यच्चोच्यते तत्त्वसाक्षात्कारेण नष्टाविद्योऽनुवृत्तदेहादिप्रतिभासश्च जीवन्मुक्तः
४. जीवन्मुक्तिभङ्गः
न्यायामृतम्
यच्चोच्यते तत्त्वसाक्षात्कारेण नष्टाविद्योऽनुवृत्तदेहादिप्रतिभासश्च जीवन्मुक्तः । न च तत्त्वज्ञानादविद्या नाशे सद्यः शरीरादि निवर्तेतेति वाच्यम् । चक्रभ्रमणवद् भयकम्पादिवच्चाविद्यासंस्कारादपि तदनुवृत्तेः । न च क्रियाज्ञानयोरेव संस्कारः । निःसारितपुष्पायां तत्पुटिकायां पुष्पवासनादर्शनात् । विमतो नाशः संस्कारव्याप्तः, संस्कारनाशान्यत्वे सति नाशत्वात्, ज्ञाननाशवदित्यनुमानाच्च । संस्कारः कार्योऽपि ध्वंस इव निरुपादानः, अविद्येव च शुद्धात्माश्रित इति नाविद्यापेक्षः । संस्कारनिवृत्ति-श्चाऽऽवृत्तात्तत्त्वसाक्षात्कारात् । यद्वा अविद्यालेशानुवृत्त्या तदनुवृत्तिरिति ।
अत्र ब्रूमः । न तावत्संस्कारपक्षो युक्तः । भावकार्यमध्यस्तं संस्कारं देहादिकं तद्धेतुप्रारब्धकर्मादिकं च प्रत्युपादानत्वेनाज्ञानानुवृत्त्यापातात् । सर्पादिभ्रमसंस्कारस्तु सत्यो न त्वज्ञानोपादानकः । पूर्वसाक्षात्कारा निवृत्तस्याध्यस्तस्य तदनधिक-विषयेणाऽऽवृत्तेनाप्यत्तरेण ज्ञानेन निवृत्त्यदर्शनाच्च । जीवन्मुक्तस्याविद्या वरणाभावेन तदा निरतिशयानन्दस्फूर्त्यापाताच्च । संस्कारस्तु नावरणमिति त्वयैवोक्तम् । एतेन तत्त्वे ज्ञातेऽपि द्विचन्द्रादिवद्दोषाद् बाधितानुवृत्तिरिति निरस्तम् । तत्रेवात्र तत्त्वज्ञाना-निवर्त्यदोषाभावात् । लेशपक्षेऽपि न तावल्लेशोऽवयवः । अज्ञानस्य निरवयवत्वात् । एतेनाविद्यैव दग्धपटन्यायेन कञ्चित्कालं तिष्ठतीति निरस्तम् । निरवयवे दन्धपट-न्यायासम्भवात् । अनुवृत्तस्य ज्ञानानिवर्त्यत्वेन सत्त्वापाताच्च । अथ मतं लेशो नामाऽऽकारः । ‘इन्द्रो मायाभिः’ इत्यादिश्रुत्या अविद्याया अनेकाकारत्वेन प्रपञ्चे परमार्थसत्त्वादिभ्रमहेत्वाकारनिवृत्तावपि देहाद्यपरोक्षप्रतिभासहेत्वाकारोऽनुवर्तते । विरोधिनि तत्त्वज्ञाने सत्यपि तदनुवृत्तिश्चाऽऽरब्धकर्मभिर्ज्ञानप्रतिबन्धात् । कर्मानु-वृत्तिश्च तद्धेत्वज्ञानलेशानुवृत्तेः । उक्तं च–
अविद्यालेशशब्देन मोहाकारान्तरोक्तितः ।
ज्ञानस्य प्रतिबन्धाच्च प्रबलारब्धकर्मभिः ।। इत्यादि ।
आकारिनिवृत्तावप्याकारस्यानुवृत्तिर्व्यक्तिनिवृत्तावपि जातेरिव युक्तेति । तत्राऽऽकारो जातिशक्त्यादिरूपो धर्मो वा ? स्वर्णस्य कुण्डलादिरिवावस्थाविशेषो वा ? अज्ञान-व्यक्त्यन्तरं वा ? नाद्यद्वितीयौ । तयोर्देहादिभ्रमोपादानत्वेऽविद्यात्वापातात् । अनुपादा-नत्वे चोपादानान्तराभावेन देहादिभ्रमायोगात् । आत्मान्यत्वेन ज्ञाननिवर्त्यन्वेन च तयोरविद्यातत्कार्ययोरन्यतरत्वावश्यम्भावेनाज्ञाने निवृत्ते स्थित्ययोगाच्च । धर्मे उपादानत्वस्यावस्थायां चावस्थावन्तं विना स्थितेरयोगाच्च । न तृतीयः । अज्ञानैक्यपक्षे तदयोगात् । तद्भेदपक्षेऽपि व्यक्त्यन्तरं पूर्वाज्ञानादधिकविषयम् ? न वा ? नाद्यः । निर्विशेषे तदयोगात् । नान्त्यः । एकस्मिन्नपि विषये यावन्ति ज्ञानानि तावन्त्यज्ञाना-नीति मतस्य प्रतिकर्मव्यवस्थाभङ्गे दूषितत्वात् । चरमसाक्षात्कारान्यूनविषय-साक्षात्कारस्य पूर्वमपि सत्वे पश्चादिव जीवन्मुक्तावपि तदज्ञानहेतुकाध्यासायोगाच्च । न च पूर्वज्ञानस्य कर्मणा प्रतिबन्धादज्ञानानिवर्तकतेति युक्तम् । ज्ञानस्य स्वप्रागभाव-निवर्तन इवाज्ञान निर्वतनेऽपि प्रतिबन्धायोगात् । स्थिते लेशे कर्मानुवृत्तिस्तदनुवृत्तौ च ज्ञानस्य प्रतिबन्धः, प्रतिबन्धेन लेशस्थितिरित्यन्योन्याश्रयाच्च । न च ‘भूयश्चान्ते विश्वमायानिवृत्तिः’ इत्यत्र भूय इति श्रवणात् लेशानुवृत्तेर्मानान्तरेणाधिगमान्न ज्ञप्तावन्योन्याश्रय इति वाच्यम् । तथापि स्थितावन्योन्याश्रयात् । श्रुतौ च भूयो योजनादित्यन्वयः । एतेन ब्रह्मज्ञानस्याप्रायणमनुवृत्तिहेतुज्ञानार्थयज्ञादिकर्मभिः प्रतिबन्ध इति निरस्तम् । प्रतिबन्धायोगादेरुक्तत्वात् । अन्यथा शुक्तिज्ञानमपि तदज्ञानकार्येण भ्रमादिना उत्तरं ब्रह्मज्ञानमप्यारब्धकर्मणा प्रतिबध्येत । तदा भोगेन कर्म क्षीणमिति चेत्, न, भोगैकनाश्यत्वे ज्ञानानिवर्त्यत्वेन सत्त्वापातात् ।
एतेनाज्ञानस्यानेकशक्तित्वेनारब्धकर्मतत्कार्येतराध्याससम्पादनशक्तिमात्रस्य वा प्रपञ्चे पारमार्थिक सत्यत्वादिभ्रमहेतुशक्तिमात्रस्य वा प्रतिबन्धो लेशानुवृत्तित्वेन विवक्षित इति निरस्तम् । पूर्वज्ञानस्य शक्तिमात्रप्रतिबन्धकत्वे तदनधिकविषयस्य चरमस्यापि तत्त्वापत्त्या कदाप्यज्ञानहान्यसिद्धेः ।
तस्मात्परमते मोहकार्यत्वादखिलस्य च ।
ज्ञानेन मोहनाशाच्च जीवन्मुक्तिर्न युज्यते ।।
अस्माकं तु अपरोक्षज्ञानिनोऽपि स्वयोग्यपरमानन्दहेतुपरम काष्ठापन्नभक्त्यभावे तत्साध्यस्य मोचकस्येश्वरप्रसादस्याभावेन प्रारब्धकर्मणा संसारानुवृत्त्या जीवन्मुक्तिः । भावे तु प्रसादस्यापि भावेन निःशेषदुःखनिवृत्तिविशिष्टस्वतोनीचोच्च-भावापन्नस्वरूपा-नन्दार्विभावरूपा मुक्तिर्युक्तेति । ।। इति जीवन्मुक्तिभङ्गः ।। ४ ।।
अद्वैतसिद्धि:
तच्च जीवन्मुक्तानां स्वानुभवसिद्धम् । जीवन्मुक्तश्च तत्त्वज्ञानेन निवृत्ताविद्योऽप्यनुवृत्तदेहादि-प्रतिभासः । न च तत्त्वज्ञानादविद्यानाशे सद्यःशरीरपातापत्तिः । निवृत्तसर्पभ्रमस्यापि संस्काराद् भयकम्पानुवृत्तिवत्, दण्डसंयोगनाशेऽपि चक्रभ्रमणवच्च संस्कारानुवृत्तेरविद्यानिवृत्तावपि तत्कार्यानुवृत्ति-सम्भवात् । न च क्रियाज्ञानयोरेव संस्कारः, नान्यस्येति वाच्यम् । निःसारितपुष्पायां सम्पुटिकायां पुष्पवासनादर्शनात् । ‘विमतो नाशः संस्कारव्याप्तः, संस्कारनाशान्यत्वे सति नाशत्वात्, ज्ञाननाशवत्’ इत्यनुमानाच्च । संस्कारः कार्योऽपि ध्वंस इव निरुपादानकः अविद्येव च शुद्धात्माश्रित इति नाविद्यासापेक्षः । न च भावकार्यस्याध्यस्तस्य संस्कारदेहादितद्धेतुप्रारब्धकर्मादेः स्थित्यर्थः तदुपादाना-ज्ञानानुवृत्त्यापात इति वाच्यम् । विनश्यदवस्थस्य समवायिकारणं विना स्थितिदर्शनात् । न च क्षणमात्रस्थितावपि कथं बहुक्षणस्थितिरिति वाच्यम् । सत्युपपादके क्षणगणकल्पनाया अप्रयोजकत्वात् । तत्र क्षणमात्रं स्थितिः, समसमयस्याजनकत्वात् । अत्र तु प्रतिबन्धकाभाव-सहकृतहेतोस्तावत्कालम् अभावात् । अत एव पूर्वज्ञानानिवृत्तस्याध्यस्तस्य तदनधिकविषयेण कथं निवृत्तिरिति निरस्तम् । प्रतिबन्धकाभावसहकारासकाराभ्यां विशेषात् । जीवन्मुक्तिदशायामानन्द-स्फूर्त्यापादनमिष्टमेव । तत्त्वे ज्ञाते द्विचन्द्रादिवद्दोषाद्बाधितानुवृत्तिसम्भवाच्च । न च तत्रेवात्र ज्ञानानिवर्त्यदोषाभावेन वैषम्यम् । यावत्प्रतिबन्धकसत्त्वं ज्ञानानिवर्त्यस्य दोषस्यात्रापि सम्भवात् । सर्वज्ञानानिवर्त्यस्य तस्य कुत्राप्यसम्प्रतिपत्तेः । तदुक्तं– ‘न हि जात्यैव कश्चिद् दोषोऽस्ति’ इति ।
यद्वा अविद्यालेशानुवृत्त्या देहाद्यनुवृत्तिः । ननु लेशो नावयवः । अज्ञानस्य निरवयवत्वात् । अत एवाविद्या दग्धपटन्यायेन तावत्तिष्ठतीत्यपि निरस्तम् । निरवयवे एतन्न्यायासम्भवादिति चेन्न । आकारस्यैव लेशशब्दार्थत्वात् । ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इत्यादिश्रुत्या अविद्याया अनेकाकार-त्वावगमात् । आकारिनिवृत्तावप्याकारस्यानु वृत्तिर्व्यक्तिनिवृत्तावपि जातेरिव । ननु कोऽयमाकारो नाम जातिर्वा ? शक्त्यादिरूपो धर्मो वा ? सुवर्णकुण्डलादि वदवस्थाविशेषो वा ? नाद्यौ । तयोर्देहादि-भ्रमोपादानत्वे अविद्यात्वापातात् । अनुपादानत्वे च उपादानान्तराभावेन देहादिभ्रमोत्पत्त्ययोगात् । आत्मान्यत्वेन ज्ञाननिवर्त्यत्वेन चाविद्यातत्कार्यान्यतरत्वावश्यम्भावेनाज्ञाने निवृत्ते स्थित्ययोगाच्च । अत एव न तृतीयः । अवस्थावन्तं विना अवस्थायाः स्थित्ययोगादिति चेन्न । अनेकशक्तिमदविद्यायाः प्रपञ्चे पारमार्थिकत्वादिभ्रमहेतुशक्तेः प्रपञ्चेऽर्थक्रियासमर्थत्वसम्पादकशक्तेश्च प्रारब्धकर्मसमकालीनतत्त्व-साक्षात्कारेण निवृत्तावपि अपरोक्षप्रतिभासयोग्यार्थभासजनिकायाः शक्तेरनुवृत्तेः तद्वती अविद्यापि तिष्ठत्येवेति नोक्तदोषावकाशः ।
न चाविद्यायां सत्यां कथं मुक्त इति व्यपदेशः ? शक्तिनाशमात्रात् । अत एव समये सर्वशक्तिमदज्ञाननाशः तज्जातीयेनाप्रतिरुद्धेन प्रत्ययेन । तथा च श्रुतिः–‘तस्याभिध्यानाद्योजना-त्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः’ इति । न च भूय इत्यस्य योजनादित्यनेनान्वयात् न लेशानुवृत्तावस्याः श्रुतेर्मानतेति वाच्यम् । विशेषणान्वयापेक्षया विशेष्यान्वयस्याभ्य र्हितत्वात् तत्त्वभावादित्यनेन व्यवधानाद् अन्त इति पदवैयर्थ्याच्च विपरीतयोजनस्यासङ्गतेः । न च लेशस्थितौ कर्मानुवृत्तिः तदनुवृत्तौ च ज्ञानप्रतिबन्धेन लेशस्थितिरित्यन्योन्याश्रय इति वाच्यम् । न तावत् ज्ञप्तौ ‘भूयश्चान्ते विश्वमायानिवृत्तिः’ इत्यादिश्रुतेरेव लेशानुवृत्तेरवगतत्वात् । नापि स्थितौ एककालीनत्वेन दोषाभावात् ।
यद्वा अज्ञानस्य सूक्ष्मावस्था लेशः । यथा–
‘तस्मात् फले प्रवृत्तस्य यागादेः शक्तिमात्रकम् ।
उत्पत्तावपि पश्वादेरपूर्वं न ततः पृथक् ।।’
इति वार्तिकेन यागे गतेऽपि यागसूक्ष्मावस्थारूपमपूर्वं यागे साधनतानिर्वाहकमङ्गीक्रियते, तथा अज्ञाने गतेऽपि तत्सूक्ष्मावस्थारूपो लेशो देहादिप्रतीत्यनुकूलः स्वीक्रियते । स्वर्गजनकताग्राहक-श्रुतेरिवात्रापि जीवन्मुक्तिश्रुतेस्तादृगर्थस्वीकारात् । तस्मादविद्यालेशानुवृत्त्या जीवन्मुक्तिरुपपन्नतरा ।। इत्यद्वैतसिद्धौ जीवन्मुक्त्युपपत्तिः ।। ४ ।।
न्यायामृततरङ्गिणी
अज्ञानानुवृत्त्यापातादिति ।। न च विनश्यदवस्थस्य समवायिकारणं विना स्थितिर्दृष्टेति वाच्यम् । क्षणमात्रस्थितावपि बहुकालं तदभावात् । न च सति प्रमाणे क्षणमात्रमिव बहुकालमपि स्थितिरस्त्विति वाच्यम् । तस्याभावात् । संस्कारादेरज्ञानानुपादानकत्वेऽ-प्युपपत्तेः । अत एवाह– सर्पादीति ।। उत्तरेण ज्ञानेनेति ।। न च प्रारब्धकर्मसहभावा-सहभावाभ्यां पूर्वोत्तरज्ञानयोर्विशेष इति वाच्यम् । ज्ञानस्य स्वप्रागभावनिवर्तन इवाध्यस्तनिवर्त-नेऽप्यन्यानपेक्षेति वक्ष्यमाणत्वात् ।। संस्कारस्त्विति ।। अन्यथाऽविद्याऽसिद्धेः ।। तत्रेवेति ।। द्विचन्द्रादिभ्रमहेतोरङ्गुल्यवष्टम्भदोषस्य ज्ञानानिवर्त्यत्वात् । देहदिभ्रमहेतोर्दोषस्य संस्कारस्य तत्वज्ञाननाश्यत्वात् ।। इन्द्रो मायाभिरिति ।। एकस्याम् अविद्यायां मायाभि-रिति बहुवचनस्यानेकाकारतात्पर्यकत्वात् ।। श्रुतौ च भूयोयोजनादित्यन्वय इति ।। ननु विशेषणान्वयापेक्षया विशेष्यान्वयोऽभ्यर्हित इति चेन्न । सकृन्निवृत्तस्य भूयो निवृत्त्ययोगेन तदन्वये बाधात् । न च ‘अन्ते’ इति व्यर्थम् । परमात्मनो ध्यानाद् भूय इन्द्रियवृत्तीनां योजनाद् ध्यान परिपाकरूपेऽन्ते सति तत्वसाक्षात्कारोत्थभगवत्प्रसादाद्विश्वमायानिवृत्ति-रित्यर्थोपपत्तेः ।। ब्रह्मज्ञानस्येति ।। आप्रायणं मरणपर्यन्तं देहादेर्याऽनुवृत्तिस्तत्कारणै-र्यज्ञादिकर्मभिर्ब्रह्मज्ञानस्य प्रतिबन्धः क्रियते । कर्मणां प्राबल्याभिधानार्थं ज्ञानार्थेेति ।। यत्तु कश्चिदाह । देहादिप्रतीत्यनुकूलाऽज्ञानस्य सूक्ष्मावस्था लेश इत्युच्यते । यथा यागस्य सूक्ष्मावस्थाऽपूर्वम् । तदुक्तं वार्तिके–
तस्मात्फले प्रवृत्तस्य यागादेः शक्तिमात्रकम् ।
उत्पत्तौ चापि पश्वादेरपूर्वं न ततः पृथक् ।। इति ।
तदसत् । तादृशापूर्वाङ्गीकारे श्रौतकारणाभावस्येवेह कस्यापि तदाक्षेपकस्याभावात् । देहादेरनाविद्यकत्वेनैव जीवन्मुक्तिश्रुतेरुपपत्तेः । पूर्वज्ञानादनिवृत्तस्य लेशस्य तदनधिक-विषयेणोत्तरज्ञानेनाप्यनिवृत्तेः ।। भावे त्विति ।। भक्तेरित्यनुषज्यते । प्रसादस्य मोचकत्वं तु ‘मत्प्रसादात्तरिष्यसि’ इत्यादिना भगवता बहुकृत्वः प्रतिपादितम् । ननु ‘तावदेवास्य चिरं यावन्न विमोक्ष्येत्’ इति श्रुत्याऽस्योत्पन्नात्मतत्वसाक्षात्कारस्य प्रारब्धक्षयमात्रम् अपेक्षणीयम् । कैवल्यसम्पत्त्यर्थमित्यर्थकया ज्ञानानन्तरं प्रसादविलम्बेन मोक्षविलम्बाभावः उच्यत इति चेन्मैवम् । ‘बन्धको भवपाशेन भवपाशाच्च मोचकः’ इति वचनात्परमेश्वरस्यैव मोचकत्वात् । लोके च प्रसन्नस्यैव मोचकत्वात्प्रसन्न एव भगवान्मोचकः । अत एवोक्तश्रुतिर्ज्ञानानन्तरं प्रारब्धक्षयातिरिक्तविलम्बं निषेधति । न त्वविलम्बितं प्रसादम् । अत एवाष्टादशेऽध्याये भगवद्गीतायां प्रसादस्य मोचकत्वमुक्तम् । अत एव न स्मृतीनाम-तत्परत्वम् । श्रुत्या विरोधाभावात् । ‘दृष्ट्वैव तु मुच्यते’ इत्यादेस्तु मोचकप्रसादे न ज्ञानानपेक्षेत्येवंपरत्वमन्यत्र व्याख्यातम् ।। जीवन्मुक्तिभङ्गः ।। ४ ।।
न्यायामृतकण्टकोद्धारः
निर्विशेषमुक्तिं दूषयित्वा जीवन्मुक्तिं दूषयितुम् अनुवदति– यच्चेति ।। अनुवृत्तदेहादि-प्रतिभासमात्रस्य जीवन्मुक्तत्वे संसारदशायामपि तत्त्वं स्यात् । अत उक्तम्– नष्टाविद्य इति ।। अविद्यानाशे निमित्तमुक्तं तत्त्वसाक्षात्कारेणेति ।। चक्रभ्रमणवदिति ।। दण्डसंयोगनाशेऽपीति शेषः ।। भयकम्पेति ।। ‘निवृत्तसर्पभ्रमस्यापि’ इति शेषः । ननु संस्कारस्यापि कार्यत्वेन सोपादानत्वादविद्यानिवृत्तौ कथं निरुपादानस्यावस्थानमित्यत आह– संस्कार इति ।। तर्हि संस्कारनिवृत्तिः केनेत्यत आह– संस्कारेति ।। देहाद्यनुवृत्तौ कारणान्तरमाह– यद्वेति ।।
भावकार्यमिति ।। अत्र संस्कारदेहादेः सोपादानत्वमवश्यं वक्तव्यम् । भावकार्यत्वा-दध्यस्तत्वाच्च । उपादानं चाज्ञानातिरिक्तं न सम्भवतीति अज्ञानानुवृत्तिः स्यादित्यर्थः । न च विनश्यदवस्थस्य समवायिकारणं विनाऽपि स्थितिदर्शनादुपादानाज्ञानाभावेऽपि संस्कारा-द्यनुवृत्तिर्युक्तेति वाच्यम् । आद्यक्षणे समवायिकारणनाशे सति द्वितीयक्षणे कार्यनाशस्यैव जायमानत्वेन तदानीं स्थितेरेवाभावात् । विनश्यदवस्थस्य पुनः स्थितिरित्यस्य स्वव्याह-तत्वाच्च । क्षणमात्रस्थितावपि बहुक्षणस्थितेः सर्वथोपादानं विनाऽयोगाच्च । न चोत्पादकसत्वे क्षणगणनाऽप्रयोजिकेति वाच्यम् । उत्पादकस्याज्ञानस्य तत्त्वसाक्षात्कारेण निवृत्तत्वेन तदभावात् । ज्ञाननिवर्त्यत्वान्यथाऽनुपपत्त्या मिथ्यात्वमिति वदता संस्कारादेरपि तत्त्वज्ञान-निवर्त्यत्वस्यावश्यं वक्तव्यत्वाच्च । न च संस्कारे प्रतिबन्धकाभावसहकृततत्वज्ञान निवर्त्य-त्वाङ्गीकारात्, प्रकृते च प्रतिबन्धकसत्त्वेनात्राविद्यानिवृत्तावपि न संस्कारादिनिवृत्तिरिति वाच्यम् । प्रतिबन्धकं हि भवदज्ञानं वा ? तदतिरिक्तं वा ? नाद्यः । तस्य तत्त्वज्ञाना-न्निवृत्तत्वेनाभावात् । अन्यथा जीवन्मुक्तत्वानापत्तेः । द्वितीयेऽपि किं तदज्ञानकार्यं न वा ? नेति पक्षे तस्य मिथ्यात्वं न स्यात् । ब्रह्मेतरस्य सर्वस्याज्ञानकार्यत्वस्य त्वयाऽङ्गीकाराच्च । नाद्यः । उपादानीभूताज्ञाननिवृत्तौ तत्कार्यावस्थानस्यैवासम्भवेन प्रतिबन्धकसत्त्वस्य वक्तुमशक्यत्वात्।
किञ्च प्रतिबन्धकमपि तदभावसहकृतेन तत्वज्ञानेन निवर्तते ? अथवा प्रतिबन्धकान्तरा-भावसहकृतेन ? नाद्यः । तथा सत्येतत्प्रतिबन्धकाभावे एतत्प्रतिबन्धकाभावस्य कारण-त्वापत्तावात्माश्रयापत्तेः । न द्वितीयः । उक्तसहकारि विकल्पपरम्परयाऽनवस्थापत्तेः । तस्मात् प्रतिबन्धकाभावस्य सहकारित्वकल्पनमबोधविजृम्भितमिति यत्किञ्चिदेतत् । ननु सर्पाज्ञान-निवृत्तावपि सर्पादिभ्रमसंस्कारानुवृत्तिवत् प्रकृतेऽपि संस्काराद्यनुवृत्तिरस्त्वित्यत आह– सर्पादीति ।। किञ्चोत्तरेण साक्षात्कारेण संस्कारनिवृत्तिः किं पूर्वादधिकविषयत्वाद्वा ? सहकारिसमवहितत्वाद्वा ? नाद्यः । तथा सति निर्विशेषत्वभङ्गापत्तेः । नापि द्वितीयः । सहकारिसमवधानस्य दूषितत्वादित्यभिप्रेत्याह– पूर्वसाक्षात्कारेति ।। जीवन्मुक्तस्येति ।। न चेष्टापत्तिरिति वाच्यम् । तथा सति वैषयिकसुखार्थं भिक्षाटनादिप्रवृत्तिर्न स्यात् । तत्रेवात्रेति ।। न च यावत्प्रतिबन्धकसत्त्वं ज्ञानानिवर्त्यो दोषः प्रकृतेऽप्यस्त्विति वाच्यम् । उक्तरीत्या तस्य प्रत्याख्यातत्वात् । लेशोऽपि किमवयवः ? उताकारः ? आद्यं दूषयति– न तावदिति ।। द्वितीयपक्षमुत्थापयति– अथ मतमिति ।। तथाऽप्यविद्याया एकाकारत्वेन तत्त्वसाक्षात्कारेण तन्निवृत्तौ लेशानुवृत्तिरयुक्तेत्यत आह– इन्द्र इति ।। अभियुक्तसम्मति-मुक्तार्थे दर्शयति– उक्तं चेति ।। ‘मोहाकारान्तरोक्तितः’ लेशानुवृत्तिर्युज्यत इति शेषः । विरोधिनि तत्त्वज्ञाने सति कथं तदनुवृत्तिरित्यत उक्तं प्रबलारब्धकर्मभिर्ज्ञानस्य प्रतिबन्धा-दिति ।। नन्वाकारीभूतघटादिनिवृत्तौ तदाकारनिवृत्तेर्दृष्टत्वादविद्यानिवृत्तौ तदाकारनुवृत्तिः कथम् ? अत्राह– आकारीति ।।
तयोरिति ।। भ्रमोपादानत्वस्याविद्यालक्षणत्वादिति भावः । न चाविद्याया अनेकशक्ति-मत्वात् प्रपञ्चे पारमार्थिकत्वादिभ्रमहेतुशक्तेः प्रपञ्चेऽर्थक्रियासमर्थत्वसम्पादनशक्तेश्च प्रारब्ध-कर्मसमकालीनेन तत्त्वसाक्षात्कारेण निवृत्तावपि शक्त्यन्तरस्य देहाद्यनुवृत्तिहेतोः प्रारब्धाद्य-समानकालीनतत्त्वसाक्षात्कारेण निवृत्त्यङ्गीकारान्न विरोध इति वाच्यम् । तथा सति तस्य शक्त्यन्तरस्य निवृत्तिर्न स्यात् । न च प्रारब्धाद्यसमानकालीनचरमसाक्षात्कारेण निवृत्तिरिति वाच्यम् । चरमसाक्षात्कारः किं पूर्वसाक्षात्कारादधिकविषयो वा ? समानविषयो वा ? नाद्यः । निर्विशेषत्वभङ्गापत्तेः । न द्वितीयः । तथा सति पूर्वेणानिवृत्तस्योत्तरेणाप्यनिवृत्त्या-पत्तेः । तथा च कदाऽप्यनिवृत्तस्य सत्यत्वापत्तिः । न च प्रतिबन्धकाभावसहकृतत्वादुत्तरेण निवृत्तिरिति वाच्यम् । तस्य दूषितत्वात् । मूलोक्तदूषणापरिहाराच्च ।। स्थिते लेश इति ।। न च न तावत् ज्ञप्तावयमन्योन्याश्रयः । ‘भूयश्चान्ते’ इति श्रुतेरेव लेशानुवृत्तेरवगतत्वात् । नापि स्थितौ । एककालीनत्वेन दोषाभावादिति वाच्यम् । श्रुतेरर्थान्तरस्यानुपदमेव वक्ष्यमाणत्वात् । एककालीनयोरपि देवदत्तयज्ञदत्तयोरन्योन्यस्कन्धस्थितावन्योन्याश्रयत्वस्य दृष्टत्वेन प्रकृतेऽपि परस्परसापेक्षत्वे तस्य दुस्परिहारत्वाच्च ।। श्रुतौ चेति ।। न च विशेषणान्वयापेक्षया विशेष्यान्वयस्याभ्यर्हितत्वात् ‘तत्त्वभावात्’ इत्यनेन व्यवधानात् ‘अत’ इति पदवैय्यर्थ्याच्च विपरीतयोजनम् असङ्गतमिति वाच्यम् । ‘योजनात्’ इत्यस्य विशेषणत्वाभावात् । योग्यताया एवान्वयप्रयोजकत्वेन सन्निधानस्याप्रयोजकतया व्यवधानस्या-बाधकत्वात्, ‘अन्ते’ इत्यस्य ध्यानपरिपाके सति चरमसाक्षात्कारेण विश्वमायानिवृत्ति-रित्यर्थकत्वेन वैय्यर्थ्याभावादुक्तान्वयस्यैव समञ्जसत्वात् । न चाज्ञानस्य सूक्ष्मावस्थैव लेशः । तथा चाज्ञाने गतेऽपि तत्सूक्ष्मावस्थारूपो लेशो देहादिप्रतीत्यनुकूलः स्वीक्रियत इत्युपपन्नतरा जीवन्मुक्तिरिति वाच्यम् । विरोधिज्ञानेनाज्ञाने निवृत्तेऽप्यनिवृत्तायाः कदाऽपि निवृत्तिर्न स्यात् । निवर्तकस्योक्तरीत्या दूषितत्वात् । तथा चानुपपन्नतरा जीवन्मुक्तिरिति ।
एतेनेति ।। देहाद्यनुवृत्तिहेतुत्वेन कप्तानि ज्ञानार्थमनुष्ठितानि यानि यज्ञादिकर्माणि तैः ब्रह्मज्ञानस्य आप्रायणं प्रतिबन्ध इत्यन्वयः ।। अन्यथेति ।। एवमपि कर्मणां प्रतिबन्धक-त्वाङ्गीकार इत्यर्थः ।। एतेनेति ।। तथा च शक्त्यन्तरप्रतिबन्धेऽऽरब्धकर्मतत्कर्माध्या-ससम्पादनशक्तेरप्रतिबन्ध एव लेशानुवृत्तिशब्देन विवक्षित इति भावः ।। तत्त्वापत्त्येति ।। शक्तिमात्रप्रतिबन्धकत्वापत्त्येत्यर्थः । उक्तमर्थं कारिकायां सङ्गृह्णाति– तस्मादिति ।। परमते जीवन्मुक्तिर्न युज्यते । कुतः ? ज्ञानेन मोहस्य नाशात् । मोहनाशेऽपि देहादेर्विद्यमानत्वात् । कुतो जीवन्मुक्त्ययोग इत्यत उक्तम् अखिलस्य मोहकार्यत्वादिति ।।
ननु प्रकारान्तरेण जीवन्मुक्तिस्वरूपस्यासम्भवादनन्यगत्योक्तविधमेव जीवन्मुक्तिस्वरूप-मङ्गीकार्यमित्यतो वा स्वमतेन जीवन्मुक्तिस्वरूपमाह– अस्माकं त्विति ।। भावे त्विति ।। उक्तविधभक्तिभाव इत्यर्थः । ननु ‘तस्य तावदेव चिरं’ इत्यादिश्रुत्योत्पन्नात्मतत्त्वसाक्षात्कारस्य प्रारब्धकर्मक्षयमात्रमपेक्षणीयं कैवल्यसम्पर्त्त्यर्थमिति प्रतिपादनेनेश्वरप्रसादापेक्षाया वक्तुम-शक्तात्वात् स्मृतिपुराणादीनां च श्रुतिविरोधेन श्रुतिपरत्वादिति चेन्मैवम् । प्रसादस्य मोक्षहेतुत्वे प्रमाणाभावाद्वा तदनपेक्षा ? उत बाधकसद्भावाद्वा ? नाद्यः । ‘यस्य प्रसादात् परमार्तिरूपा-दस्मात् संसारान्मुच्यते’ इत्यादिश्रुतेः ‘मत्प्रसादात् तरिष्यसि’ इति स्मृतेश्च सद्भावात् । न चैवं ‘दृष्ट्वैव तं मुच्यते’ इति ज्ञानस्य मोक्षहेतुत्वप्रतिपादकश्रुतिविरोध इति वाच्यम् । अयोगव्यवच्छेदपरत्वेन वा मोक्षहेतुप्रसादेऽन्ययोगव्यवच्छेदपरत्वेन वोपपत्तेः । न च ज्ञानस्य प्रसादहेतुत्वमप्ययुक्तमिति वाच्यम् । ‘न तादृशी प्रतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात्’, ‘तत्प्रीणनान्मोक्षमाप्नोति सर्वः’ इति श्रुतेः ‘एवं ज्ञाते तु भगवाननादिः पुरुषोत्तमः । प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः’ इत्यादिस्मृतेश्च सद्भावात् । न च स्मृत्यादिकं श्रुतिविरोधेन स्तुतिपरमिति वाच्यम् । श्रुतेः सामान्यरूपत्वेन प्रसादापेक्षाभावप्रतिपादकत्वा-भावादविरोधकत्वात् । उदाहृतस्पष्टवचनानुसारेण प्रसादपरत्वस्यैवोपपन्नत्वात् । ‘यमैवैष वृणुते तेन लभ्यः’ इत्यादिश्रुत्याद्युक्त्येश्वरप्रसादो भवतीति प्रतिपादितत्वाच्च । न च साक्षात्कार एवास्योप योग इति वाच्यम् । ‘एषः यं वृणुते यस्य प्रसन्नो भवति तेन लभ्यः प्राप्यः’ इत्युक्त्या ब्रह्मप्राप्तिरूपमोक्षस्य प्रसादादुक्त त्वेन साक्षात्कार एवास्योपयोग इत्यस्याबोध-विजृम्भितत्वात् । न द्वितीयः । उदाहृतनिरवकाशवचनानुसारेणन्यार्थपर त्वात् । प्रारब्ध-कर्मक्षये प्रस्तरविनियोगसम्भवाच्च । न च तस्य भोगादेव क्षय इति वाच्यम् । तथा सति ज्ञाननिवर्त्य त्वाभावेन तस्य सत्यत्वापत्तेः । ‘उपमर्दं च’ इति सूत्रकृताऽस्योपमर्दस्योक्तत्वाच्च ।। नीचोच्चभावेति ।। न च तस्य द्वितीयसापेक्षत्वेनासम्भव इति वाच्यम् । साधकसत्त्वेन बाधकासद्भावेन च द्वितीयसत्त्वस्य निपुणतरमुपपादितत्वात् ।। इति जीवन्मुक्तिभङ्गः ।। ४ ।।
न्यायामृतप्रकाशः
कारणे निवृत्तेऽपि कार्यानुवृत्तौ दृष्टान्तमाह– चक्रेति ।। कुलालेन दण्डेन चक्रभ्रमणं कृत्वा तत्कारणदण्डापनयनेपि तदुत्तरघटकादिकालपर्यन्तमपि चक्रभ्रमणानुवृत्तिदर्शनादित्यर्थः ।। भयेत्यादि ।। बाधकज्ञानेन सर्पादिभ्रमनिवृत्तावपि पुनर्भयकम्पादेस्तत्संस्कारेण दर्शनादित्यर्थः ।। क्रियाज्ञानयो-रेवेति ।। नाविद्याया इत्येवार्थः । संस्कारनाशे पुनः संस्काराभावेन साध्याभावाद्व्यभिचारवारणाय सत्यन्तम् । संस्कारात्यन्ताभावे संस्कारानङ्गीकारेण तद्वारणाय विशेष्यभागः । ननु संस्कारस्य कार्यत्वेनाविद्योपादानकत्वादविद्यानिवृत्त्यनन्तरं कथमवस्थानमित्यत आह– संस्कार इति ।। नन्वथापि संस्कारो नाविद्यानपेक्षः । तस्य जीवनिष्ठत्वात् । जीवस्याविद्याधीनत्वात् । अतोऽविद्यानिवृत्त्यनन्तरं कथं संस्कारावस्थानमित्यत आह– अविद्येवेति ।। यथा अविद्या शुद्धचिन्मात्रगता एवं संस्कारोऽपीत्यर्थः । ननु तत्वसाक्षात्कारानन्तरमप्यनुवृत्तस्य संस्कारस्य केन निवृत्तिरित्यत आह– संस्कारेति ।। आवृत्तात् पुनःपुनरभ्यासात् । तदनुवृत्तिः संस्कारानुवृत्तिः ।। भावकार्यं ‘प्रति’ ‘उपादानत्वेन’ इत्यन्वयः । संस्कारस्य च भावपदार्थत्वेन सोपादानत्वस्याऽऽवश्यकत्वादिति भावः । किञ्चाध्यस्तमात्रं त्वन्मते तावत्सोपादानकं, तत्वसाक्षात्कारानन्तरमप्यनुवर्तमानं संस्कारदेहप्रारब्धादिकं चाध्यस्तमिति सोपादानकत्वमावश्यकमित्याह– अध्यस्तमिति ।।
नन्वध्यस्तोऽपि सर्पादिभ्रमसंस्कारोऽज्ञानोपादानकोऽपि बाधकज्ञानेनाज्ञाननिवृत्त्या भ्रमनिवृत्ता-वप्यनुवर्तमानो दृष्ट इति चेत्तत्राह– सर्पादीति ।। अविद्यावरणेति ।। अविद्यारूपावरणस्य नष्टत्वा-दित्यर्थः ।। द्विचन्द्रादीति ।। यथा चन्द्रस्वरूपे सम्यक्ज्ञातेऽप्यङ्गुल्यवष्टम्भरूपदोषवशाद्बाधितस्यापि द्वितीयचन्द्रस्यानुवृत्तिरेवं बाधितस्यापि संस्कारस्यानुवृत्तिरित्यर्थः ।। असम्भवादिति ।। दग्धपटस्य सावयवत्वेनावयवे निवृत्ते सत्येव स्वयं किञ्चित्कालं तिष्ठतीत्यर्थः ।। अन्यूनेति ।। पूर्वतनसाक्षात्कारस्य चरमसाक्षात्कारापेक्षया अधिकभूतदेहादिविषयकत्वेऽपि तदन्यूनविषयकत्वं तावदस्त्येवेत्यर्थः ।। ब्रह्मज्ञानस्येति ।। पूर्वमुत्पन्नस्य ब्रह्मज्ञानस्य आप्रायणं मरणपर्यन्तम् अनुवृत्तिहेतुभूतानि यानि यज्ञादिकर्माणि तैर्ब्रह्मज्ञानस्य प्रतिबन्धः क्रियते । अतो न तस्य समूलाज्ञाननिवर्तकत्वमित्यर्थः । यज्ञादिकर्मणां काम्यतानिवृत्त्यर्थं ज्ञानार्थेत्युक्तं, निवृत्तेत्यर्थः ।। उक्तत्वादिति ।। ज्ञानस्य स्वप्रागभावनिवर्तन इवाज्ञाननिवर्तनेऽपि प्रतिबन्धायोगादेरित्यर्थः ।। अन्यथेति ।। ब्रह्मतत्वज्ञानस्य ब्रह्माज्ञानकार्येण प्रारब्धकर्मादिना प्रतिबन्धोक्तौ भ्रमनिवर्तकं शुक्तिज्ञानमपि शुक्त्यज्ञानकार्येण भ्रमेण प्रतिबद्धं सत् न शुक्त्यज्ञानं निवर्तयेदित्यर्थः ।। तदेति ।। चरमज्ञानकाल इत्यर्थः ।। तत्कार्येति ।। प्रारब्धकर्मसम्पादनेत्यन्वयः । आरब्धकर्मकार्यं यदितरत् देहादिकं तदध्याससम्पादनेत्यर्थः । लेशानुवृत्तित्वेन लेशानुवृत्तिशब्दार्थत्वेनेत्यर्थः ।। भावे त्विति ।। आत्यन्तिकभक्तिसद्भाव्•ेत्वित्यर्थः ।। जीवन्मुक्तिभङ्गविवरणम् ।। ४ ।।
न्यायकल्पलता
परेण द्वेधोक्तं जीवन्मुक्तिं क्रमेण दूषयति– न तावदिति ।। अज्ञानानुवृत्त्यापातादिति ।। न च विनश्यदवस्थस्य समवायिकारणं विना स्थितिर्दृष्टेति शङ्क्यम् । क्षणमात्रस्थितावपि बहुकालं तदभावात् । न च सति प्रमाणे क्षणमात्रमिव बहुकालमपि स्थितिरस्त्विति देश्यम् । तस्याभावात् । संस्कारादेरज्ञानानुपादानकत्वेऽप्युपपत्तेः । अत एवाह– सर्पादीति ।। उत्तरेण ज्ञानेनेति ।। न च प्रारब्धकर्मसहभावासहभावाभ्यां पूर्वोत्तरज्ञानयोर्विशेष इति युक्तम् । ज्ञानस्य स्वप्रागभावनिवर्तन इवाध्यस्तनिवर्तनेऽप्यन्यानपेक्षेति विभावयिष्यमाणत्वात् ।। संस्कारस्त्विति ।। अन्यथाऽविद्याऽ-सिद्धेः ।। १तत्रेवेति ।। द्विचन्द्रादिभ्रमहेतोरङ्गुल्यवष्टम्भदोषस्य ज्ञानानिवर्त्यत्वात् । देहदिभ्रमहेतोर्दोषस्य संस्कारस्य तत्वज्ञाननाश्यत्वात् ।। इन्द्रो मायाभिरिति ।। एकस्याम् अविद्यायां मायाभिरिति बहुवचनस्यानेकाकारतात्पर्यकत्वादिति पूर्वपक्षिणोऽभिसन्धिः ।। श्रुतौ च भूयोयोजनादित्यन्वय इति ।। ननु विशेषणान्वयापेक्षया विशेष्यान्वयोऽभ्यर्हित इति तन्न । सकृन्निवृत्तस्य भूयो निवृत्त्ययोगेन तदन्वये बाधात् । न च ‘अन्ते’ इति व्यर्थम् । भूय अन्तःकरणवृत्तीनां परमात्मनि योजनात् तत्परिपाकेण तत्वभावेनान्ते निर्णये सति तत्वापरोक्षमानोत्थात्तस्याभिध्यानाद्भगवतः प्रसादात् सर्वबन्धकमायानिवृत्तिरित्यर्थोपपत्तेः । ‘अभिध्योपद•ाच्च’ इति सूत्रे भगवत्पादैः ‘सोभिध्याजूतिः’ इति श्रुतेरुदाहृतत्वात् । अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः’ इति गीतोक्तेः । विश्वो वायुः, तस्येति वा । ‘स एनान् ब्रह्म गमयति’ इति श्रुतेः । ‘विश्वो हिरण्यगर्भः’ इति च । ‘स विश्वकृत्स हि सर्वस्य कर्ता’ इति माध्यन्दिनश्रुतौ वायुकर्तृत्वस्य जगत्कर्तृत्वे हेतुत्वेनोक्तेश्च । ‘ब्रह्मणा सह ते सर्वे संप्राप्ते प्रति सञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम्’ ।। इति श्रुतेश्च । ‘वायुर्ह्येव प्रजापतिः’ तदुक्तमृषिणा, ‘पवमानः प्रजापतिः’ इति च ।
‘यद्येषोपरतो देवी माया वैशारदी मतिः ।
सम्पन्न एवेति मतिर्महिमि्न स्वे महीयते ।। इति श्रीमद् भागवते ।
यदा एषा इच्छा ‘इषु इच्छायाम्’ इति धातोः । विशारदस्य भगवतः इयं वैशारदी माया । ‘मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टं हि मयाभिधम्’ इति स्मरणात् । मतिः प्रेक्षारूपा । गुणानामपि परस्परं सविशेषाभिन्नत्वात् । उपरता ‘नैनं जीवं संसारयामि’ इति निवृत्तव्यापारा भवति, तदा परमात्मानं सम्पन्न एवेति विदुः । भगवत्प्रसादाविर्भूते स्वे महिमि्न प्रतिष्ठितः सन् महीयते । स्वावरैः पूज्यतम इत्यर्थः । ‘बन्धको भवपाशेन भवपाशाच्च मोचकः । कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः ।। इति स्कान्दवचनाच्चोक्तम् अवदातम् ।। ब्रह्मज्ञानस्येति ।। आप्रायणं मरणपर्यन्तं देहादेर्याऽनु-वृत्तिस्तत्कारणैर्यज्ञादिकर्मभिर्ब्रह्मज्ञानस्य प्रतिबन्धः क्रियते । कर्मणां प्राबल्याभिधानार्थं ज्ञानार्थेेति ।। यत्तु कश्चिदाह ‘देहादिप्रतीत्यनुकूलाऽज्ञानस्य सूक्ष्मावस्था लेश इत्युच्यते । यथा यागस्य सूक्ष्मावस्थाऽपूर्वम् । तदुक्तं वार्तिके–
‘तस्मात्फले प्रवृत्तस्य यागादेः शक्तिमात्रकम् ।
उत्पत्तौ चा(वा)पि पश्वादेरपूर्वं न ततः पृथक् ।। इति ।
तदसारम् । देहादेरनाविद्यकत्वेनैव जीवन्मुक्तिश्रुतेरुपपत्तेः । पूर्वज्ञानादनिवृत्तस्य लेशस्य तदनधिकविषयेणोत्तरज्ञानेनाप्यनिवृत्तेः । सङ्गृह्णाति– तस्मादिति । स्वमतं समादधाति– अस्माक-मिति ।। तुशब्दः परमतवैलक्षण्यार्थः ।। भावे त्विति ।। भक्तेरित्यनुषञ्जनीयम् । प्रसादस्य मोचकत्वं तु ‘यस्य प्रसादात् परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण’ । ‘नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात्’ ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वाम्’ इत्यादि-श्रुतिभिः । ‘सर्वं ज्ञानप्लवेनैव मत्प्रसादात्तरिष्यसि’ इत्यादिना भगवता बहुकृत्वः प्रतिपादितम् । ननु ‘तावदेवास्य चिरं यावन्न विमोक्ष्येत्’ इति श्रुत्याऽस्योत्पन्नात्मतत्व साक्षात्कारस्य प्रारब्धक्षयमात्रम् अपेक्षणीयम् । कैवल्यसम्पत्त्यर्थमित्यर्थप्रतिपादनात् ज्ञानानन्तरं प्रसादविलम्बेन मोक्षविलम्बाभावः उच्यत इति मैवम् । ‘न ऋते त्वत्क्रियते’ इत्यादिश्रुतेः, ‘बन्धको भवपाशेन भवपाशाच्च मोचकः’ इत्यादिश्रुतेश्च परमेश्वरस्यैव मोचकत्वात् । उक्तं चानुव्याख्याने–
‘नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।
ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ।।
लोके च प्रसन्नस्यैव मोचकत्वात्प्रसन्न एव भगवान्मोचकः । तदुक्तं–
यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् ।
एवं दृष्टः स भगवान् कुर्याद्बन्धविभेदनम् ।। इति ।
उक्तं च श्री भागवते–
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।।
सन्ति=प्रवर्तन्ते । न सन्ति=न प्रवर्तन्ते इत्यर्थः । अत एव ‘तावदेवास्य चिरम्’ इति श्रुतिरपरोक्षज्ञानानन्तरं प्रारब्धकर्मक्षयातिरिक्तविलम्बं निषेधति । न त्वविलम्बितं प्रसादम् । अत एवाष्टादशेऽध्याये भगवद्गीतायां प्रसादस्य मोचकत्वमुक्तम् । तेनैव च न स्मृतीनामतत्परत्वम् । श्रुत्या विरोधाभावात् । ‘सर्वान्परो मायया यं सिनीते दृष्ट्वैव तु मुच्यते नापरेण’ इत्यादेस्तु मोचकप्रसादे न ज्ञानान्यसाधनापेक्षेत्येवंपरत्वम् इति सुधायां व्याख्यातम् । एतेन ‘यमेवैष’ इति श्रुत्या भक्तिजन्येश्वरप्रसादस्य तत्साक्षात्कारस्वरूप एवोपयोगस्य बोधितत्वेन परममुक्तौ नोपयोग इत्यपास्तम् । सङ्कोचे नियामकाभावात् । नर्ते इत्यादिश्रुतिविरोधाच्चेत्युक्तम् अवदातम् ।
।। इति जीवन्मुक्तिभङ्गः ।। ४ ।।