीयत्वसिद्धिरिति उपसंहरति ।। तस्मादिति ।।
न्यायामृतप्रकाशः
कथमिति ।। अत्यन्तासतो रजतस्य निःस्वरूपत्वेन तत्र प्रतियोगित्वरूपधर्मा-सम्भवादिति भावः ।। तथाचेति ।। अत्यन्तासतो निषेधप्रतियोगित्वान्यथाऽनुपपत्त्येत्यर्थः ।। किमिहेति ।। इह किं कथम्? अनुपपद्यमानं प्रमेयं किमस्तीत्यर्थः ।। असत्वस्येति ।। यद्यसत्वं नामात्यन्तिकनिषेधप्रतियोगित्वादन्यत् स्यात् तर्ह्येवासत्वमान्त्यन्तिकनिषेध-प्रतियोगित्वप्रतिक्षेपकं स्यात् । अन्यथाऽनुपपत्त्या चानिर्वाच्यत्वं कल्प्यं स्यात् । न चैवम् । किं नाम तदेवासत्वमित्यर्थः । अस्तु वा ततो भिन्नं, तथाऽप्यसतो निषेधप्रतियोगित्वं सम्भवत्येव । कथमित्यत आह ।। प्रागभावादीति ।। वस्तुतत्वप्रदीपनकारः प्रागभावादि-दशायामपि घटादेः प्रतियोगित्वव्यवहार एव नास्ति’ इत्याक्रोशति । स तु ‘शास्ता यदूनां भविता तदात्मजः’ ‘कंसवधाख्यानम्’ इत्यादिदैववचः श्रावणीयः । यदुशास्तृकंसवधयो-रिदानीमभावेऽपि ‘शास्त्रा भविता’ इत्यादिना भाविशास्तृकंसवधाख्यानमुच्यत इत्येवं प्रागभावदशायामपि प्रतियोगित्वव्यावहारदर्शनादिति ध्येयम् ।
नन्वथापि नासतः प्रतियोगित्वं सम्भवति । प्रतियोगित्वेऽसत्वाभावस्य तन्त्रत्वात् इति चेन्न । असत्वाभावापेक्षया सत्वस्यैव लघुत्वेन तस्यैव प्रतियोगित्वे तन्त्रताऽस्तु । तथा चासत इवानिर्वाच्यस्यापि सत्वहीनत्वादत्यन्ताभावप्रतियोगित्वं न स्यादित्याह ।। असत्वेति ।। असतः प्रतियोगित्वाभावे त्वदङ्गीकृतं यदसतोऽसद्वैलक्षण्यप्रतियोगित्वं तदपि न स्यादित्याह ।। त्वन्मतेऽपीति ।। नासदिति ।। असत् नासीदिति कदाचित् क्वचित् सत एव निषेधप्रतियोगित्वं दृष्टम् । अत्यन्तासत् कदाचित् कुत्रचित् सत् न भवतीति न तस्यात्यन्ताभावप्रतियोगित्वमित्यत आह ।। तर्हीति ।। कदाचित् उत्पत्तेः पूर्वं कुत्रचित् स्वोपादाने असतः एव घटादेः सत्त्वं दृष्टम् । अन्यथाऽसतः सत्तासम्बन्धरूपा जनिर्न सिध्येत् । एवं च नित्यसर्वगतानां गगनादीनां कदाचित् कुत्रचित् । असत्वाभावेन सत्वं न स्यादिति प्रतिबन्दीमुत्तरेदित्यर्थः ।
ननु कादाचित्कसत्त्वस्यैव कदाचिदसत्वपूर्वकत्वापेक्षा न तु कालत्रयेऽपि विद्यमानत्व-रूपात्यन्तसत्वस्य । गगनादीनां सत्वं तु कालत्रयेऽपि सत्वेनात्यन्तिकम् । अतो न तत्र कदाचिदसत्वापेक्षेति चेत् तर्हि कदाचित् कुत्रचिदसत एव सत्वसापेक्षत्वेऽपि यदात्यन्तिक-मसत्वं त्रैकालिकनिषेधप्रतियोगित्वरूपं तत् कदाचित् कुत्रचित् प्रतियोगिसत्वसापेक्षं न भवतीत्याह ।। आत्यन्तिकमिति ।। अन्यथेति ।। कदाचित् क्वचित् सत एवात्यन्ता-भावप्रतियोगित्वं दृष्टमिति दर्शनमाश्रित्यात्यन्तासतश्च तथात्वाभावात् नात्यन्ताभाव-प्रतियोगित्वमिति यद्युच्यते तर्हि वयमपि वदामः योऽभावः सः स्वाधिकरणे प्रतियोगि-सत्वसापेक्ष इति ध्वंसे दर्शनात् अत्यन्ताभावोऽपि स्वाधिकरणे प्रतियोगिसत्वसापेक्षः स्यात् । न चेष्टापत्तिः घटात्यन्ताभाववति तन्तौ कदाचिदपि घटसत्त्वाभावात् । तथाऽत्यन्ताभावोऽपि स्वयं यस्मिन् कालेऽस्ति तस्मिन्नेव काले अन्यत्र प्रतियोगिसत्वसापेक्षः दृष्टः, यथा तन्तौ घटात्यान्ताभावकाले मृत्पिण्डे घटसत्वदर्शनं, भूतलप्रदेशेऽपि विद्यमानघटस्यैव देशान्तरेऽ-त्यन्ताभावस्य तार्किकैरुच्यमानत्वात् । अतः तद्वत् ध्वंसोऽपि स्वकाले प्रतियोगिसत्वसापेक्षः स्यादित्यतिप्रसङ्ग इत्यर्थः । तथा च त्वया ध्वंसस्य स्वाधिकरणे प्रतियोगिसत्वसापेक्षत्वेऽपि अत्यन्ताभावस्य तन्नास्ति । अत्यन्ताभावस्य स्वकालेऽन्यत्र प्रतियोगिसत्वसापेक्षत्वेऽपि ध्वंसस्य तन्नास्ति । एकस्य हि स्वभावोऽन्यस्य नास्तीति नियम इत्युतरं वाच्यम् । तत् प्रकृतेऽपि तुल्यम् । कदाचित् कुत्रचित् सत एव घटादेरत्यन्ताभावप्रतियोगित्वेऽपि नासतस्तत् । तस्य तु कदाऽप्यसत एवात्यन्ताभावप्रतियोगित्वमिति भावः ।
ननु प्रतियोगिनोऽसतोऽसत्वादेव कथं प्रतियोगित्वरूपो धर्मोऽस्तीति चेत् तत्राह ।। प्रतियोगिन इति ।। सत्वं च युक्तमित्यनेन सम्बन्धः ।। वर्तमानत्ववदिति ।। ध्वंसदशायां घटे ध्वंसप्रतियोगित्वमस्तीत्यादिव्यवहारादिवदित्यर्थः । तथाव्यवहारापलापे त्वाह ।। शशेति ।। असद्विषयकपरोक्षज्ञानव्यवहारयोः त्वयाऽङ्गीकृतत्वेन परोक्षज्ञानादि-विषयस्य शशशृङ्गादेरसत्वेऽपि तत्र विषयत्वस्य सत्वाङ्गीकारादिति भावः ।। असदिति ।। रूप्यादावसद्वैलक्षण्यमुच्यते । तत्रासद्वैलक्षण्यप्रतियोगिनोऽसतोऽसत्वेऽपि असद्वैलक्षण्यं प्रति प्रतियोगित्वस्य सत्वाङ्गीकारादित्यर्थः । ननु बाधगोचरस्य त्रैकालिकनिषेधप्रतियोगिनः सत्वात् तत्र प्रतियोगित्वं सदेवेति शङ्कापरिहारायोक्तं प्रतियोगिनः सद्विलक्षणत्वेऽपीति ।। त्वया निषेधप्रतियोगिनोऽनिर्वचनीयत्वाङ्गीकारात् सद्विलक्षणेऽपि निषेधप्रतियोगिनि प्रतियोगित्वस्य सत्त्ववदित्यर्थः ।। इहापीति ।। अत्यन्ताभावप्रतियोगित्वमपि न धर्मिसत्ता-सापेक्षमिति असतोऽपि तद्युक्तमित्यर्थः ।। तत्प्रतियोगिकत्वमेवेति ।। ध्वंसादौ घटप्रतियोगिकत्वमेव वर्तमानं न तु ध्वंसप्रतियोगिनि घटे तत्प्रतियोगित्वं वर्तमानं, तथाऽ-सद्वैलक्षण्येऽसद्प्रतियोगिकत्वमेव सत्, न त्वसति तत्प्रतियोगित्वं सत्, असद्विषयकज्ञाने चासदिषयकत्वमेव सत् न तु ज्ञानविषये विषयत्वं सदिति विवेकेनान्वयो द्रष्टव्यः ।
तत्प्रतियोगिकत्वमिति ।। असत्प्रतियोगिकत्वमेव सत् न त्वसति तत्प्रतियोगित्व-मित्यस्त्वित्यर्थः । एवं परोक्तरीत्यैवोत्तरं वाच्यमिति ‘अभाव एव तत्प्रतियोगिकत्वं सत् नासति तत्प्रतियोगित्वम्’ इत्यभिहितम् । वस्तुतस्तु प्रतियोगित्वस्य धर्मिसत्तासापेक्षत्वा-भावादसतोऽपि प्रतियोगित्वं युक्तमित्येव सिद्धान्तः । तथा हि प्रतियोगित्वं नाम स्वाभाव-विरहस्वरूपत्वम् । यथोक्तं पदार्थविद्भिः स्वाभावविरहः प्रतियोगीति । न ह्यसतः स्वाभावविरहस्वरूपत्वं युक्तम् । असतो निःस्वरूपत्वात् । अतो न प्रतियोगित्वमिति चेत् न । प्रतियोगिनः स्वाभावविरहलक्षणत्वाभावात् । तथात्वे सादृश्यपृथक्त्वयोरपि सप्रतियोगि-कत्वेन सादृश्यपृथक्त्वप्रतियोगिनि स्वाभावविरहात्मकत्वाभावादव्याप्तिःस्यात् । न च तत्रापि स्वाभावविरहात्मकत्वमस्तीति वाच्यम् । यत्प्रतियोगित्वं तद्विरहात्मकत्वस्यैव वाच्यत्वा-दित्याशयेनाह ।। न चेति ।। तर्हि किं प्रतियोगित्वमिति पृच्छति ।। किंत्विति ।। उत्तरमाह ।। तद्ज्ञानेति ।। अत्राभावज्ञानहेतुभूतज्ञानविषयत्वमित्यर्थः । अभावज्ञानेऽधि-करणज्ञानस्यापि कारणत्वादातिव्याप्तिरित्यत उक्तम् ।। ज्ञानविशेषेति ।। अधिकरणज्ञान-भिन्नमित्यर्थः । तथा च अधिकरणज्ञानभिन्नाभावज्ञानहेतुभूतज्ञानविषयत्वं प्रतियोगित्व-मित्युक्तं भवति ।। तच्चेति ।। असतोऽपि ज्ञानविषयत्वं तूपपादितं प्रागिति भावः । यद्यभावविरहत्वं प्रतियोगित्वमिति लक्षणं विवक्षितं, असतः तदभावात् न प्रतियोगित्व-मित्यङ्गीकारः तदा बाधकमाह ।। अन्यथेति ।। अभावं प्रत्यवधित्वम् । यत्सत्ता-दशायामभावो नास्ति तदेव प्रतियोगित्वम् । प्रागभावध्वंसप्रतियोगिनोरेतादृशप्रतियोगित्व-सद्भावादित्यर्थः ।। निरवधिकेति ।। ‘यत्सत्तादशायामभावो नास्ति’ इति वक्तुं न शक्यते । अत्यन्ताभावस्य सदातनत्वात् । अतः तत्प्रतियोगिनि निरुक्तलक्षणाभावात् निष्प्रतियोगिक एव सः स्यादित्यर्थः । अतः परमसत्प्रतियोगिकात्यन्ताभावज्ञानमेव न सम्भवतीत्यत्र प्रकारान्तराण्याशङ्क्य निराकर्तुमुत्तरो ग्रन्थसन्दर्भः ।। स्मृतीति ।। अभावज्ञाने प्रतियोगिस्मरणस्य कारणत्वात् स्मरणस्य चानुभवजन्यत्वात् असतश्चाननुभूतत्वेन संस्कारा-भावेन स्मृत्यभावात्, स्मृतिरूपकारणाभावेन नासत्प्रतियोगिकाभावज्ञानमित्यर्थः । एतेनेत्युक्तं विशदयति ।। शब्देति ।। शशशृङ्गाभावनिश्चयेनायोग्यतानिश्चयसद्भावात् शब्दाभासात् ज्ञानमेव न जायत इति तु प्रत्युक्तम् । येन पुंसा शशशृङ्गाभावो न निश्चित तस्य शशशृङ्गमस्तीति वाक्यादपि ज्ञानोत्पत्तेरनुभवसिद्धत्वादित्युक्तत्वादिति भावः ।
ननु तथाऽपि नासत्प्रतियोगिकात्यन्ताभाव एवाङ्गीकर्तुमुचितः । तद्ज्ञानं तु दूरतोऽ-पास्तम् । तथात्वेऽत्यन्ताभावस्याप्रामाणिकत्वापत्तेः, तन्निरूपकस्य प्रतियोगिनोऽप्रामाणि-कत्वादिति चेन्न । तथात्वे इदं रूप्यमिति भ्रमविषयस्य रूप्यस्याप्रामाणिकत्वात् तद्विषयक-ज्ञानस्वरूपस्याप्यप्रामाणिकत्वापत्तेः । ‘एतावन्तं कालं भ्रम आसीत्’ इत्यनुभवेन तस्य प्रामाणिकत्वावगमश्चेत् प्रकृतेऽपि तथोपपत्तेरित्याह ।। भ्रमेति ।। ननु दृष्टान्तोऽसम्प्रति-पन्नः भ्रमविषयस्यापि प्रामाणिकत्वात्, प्रामाणिकत्वं हि प्रमाणस्पृष्टत्वम् इति चेत् तथासति असतोऽपि ‘असन्नास्तीति ज्ञानवानहं’ इति प्रमाणस्पृष्टत्वेन प्रामाणिकत्वापत्तिः । अतः प्रमाणस्पृष्टत्वमेव न वाच्यं, किं तु सत्त्वेन प्रमाणस्पृष्टत्वं प्रमाणिकत्वं वाच्यम् । इदं च न भ्रमविषये रूप्येऽस्ति । अनुव्यवसायस्य व्यवसायावगाहित्वेन व्यवसायविषयीभूतरूप्यांशे उदासीनतया तत्सत्वानवगाहित्वेन सत्त्वेन प्रमाणास्पृष्टत्वस्य भ्रमविषये सद्भावात् युक्तं भ्रमविषयवच्चेति दृष्टान्तकथनमित्याह ।। नहीति ।।
नन्वथाऽपि असत्प्रतियोगिकाभावग्रहो न सम्भवति । अभावग्राहिकाया योग्यानुपलब्धेरत्र योगादित्याशयेनाह ।। नन्विति ।। अयमत्र खण्डार्थः असदभावग्रहो न युक्तः तद्ग्राहिकायाः योग्यानुपलब्धेरभावात् । योग्यानुपलब्धिर्नाम न योग्यस्यानुपलब्धिः । तथात्वे जलपरमाणौ पृथित्वाभावप्रत्यक्षः स्यात् । पृथिवीत्वस्य घटादौ योग्यत्वात् । अतो योग्या चासावनुप-लब्धिश्चेति योग्यत्वमनुपलब्धेर्विशेषणमिति वक्तव्यम् । अनुपलब्धेर्योग्यत्वं नाम याव-त्प्रतियोग्युपलम्भकचक्षुरादिसामग्रीसमवधाने याऽनुपलब्धिः । नन्वेवं यावत्प्रतियोग्युपलम्भ-सामग्रीमध्ये प्रतियोगिसत्वस्यापि प्रविष्टत्वात्प्रतियोगिसत्त्वघटितयावत् प्रतियोग्युपलम्भ-सामग्रीसत्वे प्रतियोग्युपलब्धेरेव प्राप्त्या ‘याऽनुपलब्धिः’ इत्युक्तानुपलब्धेरभावात् । अतः प्रतियोगीतरेति सामग्री विशेषणीया ।
नन्वथाऽपि प्रतियोगीतरा या प्रतियोग्युपलम्भकसामग्री प्रतियोगिव्याप्यप्रतियोगीन्द्रिय-सन्निकर्षरूपा । तस्यां सत्यां प्रतियोगिसत्वस्यैव प्राप्त्या प्रतियोग्युपलब्धेः प्राप्तो तदनुप-लब्धेरसम्भवात् प्रतियोगिव्याप्येतरेत्यपि विशेषणीया। प्रतियोगिव्याप्यो यः सन्निकर्ष तदितरेत्यर्थः । एवं च न जलपरमाणौ पृथिवीत्वाभावप्रत्यक्षः । पृथिवीत्वतद्व्याप्य-सन्निकर्षेतरयावत्तदुपलम्भसामग्री नास्ति । जातेः प्रत्यक्षयोग्यतायां व्यक्तियोग्यत्वस्य तन्त्रत्वात्, तस्यापि सामग्रीत्वात् । पृथिवीत्वजातिं प्रति जलपरमाणोरयोग्यत्वात् । एवं चाभावग्राहकनिरुक्तयोग्यानुपलब्धेरभावात् न जलपरमाणौ पृथिवीत्वाभावः प्रत्यक्षः । एवं च प्रकृते नासदभावः प्रत्यक्षः । प्रतियोगिव्याप्येतरयावत्तदुपलम्भसामग्रीसमवधाने याऽनुपलब्धिः तद्रूपाया योग्यानुपलब्धेरभावात् । तथाहि या असद्व्याप्येतरयावदसदुपलब्धिसामग्री सा न प्रमाणरूपा सम्भवति बाधात् । अतो दोषघटितैव सा वाच्या । तथा च यदसद-व्याप्येतरयावदसदुपलम्भकसामग्री दोषघटिताऽस्ति चेत्तर्हि असुदुपलम्भ एव स्यात् । दोष-घटितसामग््रया बलवत्वात् । अतो याऽपलब्धिरित्युक्ता योग्यानुपलब्धिर्न सम्भवति । तथा च नाभावग्रहः । यदि च सामग््रयां दोषमप्रवेश्यऽसदनुपलम्भोऽङ्गीक्रियते तर्हि प्रतियोगि-व्याप्येतरयावत्तदुपलम्भसामग््रयेव नास्ति दोषस्याभावात् । अतः सामग््रया एव शून्यत्वेन तत्समवधाने यानुपलब्धिरित्युक्ता योग्यानुपलब्धेरभावेन नासदभावग्रहो युक्त इति । इदमनु-पपन्नम् । तथा हि, नेयमाचार्याया योग्यानुपलब्धिर्युक्ता । तथात्वे संयोगध्वंसस्या-प्रत्यक्षत्वापत्तेः । तत्र ध्वंसरूपाभावग्राहकयोग्यानुपलब्धेरभावात्। संयोगध्वंसप्रतियोगिभूत-संयोगव्याप्येन्द्रियसन्निकर्षेतरयावत्सम्योगोपलम्भकसामग्रीमध्ये सम्योगिप्रत्यक्षस्यापि प्रविष्ट-त्वात् । सम्योगिनोः प्रत्यक्षेत्वे सम्योगप्रत्यक्षावश्यम्भावात् संयोगिप्रत्यक्षघटितसंयोगोप-लम्भकसामग्रीसमवधाने सम्योगानुपलब्धेरसम्भवेन योग्यानुपलब्धेरभावात् सम्योगध्वंसस्या-प्रत्यक्षत्वापत्तिः । अतो या ह्यनुपलब्धि यत्र यत्सत्वविरोधिनी सैव योग्यानुपलब्धिः । प्रतियोगिसत्वप्रसञ्चितोपलब्धिप्रतियोगिकानुपलब्धिरेव योग्यानुपलब्धिरिति यावत् । प्रतियोगिसत्वं च तर्कितं यत्प्रतियागिसत्वं, ‘भूतले घटोऽस्ति चेत्’ इत्येवंरूपं तत्प्रसञ्जिता या उपलब्धिः ‘उभलभ्येत’ इत्येवंरूपा, तत्प्रतियोगिकानुपलब्धिर्हि योग्यानुप-लब्धिः । एवं च जलपरमाणौ पृथिवीत्वाभावे सत्यपि स न प्रत्यक्षः । ‘यदि जलपरमाणौ पृथिवीत्वं तर्हि उपलभ्येत योग्यव्यक्तिवृत्तिजातेर्योग्यत्वादित्येवं रूपेणोपलब्धिः आपादनीया । सा च न सम्भवतीति ज्ञेयम् । एतादृशी चाभावग्राहकानुपलब्धिरसत्यपि शशशृङ्गादावस्त्येव, ‘शशशृङ्गमस्तीति चेत् तर्हि शृङ्गस्य महत्वसमानाधिकरणोद्भूतरूपवत्वेन योग्यत्वादुलब्धिः स्यात्, नोपलभ्यते तस्मान्नास्ति’ इत्येवं योग्यानुपलब्ध्याऽसदभावग्रहो युक्त एवेति । अक्षरार्थस्तु वक्ष्यमाणकुसुमाञ्जलिश्लोकव्याख्यानं ‘असति च इत्यादि । सा वाच्या, योग्याता वाच्या ।। दुष्टेति ।। दुष्टा, दोषसहिता या उपलम्भकसामग्रीत्यर्थः । तस्यां दोषयुक्तोप-लम्भसामग््रयां सत्याम् ।। नेति ।। दोषघटितसामग््रया बलवत्वादिति भावः ।। नास्तीति ।।
सामग््रयां दोषमप्रवेश्यानुपलम्भे प्रोच्यमाने सति सा योग्यतैव नास्ति । दोषस्य न्यूनत्वेन यावत्तदुलम्भकसामग््रया अभावादित्यर्थः । तथा च योग्यतायां सत्यां नानुपलब्धिः । अनुप-लब्धौ च न योग्यतेति भावः ।। नेति ।। आचार्यीययोग्यानुपलब्धेः संयोगध्वंसस्याप्रत्यक्ष-त्वापत्त्याऽयुक्तत्वादिति भावः ।। या हीति ।। तार्कितप्रतियोगिसत्वप्रसञ्जितोपलब्धि-प्रतियोगिकानुपलब्धिर्हि योग्यानुपलब्धिरित्यत्र तात्पर्यम् ।। उद्भूतरूपशृङ्गेति ।। महत्व-समानाधिकरणोद्भूतरूपवत् शृङ्गमित्यर्थः । नन्वथापि असदत्यन्ताभावग्रहो न प्रत्यक्षेण युक्तः । अभावप्रत्यक्षत्वे प्रतियोगिप्रत्यक्षत्वस्य तन्त्रत्वात् । प्रतियोगिनोऽसतश्चा-प्रत्यक्षत्वादित्याशङ्क्याह ।। न हीति ।। किमन्योन्याभावप्रत्यक्षत्वे प्रतियोगिप्रत्यक्षत्वं तन्त्रम्? उतात्यन्ताभावप्रत्यक्षत्वे? नाद्यः, व्यतिरेकव्यभिचारादित्याह ।। स्तम्भेति ।। न द्वितीयः, अन्वयव्यभिचारादित्याह ।। जलपरमाणाविति ।। अन्यथेति ।। प्रतियोगि-प्रत्यक्षत्वस्याभावप्रत्यक्षत्वं प्रति तन्त्रत्वमङ्गीकृत्यासतः प्रत्यक्षाविषयत्वात् न तदभावः प्रत्यक्ष इत्यङ्गीकारे शशशृङ्गं नास्तीत्यबाधितप्रत्यक्षधीः कथं स्यात् । अतो घटात्यन्ता-भावस्थले तथा नियमेऽपि, अत्र प्रतीतिबलादेवासतः प्रत्यक्षयोग्यत्वाभावेऽपि तदत्यन्ता-भावस्य प्रत्यक्षत्वं कल्पनीयमिति भावः ।
नन्वत्र यदि शशीयत्वावच्छिन्नं शृङ्गं निषेध्यं भवति तर्हि शशशृङ्गं नास्तीति कथं प्रतीतिरिति चेत् न । शशशृङ्गं नास्तीति शशरूपेऽधिकरणे शृङ्गमात्रस्यैव निषेध्यत्वात्, तस्य च प्रसिद्धत्वादित्येवं मणिकृदुक्तं प्रतीतेरन्यथासिद्धिमाशङ्क्य निराकरोति ।। न चेति ।। शशेति ।। शशशृङ्गशब्दस्य ‘शशे शृङ्गम्’ इत्यर्थकत्वे ‘शशशृङ्गोल्लिखिता भूः’ इत्यादावपि विशकलितपदार्थानां प्रसिद्धत्वादप्रसिद्धविशेषणत्वं न स्यादित्यर्थः ।। गवीति ।। अस्त्वेवं यत्र शशशृङ्गं नास्तीति प्रतीतिः । यत्र गवि शशशृङ्गं नास्तीति प्रतीतिः तत्र कथम्? शशीयत्वावच्छिन्नशङ्गस्य निषेधप्रतीतेः । अन्यथा गोपदार्थानन्वयप्रसङ्गादित्यर्थः । एतेन गवाधिकरणकशृङ्गे शशीयत्वं नास्तीत्यर्थः । तेन न गोपदार्थानन्वय इति निरस्तम् । गोरेवात्राधिकरणत्वप्रतीतेः । अन्यथा सप्तम्युपमर्दापत्तेरिति द्रष्टव्यम् । अस्तु वा शशे शृङ्गं नास्तीत्येव प्रतीतिः । तथाऽपि असत एव निषेध्यत्वम् । ‘भूतले घटो नास्तीत्यत्र घटो न निषिध्यते, किं तु तत्संसर्ग एव स चासन्नेव’ इति कैश्चिदङ्गीकारात् । इह बिले शशशृङ्गं नास्तीत्यत्र शृङ्गं न निषिध्यते, किन्तु तत्संसर्ग एव स चासन्नेवेति असत एव निषेध्यत्व-मिति युक्तमित्याह ।। शशशृङ्गमिति ।। ननु अत्र घटमात्रं निषिध्यते न संसर्ग इति नासत्प्रतियोगित्वमित्यत आह ।। अन्यथेति ।। सत्त्वेति ।। निषेधाप्रतियोगित्वस्य सत्वादिति भावः ।। इतिवदिति ।। गवीयत्वावच्छिन्नशृङ्गस्य यथा निषेध्यत्वं तद्वदित्यर्थः । विशिष्टस्य शशीयत्वावच्छिन्नशृृङ्गस्य निषेधप्रतियोगित्वप्रतीतेरित्यर्थः ।
ननु न विशिष्टस्य शशशृङ्गस्याभावग्रहो युक्तः । तत्कारणस्य प्रतियोगिस्मृतियोग्यानुप-लब्ध्यादेरभावादित्यत उक्तम् ।। उक्तरीत्येति ।। ‘शब्दाभासादिनाऽनुभूतस्य स्मृतिसम्भवात्’ इत्युक्तरीत्येत्यर्थः ।। अन्यथेति ।। शशे शृङ्गं नास्तीत्यर्थे इत्यर्थः । ननु शशे शृङ्गं नास्तीत्येवार्थो वाच्यः । न तु शशीयत्वरूपव्यधिकरणधर्मावच्छिन्नशृङ्गाभावः । तथात्वे व्यधिकरणधर्मावच्छिन्नाभावग्रहस्यैवासम्भवात् । तथा हि न तावत् प्रतियोगिज्ञानमात्र-मभावज्ञाने कारणम् । प्रतियोगिनिर्विकल्पकादप्यभावधीप्रसङ्गात् । किं तु प्रतियोगिता-वच्छेदकप्रकारक प्रतियोगिज्ञानम् । न च शशीयत्वरूपप्रतियोगितावच्छेदकप्रकारकशृङ्गरूप-प्रतियोगिज्ञान मस्त्येवेति वाच्यम् । प्रतियोगिनि विद्यमानप्रतियोगितावच्छेदकप्रकारक-प्रतियोगिज्ञानस्यैवाभावधीहेतुत्वात् । अत्र च शशीयत्वरूपप्रतियोगितावच्छेदकस्य शृङ्गरूपे प्रतियोगिन्यसत्त्वात् एतादृश्या अभावज्ञानसामग््रया अभावात् न व्यधिकरणधर्मावच्छिन्ना-भावग्रहो युक्तः। अतो शशशृङ्गं नास्तीत्येवार्थो वाच्यः । तथा च नासतो निषेधप्रतियोगित्व-मिति चेन्न । प्रतियोगितावच्छेदकप्रकारकप्रतियोगिधीरेवाभावधीहेतुः, न तु प्रतियोगिता-वच्छेदके ‘प्रतियोगिनि विद्यमान’ इति विशेषणं, गौरवात् । तथा च प्रतियोगितावच्छेदका-वच्छिन्नप्रतियोगिज्ञानं शशीयशृंगमिति शब्दाभासात् भविष्यत्येव ।
ननु कुत्रापि जगति शशीयत्वावच्छिन्नशशशृङ्गस्याप्रसिद्धत्वेन शशीयत्वावच्छिन्ने शृङ्ग-पदस्य शक्तिग्रहभावात् कथं शब्दाभासात् शशीयत्वावच्छिन्नशशशृङ्गज्ञानमिति चेन्न । शशीयत्वशृङ्गयोः जगति प्रसिद्धत्वेन तयोः शब्दयोः तत्र शक्तिग्रहसद्भावात् ‘शशीयं शृङ्गम्’ इति वाक्याभासादपूर्वार्थोपस्थितिरेव भवति । यौगिकपदशक्तिग्रहस्थलेऽयमेव हि न्यायः । एवं च प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य भ्रमरूपस्य सम्भवात् व्यधिकरणधर्मा-वच्छिन्नस्य शशीयत्वावच्छिन्नशृङ्गस्य विशिष्टस्यात्यन्तासतोऽभावज्ञानं सम्भवत्येवेत्याह ।। एतेनेत्यादिना ।। किं त्विति ।। प्रतियोगितावच्छेदके प्रतियोगिनि विद्यमानत्वविशेषणं देयम् । अन्यथोत्तरत्र सामग््रयभावोपपादनमयुक्तं स्यादिति ध्येयम् ।। सामग््रयभावादिति ।। प्रतियोगिनि विद्यमानप्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानरूपाया अभावधीसामग््रया अभावरूपात् बाधकादित्यर्थः ।। व्यधिकरणेति ।। शशीयत्वावच्छिन्नशृङ्गस्य विशिष्ट-स्याभावधीरित्यर्थः । एतेनेत्युक्तं विशदयति ।। शब्दाभासेति ।। अत्र प्रतियोगिनि विद्यमान इति विशेषणं गौरवेणाविवक्षितमिति वक्तव्यम् । अन्यथा प्रतियोगिनि विद्यमानत्वरूप-विशेषणविशिष्टस्य शब्दाभासादिनाऽनुपस्थितेरिति ध्येयम् ।। अन्यथेति ।। प्रतियोगित्वस्य धर्मिसत्तासापेक्षत्वेन शशीयत्वावच्छिन्ने शृङ्गेऽसति निषेधप्रतियोगित्वाभावात् शशे शृङ्गं नास्तीति प्रतीतिव्याख्यान इत्यर्थः ।। तन्तुष्विति ।। इह तन्तुषु पटो नास्तीति पटप्राग-भावध्वंसयोः प्रतीतिः तावदस्ति । तन्तुसम्बद्धः पटो नास्तीति तदर्थः । एवं च प्रागभावादि-प्रतियोगित्वं पटे प्रतीयते । तदयुक्तम् । प्रागभावादिदशायां तत्प्रतियोगिनः पटस्याभावेन त्वद्रीत्या धर्मिसत्तासापेक्षत्वेन प्रागभावप्रतियोगित्वस्य तत्रायोगात् । अतस्तत्रापि तन्तुषु पटो नास्तीति प्रागभावादिप्रतीतेरेवमर्थं कल्पयामः तन्तुसमवेते पटत्वं नास्तीति । एवं व्याख्यानेऽपि प्रागभावादिप्रतीतिस्तावत् प्राप्तैव । तन्तुगतगुणकर्मादिरूपधर्मस्यापि तन्तु-समवतत्वेन तन्तुसमवते सर्वत्र पटत्वं नेत्युक्त्याऽधुनाऽपि तन्तौ पटो नोत्पन्नः, ध्वस्तो वेति प्रतीतेः । तथा च नास्तीति प्रतीयमानप्रागभावादिकं प्रति पटत्वस्यापि प्रतियोगित्वेन तस्य च प्रागभावादिसमानकालीनत्वात् सर्वत्र प्रागभावादेरपि प्रतियोगिसमानकालीनत्वं स्यात् । तस्मात् त्वयैवं समाधानं वाच्यं नैवं प्रतीतिर्व्याख्येया । प्रागभावादिकालेऽसतोऽपि पटादेः तत्प्रतियोगित्वसम्भवात् । तस्य च धर्मिसत्तानिरपेक्षत्वादिति । समः सः मत्पक्षेऽपि ।। सप्तमेति ।। तथा हि वैशेषिकमते ‘सप्तमो भावपदार्थो नास्ति’ इत्यत्र सप्तमभावस्य सिद्धत्वे निषेधायोगात् । असिद्धत्वे तु सुतरां तस्य निषेधप्रतियोगित्वं न सम्भवतीति सिद्ध्यसिद्धिभ्यां व्याघातभिया ‘द्रव्यादिषण्णां यत् लक्षणं तदत्यन्ताभावे भावत्वसामानाधि-करण्यं नास्ति’ इत्यर्थः कल्प्यते । भावत्वसामानाधिकरण्यस्य द्रव्यत्वादौ सिद्धत्वेन तन्निषेधसम्भवात् । एवमर्थकल्पने ‘द्रव्यादिषट्लक्षणशून्यः भावो न’ इति सप्तमभावनिषेधो लभ्यत एवेति । एवमर्थकल्पनमप्यनेनैव निरस्तमित्यर्थः । एतेनेत्युक्तमेव विशदयति ।। शुक्तिरूप्येति ।। तादात्म्यारोपे तु तादात्म्यवत्, संसर्गारोपे च संसर्गवदित्यर्थः ।। कुसृष्टीति ।। उक्तरीत्याऽर्थान्तरकल्परूपकुसृष्टीत्यर्थः । इतोऽप्यसत एव निषेध-प्रतियोगित्वमित्याह ।। किं चेति ।।
ननु संसर्गस्य निषेध्यत्वं नवीनतार्किकैर्नाङ्गीकृतम् । तैर्घटस्यैव निषेध्यत्वाङ्गीकारात् । घटो ह्यारोप्य निषिध्यते, तत्र संसर्गस्त्वारोप्यकोटिप्रविष्टसम्बन्धमात्रं, तत्र निषेधस्य नान्वय इत्यङ्गीकृतत्वादिति चेत् तत्राह ।। इहेति ।। किञ्च ‘इह भूतले घटोऽस्ति’ इति बुद्धिस्तावत् घटसंसर्गविषयिणी । अतो ‘भूतले घटो नास्ति’ इति बुद्धिरपि तदभाव-विषयिणीत्वेव वक्तंु युक्तमित्याह ।। भूतल इति ।। असतः संसर्गस्यैव निषेधप्रतियोगित्वं वक्तव्यमित्याह ।। किञ्चेति ।। अयमिति ।। इह भूतले घटो नास्तीत्यत्र प्रतीयमानोऽभाव इत्यत्र ।। प्रतियोगीति ।। प्रागभावध्वंसयोः प्रतियोग्यसमानकालीनत्वात्, अस्य चाभावस्य तस्मिन्नेव काले घटस्यान्यत्र सत्त्वेन प्रतियोगिसमानकालीनत्वात् नायमभावः प्रागभावादि-रित्यर्थः ।। कदाचिदिति ।। तथा च न त्रैकालिकनिषेधो युक्त इत्यर्थः । नन्वयमत्यन्ता-भाव एव । न च कदाचित् तत्र घटस्य सत्त्वेन नायमत्यन्ताभाव इति वाच्यम् । एतत्कालावच्छेदेन प्रतीयमानो घटाभावो घटात्यन्ताभाव एव । कदाचित् घटस्य सत्वेऽपि घटाभावज्ञानकाले तु घटो नास्त्येव । एतत्कालावच्छिन्नो घटस्तावदिदानीं नास्त्येव । पूर्वं तु एतत्कालावच्छिन्नो घटो न भूतः । उत्तरत्रापि एतत्कालावच्छिन्नो घटो न भविष्यति । एवमेतत्कालावच्छिन्नस्य कालत्रयेऽप्यभावादिति चेन्न । तथात्वेऽत्यन्ताभावातिरिक्तप्राग-भावादिविलोप एव स्यात् । इदानीं मृत्पिण्डे घटाभावदशायां घटो नास्तीति हि प्रागभावप्रतीतिः । न ह्येतत्कालीनो घटो कालत्रयेऽप्यस्तीत्ययमपि अत्यन्ताभाव एव स्यादित्याह ।। यदि चेति ।। तस्मात् ‘इह भूतले घटो नास्ति’ इत्यत्र घटस्य न निषेध्यत्वं, किन्तु तत्संसर्गस्यैव । तर्ह्ययं संसर्गप्रतियोगिकोऽभावः प्रागभावादीनां मध्ये क इति चेत् तत्राह ।। संयोगस्येति ।। घटसंसर्गो निषिध्यत इति वदतो अस्मान् प्रति ‘कोऽयमभाव’ इति प्रष्टा प्रष्टव्यः अत्र भूतले घटसंसर्गो अतीतः, उत भावी कदाऽपि नास्तीति वा? आद्ये भूतले धटसम्योगस्यातीतत्वे इदानीं प्रतीयमानोऽभाव अतीतः, उत भावी कदाऽपि नास्तीति वा? आद्य भूतले घटसंयोगस्यातीतत्वे इदानीं प्रतियमानोऽभाव-संसर्गध्वंस इति वदामः । तस्य भावित्वे प्रागभावः । कदाप्यभावे प्रतियोगिनोऽप्रामाणिकत्वा-पत्त्याऽत्यन्ताभाव इति । एवं संसर्गस्यैव निषेध्यत्वात् तस्य चासत्वात् असत एव संसर्गस्य निषेधप्रतियोगित्वसिद्धिरिति भावः । किं च घटस्यैव निषेध्यत्वे घटो नास्तीत्येव प्रतीतिः स्यात् । न तु ‘इह भूतले घटो नास्ति’ इति । अतो ज्ञायते संसर्गस्यैव निषेध्यत्वमिति ।
ननु तर्हि भवत्पक्षेऽपि ‘संसर्गो नास्ति’ इत्येव प्रतीतिः स्यादिति चेन्न तस्य ससम्बन्धिकपदार्थत्वेन सम्बन्धिनां विना कदाऽप्यप्रतीतेः न चैवं घट इत्येवं घटसंर्गस्यैव निषेध्यत्वसिद्धिरित्याशयेनोक्तम् ।। सिद्धिरिति ।। ननु ससर्गस्य निषेध्यत्वेऽपि न तस्या-सत्वं, यत्र देशे घटोऽस्ति तत्र भूतलसंसर्गस्य घटे सत्त्वेन तत्रत्यः सन्नेव संसर्गः इह निषिध्यत इत्याशङ्क्य निराकरोति ।। न चेति ।। तस्यापीति ।। सतः घटसंसर्गस्या-पीत्यर्थः । घटतुल्यत्वेन घटादन्यत्र सत्त्वेनेत्यर्थः । विकल्पप्रसरादिति ।। भूतले घटो नास्तीत्यत्र प्रतीयमानः, घटे विद्यमानस्य घटतुल्यस्य घटसंसर्गस्याभावो न तावत् प्रागभावो ध्वंसो वा । अस्याभावस्य प्रतियोगिनः संसर्गस्यान्यत्र घटे सत्त्वेन, प्रतियोगिसमान-कालीनत्वात् । नाप्यन्ताभावः कदाचित्तत्र घटसंसर्गस्य सत्वादित्येवं विकल्प्य दूषणप्रसरेणा-सत एव संसर्गस्य निषेध्यत्वसिद्धिरिति भावः ।
ननु तर्हि ‘इह भूतले घटो नास्तीति प्रतीयमानाभावस्यात्यन्ताभावत्वे तस्य सदातन-त्वात् घटसद्भावकालेऽपि प्रतीतिः स्यादित्यत आह ।। घटकाले त्विति ।। घटसंसर्गकाल इत्यर्थः । ननु भूतलघटात्यन्ताभावयोः कःसम्बन्धो यदभावात् घटकालेऽत्यन्ताभावो न प्रतीयत? इत्यत आह ।। घटात्यन्ताभावस्येति ।। घटभूतलसंयोगध्वंस एव भूतलघटा-त्यन्ताभावयोः सम्बन्धः । तदभावात् न घटकालेऽत्यन्ताभावो भाति । घटसंयोगनाशे च सम्बन्धस्य प्राप्तत्वात् अत्यन्ताभावः प्रतीयत इत्यर्थः ।
ननु भूतलघटसंयोगोत्पत्तेः पूर्वं घटात्यन्ताभावोऽस्ति। तदा कः सम्बन्धः? न हि घट संसर्गध्वंसो वक्तुं शक्यः । तस्यानुत्पन्नत्वादिति चेत् न । तदानीं भूतलघटसंसर्ग-प्रागभावस्यैव भूतलघटात्यन्ताभावसम्बन्धत्वात् । घटसंसर्गोत्पत्यनन्तरं सम्बन्धाप्राप्त्या न प्रतीयत इत्याशयेन ध्वंसादिरित्यत्रादिपदं प्रयुक्तमिति ध्येयम् ।। विशिष्टान्तरेति ।। विशिष्टस्य विशेषणाद्यतिरिक्तत्वमिति पक्षे दण्डरूपविशेषमसम्बन्धाभावदशायां विशिष्टस्य दण्डिनोऽभावो जायते, दण्डसम्बन्धे सति सोऽभावो नश्यति । तथा च विशिष्टान्तरस्येति केचित् । वयं पुनः प्रागभावादिभिन्नः उत्पत्तिविनाशशीलः संयुक्तघटाभावसंज्ञकस्तुरीयाभाव एवेति वदामः । केवलघटाभावत्वे पूर्वोक्तविकल्पप्रसरात् संयुक्तघटाभावोऽयमित्युच्यते । तुरीयाभावाङ्गीकारे का युक्तिरित्यत उक्तं प्रतियोगीत्यादि ।। यथा घटपटादिप्रतियोगिभेदेन तदभावभेदः एवं घटत्वपटत्वादिरूपप्रतियोगितावच्छेदकभेदेनाप्यभावभेदादिह संयुक्तघटत्व-रूपप्रतियोगितावच्छेदकभेदात् प्रागभावादित्वे न भवदुक्तबाधकसद्भावादन्य एवेत्यर्थः ।। अभावेति ।। घटात्यन्ताभावभूतलयोरित्यर्थः ।
कप्तः सम्बन्धः स्वरूपसम्बन्धः । तन्निर्वचनायोक्तम् ।। सम्बन्धान्तरमिति ।। तदुप-श्लिष्टस्वभावत्वं सम्बन्धस्वभावत्वम् ।। आवश्यकेति ।। भूतलघटात्यन्ताभावयोः सम्बन्ध-त्वेन भूतले घटसम्योगध्वम्सस्य तवाप्यावश्यकत्वात् तद्विषयकत्वेनैवाभावप्रतीत्युपपत्तौ घटसंयोगध्वंसादिरूपसम्बन्धसंयुक्तघटात्यन्ताभावकल्पनमप्रामाणिकमित्यर्थः ।। अन्यथेति ।। भूतलघटसंयोगध्वंसरूपसम्बन्धसंयुक्ततत्तघटात्यन्ताभावन्तरकल्पने इत्यर्थः ।। घटात्यन्ता-भावोऽपि केवलान्वयी स्यादिति ।। ननु कथं केवलान्वयित्वं कपालेष्वभावादिति चेत् न । कपालेष्वपि घटात्यन्ताभावोऽस्त्येव । तर्हि घटसद्भावदशायां प्रतीतिः स्यादिति चेत् न। सम्बन्धाभावात् । कपालघटात्यन्ताभावयोश्च घटकपालयोराश्रयाश्रयिभावध्वं०स एव सम्बन्धः । कपाले घटसद्भावकाले उक्तसम्बन्धाभावात् घटात्यन्ताभावः कपाले न प्रतीयते । कपाले घटध्वंसानन्तरं चोक्तसम्बन्धसद्भावात् प्रतीयते । न च तदत्यन्ताभावकल्पन-मप्रामाणिकमिति वाच्यम् । तत् प्रकृतेऽपि तुल्यमिति भावः ।। संयोगस्येति ।। भूतले घटो नास्तीत्यस्य संयक्तघटाभावविषयत्वे संयोगस्यापि निषेध्यकोटिप्रविष्टत्वात् असत एव संसर्गस्य निषेध्यत्वसिद्धेरित्यर्थः । ननु सम्युक्तघटोऽपि सन्नेव निषिध्यते ।
ननु तत्प्रयुक्तविकल्पप्रसर इति चेन्न । अत एवोत्पत्तिविनाशशीलः संयुक्तघटात्यन्ता-भावो विशिष्टान्तराभावोऽतिरिक्त इत्यङ्गीकारादित्युक्तमिति चेत् तत्राह । दण्डे सत्यपीति दृष्टान्ते विशेषणे सत्यपि विशेष्याभावेन दण्डिरूपविशिष्टस्याभावो दृष्टः । न चैवं प्रकृते सम्भवति । कुत इत्यत आह ।। भूतलेति ।। भूतलघटसम्योगदशायां घटस्यैव तत्र प्राप्त्या घटाभावाभावेन विशेष्याभावप्रयुक्तविशिष्टाभावायोगादित्यर्थः । यच्चोक्तं प्रतियोगिभेदेनेव प्रतियोगितावच्छेदकभेदेनाप्यभावभेदात् तुरीयाभावकल्पनमिति, तच्चायुक्तम् । तथात्वे एकघट प्रतियोगिकानां प्रागभावादीनां चतुष्ट्वं न स्यात् । प्रतियोगिभेदाभावात् प्रतियोगितावच्छेदक-भेदाभावाच्चेत्यालोचनीयम् । एवमत्यन्तासतोऽपि निषेधप्रतियोगित्वं समर्थयित्वोपसंहरति ।। तस्मादिति ।। तथा च तदन्यथाऽनुपपत्त्यानिर्वाच्यत्वं कल्पनीयमित्युक्तमसदिति भावः । इति अनिर्वाच्यत्वसाधकनिषेधप्रतियोगित्वान्यथानुपपत्तिभङ्गविवरणम् ।
न्यायकल्पलता
नवीनाद्वैतिमतं दूषयितुमुत्थापयति ।। नन्विति ।। असत्वस्येति ।। कालत्रयवर्तिन इति शेषः ।। प्रागभावादीति ।। यत्तु विद्यमानता दशायामेव घटादौ ध्वंसप्रतियोगित्वम् । न तु ध्वंसादिकाले । तदानीं घटादीनामेवासत्वादिति । तदाक्रोशमात्रम् । घटो भविष्यति घटो ध्वस्त इत्यादिप्रतीतेर्दुरपह्नवत्वात् । यस्त्वेवं वैय्यात्येनाक्रोशति । स तु गोप्ता यदूनां भविता तवात्मजः । कंसवधाख्यानमित्यादिवचश्च श्रावणीयः । योऽपि चानागतवर्त-मानातीतावस्थाः क्रमेणाविर्भावयन्तिरोभावयंश्चानिर्वाच्यो घटः कालत्रयेऽप्यनुस्यूत इति नः सिद्धान्त इति जल्पति । स तु करके भग्ने ज्ञातुं करकान्तरं मायिनाददीत ।। सत्त्वस्येति ।। ब्रह्मणि बाधप्रसङ्गस्त्वसद्विलक्षणत्वस्य बाध्यत्वे तन्त्रत्वेऽपि समान इति भावः । नन्व-निर्वाच्येऽपि सत्त्वमस्त्युुक्तम् । बाधानुपपत्तेः । पारमार्थिकसत्त्वाभावाद्बाधो युक्त इति चेत् । तर्हि पारमार्थिकसत्त्वाभावरूपमसत्त्वमेव बाध्यत्वात्सिद्धम् ।। अन्यथेति ।। कुत्रचित्सत एवान्यत्र सत्त्वमिति कल्पने ।। सत्त्वं चेति ।। युक्तमित्यनेनान्वीयते । भ्रमविषयोऽपि प्रामाणिक इत्याशङ्क्य निराचष्टे ।। न हीति ।। शङ्कते ।। नन्विति ।। दुष्टा ।। दोष-सहकृता । तस्यां दुष्टसामग््रयां सत्याम् । शशशृृङ्गानुपलम्भो नास्ति । तस्यैवोपलम्भात् । शृङ्गानुपलम्भने सा शृङ्गोपलम्भकसामग्री नास्ति । तथा च योग्यतायां नानुपलब्धिः । अनुपलब्धौ च न योग्यतेत्यर्थः ।। शृङ्गानुपलब्धिरिति ।। न चैवं शृङ्गाभावग्राहिण्येव योग्यता न तु शशशृङ्गाभावस्येति वाच्यम् । शृङ्गसामान्याभावग्रहसामग््रया एव विशेषाभावग्रह-सामग्रीत्वात् ।। अभावप्रत्यक्षत्व इति ।। अन्योन्याभावस्यात्यन्ताभावस्य च प्रत्यक्षत्व इत्यर्थः ।
ननु शृङ्गाभावग्रहसामग््रयैव कथं शशशृङ्गाभावग्रह इत्यत आह ।। कथमन्यथेति ।। प्रतीतिबलादेव तथा कल्प्यत इत्यर्थः । प्रतीतेरन्यथासिद्धिमाशङ्क्य निराकरोति ।। न च शश इति ।। शशशृङ्गशब्दस्य शशे शृङ्गमित्यर्थत्वे शशशृङ्गोल्लिखिता भूरित्यादावपि विशकलितपदार्थसत्त्वादप्रसिद्धिर्नस्यात् ।। गवीति ।। शशान्वितशृङ्गस्य गवि निषेधप्रतीतेः । अन्यथा गोपदार्थानन्वयप्रसङ्गात् । एतेन गवाधिकरणकशृङ्गे शशीयत्वं नास्तीत्यर्थः । तेन न गोपदार्थानन्वय इति निरस्तम् । गोरेवाधिकरणत्वप्रतीतेः ।। भूतल इति ।। भूतले घट-संसर्गविशेषो सन्नेव यो निषिध्यते तथा शशेऽपि शृङ्गसंसर्गो सन्नेवेत्यर्थः । ननूभयत्रापि घटमात्रं शृङ्गमात्रं च निषिध्यतामिति तत्राह ।। अन्यथेति ।। शब्दाभासेति ।। एतच्चोेप-लक्षणम् । शृङ्गे शशीयत्वग्रहस्यैव शशीयत्वावच्छिन्न शृङ्गग्रहत्वात् ।। संसर्गाभावो विषय इति ।। ननु यन्निबन्धना यत्प्रतीतिस्तदभावनिबन्धनैव तदभावप्रतीतिः । इह च घटास्तित्वप्रतीतिः संयोगानिबन्धनेति तदभावप्रतीतिः संयोगाभावनिबन्धनैव । स च संयोगस्तात्विक एवेत्यत आह ।। भूतले घटोऽस्तीति ।। न हि भूतले घटोऽस्तीति बुद्धिः संयोगमात्रविषया । किं तु भूतलघटसंयोगविषया । अतोऽभावधीरपि तत्संयोगविषयैव । स च संयोगो सन्नेव । तदिदमुक्तम् ।। तत्सम्बन्धेति ।। तदभावेति च ।। प्रागभावादिर्न सिध्येदिति ।। नास्ति नष्टो न भविष्यतीति विलक्षणव्यवहारोऽपि तत्तत्कालरूपविशेष-वैलक्षण्यादिति भावः ।। संसर्गस्येति ।। अत एव भूतले घटो नास्तीति धीः । अन्यथा घटो नास्तीत्येव स्यात् ।। अन्य एवेति ।। अत्र एव शब्दात्परं वा शब्दानुषङ्गः । तेन पक्षत्रयं बोध्यम् ।। न द्वितीय इति ।। अत्र द्वितीयशब्देन तृतीयोऽपि ग्राह्यः ।। इष्टेति ।। असत्त्वात्संयोगस्य ।। दण्ड इति ।। दण्डी नास्तीति बुद्धिं प्रति विशेषणासङ्कीर्ण-विशेष्यस्याभावप्रतियोगित्वानुभववदिह संयोगासङ्कीर्णस्य घटस्याभावप्रतियोगित्वाननुभवा-त्संयोगमात्रस्यैवाभावप्रतियोगित्वं कल्प्यत इत्यर्थः । क्लृप्तैरित्यादिना तृतीयपक्षनिराकरणः । उपसंहरति ।। तस्मादिति ।।
।। इति अनिर्वाच्यसाधकनिषेधप्रतियोगित्वान्यथानुपपत्तिभङ्गः ।।