यच्चेदमुच्यते– ब्रह्म न वेद्यं स्वप्रकाशत्वात्
११. स्वप्रकाशत्वलक्षणभङ्गः
न्यायामृतम्
यच्चेदमुच्यते– ब्रह्म न वेद्यं स्वप्रकाशत्वात् । तच्च यद्यपि न वृत्त्यव्याप्यत्वं दृश्यत्वभङ्गे उक्तरीत्याऽसम्भ वात् । नापि फलाव्याप्यत्वम् । अतीतादौ नित्यातीन्द्रिये चातिव्याप्तेः । नाप्यवेद्यत्वे सत्यपरोक्षव्यवहार विषयत्वम् । सुषुप्तिप्रलयादौ व्यवहारा-भावेनाव्याप्तेः । नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारविषयतायोग्यत्वम् । मोक्षे योग्यतारूपधर्मस्याप्यभावात् । तथाप्यवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वयोग्यतात्यन्ता-भावानधि करणत्वं तत् । प्रमाणं चात्र ‘अनुभूतिः स्वप्रकाशा अनुभूतित्वात्’ इति व्यतिरेकि । न चाप्रसिद्धविशेषण ता । वेद्यत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वाच्छौक्ल्यवदिति सामान्यतस्तत्सिद्धेः । आत्मा चानुभूतिरूप इति ।
तन्न । त्वन्मते आत्मनि सत्त्वाद्यनधिकरणत्वरूपानिर्वाच्यत्वस्येव मोक्षे योग्यता-त्यन्ताभावानधि करणत्वरूपस्य वाऽनधिकरणत्वोपलक्षितत्वरूपस्य वा धर्मस्याप्य-भावात् । किञ्च त्वन्मते ब्रह्मणि योग्यतापि मिथ्या । मिथ्यात्वं च स्वसमानाधिकरणा-त्यन्ताभावप्रतियोगित्वम् । तथा च तदत्यन्ताभावानधिकरणत्वम् असम्भवि । न च व्यावहारिको योग्यतात्यन्ताभावो ब्रह्मणि नेति वाच्यम् । अत्यन्ताभावस्य ब्रह्मान्यत्वेन व्यावहारिकत्वात् । किञ्चेदमवेद्यत्वं न तावद्वृत्त्यव्याप्यत्वम् । असम्भवात् । नापि फलाव्याप्यत्वम् । दृश्यत्वभङ्गे उक्तरीत्या प्रातिभासिके रूप्यादौ व्यावहारिके अविद्यान्तः-करणतद्धर्मसुखादौ घटादौ च लक्षणस्याति व्याप्तेः । तत्रोक्तरीत्यैव ब्रह्मणोऽपि चरमवृत्तिप्रतिबिम्बितचिद्रूपफलव्याप्यत्वेनासम्भवाच्च । एतेन फलव्याप्यत्वं वृत्ति-प्रतिबिम्बितचिज्जन्यातिशययोगित्वम् । अतिशयश्च नावरणभङ्गः, नापि व्यवहारः किन्तु भग्नावरणचित्सम्बन्धः । स च घटादावस्ति न त्वात्मनि । यद्वा फलव्याप्यत्वं वृत्त्या तत्प्रतिफलितचिता वाऽभिव्यक्ताधिष्ठानचिद्विषयत्वम् । तज्जन्यव्यवहारयोगित्वं, तच्च घटादावस्ति न त्वात्मनीति निरस्तम् । घटादौ वृत्तिविषयत्वमेव न तु तत्प्रति-फलितचिद्विषयत्वं, न वा तदभिव्यक्ताधिष्ठान चिद्विषयत्वमित्युक्तत्वात् । एतेनैव चिद्रूपज्ञानाविषयत्वमवेद्यत्वं रूप्यादिरपि साक्षिविषय एव । लक्षणे विशेष्यं तु नित्यातीन्द्रियेष्वनतिव्याप्त्यर्थमिति निरस्तम् । घटादावतिव्याप्तेः । चित्सुखेन तत्स्वभाव-स्यापि स्फुरणस्य तद्विषयत्वमित्युक्तत्वेनासम्भवाच्च ।
ननु तर्हि चिदकर्मत्वमवेद्यता चित्सुखेनैव चितश्चिद्विषयत्वमुपेत्य तदकर्मत्वोक्तेरिति चेत्, कर्मत्वं किं कारकविशेषत्वम्, तज्जन्यातिशयवत्त्वं वा परसमवेतक्रियाफलशालित्वं वा । नाद्यः । अनवच्छिन्नं नित्यं चैतन्यं प्रति घटादेरप्यकारकत्वात् । स्वाकार-वृत्तिप्रतिबिम्बितं तु प्रति घटतद्रूपादेरिवापरोक्षचरमवृत्ति व्याप्यस्य ब्रह्मणोऽपि कार-कत्वावश्यम्भावात् । न द्वितीयः । ब्रह्मण्यप्युक्तन्यायेन प्रतिफलितचित्फल भूतावरण-भङ्गरूपस्य तदभिव्यक्तचिज्जन्यव्यवहाररूपस्य वाऽतिशयस्य सत्त्वात् । तदन्यस्य च घटादावप्य भावात् । न तृतीयः । शुद्धचितोऽसमवेतत्वादक्रियात्वाच्च तत्फलशालिनोऽपि जडस्याकर्मत्वापातात् । २प्रतिबिम्बिते चिति तु समवेतत्वादेः सत्त्वेऽपि ब्रह्मणोऽपि चरमवृत्तिप्रतिफलितचित्फलभूतावरणभङ्गादिशालि त्वाच्च ।एतेन ज्ञप्त्यविषयत्वमवेद्यत्वं वृत्तिस्तु न ज्ञप्तिरिति निरस्तम्, घटादौ वृत्त्यन्यज्ञप्त्यभावस्योक्तत्वात् । तस्मादवेद्यत्वं दुर्वचम् ।
कश्चायमपरोक्षव्यवहारः । अपरोक्षज्ञानजन्यो वा अपरोक्षवस्तुविषयो वा अपरोक्षोऽयमित्याकारो वा । नाद्यः । धर्माधर्मादावप्यपरोक्षेण योगजज्ञानेनानुव्यवसायेन व्याप्तिज्ञानेन च जन्यव्यवहारस्य सत्त्वेनातिव्याप्तेः । अपरोक्षज्ञानशब्देनानागतगोचर-साक्षात्कारजनकप्रत्यासत्त्यजन्यजन्यसाक्षात्कारविवक्षायां चात्मस्वरूपज्ञानस्य नित्यत्वेना- सम्भवात् । विषयगतापरोक्षव्यवहारहेतुसाक्षात्कारविवक्षायां तु साक्षिवेद्ये रूप्यादौ चाविद्यादौ चातिव्याप्तेः । द्वितीये वस्तुन आपरोक्ष्यम् अपरोक्षज्ञानविषयत्वं चेदात्मापि घटादिवद्वेद्यः स्यात् । तस्यैव लक्षणत्वोपपत्त्या कुसृष्टिवैयर्थ्यं च । अपरोक्षव्यवहार-विषयत्वं चेत्, वस्तुव्यवहारयोरपरोक्ष्येऽ न्योन्यसापेक्षत्वादन्योन्याश्रयः । न तृतीयः । निराकारशुद्धब्रह्मविषयस्याखण्डार्थनिष्ठवेदान्तजन्यस्य च व्यवहारस्य अपरोक्ष इत्या-कारत्वायोगात् । अभावेऽतिव्याप्तेश्च । अस्ति हि गज इव गजाभावेऽप्यपरोक्ष इति लोकव्यवहारः । स चावेद्यः । त्वयैव नाभावस्य प्रत्यक्षत्वं किं त्वनुपलब्धिगम्यत्वमिति फलव्याप्यत्वनिषेधात् । यदि चापरोक्षज्ञानम् अपरोक्षव्यवहारशब्दार्थः, तदा स्वव्याहतिः ।
किञ्चापरोक्षव्यवहारयोग्यत्वं न तावत्सर्वान्प्रति । चैत्रस्य ज्ञाने मैत्रं प्रति तदभावात् । नापि ज्ञानं प्रति । तस्याव्यवहर्तृत्वात् । नापि ज्ञानाश्रयं प्रति । चितोऽनाश्रितत्वात् । किञ्चावेद्यस्यापरोक्षव्यवहारविषयत्वं व्याहतम् । तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्य हेतुत्वात् । यदि च स्फुरणाविषयेऽपि स्फुरणे तद्विषयकापरोक्ष वृर्त्तिर्वा तदविषयकं स्फुरणमेव वा स्वाभावभेदादेव अपरोक्षस्वव्यवहारहेतुः, तर्ह्यवैरूप्याय घटादावपि तथैव स्यात् । ननु घटादिकमस्फुरणरूपं स्फुरणं तु तद्रूपमिति चेत्, सत्यं तावता स्फुरणे स्फुरणान्तरं नापेक्षितं न तु कप्तं तद्विषयकत्वमपि । अन्यथा प्रमेयत्वमपि स्ववृत्तिं विनैव स्वस्मिन्प्रमेयव्यवहारं कुर्यादिति केवलान्वयि न स्यात् । गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं कुर्यात् । अस्मन्मतेऽबाध्यत्व रूपसत्त्वस्य स्ववृत्तित्वादेव सत्ता सतीति व्यवहारः ।
एतेन चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वम् । चिदन्यत्सर्वमपि दृश्यत्वनिरुक्ति-प्रस्तावे उक्तन्यायेन चिद्वेद्यमेव । चित्तु न स्ववेद्या । स्वात्मनि वृत्तिविरोधात् । न हि छिदा छेद्या भवतीति निरस्तम् । मिथ्यात्वानुमित्यादेः स्वविषयकत्ववदुपपत्तेः । अन्यथा चितिः स्वात्मनि व्यवहारमपि न जनयेत् । न हि छिदाकार्यं छिदायां दृश्यते । नापि स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं वा स्वव्यवहारे स्वावच्छिन्न संवि(त्सापे)-दनपेक्षत्वं वा स्वप्रकाशत्वम् । अस्य स्ववेद्यत्वेऽप्युपपत्त्या सम्मतत्वात् । स्वविषयत्वं विना स्वव्यवहारहेतुत्वायोगादित्युक्तत्वाच्च । किञ्च स्वप्रकाशत्वम् आत्मस्वरूपमेव वा तद्धर्मो वा । नाद्यः । इष्टापत्तेः । नान्त्यः । तात्त्विकस्य तस्याभावेन स्वप्रकाशत्वस्या-तात्त्विकत्वापत्त्या तत्साधकानुमानादेर्बाधात् ।
।। इति स्वप्रकाशत्वलक्षणभङ्गः ।। ११ ।।
अद्वैतसिद्धि:
ननु परिणममानाविद्याधिष्ठानत्वेनोपादानत्वं वाच्यम् । अधिष्ठानत्वं तु नावेद्यस्य । तद्वेदनार्थं प्रमाणापेक्षायाम् अन्योन्याश्रयात् । न च स्वप्रकाशतदपेक्षमेवाधिष्ठानत्वमिति वाच्यम् । स्वप्रकाशताया वक्तुमशक्यत्वात् । तथा हि– किमिदं स्वप्रकाशत्वं ? वृत्त्यव्याप्यत्वं वा फलाव्याप्यत्वं वा अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा तद्योग्यत्वं वा तद्योग्यत्वात्यन्ताभावानधिकरणत्वं वा । नाद्यः । ब्रह्मणोऽप्यावरणभङ्गाय चरमवृत्तिव्याप्यत्वात् । न द्वितीयः । अतीतादौ नित्यातीन्द्रये चातिव्याप्तेः । न तृतीयः । सुषुप्त्यादौ व्यवहाराभावेनाव्याप्तेः । न चतुर्थः । योग्यत्वरूपधर्मस्य मोक्षकालेऽभावेन तदा ब्रह्मण्यव्याप्तेः । नापि पञ्चमः । अनधिकरणत्वस्यापि धर्मत्वेन मोक्षदशायां तस्याप्यभावेनाव्याप्तेः । अत एव न तादृगनधिकरणत्वोपलक्षितमपि तत् । तस्यापि धर्मत्वे मुक्तावभावादिति चेन्न, पञ्चमपक्षस्यैव क्षोदसहत्वात् । न च मोक्षेऽव्याप्तिः । अनधिकरणत्वस्य स्वरूपतया तदापि सत्त्वात् । न च स्वरूपत्वे लक्षणत्वानुपपत्तिः । त्वन्नये ब्रह्माभिन्नानन्दादौ गुणत्वव्यवहारवत्स्वरूपभूतेऽप्य-नधिकरणत्वे लक्षणत्वव्यवहारात् । न च त्वन्मते योग्यत्वमपि ब्रह्मणि मिथ्येति तदत्यन्ताभावोऽपि वाच्यः । तथा च कथं तदत्यन्ताभावानधि करणत्वमिति वाच्यम् । योग्यत्वविरोध्यत्यन्ताभावस्य विवक्षितत्वात् । स्वाश्रयनिष्ठात्यन्ताभावस्य मिथ्यात्वप्रयोजकस्य स्वाश्रयनिष्ठत्वेनैवाविरोधित्वात् ।
यद्वा व्यावहारिकात्यन्ताभावो विवक्षितः । ब्रह्मणि च योग्यतात्यन्ताभावस्य ब्रह्मस्वरूपत्वेन तात्त्विकत्वात् । नाप्यवेद्यत्वानिरुक्तिः । फलाव्याप्यत्वस्यैव तत्त्वात् । आवरणभङ्गे चित एव फलत्वात् । न चैवं घटादेरपि वृत्तिवेद्यतया फलविषयत्वाभावाद् रूप्यसुखादेरपि अपरोक्षव्यवहार-योग्यतया विशिष्ट लक्षणस्यातिव्याप्तिरिति वाच्यम् । घटादौ फलव्याप्यत्वस्य समर्थितत्वाद्रूप्यसुखादौ साक्षिभास्यतयाऽपरोक्षव्यवहारेऽपि प्रमाणजन्यापरोक्षवृत्तिविषयत्वाभावात् । तथा च फलाव्याप्यत्व-समानाधिकरणतद्वत्त्वस्य पर्यवसिततया सकलदोषनिरासात् । न च ब्रह्मणोऽपि वृत्तिप्रतिबिम्बित-चिद्रूपफलभास्यत्वेनासम्भवः । तस्य फलरूपत्वेन तद्विषयत्वाभावात् ।
न च चित्सुखाचार्यैः तत्स्वभावस्यापि स्फुरणस्य तद्विषयत्वमित्युक्तेरसम्भवः । तस्याचार्य-वचसस्तत्प्रयुक्त व्यवहारविषयतया तद्विषयत्वोपचारनिबन्धनत्वात् । अयमत्र निष्कर्षः-वृत्तिप्रतिबिम्बित-चिज्जन्यातिशययोगित्वं वृत्त्या तत्प्रतिफलितचिता वा अभिव्यक्ताधिष्ठानचिद्विषयत्वं वा फलव्याप्यत्वम् । चिज्जन्यातिशयश्च नावरणभङ्गः, नापि व्यवहारो विवक्षितः, किन्तु भग्नावरणचित्सम्बन्धः । स च घटादावस्ति नात्मनि, सम्बन्धस्य भेदगर्भत्वात् । एवमुक्तचिद्विषयत्वमपि भेदघटितं घटादावस्ति, नात्मनीति स्थितं प्रतिकर्मव्यवस्थायाम् । नाप्यपरोक्षव्यावहारो दुर्वचः । अपरोक्ष इति शब्दप्रयोगस्यैव विवक्षितत्वात् । न चालौकिकप्रत्यक्षविषयधर्माधर्मादौ तादृशव्यवहारयोगितया अतिव्याप्तिः । योगज-धर्मातिरिक्तालौकिकप्रत्यासत्तेरनङ्गीकारात् । तस्यापि स्वयोग्यव्यवहित एव सामर्थ्यापादकत्वात् । न तु धर्मादौ । तदुक्तं ‘यत्राप्यतिशयो दृष्टः’ इत्यादि ।
एतेन कश्चायमपरोक्षव्यवहारो नाम । अपरोक्षज्ञानजन्यो वा अपरोक्षवस्तुविषयो वा अपरोक्ष इत्याकारो वा । नाद्यः । धर्मादावप्यपरोक्षयोगिज्ञानानुव्यवसायव्याप्तिज्ञानजन्यव्यवहारसत्त्वेनातिव्याप्तेः । न द्वितीयः । वस्तुन आपरोक्ष्यम् अपरोक्षज्ञानविषयत्वं चेत्, आत्मनोऽपि घटादिवद् वेद्यत्वापातात् । अपरोक्षव्यवहारविषयत्वं चेत्, वस्तुव्यवहारयोरापरोक्ष्ये अन्योन्यसापेक्षतयाऽन्योन्याश्रयात् । न तृतीयः । निराकारशुद्धब्रह्मविषयस्याखण्डार्थनिष्ठवेदान्त जन्यव्यवहारस्यापरोक्ष इत्याकारायोगादिति निरस्तम् । व्यवहारपदेनाभिवदनस्य विवक्षितत्वेन चरमवृत्तेस्तदनाकारत्वेऽपि क्षत्यभावात् । न चानुपलब्धिगम्यतया अवेद्ये अपरोक्षे लोकव्यवहारसत्त्वेनाभावेऽतिव्याप्तिः । प्रामाणिकव्यवहारस्य विवक्षितत्वात् ।
नन्वपरोक्षव्यवहारयोग्यत्वं न तावत्सर्वान् प्रति । चैत्राज्ञाने मैत्रस्य तदभावात् । नापि ज्ञानं प्रति, तस्याव्यवहर्तृत्वात् । नापि ज्ञानाश्रयं प्रति, ज्ञानस्य चितोऽनाश्रितत्वादिति चेन्न । प्रमातारं यं कञ्चित् प्रत्येवापरोक्षव्यवहारयोग्यत्वं विवक्षितम् । प्रमाता चाहमर्थ एव सर्वसम्मतः । यत्तूक्तं चैत्रस्य ज्ञाने मैत्रस्याव्यवहार इति, तस्य चैत्रज्ञाननिमित्तको मैत्रस्याव्यवहार इति वाऽर्थः, चैत्रज्ञान-विषयको मैत्रस्याव्यवहार इति वाऽर्थः । आद्ये चैत्रज्ञानेन मैत्रस्याव्यवहारेऽपि स्वज्ञानेनैव घटे ब्रह्मणि चापरोक्षव्यवहारसम्भवेन व्यर्थविशेषणत्वासम्भवयोरभावात् । द्वितीये चैत्रज्ञाने तादृग्व्यवहारा-भावेऽपि क्षत्यभावात् । अस्माकमपि हि चितिरेव स्वप्रकाशा, न तु चैत्रज्ञानत्वेन व्यपदिश्यमान-वृत्त्युपहितचिदपि । वृत्तेरस्वप्रकाशत्वात् । एवं च सर्वप्रमातॄन् प्रति तादृग्व्यवहारविषयतायोग्यत्वमपि सङ्गच्छत एव ।
ननु– अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं तद्योग्यत्वं च व्याहतम् । तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्य हेतुत्वादिति चेन्न । अन्यत्र तद्विषयस्य तद्व्यवहारजनकत्वेऽपि स्फुरणस्य स्वाविषयस्य स्वस्मिन् व्यवहारजनकत्वम् । स्वभावभेदात् । न च घटादावपि तथैवास्तु, तेषा-मस्फुरणरूपत्वेन तद्विषयत्वं विना नियामकान्तराभावात् । तार्किककल्पितस्यानुव्यवसायस्यापि घटज्ञान-ज्ञानत्वापेक्षया लघुना घटज्ञानत्वेनैव घटज्ञानव्यवहारहेतुत्वकल्पनाच्च । नन्वनवस्थाभिया स्फुरणान्तरा-नङ्गीकारात् स्वस्य स्वविषयत्वमस्तु । अन्यत्र कप्तस्य तद्विषयत्वस्य नियामकस्य त्यक्तुमयुक्तत्वात् । अन्यथा प्रमेयत्वस्य स्ववृत्तित्वं विनैव स्वत एव प्रमेयमिति व्यवहारजनकत्वोपपत्त्या केवलान्वयित्व भङ्गप्रसङ्ग इति चेन्न, अनवस्थया स्फुरणान्तरत्यागवदभेदे भेदनियतस्य विषयिविषयभावस्याप्ययुक्ततया त्यागोपपत्तेः, प्रमेयत्वादौ केवलान्वयित्वभङ्गस्येष्टत्वात् । न च– एवं गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं करोत्विति वाच्यम्, भेदाविशेषात्तन्तुरिव मृदपि पटं करोत्वित्यस्याप्यापत्तेः । स्वभावभेदेन परिहारश्च सर्वत्र समानः ।
यद्वा– चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वम् । चिदन्यस्य सर्वस्य चिद्विषयत्वात्तुच्छस्य निःस्वरूपत्वेन नातिव्याप्तिशङ्का । नाप्यसम्भवः । स्वात्मनि वृत्तिविरोधेन छिदाया अच्छेद्यत्ववत् स्वस्य स्ववेद्यत्वायोगात् । न चैवं मिथ्यात्वानुमितेरपि अस्वविषयत्वापत्तिरिति वाच्यम् । स्वपरसाधारणस्यैकस्य विषयतानियामकस्य तत्र सत्त्वेन विशेषात् । अत एव यथा छिदादौ परशुसंयोगो न स्वपरसाधारण इति स्वस्मिन् वृत्तिविरोधः, तथा प्रकृतेऽपि । न च तर्हि छिदाकार्यस्य छिदायामिव चिज्जन्यव्यवहारस्य चित्यनापत्तिरिति वाच्यम् । फलदर्शनस्यैव छिदापेक्षया स्वभावभेदनियामकत्वात् । यद्वा स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वावच्छिन्नसंविदनपेक्षत्वं वा स्वप्रकाशत्वम् । न च स्ववेद्यत्वेऽप्युपपत्त्या स्वाभिमतप्रकाशत्वानुपपत्तिः । स्ववेद्यत्वस्य बाधितत्वेन तदादायोपपत्त्यसम्भवात् । ननु स्वप्रकाशत्वधर्मस्य तात्त्विकत्वेऽद्वैत व्याघातः । अतात्त्विकत्वेऽस्वप्रकाशत्वस्यैव तात्त्विकत्वापत्त्या तत्साधकानुमानादेर्बाध इति चेन्न, स्वरूपत्वस्योक्त त्वात् । न च परोषामिदमिष्टम् । वेद्यत्वविरोधि-स्वरूपस्य परैरनङ्गीकारात् । इत्यद्वैतसिद्धौ ब्रह्मस्वप्रकाशत्वलक्षणोपपत्तिः ।। ११ ।।
न्यायामृततरङ्गिणी
अत्यन्ताभावेति ।। मोक्षे योग्यताया अभावेऽपि तदत्यन्ताभावो नास्ति । योग्यताव-त्तदत्यन्ताभावस्यापि धर्मत्वात् ।। स्वप्रकाशेति ।। अवेद्येत्यर्थः । तथापीत्यादिनोक्ततल्लक्षणस्य मुक्तात्मन्यव्याप्तिमाह– त्वन्मत इति ।। ननु ‘मुक्तात्मा नोक्तात्यन्ताभावाधिकरणत्वा-भाववान् उक्तात्यन्ताभावानधिकरणत्वात् । यो यदनधिकरणं न स तदनधिकरणत्वाभाववान्। यथा रूपानधिकरणं वायुः रूपानधिकरणत्वाभाववान्न । तथा च कथमव्याप्तिरित्यत उक्तं सत्वादीति ।। तथा चात्मनि व्यभिचारान्नोक्तविधया लक्षणाभावानुमानमित्यर्थः । न चानधिकरणत्वं स्वरूपमेवातो मुक्तावपि तदस्तीति वाच्यम् । स्वरूपत्वे लक्षणत्वानुपपत्तेः । मम मते त्वानन्दादेः स्वरूपत्वेऽपि धर्मत्वाल्लक्षणत्वम् ।। स्वेति ।। एतेनात्यन्ताभावस्याधि-करणरूपतया तदनधिकरणत्वं नासम्भवीति निरस्तम् । योग्यतामिथ्यात्वानुपपत्तेः । स्वात्यन्ताभावसामानाधिकरण्याभावात् ।। ब्रह्मान्यत्वेनेति ।। ब्रह्मरूपत्वे तु योग्यता मिथ्या न स्यादिति बोध्यम् ।। दृश्यत्वेति ।। रूप्यादौ विशेषणवद्विशेष्यस्यापि सत्त्वाद्धटादौ विशेष्यवद्विशेषणस्यापि सत्त्वादित्युक्तत्वादित्यर्थः।
नन्वपरोक्षेत्यादिना प्रमाणजन्यापरोक्षवृत्तिविषयत्वं विवक्षितम् । प्रातिभासिकादौ च न प्रमाणवृत्तिः । अतो न तत्रातिव्याप्तिः । मैवम् । प्रमाणजन्यापरोक्षवृत्तिविषय-चैतन्यैक्याध्यासमात्रेण घटादावापरोक्ष्योपपत्तेस्तदर्थं घटादौ तादृशवृत्तिविषयत्वस्य स्वीकर्तु-मनुचितत्वेनोक्तवृत्तिविषयत्वस्यैव लक्षणत्वसम्भवेऽवेद्यत्वे सतीत्यस्य वैयर्थ्यात् ।। स चेति ।। सम्बन्धस्योभयनिष्ठत्वादिति भावः ।। न त्विति ।। आत्मनोऽधिष्ठानाभावाद् भग्नावरण-चिदभेदरूपस्य सम्बन्धस्य चित्यपि सत्त्वादाद्यपक्षमुपेक्ष्य द्वितीययोर्दोषमाह– घटादाविति ।। एतेनेति ।। घटादौ वृत्त्यतिरिक्तचिद्रूपज्ञानं प्रत्यविषयत्वेन ।। स्वाकारेति ।। तथा चासम्भवः । ननु चरमवृत्तिर्न ब्रह्माकारा । तस्य निराकारत्वात् । अत उक्तं रूपादेरिवेति ।। रूपाकारत्ववद् ब्रह्माकारत्वमपि वृत्तेर्युक्तम् ।। उक्तेति ।। चरमवृत्तिप्रतिफलितचित्फलभूतस्य ।। तदन्यस्य चेति ।। तादृशचिद्विषयत्वादेः ।। शुद्धेति ।। शुद्धचितः परसमवेतत्वे क्रियात्वे च तत्फलभूतया वृत्तिप्रतिफलितचिता भासमानघटादेः कर्मत्वं स्यात् । न चैवम् । शुद्धचितः समवेतत्वाद्यभावात् ।
जन्यसाक्षात्कारेति ।। तादृशेश्वरज्ञानजन्यव्यवहारविषये धर्मादावनतिव्याप्तये जन्येति ।। साक्षीति ।। विषयगतापरोक्षव्यवहारहेतुसाक्षात्कार त्वात्साक्षिणोऽपरोक्षज्ञानशब्देन वृत्तिप्रतिफलितचैतन्यादिकं वाऽपरोक्षवृत्तिमात्रं वा । आद्य आह– आत्मापीति ।। द्वितीय आह– तस्यैवेति ।। अवेद्यत्वे सत्यपरोक्षज्ञानविषयत्वस्यैव ।। कुसृष्टीति ।। ज्ञानापरोक्ष्येण विषयापरोक्ष्यं सम्पाद्य लक्षणाकरणं कुसृष्टिः । साक्षिवेद्यरूप्यादौ अतिव्याप्तिस्तु उभयथापि समैवेत्यर्थः ।। वस्त्विति ।। वस्त्वापरोक्ष्याधीनं व्यवहारापरोक्ष्यं तदधीनं च वस्त्वापरोक्ष्यम् । अभावे लक्षणगतविशेष्यांशमुपपादयति– अस्ति हीति ।। विशेषणांशमुपपादयति– स चेति ।।
नन्वनुपलब्धिगम्येऽभावेऽपरोक्षज्ञानविषयत्वरूपोऽपरोक्षव्यवहारो नास्तीति न तत्राति-व्याप्तिरत आह– यदि चेति ।। उक्तरूपापरोक्षज्ञानाविषयत्वरूपमवेद्यत्वमङ्गीकृत्य पुनरपरोक्ष-ज्ञानविषयत्वाङ्गीकारे व्याहतिः ।। चैत्रेति ।। घटाद्यधिष्ठानचैतन्यं स्वयं प्रकाशं घटप्रकाशक-मित्युच्यते तत्र घटविषयचैत्रस्थवृत्त्यादिना घटाधिष्ठानचितश्चैत्रं प्रत्यपरोक्षव्यवहारेऽपि मैत्रं प्रति तदभावाद्धटाधिष्ठानचित्स्वप्रकाशो न स्यात् ।। ज्ञानं प्रतीति ।। घटाधिष्ठानचितं प्रतीत्यर्थः । ननु प्रमातारं यं कञ्चित्प्रत्यपरोक्षव्यवहारविषयत्वं विवक्षितम् । न प्रमातुः । चित्त्वे विरोधाभावात् । जडत्वे त्वसम्भवात् । अन्यस्याहमर्थस्याभावात् । स्वाभावभेदात् स्वाभावविशेषात् ।। नापेक्षितमिति ।। अनवस्थाभयात् । ननु भेदाभावात्तद्विषयत्वमपि त्यज्यते । मैवम् । कल्पितभेदस्य सम्भवाद्वृत्तिप्रतिबिम्बितस्य विषयित्वम् । घटाधिष्ठानस्य विषयत्वमित्युपपत्तेः ।। अन्यथेति ।। कप्तस्यापि त्यागे ।। चिदविषयेति ।। तुच्छवारणाय स्वरूपत्वमिति ।। मिथ्यात्वेति ।। न च मिथ्यात्वानुमितौ स्वपरसाधारणमेक-विषयत्वनियामकमस्तीति सा स्वविषयेति वाच्यम् । तद्व्यवहारजनकत्वप्रयोजकस्य चित्यपि सम्भवात् । अत एवाह– अन्यथेति ।। ननु बाधात्स्ववेद्यत्वेन नोपपत्तिरत आह– स्वविषयत्वमिति ।। तथा चावेद्यत्वमेव बाधितमिति भावः ।। इष्टापत्तेरिति ।। न च वेद्यत्वविरोधिस्वरूपं नेष्टमिति वाच्यम् । अचिन्त्यशक्त्यावेद्यस्यापि तथात्वात् । जानन्तोऽपि न जानन्तीति श्रुतेः ।। इति स्वप्रकाशत्वलक्षणभङ्गः ।। ११ ।।
न्यायामृतकण्टकोद्धारः
ननु जगत्कर्तृत्वादिना ब्रह्म वेद्यमित्युक्तं, तदयुक्तम् । ब्रह्मणोऽवेद्यत्वात् । अवेद्यत्वं च स्वप्रकाशत्वादित्याक्षिपति– यच्चेदमिति ।। ननु स्वप्रकाशत्वं लक्षणाभावात्प्रमाणाभावा-दयुक्तमित्यतो लक्षणं प्रतिपादयितुमनभिप्रेतानि लक्षणानि निराकरोति– तच्च यद्यपीति ।। उक्तन्यायेनेति ।। वेदान्तवैयर्थ्यप्रसङ्गादिनेत्यर्थः । व्यवहारविषयत्वं फलोपधानरूपं वा योग्यत्वरूपं वा ? आद्य आह– सुषुप्तीति ।। व्यवहाराभावेनेति ।। सर्वेन्द्रियाणामुपरतत्वादिति भावः । न द्वितीय इत्याह– नापीति ।। अभावादिति ।। तथा च मोक्षदशायामव्याप्तिरिति भावः । एवं लक्षणासम्भवं परिहृत्य प्रमाणासंभवं परिहरति– प्रमाणं त्विति ।। त्वन्मत इति ।। तथा च मोक्षेऽव्याप्तिरिति भावः । न चाभावरूपो धर्मः स्वीक्रियते इति वाच्यम् । अखण्डत्वविरोधित्वेन भावरूपतुल्ययोगक्षेमत्वेन तस्याङ्गीकर्तुमनुचितत्वात् । न चाधिकरणत्वं स्वरूपमेवेति वाच्यम् । सोपाधिकनिरुपाधिकयोरैक्यायोगात् । अभेदलक्षणत्वानुपपत्तेश्च । न च ब्राह्मानन्दज्ञानादेर्भवन्मते ब्रह्मलक्षणत्वादिवदुपपत्तिरिति वाच्यम् । मन्मते लक्ष्यलक्षणभावसम्पादकविशेषवत् त्वन्मते तदभावात् । तदङ्गीकारे चाखण्डत्वविरोधेनापसिद्धान्तात् ।
अव्याप्तिमुक्त्वाऽसम्भवमाह– किञ्चेति ।। न च योग्यत्वविरोध्यत्यन्ताभावानधिकरणत्वं विवक्षितम् । मिथ्यात्वप्रयोजकश्चाभावः स्वसमानाधिकरण एवेति न स्वविरोधीति वाच्यम् । स्वाविरोधिनः स्वात्यन्ताभावस्य पारिभाषिकत्वात् । अत्यन्ताभावो हि तत्प्रतिषेधविशेषः । न हि तत्स्वरूपसहिष्णुः तत्प्रतिषेधः सम्भवति इति भावः ।। न चेति ।। तथा च नासम्भवः । मिथ्यात्वप्रयोजकस्त्वत्यन्ताभाव स्तात्विकः । स च ब्रह्मस्वरूप एवेति भावः ।। अत्यन्ता-भावस्येति ।। मिथ्यात्वप्रयोजकोऽत्यन्ताभावो न ब्रह्मस्वरूपः । सोपाधिकत्वेन निरूपाधिक-ब्रह्मस्वरूपत्वायेगात् । तथा च तस्यापि ब्रह्मान्यत्वेन व्यावहारिकत्वात् तदधिकरणत्वं न सम्भवतीति भावः । एवं विशिष्टं लक्षणम् अव्याप्त्यसम्भवाभ्यां दूषयित्वा लक्षणांशावेद्यत्वमनिरुक्त्या दूषयति– किञ्चेदमिति ।। असम्भवादिति ।। अन्यथा वेदान्तानां वैयर्थ्यप्रसङ्गादिति भावः ।। उक्तरीत्येति ।। शुक्तिरूप्यादेः प्रातिभासिकत्वेन सन्निकर्षजन्यवृत्तेरसम्भवेन तद्घटितफलासम्भवः । घटादौ च वृत्तेः सम्भवेऽपि तद्विशिष्टचैतन्यसद्भावे प्रमाणाभावात् फलासम्भवेनातिव्याप्तिरित्यर्थः ।
तत्रोक्तरीत्यैवेति ।। न च तस्य फलरूपत्वेन तद्विषयत्वरूपतद्व्याप्यत्वाभावाविषयत्वस्य भेदनियतत्वादिति वाच्यम् । वृत्तिघटितस्यैव फलत्वेन केवलस्य फलत्वाभावेन विशिष्टाविशिष्ट-भेदसम्भवात् । केवलस्यैव फलत्वे च सर्वदा तस्य सत्त्वेन घटादिकं सर्वदा प्रकाशेत । न च धर्मिसमानसत्ताको भेदस्तत्र । न चासौ प्रकृतेऽस्तीति वाच्यम् । तथात्वे चैतन्यस्य वृत्ति-विषयतानापत्तेः । न हि वृत्तेश्चैतन्यस्य चैतन्यसमानसत्ताको भेदोऽस्ति । विषयिसमानसत्ताकश्च भेदः प्रकृतेऽप्यस्तीति भावः । वृत्तिविषयत्वं च दृश्यत्वभङ्ग एवोपपादितम् । एतेन चैतन्यस्य फलसम्बन्धप्रतिपादनेनेत्यर्थः ।। उक्तत्वादिति ।। दृश्यत्वभङ्गे इति शेषः । एतेनैव घटादौ चैतन्यरूपज्ञानाभावप्रतिपादनेनैवेत्यर्थः ।। चित्सुखेनेति ।। न च तज्जन्यव्यवहारविषयत्वात् तद्विषयत्वोपचार इति वाच्यम् । मुख्यासम्भव उपचारस्वीकरणात् । प्रकृते च मुख्यविषयत्व-स्योक्तत्वात् ।
अत्र किं चैतन्यमनवच्छिन्नं विवक्षितम्, विशिष्टं वा । आद्य आह– अनवच्छिन्नमिति ।। तथा च घटादावतिव्याप्तिरित्यर्थः । द्वितीय आह– स्वाकारेति ।। न च ब्रह्मण उदासीनत्वेन कारकत्वं नेति वाच्यम् । उदासीनत्वेनैव जगज्जन्मादिकारणत्वस्याप्यभावापातात् । उपाधि-सम्बन्धादिना कथञ्चित् समाधाने च प्रकृतेऽपि तुल्यमिति ।। तदन्यस्य चेति ।। न च चित्सम्बन्ध एवातिशयः । स च प्रकृते न सम्भवति । अभेदादिति वाच्यम् । अभेदेऽपि सम्बन्धस्योपपादितत्वात् ।। तदिति ।। तथा च जडेऽव्याप्तिरिति भावः ।। ब्रह्मणोऽपीति ।। तथा चासम्भव इति भावः । एतेनेति परामृष्टं हेतुमाह– घटादाविति ।। अवेद्यत्वानिर्वचन-मुपसंहरति– तस्मादिति ।। ननु चैतन्यविषयत्वमेव स्वप्रकाशत्वम् । न चासत्यतिव्याप्तिः । न चासन्नाम किञ्चिदस्ति । येन तत्रातिव्याप्तिः शङ्कास्पदा । न च ब्रह्मण्यसम्भवः । तस्य तद्विषयत्वाभावे तद्व्यवहारासम्भवादिति वाच्यम् । व्यवहारमात्रे तद्विषयज्ञानत्वेनाकारणत्वात् । न च पटप्रकाशेन घटव्यवहारापत्तिः । सामान्यसामग््रया विशेषस्यापादयितुमशक्यत्वात् । अनात्मव्यवहारे तद्विषयज्ञानत्वेनैव कारणत्वात् । न चात्मव्यवहारेऽपि विशेषसामग्री वाच्येति वाच्यम् । सामान्यसामग््रयैव तदुपपत्तेः । न च सामान्यसामग््रया विशेषप्रयोजकत्वमदृष्टचरमिति वाच्यम् । भट्टमते सामान्यसामग््रयैव प्रमारूपविशेषकार्यदर्शनात् ।
यद्वा आत्मव्यवहारे आत्माभिन्नप्रकाशत्वेन हेतुताऽस्तु । तथा च नात्मनो विषयत्व-मावश्यकम् । किञ्च विषयत्वं नाम सम्बन्धः । स च भेदनियतः । कथमभिन्नचैतन्यस्य स्यात् । न च प्रमेयत्वादावभेदेऽपि सम्बन्धो दृष्ट इति वाच्यम् । प्रमेयत्वादेः केवलान्वयित्वखण्डनेन तदसम्मतेः । तस्मान्नात्मन्यसम्भवः । न च घटादिषु वृत्तिरेव घटादिव्यवहारहेतुः न चैतन्यमिति वाच्यम् । इच्छादिषु वृत्तिं विनापि व्यवहारदर्शनेन चैतन्यस्य तत्र हेतुत्वात् । घटादिषु विनिगमनाविरहादुभयोरपि हेतुत्वम् । तथा च न घटादिष्वतिव्याप्तिः । एवं चैतन्यविषयत्वमेव स्वप्रकाशत्वमिति । अत्रोच्यते । अत्र चैतन्यं शुद्धं वा विवक्षितम् उत घटितम् उत सामान्यम् । नाद्यः । केवलचैतन्यविषयत्वस्य घटादावभावेन तत्रातिव्याप्तेः । धर्मादौ सुतरामतिव्याप्तेश्च । घटादेः केवलचैतन्यवेद्यत्वे सर्वदा प्रकाशापत्तेश्च । न द्वितीयः । ब्रह्मणोऽपि विशिष्टचैतन्य-विषयत्वस्य सम्भवेनासम्भवापत्तेः । न च विषयत्वप्रयोजकसम्बन्धाभावात् कथं विषयत्वं, तदभावश्च, तन्नियतभेदाभावादिति वाच्यम् । विशिष्टाविशिष्टभेदस्य समर्थितत्वात् । पारमार्थिकभेदस्य च घटादावप्यभावात् । धर्मिसमसत्ताकभेदस्य वृत्तावप्यभावात् ।
किञ्च धर्मादौ येन रूपेण चैतन्यविषयत्वं तेनैव रूपेण चितोऽप्यस्तु । न च प्रकाशत्वेन सामान्यकारणत्वात् तेनैव व्यवहारनिर्वाह इति वाच्यम् । सामान्यविशेषकारणपरापेक्षया तद्व्यवहारे तद्विषयप्रकाशेनैकेनैव रूपेण कारणत्वकल्पने लाघवात् । विषयत्वस्य चोपपादितत्वात् । न तृतीयः । सामान्यस्य ब्रह्मणि भावेन तदभावस्यासम्भवित्वात् । न च ब्रह्मणो निर्धर्मकत्वाद् विषयत्वरूपधर्मानधिकरणत्वमिति वाच्यम् । तत एवानधिकरणत्वस्याप्यभावापत्तेः । अभावरूपधर्मानधिकरणत्वञ्चाखण्डत्वविरोधादयुक्तम् । असत्यतिव्याप्तेश्च । न चासन्नास्त्येवेति वाच्यम् । असत्त्वादेव विषयत्वाभावसम्भवात् । न चासतो निर्धर्मकत्वाद् विषयत्वाभावोऽपि नेति वाच्यम् । असत्त्वादिवत्तदुपपत्तेः । अन्यथा व्याघातादिति । एवं स्वप्रकाशत्वलक्षणा-वेद्यत्वनिर्वचनं निराकृत्य विशेष्यनिर्वचनमपि निराकरोति– कश्चायमिति ।। कीदृग्लक्षण इत्यर्थः ।। धर्माधर्मादावपीति ।। न चालौकिकप्रत्यासत्तेरनङ्गीकारादिदमयुक्तमिति वाच्यम् । नैयायिक-मतावलम्बनेनोक्तत्वात् । ज्ञानादेः प्रत्यासत्तित्वानङ्गीकारेऽपि नियामकत्वाभ्युपगमाच्च ।
अपरोक्षेति ।। न चानागतगोचरप्रत्यासत्तेरप्रामाणिकत्वात् तदजन्यत्वम् अप्रसिद्धमिति वाच्यम् । उभयोरपि मते अप्रामाणिकस्य प्रतियोगित्वात् । न च पदत्यागान्नासम्भव इति वाच्यम् । व्यवहारस्य तादृशेश्वरसाक्षात्कार जन्यत्वेनासम्भवापरिहारात् ।। साक्षिवेद्य इति ।। साक्षिणोऽपि सुखादिगतापरोक्षव्यवहारहेतुत्वात्साक्षात्कारत्वाच्चेति भावः ।। आत्मापीति ।। अपरोक्षत्वेन अपरोक्षज्ञानविषयत्वादित्यर्थः । न चात्मनः स्फुरणरूपत्वेनापरोक्षत्वमिति वाच्यम् । अपरोक्षद्वैविध्यकल्पने मानाभावात् । आत्मनो भेदेऽपि विषयत्वस्योपपादितत्वाच्च ।। तस्यैवेति ।। स्वप्रकाशत्वलक्षणे अपरोक्षज्ञानविषयत्वस्यैव विशेष्यत्वसम्भवे व्यवहारविषयपर्यन्तधावनं कुसृष्टिरित्यर्थः । निराकरोति । व्यवहारस्य ज्ञानस्येत्यर्थः । न चापरोक्षव्यवहारशब्देनापरोक्ष-शब्दप्रयोगस्य विवक्षितत्वान्नोक्तदोष इति वाच्यम् । तादृशाविद्यासुखादौ धर्मे चातिव्याप्तेः ।
न च योगजधर्मस्य व्यवहित एव सामर्थ्यापादकत्वं न सन्निहित इति वाच्यम् । योगजधर्मेण व्यवहितं साक्षात्करोमि न सन्निहितमित्यनुभवाभावेन तयोः सामर्थ्यकल्पने मानाभावात् ।। अभाव इति ।। न च प्रामाणिक प्रयोगस्य विवक्षितत्वान्नाभावेऽतिव्याप्तिरिति वाच्यम् । बाधकाभावेन तस्यापि प्रामाणिकत्वात् । अन्यथा कुत्रापि तस्य तत्वं न स्यात् । न चानुपलब्धिगम्यत्वात्कथंम् तस्याप्रामाणिकत्वमिति वाच्यम् । अनुपलब्धिगम्यत्वस्याप्रामाणि कत्वात् । न ह्यनुपलब्ध्याऽभावं जानामीत्यनुभवः । किन्तु चक्षुषा घटाभावं पश्यामीति । नन्वभावस्य फलव्याप्यत्वात् विशेषणाभावान्न तत्रातिव्याप्तिरित्यत आह– स चेति ।। ननु नास्माकं कुसृष्टिः । अपरोक्ष-व्यवहारशब्देनापरोक्षव्यवहारस्यैव विवक्षितत्वादित्यत आह– यदि चेति ।। अपरोक्षज्ञानस्यैव फलत्वेन तद्विषयत्वं चेति कथं न व्याहतिरिति भावः ।। तदभावादिति ।। अपरोक्षव्यवहारा-भावादित्यर्थः ।
ननु चितिः स्वप्रकाशा । तस्याञ्च मैत्रीयव्यवहारयोग्यत्वमस्ति । चैत्रस्थज्ञानत्वेन तु न स्वप्रकाशा । तस्यास्वप्रकाशवृत्त्युपहतत्वेनास्वप्रकाशत्वादिति चेन्न । चैत्रज्ञानस्याप्रकाशत्वे तस्य तं प्रत्यपरोक्षव्यवहारयोग्यत्वं न स्यात् । तथा च स्वस्वचितिः स्वस्वापरोक्षव्यवहारयोग्येति कथं सर्वान् प्रति चिन्मात्रस्यापरोक्षव्यवहारयोग्यत्वम् । तथा च परस्यापरोक्षयोग्यत्वं तस्यैव स्वप्रकाशत्वं मन्तव्यमिति भावः । यत्तु प्रमातारं प्रति व्यवहारयोग्यत्वं प्रमाता चाहमर्थः सर्वसम्मत इति तन्न । अहमर्थस्य जडत्वेन व्यवहारत्वानुपपत्तेः । मुक्तावहमर्थाभावेन व्यवहारायोग्यत्वा-भावप्रसङ्गाच्च । व्यवहर्तुर्मिथ्यात्वेन तदुपाधिव्यवहारायोग्यत्वस्यापि मिथ्यात्वनियतत्वेन वस्तुतः स्वप्रकाशत्वाभावप्रसङ्गाच्च । तथा च मिथ्याभूतव्यवहर्तारमादाय तस्य न स्वप्रका(श)रत्वोपपत्तिः । न तु कप्तत्वेऽप्यभेदेन भेदनियतस्य विषयविषयि भावस्यायोगात् कप्तत्याग इति वाच्यम् । अभेदेऽपि विषयविषयिभावस्योपपादितत्वात् ।। अन्यथेति ।। न च प्रमेयत्वे प्रमेयत्वं नेति केवलान्वयित्वभङ्ग इष्ट एवेति वाच्यम् । प्रमेयत्वं प्रमेयमित्यबाधिताभेदव्यवहारात् । न च प्रमेयान्तरमेव तत्र विषय इति वाच्यम् । अभिन्नमैक्यम् अज्ञानमज्ञातम् इत्यादिवदभेदेनैव सम्बन्धेन व्यवहारोपपत्तौ अनेकप्रमेयत्वकल्पने गौरवात् । स्ववृत्तित्वाभावेऽपि स्वस्मिन् व्यवहारेऽतिप्रसङ्गाच्च । यदि च गत्यादौ स्वविषयत्वं न दृष्टमिति चितो न चिद्विषयत्वं तर्हि गत्यादौ स्वस्मिन् स्वकार्यमपि न दृष्टमिति चितः स्वस्मिन् स्वकार्यमपि न स्यात् । यदि च भावानां विलक्षणत्वादेवमङ्गीक्रियते तर्हि स्वविषयत्वमपि स्वीकर्तव्यमित्याह– गतिरपीति ।। मिथ्यात्वानुमित्यादेरिति ।। न च स्वपरसाधारणविषयतानियामकसद्भावे स्वविषयत्वम् अविरुद्धम् । अस्ति च मिथ्यात्वानुमिते स्वपरसाधारणविषयतानियामकं दृश्यत्वम् । प्रकृते च तत्किमपि नेति कथं स्वविषयत्वमिति वाच्यम् । प्रकृतेऽपि तज्जन्यव्यवहारविषयत्वस्य नियामकस्य सम्भवात् ।। अन्यथेति ।। यदि गत्यादौ स्वविषयत्वं न दृष्टमित्यर्थः । चित् स्वस्मिन् स्वकार्यमपि न कुर्याददृष्टत्वादित्यर्थः । स्वभावभेदादन्यत्रादृष्टमपि स्वस्मिन् स्वकार्यं चेत्तस्मादेव स्वविषयत्वमपि स्वीकर्तव्यमिति भावः ।। अस्य स्ववेद्यत्वेऽपीति ।। यथा च स्ववेद्यत्वं न बाधितं तथोक्तं पुरस्तात् ।। इष्टापत्तेरिति ।। न च स्वरूपं वेद्यत्वविरोधि भवतां मतेनेति कथमिष्टापत्तिरिति वाच्यम् । त्वया निर्विशेषस्वरूपाङ्गीकारेण वेद्यत्वविरोधित्वविशेषस्य अङ्गीकर्तुमुचितत्वेन स्वरूपमात्रे स्वीकर्तव्ये तस्य मयाप्यङ्गीकृतत्वेनेष्टापत्तिरित्यर्थः । इति स्वप्रकाशत्वलक्षणभङ्गः ।। ११ ।।
न्यायामृतप्रकाशः
तच्चेति ।। स्वप्रकाशत्वमित्यर्थः ।। वृत्त्यव्याप्यत्वमिति ।। वृत्त्यविषयत्वमित्यर्थः ।। उक्त-रीत्येति ।। ब्रह्मणो वृत्तिविषयत्वाभावे ब्रह्मविचारयतोर्गुरुशिष्ययोर्मौनं मौढ्यं च स्यादित्युक्तरीत्येत्यर्थः । तथा च लक्षणस्य ब्रह्मण्यसम्भव इत्यर्थः ।। फलेति ।। ब्रह्मचैतन्यस्य प्रकाशरूपत्वेन प्रकाशरूपे प्रकाशान्तरानुदयेन ज्ञाततारूप फलाव्याप्यत्वसद्भावादित्यर्थः ।। नापीति ।। अतीतादौ विशेष्या-भावान्नातिव्याप्तिरिति भावः । घटादिप्रपञ्चे तु विशेषणाभावप्रयुक्तविशिष्टाभावेन स्वप्रकाशत्वाभावो द्रष्टव्यः ।। व्यवहारेति ।। यथा च सुषुप्त्यादौ विद्यमाने ब्रह्मचैतन्ये व्यवहारस्यैवाऽभावेनापरोक्ष व्यवहारविषयत्वाभावादव्याप्तिरित्यर्थः ।। योग्यत्वमिति ।। सुप्त्यादौ विद्यमाने ब्रह्मचैतन्येऽपरोक्ष-व्यवहारविषयत्वयोग्यतायाः सत्वान्नाव्याप्तिरित्यर्थः । तथापि मुक्तिकालीने ब्रह्मचैतन्ये शक्त्यादि-रूपयोग्यताख्यधर्माभावेनाव्याप्तिरित्याह– मोक्ष इति ।। अत्यन्ताभावेति ।। मोक्षे योग्यताया अभावेऽपि तदत्यन्ताभावोऽपि नास्ति । योग्यतावत्तदत्यन्ताभावस्यापि धर्मत्वम् । एवं च योग्यता-त्यन्ताभावानधिकरणत्वस्य सत्वान्न मोक्षकालीनात्मन्य व्याप्तिरिति भावः ।
वस्तुसिद्धेर्लक्षणप्रमाणाधीनत्वात्स्वप्रकाशत्वस्य लक्षणमुक्त्वा तत्र प्रमाणं चाह– प्रमाणं चात्रेति ।। स्वप्रकाशेति ।। अवेद्येत्यर्थः ।। व्यतिरेकीति ।। व्यतिरेकव्याप्तौ च घटादिर्दृष्टान्त इति भावः ।। किञ्चिन्निष्ठेति ।। यन्निष्ठात्यन्ताभावप्रतियोगि तदेवावेद्यरूपं स्वप्रकाशमेवाऽऽयास्यतीति भावः । नन्वनेनानुमानेनानुभूतेः स्वप्रकाशत्वसिद्धावप्यात्मनः स्वप्रकाशत्वम् असिद्धमित्यत आह– आत्मा चेति ।। योग्यतात्यन्ताभावानधिकरणत्वस्यापि मुक्तात्मन्यभावादव्याप्तिरित्याह– त्वन्मत इति ।। अनधिकरणत्वरूपस्य तद्वैशिष्ट्यरूपस्य । नन्वात्मनि योग्यतात्यन्ताभावानधिकरणत्वस्यैव सत्वेन तदभावः कथं वक्तुं शक्यते । येनासम्भवः स्यात् । तथा च मुक्तात्मा योग्यतात्यन्ताभावानधिकरणत्वा-भाववान्न भवति योग्यतात्यन्ताभावानधिकरणत्वात् । यो यदनधिकरणं स तदनधिकरणत्वाभाववान्न भवति यथा रूपानधिकरणं वायू रूपानधिकरणत्वाभाववान्नेति सामान्यव्याप्तिमूलकानुमानेन योग्यता-भावनधिकरणत्वाभावस्याऽभावसिद्धेः कथमव्याप्तिरित्यत उक्तं सत्वादीति ।। यथा त्वन्मते आत्मनो निर्धर्मकत्वात्तत्र सत्वं नास्ति, असत्वं च नास्ति । तावता सत्वानधिकरणत्वमसत्वानधिकरणत्वं च तत्र वक्तुं न शक्यते । तथात्वेऽनिर्वाच्यलक्षणस्य ब्रह्मण्यतिव्याप्तिप्रसङ्गात् ।
एवं ब्रह्मणि योग्यतात्यन्ताभावाधिकरणत्वं योग्यतात्यन्ताभावानधिकरणत्वं च नास्त्येवेत्य-व्याप्तिरेव ।। तथा चोक्तानुमाने सामान्यव्याप्तौ सत्वाद्यनधिकरणत्व वत्यात्मनि व्यभिचारान्नाव्याप्ति-परिहारायोक्तलक्षणाभावस्यानुमानतो व्याप्तिर्दृढेति भावः । उक्तलक्षणस्यासम्भवं चाह– किञ्चेति ।। स्वेति ।। तथा चात्मनि योग्यता तदत्यन्ताभावश्चास्तीति वक्तव्यम् । तथा चात्मनि योग्यतात्यन्ता-भावानधिकरणत्वम् असम्भवीत्यर्थः । ननु नासम्भवः । योग्यताया मिथ्यात्वेन तदत्यन्ताभावो यो ब्रह्मण्यस्ति स पारमार्थिक एव । योग्यतात्यन्ताभावानधिकरणत्वमित्यत्र व्यवहारिको यो योग्यतात्यन्ता-भावस्तदनधिकरणत्वं विवक्षितम् । तस्य चात्मनि सत्वान्नासम्भव इत्याशङ्क्य निषेधति– न चेति ।। अत्यन्ताभावस्येति ।। योग्यताया मिथ्यात्वेन यस्तदत्यन्ताभावोऽस्ति स पारमार्थिक इति वक्तुं न शक्यते । कुतः तस्य ब्रह्मभिन्नत्वेन व्यावहारिकत्वावश्यम्भावात् । योग्यतात्यन्ताभावस्य विशिष्टस्य ब्रह्मात्मकत्वे योग्यताया अपि ब्रह्मत्मकत्वापत्त्या मिथ्यात्वोक्त्ययोगात् । तथा च ब्रह्मणि योग्यता-त्यन्ताभावस्य व्यावहारिकत्वेऽवश्यं वाच्ये व्यावहारिकयोग्यताभावाधिकरणत्वस्यैव प्राप्त्या तदनधिकरण-त्वस्यासम्भव एवेत्यर्थः ।
अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वमित्यत्रोभयमपि दुर्वचमित्याशयेन तावदवेद्यत्वं न निर्वक्तुं शक्यमित्याह – किञ्चेत्यादिना ।। असम्भवादिति ।। ब्रह्मणो वृत्त्यव्याप्यत्वे ब्रह्मविचारयतोर्गुरु-शिष्ययोर्मौनं मौढ्यं च स्यादिति भावः ।। दृश्यत्वभङ्ग इति ।। वृत्तिप्रतिबिम्बितचैतन्ये तदभिव्यक्ता-धिष्ठानचैतन्ये ज्ञाततारूपफलस्य विकल्प्य तत्र खण्डितत्वेन प्रातिभासिके रूप्यादौ सर्वत्रापि व्यावहारिके घटादिप्रपञ्चे फलाव्याप्यत्वसद्भावेनाति व्याप्तेरित्यर्थः ।। तत्रेति ।। कल्पितभेदेन जीवब्रह्मणोर्ज्ञातृज्ञेयभाववद् ब्रह्मणोऽपि स्वाकारवृत्तिप्रतिफलतचिद्विषयत्वाच्च । अन्यथा तया तदज्ञाननिवृत्त्ययोगादिति दृश्यत्वभङ्गे उक्तरीत्या अधिकारिणो जायमाना या ब्रह्माकारवेदान्तजन्या चरमवृत्तिस्तत्प्रतिबिम्बिता या चित् तद्रूपं यत्फलं तत्सम्बन्धसद्भावेन फलाव्याप्यत्वाभावादसम्भव इत्यर्थः । फलाव्याप्यत्वरूपावेद्यत्वस्य ब्रह्मण्यसम्भवपरिहारप्रकारमनूद्य दूषयति– एतेनेति ।।
ननु तथापि ब्रह्मणि स्वाकारवेदान्तजन्यवृत्तिप्रतिबिम्बितचिज्जन्यो योऽतिशयोऽविद्यारूपावरणभङ्गो व्यवहारो वा तद्योगित्वमेवास्तीति पुनरसम्भव एव स्यादत आह– अतिशयश्चेति ।। भग्नेति ।। भग्नावरणा या चित् अधिष्ठानचैतन्यं तत्सम्बन्ध इत्यर्थः ।। घटादाविति ।। तथा च फलाव्याप्यत्व-रूपावेद्यत्वलक्षणस्य नातिव्याप्तिरिति भावः ।। न त्विति ।। ब्रह्मणः चैतन्यरूपत्वेन तत्र पुनरधिष्ठान- चित्सम्बन्धाभावेन स्वाकारवृत्तिप्रतिबिम्बितचिज्जन्य भग्नावरणचित्सम्बन्धरूपातिशययोगित्वरूप-फलव्याप्यत्वाभावेन फलाव्याप्यत्वरूपावेद्यत्वसद्भावान्नाव्याप्तिरिति भावः । वृत्त्याऽभिव्यक्तेति सम्बन्धः ।। न त्विति ।। स्वाकारवृत्त्याऽप्यभिव्यक्ताधिष्ठानचिद्विषयत्वाभावान्नासम्भव इत्यर्थः । एतेनेत्युक्तमेव विशदयति– घटादाविति ।। तथा च घटादावपि फलाव्याप्यत्वसद्भावादतिव्याप्तिरिति भावः ।। चिद्रूपेति ।। घटादौ तु चैतन्यरूपज्ञानविषयत्वस्यैव सत्वान्नावेद्यत्वलक्षणस्यातिव्याप्तिरिति भावः ।
ननु रूप्यादावतिव्याप्तिरिति तत्राह– रूप्यादिरपीति ।। तथा चात्रापि साक्षिविषयत्वसद्भावा-न्नातिव्याप्तिरित्यर्थः । नन्वेवं चिद्रूपज्ञानाविषयत्वमेवावेद्यत्वमस्तु । चैतन्याख्यज्ञानाविषयत्वरूपावेद्यत्वस्य घटादौ रूप्यादौ च कुत्राप्यतिव्याप्त्य भावात्स्वप्रकाशत्वलक्षणेऽपरोक्षव्यवहारविषयत्वरूपविशेष्यांशो व्यर्थः । व्यावर्त्याभावादित्यत आह– लक्षण इति ।। नित्यातीन्द्रिये चिद्रूपज्ञानाविषयत्वमस्ति । अन्यथाऽपरोक्षचित्सम्बन्धाद्विषयस्याप्यपरोक्षापत्तेः । अतस्तत्रातिवाप्ति वारणाय विशेष्यभाग इत्यर्थः ।। घटादाविति ।। दृश्यत्वभङ्गे चैतन्यरूपज्ञानस्य खण्डितत्वेन चिद्रूपज्ञानाविषयत्व रूपावेद्यत्वस्य घटादावपि सत्वेनातिव्याप्तिरित्यर्थः ।। तत्स्वभावस्यापीति ।। चैतन्यरूपज्ञान स्वभावस्यापि । स्फुरणस्य ब्रह्मरूपज्ञानस्य । तद्विषयत्वं चिद्रूपज्ञानविषयत्वम् । तथा च चिद्रूपज्ञानाविषयत्वस्य ब्रह्मण्यभावादसम्भव इत्यर्थः ।। उपेत्येति ।। कर्मत्वातिरिक्तं विषयत्वमङ्गीकृत्येत्यर्थः ।
अकर्मत्वेति ।। कर्मत्वं कारकविशेषः । क्रियाजनकं कारकम् । ब्रह्मरूपज्ञानस्य नित्यत्वेन ब्रह्मरूपविषयस्य न तत्कर्मत्वमिति युक्तं ब्रह्मणश्चिदकर्मत्वरूपम् अवेद्यत्वमित्यर्थः । परसमवेतत्वं क्रियाविशेषणम् । परः कर्ता तत्समवेता या क्रिया तज्जन्यं यत्फलं तच्छालित्वमित्यर्थः । वृत्ति-प्रतिबिम्बितचैतन्यस्य वा तदभिव्यक्ताधिष्ठानचैतन्यस्य वाऽवच्छिन्नस्य ज्ञानत्वेन पराभिमतस्य जन्यत्वेन तत्प्रति घटादेः कारकत्वेन कर्मत्वं सम्भवत्येवेति न चिदकर्मत्वस्य घटादावतिव्याप्तिरत उक्तम् अन-वच्छिन्नमिति ।। अविद्ययाऽनावृतं सर्वगतम् अनवच्छिन्नं चैतन्यं ज्ञानमिति पक्षे तस्य नित्यत्वा-दित्यर्थः । अत्र नित्यमित्यस्य नित्यं विद्यमानमनादीत्यर्थः । नित्यं नित्यत्वेन साधितानादिताकमित्यर्थ इत्यन्ये । स्वाकारवृत्तिप्रतिबिम्बितचैतन्यस्यावच्छिन्नस्य जन्यत्वेन तत्प्रति वेदान्तजन्यापरोक्ष-चरमवृत्तिविषयस्य ब्रह्मणोऽपि स्वावच्छिन्नं चैतन्यं प्रति घटस्यैव कारकत्वेन चिदकर्मत्वाभावादति-व्याप्तिरित्याह– स्वेति ।।
ननु चरमवृत्तिर्न ब्रह्माकारा ब्रह्मणो निराकारत्वादत उक्तं रूपादेरिवेति ।। निराकारं यद्रूपरसादि तदाकारा वृत्तिर्यथाऽङ्गीकृता एवं वेदान्तजन्यचरमवृत्तेरपि निराकारब्रह्माकारत्वं युक्तमित्यर्थः । ब्रह्मण्यतिशयस्य सत्वादित्यन्वयः ।। उक्तन्यायेनेति ।। कल्पितभेदेन जीवब्रह्मणोर्ज्ञातृज्ञेयभाववद् ब्रह्मणोऽपि स्वाकारवृत्तिप्रतिबिम्बितचिद्विषयत्वं सम्भवत्येव । अन्यथा तया तदज्ञाननिवृत्त्ययोगादिति दृश्यत्वनिरुक्तिभङ्गे उक्तरीत्येत्यर्थः ।। प्रतिफलितेति ।। स्वाकारवेदान्तजन्यवृत्तिप्रतिफलितेत्यर्थः । तथा च चिज्जन्यातिशयवत्त्वाभावरूपचिदकर्मत्वरूपावेद्यत्वस्य ब्रह्मण्यसम्भव इति भावः । ननु चिज्जन्यातिशयो ज्ञाततारूप एव विवक्षितः । स च ब्रह्मणि नास्ति । अतीन्द्रियत्वात् । एवं च चिज्जन्यज्ञाततारूपातिशयवत्त्वाभावरूपचिदकर्मत्वरूपावेद्यत्वस्य न ब्रह्मण्यसम्भव इत्यत आह– तदन्यस्येति ।। आवरणभङ्गातिरिक्तज्ञाततारूपातिशयस्येत्यर्थः ।
जडेऽतिव्याप्तिरित्याह– शुद्धेति ।। चैतन्यफलरूपज्ञानस्य सर्वत्र व्याप्तत्वेन परसमवेतत्वाभावात् । ‘क्रियां कुर्वद्धि कारकम्’ इत्युक्तत्वेन कारकजन्याया एव क्रियात्वात् । शुद्धचितश्च तदभावेन क्रियात्वाभावात्परसमवेतक्रियाजन्य फलशालित्वरूपकर्मत्वस्य जडेऽप्यभावेन चिदकर्मत्वसद्भावा-दतिव्याप्तिरित्यर्थः । ननु शुद्धचितः समवेतत्वाद्यभावेऽपि वृत्तिप्रतिबिम्बितचैतन्यस्य परस्मिन् ज्ञातरि वृत्तिवत्समवेतत्वात्कर्मादिकारकजन्यत्वेन क्रियात्वाच्च तज्जन्यव्यवहारादिरूप फलशालित्वसद्भावेन घटे कर्मत्वसद्भावान्न चिदकर्मत्वलक्षणस्यातिव्याप्तिरिति चेत्तर्हि ब्रह्मणोऽपि स्वाकारचरमवृत्ति प्रतिफलित-चैतन्यस्य परसमवेतत्वात् क्रियात्वाच्च तज्जन्यावरणभङ्गव्यवहाररूपफलशालित्वेन कर्मत्वाच्चिदकर्मत्व रूपावेद्यत्वस्य ब्रह्मण्यसम्भव इत्याह– प्रतिबिम्बितचिति त्विति ।। ज्ञप्तिः चैतन्यरूपा ।
ननु ब्रह्मणोऽपि वृत्तिरूपज्ञप्तिविषयत्वसत्वादसम्भव इत्यत आह– वृत्तिस्त्विति ।। घटादावपि ज्ञप्त्यविषयत्व सद्भावादतिव्याप्तिरित्यत आह– घटादाविति ।। ज्ञप्तीति ।। चैतन्यरूपज्ञप्तीत्यर्थः । अप्रामाणिकत्वादिति भावः । विषयापरोक्ष्यं तु चैतन्याभिव्यञ्जकत्वार्थमावश्यकेन वृत्तिगतविशेषेणैवो-पपन्नमिति ध्येयम् । अवेद्यत्वनिरुक्तिखण्डनेन लब्धमर्थमाह– तस्मादिति ।। अयमिति ।। यद्विषयत्वं स्वप्रकाशत्वमित्यर्थः ।। अपरोक्षोऽयमित्याकार इति ।। अपरोक्षत्वप्रकारकात्मविशेष्यकव्यवहार एवापरोक्षव्यवहार इत्यर्थः ।। धर्माधर्मादाविति ।। योगीश्वराणां योगजधर्मप्रत्यासत्त्या जन्यं यदपरोक्ष-ज्ञानं तज्जन्यो यो योगीश्वरीयव्यवहारस्तद्विषयत्वात्, तथाऽस्माकं जायमानं यद् धर्मादिकमनुमित्या शास्त्रतो वा जानामीत्येवमनुव्यवसायरूपापरोक्षज्ञानं, तथा यत्प्रमेयं तदभिधेयमिति सर्वोपसंहारेण व्याप्तिज्ञानरूपम् अपरोक्षज्ञानं तज्जन्यव्यवहारविषयत्वस्य धर्मादावपि सत्वेन स्वप्रकाशत्वप्रसङ्गा-दतिव्याप्तिरित्यर्थः । अपरोक्षेण इत्येतद् योगजन्यज्ञानेन इत्यादित्रयाणामपि विशेषणम् ।
नन्वपरोक्षज्ञानजन्यो व्यवहार इत्यत्रापरोक्षज्ञानशब्देन लौकिकप्रत्यासत्त्या जन्यसाक्षात्कार एव विवक्षितः । तज्जन्यव्यवहारो धर्मादौ नास्ति । योगिनां जायमानस्य धर्मादिसाक्षात्कारस्य योगजधर्म-प्रत्यासत्तिरूपालौकिक सन्निकर्षजन्यत्वाद् अस्मदादीनां जायमानानुव्यवसायरूपस्य व्याप्तिज्ञानरूपस्य च साक्षात्कारस्य ज्ञानलक्षणप्रत्यासत्ति जन्यत्वान्नातिव्याप्तिः । घटादौ त्वेतादृशापरोक्षज्ञानजन्य-व्यवहारविषयत्वसत्वेऽप्यवेद्यत्वरूपविशेषणाभावेन स्वप्रकाशत्वाभावसद्भावात्तत्र व्यवहारजनकापरोक्ष-ज्ञानेऽलौकिकप्रत्यासत्त्यजन्यत्वं नाम किमित्यतस्तत्स्वरूपं निरुच्य दर्शयति– अनागतेति ।। अनागतगोचरो यः साक्षात्कारस्तज्जनिका या प्रत्यासत्तिर्ज्ञानसामान्ययोगजधर्मरूपालौकिक प्रत्यासत्ति-स्तदजन्यो यो जन्यसाक्षात्कारः लौकिकप्रत्यासत्तिजन्यसाक्षात्कारः स एवापरोक्षज्ञानशब्देन विवक्षित इत्यर्थः । अत्रानागतगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्यो यः साक्षात्कारः ईश्वरसाक्षात्कारस्तज्जन्य-व्यवहारविषये धर्मादौ स्वप्रकाशत्वपरिहाराय जन्येति साक्षात्कारविशेषणम् ।। आत्मेति ।। आत्म-स्वरूपज्ञानस्य नित्यत्वेन उक्तप्रत्यासत्त्यजन्यजन्यसाक्षात्कारत्वाभावेन तज्जन्यव्यवहारविषयत्वमात्मनि नास्तीत्यपरोक्षव्यवहारविषयत्वरूप स्वप्रकाशत्वलक्षणस्यासम्भव इत्यर्थः ।
नन्वपरोक्षज्ञानशब्देन विषयनिष्ठो योऽपरोक्षव्यवहारस्तद्धेतुभूतसाक्षात्कार एव विवक्षितः । एवं च धर्मादौ नातिव्याप्तिः । योगजज्ञानानुव्यवसायेऽव्याप्तिज्ञानरूपसाक्षात्काराणाम् अलौकिकप्रत्यासत्ति-जन्यतया विषयेऽपरोक्षव्यवहार हेतुत्वाभावादित्याशङ्क्याह– विषयेति ।। साक्षिरूपसाक्षात्कारस्य स्वविषयभूतरूप्याविद्यागतापरोक्षव्यवहारहेतुत्वेन विषयगतापरोक्षव्यवहारहेतुसाक्षात्कारजन्यव्यवहारविषयत्वं रूप्यादीनामप्यस्तीति तेषामपि स्वप्रकाशत्वप्राप्त्याऽति व्याप्तेरित्यर्थः ।। वस्तुन इति ।। ‘अपरोक्ष-वस्तुविषयो’ व्यवहारो हि अपरोक्षव्यवहार इत्यत्र वस्तुनोऽपरोक्षत्वं नामाऽपरोक्षज्ञानविषयत्वम् । तथा चात्मनः स्वप्रकाशत्वं नामाऽपरोक्षज्ञानविषयतयाऽपरोक्षभूतं यदात्मरूपं वस्तु तद्विषयव्यवहार-विषयत्वं वाच्यम् । एवं चात्मरूपवस्तुनोऽपरोक्षज्ञानविषयत्वेन घटादिवद्वेद्यत्वापत्त्याऽवेद्यत्वे सतीत्यनेन व्याघात इत्यर्थः ।। तस्यैवेति ।। अवेद्यत्वे सत्यपरोक्षज्ञानविषयत्वस्यैव लक्षणत्वोपपत्तौ ज्ञानापरोक्ष्येण विषयापरोक्ष्यं सम्पाद्यापरोक्षवस्तुविषयकव्यवहारयोग्यत्वरूपलक्षणकरणरूपकुसृष्टिवैयर्थ्यादित्यर्थः । साक्षिवेद्यरूप्यादावतिव्याप्तिस्तूभयथापि समैवेति भावः ।
ननु वस्तुन आपरोक्ष्यं नामापरोक्षज्ञानविषयत्वमिति नोच्यते । येनोक्तकुसृष्टिवैयर्थ्यापत्तिः । किंनामापरोक्षव्यवहार विषयत्वमेवेति । तथा चापरोक्षव्यवहारविषयत्वेनापरोक्षभूतवस्तुव्यवहारविषयत्वं स्वप्रकाशत्वं चेत्तर्हि वस्त्वापरोक्ष्यसिद्धौ अपरोक्षवस्तुविषयकत्वेन व्यवहारस्यापरोक्षत्वसिद्धिः । तत्सिद्धौ चाऽपरोक्षव्यवहारविषयत्वेन वस्त्वापरोक्ष्यसिद्धिरित्य न्योन्याश्रयः स्यादित्याह– अपरोक्षेति ।। आपरोक्ष्ये विषये । वस्तुव्यवहारयोरन्योन्यसापेक्षत्वेनेत्यर्थः ।। इत्याकारत्वेति ।। अपरोक्षत्व-प्रकारकत्वायोगादित्यर्थः । तदुपपादनाय निराकारेति, अखण्डार्थेति च हेतुद्वयम् । एवम् अपरोक्ष-व्यवहारविषयत्वं प्रकारत्रयेण विकल्प्य दूषयित्वा अस्तु वा यत्किञ्चित्तथाप्यवेद्यत्वे सत्यपरोक्षव्यवहार-विषयत्व रूपस्वप्रकाशत्वस्याभावेऽतिव्याप्तिरित्याह– अभाव इति ।। नन्वभावस्याऽनुपलब्ध्याऽनुमेय-त्वेनापरोक्षव्यवहार विषयत्वाभावात् कथमतिव्याप्तिरित्यतस्तदुपपादयति– अस्ति हीति ।। अवेद्य-त्वांशमुपपादयति– स चेति ।। फलव्याप्यत्वरूपमवेद्यत्वं तत्रास्तीत्यर्थः । कथमित्यतस्तदुपपादयति– त्वयैवेति ।। नाभावस्येति ।। प्रत्यक्षत्वाभावेन फलीभूतापरोक्षचित्सम्बन्धाभावादित्यर्थः ।
ननु लोकव्यवहारानुसारेणापरोक्षव्यवहारविषयत्वे सत्यपि प्रकृतेऽस्माभिरपरोक्षव्यवहार-शब्देनापरोक्षज्ञानविषयत्वमेव विवक्षितम् । एवं चानुपलब्धिगम्याभावेऽपरोक्षज्ञानविषयत्वरूपापरोक्ष-व्यवहारो नास्तीति न तत्रातिव्याप्तिरित्यत आह– यदि चेति ।। अपरोक्षज्ञानाविषयत्वरूपम् अवेद्यत्वमङ्गीकृत्य पुनरपरोक्षव्यवहारशब्देनापरोक्षज्ञानविषयत्वाङ्गीकारे स्वव्याहतिः स्यादित्यर्थः ।। चैत्रस्येति ।। घटाद्यधिष्ठानचैतन्यं घटादिप्रकाशकमित्युच्यते । तत्र घटविषयकचैत्रस्थ वृत्त्यादिना घटाधिष्ठानचैतन्यरूपज्ञानस्य चैत्रं प्रत्यपरोक्षव्यवहारयोग्यत्वे सत्यपि मैत्रं प्रति तदभावेन चैत्रस्थज्ञान-रूपस्य घटा (धिष्ठानचै) वच्छिन्नचैतन्यस्य सर्वान्प्रत्यपरोक्षव्यवहारविषयत्वाभावेन स्वप्रकाशत्वं न स्यादित्यर्थः ।। ज्ञानं प्रतीति ।। घटाधिष्ठानचित्तं प्रतीत्यर्थः । तथा च चैतन्यरूपज्ञानकर्तृकापरोक्ष-व्यवहारविषयत्वमिति यावत् ।। तस्येति ।। घटाधिष्ठानचैतन्यस्यापरोक्षव्यवहारकर्तृत्वाभावादुक्त-लक्षणस्यासम्भव इत्यर्थः ।। ज्ञानेति ।। ज्ञानाश्रयो यो जीवात्मा तत्कर्तृकव्यवहारविषयत्वम् अधिष्ठानचैतन्यस्यास्तीति युक्तं तस्य स्वप्रकाशत्वमित्यर्थः ।
चैतन्यस्यैव ज्ञानत्वेनानवच्छिन्नस्य तस्य कुत्राप्यनाश्रितत्वादाऽऽत्मनस्तदाश्रयत्वमयुक्तमित्याह– चित इति ।। वृत्तिप्रतिबिम्बितचैतन्यस्य वा घटाधिष्ठानचैतन्यस्य वा परिच्छिन्नत्वेन युक्तं जीवात्मन-स्तदाश्रयत्वमित्यस्वरसादाह– किञ्चेति ।। लक्षणांशयोर्व्याहतिरित्यर्थः । व्याहतत्वमेवोपपादयति– तदिति ।। स्फुरणस्य ज्ञानस्य । तथा चावेद्यत्वोक्त्या तद्विषयकस्फुरणाभावप्राप्तेस्तादृशापरोक्षव्यवहारा-योगेन तद्विषयकत्वकथनं व्याहतमित्यर्थः । ननु चैतन्यरूप स्फुरणस्य चैतन्यरूपस्फुरणविषयकत्वा-भावेऽपि चैतन्यरूपस्फुरणविषयकापरोक्षान्तःकरणवृत्तिरेव । तदपरोक्षव्यवहारहेतुर्भविष्यति । अथवा तद्विषयकापरोक्षवृत्त्यभावेपि स्फुरणाविषयकं स्फुरणमेव स्वभावविशेषादपरोक्षव्यवहार हेतुर्भविष्यतीति चेत्तर्हि सर्वत्रैकरूप्याय घटादावप्यपरोक्षव्यवहारहेतुत्वेन चैतन्यकल्पनं व्यर्थम् । तत्रापि घटविषयका-परोक्ष वृत्तिरेव वा स्वाविषयको घट एव वा स्वभावविशेषादेवापरोक्षव्यवहारहेतुरस्त्वित्याह– यदि चेत्यादि ।
अस्फुरणेति ।। अतस्तत्रापरोक्षव्यवहाराय तत्र स्फुरणान्तरापेक्षा न तु घट एव तद्धेतुरित्यर्थः । तद्रूपं स्फुरणरूपम् । अतो न तत्र स्फुरणान्तरापेक्षेत्यर्थः ।। तावतेति ।। स्फुरणरूपत्वेनेत्यर्थः ।। नापेक्षितमिति ।। अनवस्थाभयादिति भावः ।। कप्तमित्यर्थः । ननु भेदाभावात्तद्विषयत्वमपि त्यज्यत इति चेन्न । कल्पितभेदसद्भावात् वृत्तिप्रतिबिम्बितस्य विषयित्वं घटाधिष्ठानस्य विषयत्व-मित्युपपत्तेः ।। अन्यथेति ।। तद्व्यवहारजनकत्वेन कप्तस्य तद्विषयत्वस्य स्फुरणेऽनङ्गीकारे । प्रमेयत्वे प्रमेयत्वस्य वृत्तिमङ्गीकृत्य प्रमेयत्वं प्रमेयमिति स्वस्मिन्व्यवहारकारणत्वं सर्वाङ्गीकृतं न स्यात् । तत्रापि स्ववृत्तिं विनैव प्रमेयव्यवहारनिर्वाहकत्वमस्तु । ततश्च प्रमेयत्वे प्रमेयत्वाभावप्राप्त्या तस्य केवलान्वयित्वं न स्यादित्यर्थः । स्वस्मिन्स्वस्य वृत्त्यभावेन स्वविषयकत्वाभावमङ्गीकृत्य स्वस्मिन् स्वकार्यजनक त्वाङ्गीकारे गतौ गत्यभावेन गतेर्गतिविषयकत्वाभावेऽपि स्वकार्यं यद्ग्रामपुरुषसंयोगरूपं तत्स्वस्मिन्नपि कुर्यादित्याह– ग्राम इति ।।
ननु भवद्भिः सत्ताजातौ सत्तान्तराभावेन स्वविषयत्वाभावेपि सत्ताप्रतीतिः स्वस्मिन्व्यवहारकारित्वं सत्ताया अङ्गीकृतं तद्वत्स्यादित्यत आह– अस्मन्मत इति ।। नास्मन्मते सत्वं नाम सत्ताजातिः किं नामाबाध्यत्वरूपम् । तस्य स्ववृत्तित्वमङ्गीकृत्यैव व्यवहारहेतुत्वम् अस्माभिरङ्गीकृतमिति नास्मत्प्रतिबन्दीत्यर्थः । तुच्छवारणाय स्वरूपत्वमित्युक्तम् । अस्य न कुत्राप्यतिव्याप्तिरित्याह– चित्त्विति ।। चित्तु चित्स्वरूपं त्वित्यर्थः । कुत इत्यत आह– स्वात्मनीति ।। क्रियायाः स्वभिन्न-कर्त्राद्युपेतत्वनियमात्, चैतन्यरूपक्रियायामेककर्तृत्वयोर्विरोधादित्यर्थः । क्रियायाः कर्मत्वं विरुद्ध-मित्यत्रोदाहरणमाह– न हीति ।। एतेनेत्युक्तं विशदयति– मिथ्यात्वेति ।। उपपत्तेरिति ।। चितोऽपि चिद्विषयत्वोपपत्तेरित्यर्थः ।। अन्यथेति ।। चितेः स्वविषयकत्वानङ्गीकार इत्यर्थः । व्यवहारं स्वकर्मकव्यवहारम् । तर्हि च्छिदाया अपि च्छेद्यत्वं स्यादिति चेत्तत्राह– न हीति ।। छिदाया अपि छेद्यत्वमङ्गीकुर्मो यदि छिदाकार्यं द्वैधीभावः च्छिदायां दृश्येत । प्रकृते तु चैतन्याख्यज्ञान-रूपक्रियायाः कार्यं व्यवहारः क्रियायामेव दृश्यत इति स्वविषयकत्वमङ्गीकर्तव्यमित्यर्थः ।
स्वावच्छिन्नेति ।। स्वव्यावर्तितेत्यर्थः । स्वविषयकेति यावत् ।। संविदिति ।। संविदन्तरेत्यर्थः । शब्दभेद एव अर्थस्त्वेक एवेति द्रष्टव्यम् । इदं लक्षणद्वयं पूर्वं दृश्यत्वनिरुक्तिभङ्गविवरणे व्याख्यातम् ।। स्ववेद्यत्वेऽपीति ।। एतादृशस्वप्रकाशत्वेन ब्रह्मणः सर्वथाऽवेद्यत्वं कुतः स्ववेद्यत्वरूप-स्वप्रकाशत्वसद्भावेऽप्यनयोर्लक्षणयोरुपपत्त्याऽस्माकं सम्मतत्वादित्यर्थः ।। स्वविषयत्वमिति ।। स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वोक्त्या स्वाख्यसंविद एव स्वव्यवहार जनकत्वमुक्तं स्यात् । तच्च स्वविषयत्वरूपस्ववेद्यत्वं विना न सम्भवतीत्युक्तत्वेन तस्य च त्वयाऽनङ्गीकारान्न स्वव्यवहारहेतुत्वं युक्तमित्यर्थः ।। अभावेनेति ।। अन्यथा निर्गुणश्रुतिविरोधादित्यर्थः ।। तत्साधकेति ।। स्वप्रकाशत्व-साधकानुभूतित्वाद्यनुमानादेरित्यर्थः ।। बाधादिति ।। मिथ्याभूतार्थावगाहित्वादिति भावः ।। इति स्वप्रकाशत्वलक्षणभङ्गविवरणम् ।। ११ ।।
न्यायकल्पलता
योग्यतात्यन्ताभावेति ।। मोक्षे योग्यताया अभावेऽपि तदत्यन्ताभावो नास्ति । योग्यता-वत्तदत्यन्ताभावस्यापि धर्मत्वात् ।। स्वप्रकाशेति ।। अवेद्येत्यर्थः । तथापीत्यादिनोक्ततल्लक्षणस्य मुक्तात्मन्यव्याप्तिमाह– त्वन्मत इति ।। ननु ‘मुक्तात्मा नोक्तात्यन्ताभावाधिकरणत्वाभाववान् उक्तात्यन्ताभावानधिकरणत्वात् । यो यदनधिकरणं स तदनधिकरणत्वाभाववान्न । यथा रूपानधिकरणं वायुः रूपानधिकरणत्वाभाववान्न । तथा च कथमव्याप्तिरित्यत उक्तं सत्वादीति ।। एवं चात्मनि व्यभिचारान्नोक्तविधया लक्षणाभावाभावानुमानमित्यर्थः । न चानधिकरणत्वं स्वरूपमेवातो मुक्तावपि तदस्तीति युक्तम् । स्वरूपत्वे लक्षणत्वानुपपत्तेः । तत्वविदां मते त्वानन्दादेः स्वरूपत्वेऽपि सविशेषतया धर्मत्वाल्लक्षणत्वम् ।। स्वेति ।। एतेनात्यन्ताभावस्याधिकरणरूपतया तदनधिकरणत्वं नासम्भवीति निरस्तम् । योग्यताया मिथ्यात्वानुपपत्तेः । स्वात्यन्ताभावसामानाधिकरण्याभावात् ।। ब्रह्मान्यत्वेनेति ।। ब्रह्मरूपत्वे तु योग्यता मिथ्या न स्यादिति बोध्यम् ।। दृश्यत्वेति ।। रूप्यादौ विशेषणवद्विशेष्यस्यापि सत्त्वाद्धटादौ विशेष्यवद्विशेषणस्यापि सत्त्वादित्युक्तत्वादित्यर्थः।
नन्वपरोक्षेत्यादिना प्रमाणजन्यापरोक्षवृत्तिविषयत्वं विवक्षितम् । प्रातिभासिकादौ च न प्रमाण-वृत्तिः । अतो न तत्रातिव्याप्तिः । मैवम् । प्रमाणजन्यापरोक्षवृत्तिविषयचैतन्येऽध्यासमात्रेण घटादावा-परोक्ष्योपपत्तेस्तदर्थं घटादौ तादृशवृत्तिविषयत्वस्य स्वीकर्तुमनुचितत्वेनोक्तवृत्तिविषयत्वस्यैव लक्षणत्व-सम्भवे ‘अवेद्यत्वे सती’त्यस्य वैयर्थ्यात् ।। स चेति ।। सम्बन्धस्योभयनिष्ठत्वा(भावा)दिति भावः ।। न त्विति ।। आत्मनोऽधिष्ठानाभावाद् भग्नावरणचिदभेदरूपस्य सम्बन्धस्य चित्यपि सत्त्वादा-द्यपक्षमुपेक्ष्य द्वितीययोर्दोषमाह– घटादाविति ।। एतेनैवेति ।। घटादौ वृत्त्यतिरिक्तचिद्रूपज्ञानं प्रत्यविषयत्वेनैवेत्यर्थः ।। स्वाकारेति ।। तथा चासम्भवः । ननु चरमवृत्तिर्न ब्रह्माकारा । तस्य निराकारत्वात् । अत उक्तं रूपादेरिवेति ।। रूपाकारत्ववद् ब्रह्माकारत्वमपि वृत्तेर्युक्तम् ।। उक्तेति ।। चरमवृत्तिप्रतिफलितचित्फलभूतस्य ।। तदन्यस्य चेति ।। तादृशचिद्विषयत्वादेः ।। शुद्धेति ।। शुद्धचितः कर्मत्वं स्यात् । न चैवम् । शुद्धचितः परसमवेतत्वे क्रियात्वे च तत्फलभूतया वृत्ति-प्रतिफलितचिता (शाल)भासमानघटादेः कर्मत्वं स्यात् । न चैवम् । शुद्धचितः समवेतत्वाद्यभावात् ।
जन्यसाक्षात्कारेति ।। तादृशेश्वरज्ञानजन्यव्यवहारविषये धर्मादावनतिव्याप्तये जन्येत्युक्तम् ।। साक्षीति ।। विषयगतापरोक्षव्यवहारहेतुसाक्षात्कार त्वात्साक्षिणः । अपरोक्षज्ञानशब्देन वृत्तिप्रति-फलितचैतन्यादिकं वाऽपरोक्षवृत्तिमात्रं वा । आद्य आह– आत्मापीति ।। द्वितीय आह– तस्यैवेति ।। अवेद्यत्वे सत्यपरोक्षज्ञानविषयत्वस्यैव ।। कुसृष्टीति ।। ज्ञानापरोक्ष्येण विषयापरोक्ष्यं सम्पाद्य लक्षण-करणं कुसृष्टिः । साक्षिवेद्यरूप्यादौ अतिव्याप्तिस्तु उभयथापि समैवेत्यर्थः ।। वस्त्विति ।। वस्त्वा-परोक्ष्याधीनं व्यवहारापरोक्ष्यं तदधीनं च वस्त्वापरोक्ष्यम् इत्यन्योन्याश्रय इत्यर्थः । अभावे लक्षणगत-विशेष्यांशमुपपादयति– अस्ति हीति ।। विशेषणांशमुपपादयति– स चेति ।। नन्वनुपलब्धिगम्येऽ-भावेऽपरोक्षज्ञान विषयत्वरूपोऽपरोक्षव्यवहारो नास्तीति न तत्रातिव्याप्तिरत आह– यदि चेति ।। उक्तरूपापरोक्षज्ञानाविषयत्वरूपमवेद्यत्वम् अङ्गीकृत्य पुनरपरोक्षज्ञानविषयत्वाङ्गीकारे व्याहतिः ।। चैत्रेति ।। घटाद्यधिष्ठानचैतन्यं स्वयं प्रकाशं घटप्रकाशकमित्युच्यते तत्र घटविषयचैत्रस्थवृत्त्यादिना घटाधिष्ठानचितश्चैत्रं प्रत्यपरोक्षव्यवहारेऽपि मैत्रं प्रति तदभावाद्धटाधिष्ठानचित्स्वप्रकाशा न स्यात् ।। ज्ञानं प्रतीति ।। घटाधिष्ठानचितं प्रति । न च प्रमातारं यं कञ्चित्प्रत्यपरोक्षव्यवहारविषयत्वं विवक्षितमिति युक्तम् । प्रमातुः चित्त्वे विरोधाभावात् । जडत्वे त्वसम्भवात् । अन्यस्याहमर्थस्याभावात् ।
स्वाभावभेदात् स्वाभावविशेषात् ।। नापेक्षितमिति ।। अनवस्थाभयात् । ननु भेदाभावा-त्तद्विषयकत्वमपि त्यज्यते । मैवम् । कल्पितभेदस्य सम्भवात् । वृत्तिप्रतिबिम्बितस्य विषयित्वम् । घटाधिष्ठानस्य विषयत्वमित्युपपत्तेः ।। अन्यथेति ।। क्लृप्तस्यापि त्यागे ।। चिदविषयेति ।। तुच्छवारणाय स्वरूपत्वमिति ।। मिथ्यात्वेति ।। ननु मिथ्यात्वानुमितौ स्वपरसाधारणमेकं विषयत्व-नियामकमस्तीति सा स्वविषयेति चेन्न । तद्व्यवहारजनकत्वरूपस्य तद्विषयत्वप्रयोजकस्य चित्यपि सम्भवात् । अत एवाह– अन्यथेति ।। ननु बाधात्स्ववेद्यत्वेन नोपपत्तिरत आह– स्वविषयत्व-मिति ।। तथा चावेद्यत्वमेव बाधितमिति भावः ।। इष्टापत्तेरिति ।। न च वेद्यत्वविरोधिस्वरूपं नेष्टमिति देश्यम् । अचिन्त्यशक्त्यावेद्यस्यापि तथात्वात् । जानन्तोऽपि न जानन्तीति श्रुतेः ।।
।। इति स्वप्रकाशत्वलक्षणभङ्गः ।। ११ ।।