यत्तूक्तं वाचस्पतिना पूर्वस्य प्रत्यक्षस्य परेणागमेनापच्छेदन्यायेन बाध इति
२४. अपच्छेदन्यायवैषम्यम्
न्यायामृतम्
यत्तूक्तं वाचस्पतिना पूर्वस्य प्रत्यक्षस्य परेणागमेनापच्छेदन्यायेन बाध इति । तन्न । न ह्यस्माभिः पूर्वत्वमात्रेण प्रत्यक्षबाधकतोक्ता, किन्तूपजीव्यत्वेन । न चापच्छेदे पूर्वमुपजीव्यम् । किं च प्रतिहर्त्रुद्गात्रोः क्रमेणापच्छेदे प्रतिहर्त्रपच्छेद-निमित्तसर्ववेदसदानस्य परेणोद्गात्रपच्छेदनिमित्तादाक्षिण्येन बाधेऽपि नात्यन्त-बाधः । प्रतिहर्तृमात्रापच्छेदे द्वयोरपि युगपदपच्छेदे क्रमेणापच्छेदेऽपि प्रतिहर्त्रप-च्छेदस्य पश्चात्त्वे च ‘‘यदि प्रतिहर्ताऽपच्छिद्यात्तर्हि सर्ववेदसं दद्यादि’’ति शास्त्र-प्रामाण्यसम्भवात् । अत एव षष्ठे ‘‘तत्र विप्रतिषेधाद्विकल्पः स्यादि’’त्यधिकरणे द्वयोर्युगपदपच्छेदे विकल्प उक्तः । किं च ‘‘यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्व-वेदसं दद्यादित्यधिकरणे उद्गात्रपच्छेदस्य प्रतिहर्त्रपच्छेदात्परत्वे उद्गात्रपच्छेद-निमित्तके प्रथमप्रयोगं दक्षिणाहीनं समाप्य कर्तव्ये ज्योतिष्टोमस्य द्वितीयप्रयोगे ‘‘तद्दद्याद्यत्पूर्वस्मिन् दास्यन्स्यादि’’ति या श्रुत्युक्ता दक्षिणा सा पूर्वभाविप्रतिहर्त्रप-
च्छेदनिमित्तकपूर्वप्रयोगस्थसर्वस्वदित्साया अबाधेन सर्वस्वरूपैव न तु या ज्योतिष्टोमे नित्या द्वादशशतरूपा सा । तस्मान्न प्रतिहर्त्रपच्छेदस्य सर्वथा बाधः किं तु प्रयोगान्तरे निक्षेप इत्युक्तम् । उक्तं हि टुप्टीकायाम्– ‘‘तस्य प्रयोगान्तरे निक्षेपः क्रियते’’ इति ।
अपि चैकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ तत्तन्नैमित्तिक-कर्तव्यतयोर्बदरफले श्यामरक्तरूपयोरिव क्रमेणोत्पत्तेरूपज्ञानद्वयवच्छास्त्रद्वयमपि प्रमाणमेव । उक्तं ह्यपच्छेदाधिकरणे– ‘‘नैमित्तिकशास्त्रस्य ह्ययमर्थः निमित्तोप-जननात्प्रागन्यथाकर्तव्योऽपि क्रतुर्निमित्ते सत्येवं कर्तव्यं’’ इति । ततश्चार्थस्यैव बदरफलस्येव श्यामरक्तरूपेण प्राक्तथाभूतस्य पश्चादन्यथाभावात् पूर्वशास्त्रस्य प्रामाण्यमेव न पूर्वशास्त्रस्याप्रामाण्यम् । न हि बदरफले श्यामत्वविज्ञानं अनन्तरस्य रक्तत्वस्यावगत्या मिथ्या भवतीति । तस्मात्–
पौवापर्यं विरोधश्च पूर्वाप्रामाण्यमेव च ।
नियमान्नास्ति यत्रासावपच्छेदनयो भवेत् ।।
अद्वैतसिद्धिः
किं चापच्छेदन्यायेनाप्यागमस्य प्राबल्यम् । यथा हि ‘पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्’ इत्यधि-करणे उद्गात्रपच्छेदनिमित्तकादक्षिणयागेन परेण प्रतिहर्त्रपच्छेदनिमित्तक सर्वस्वदक्षिणयागस्य पूर्वसिद्धनिमित्तस्य बाध इति स्थितं, तथेहापि उदीच्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः । ननु प्रतिहर्त्र-पच्छेदनिमित्तकसर्वस्वदक्षिणयागस्य प्रतिहर्तृमात्रापच्छेदे, युगपदपच्छेदे, क्रमेणापच्छेदेऽपि प्रतिहर्त्रपच्छेदस्य पश्चात्त्वे चावकाश इति युक्तः उद्गात्रपच्छेदनिमित्तकादक्षिणयागेन बाधः । अन्यथा ‘यदि प्रतिहर्ता अपच्छिद्येत सर्ववेदसं दद्यात्’ इति शास्त्रमप्रामाणं स्यात् । अत एव ‘विप्रतिषेधा-द्विकल्पः स्यात्’ इत्यधिकरणे द्वयोर्युगपदपच्छेदे विकल्प उक्तः । किं च ‘यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन्’ इत्यधिकरणे उद्गात्रपच्छेदस्य प्रतिहर्त्रपच्छेदात्परत्वे उद्गात्रपच्छेदनिमित्तं पूर्वं प्रयोगं दक्षिणाहीनं सम्पाद्य कर्तव्यज्योतिष्टोमस्य द्वितीयप्रयोगे ‘तद्दद्याद्य-त्पूर्वस्मिन् दास्यन् स्यात्’ इति श्रुत्युक्ता या दक्षिणा सा पूर्वभाविप्रतिहर्त्रपच्छेद निमित्तकपूर्व-प्रयोगस्थसर्वस्वदित्साया अबाधेन सर्वस्वरूपैव, न तु या ज्योतिष्टोमे नित्या द्वादशशतरूपा । तस्मान्न प्रतिहर्त्रपच्छेदस्य सर्वथा बाधः । किं तु प्रयोगान्तरे निक्षेप इत्युक्तम् । उक्तं हि टुप्टीकायाम् – ‘तस्य प्रयोगान्तरे निक्षेपः’ इति ।
अपि च क्रमिकनिमित्तद्वयेन क्रमेणादक्षिणसर्वस्वदक्षिणयोः प्रयोगयोः संभवेन विरोध एव नास्ति । यथा बदरफले क्रमिकनिमित्तवतोः श्यामरक्तरूपयोः । उक्तं ह्यपच्छेदाधिकरणे – ‘नैमित्तकशास्त्रस्य ह्ययमर्थः– निमित्तोपजननात् प्रागन्यथाकर्तव्योऽपि क्रतुर्निमित्ते सत्येवं कर्तव्यः’ इति । तस्मादपच्छेदन्यायः सावकाशविषयः । औतागमेन प्रत्यक्षबाधे तु न प्रत्यक्षप्रामाण्य-स्यावकाशोऽस्ति इति चेन्न । उद्गात्रपच्छेदाभावे युगपदुभयापच्छेदे प्रतिहर्त्रपच्छेदस्य उद्गात्रपच्छेदे पश्चात्त्वे च ज्योतिष्टोमद्वितीयप्रयोगे प्रतिहर्त्रपच्छेदनिमित्तक सर्वस्वदक्षिणयागप्रतिपादकशास्त्रस्य सावकाशत्ववद्व्यावहारिकप्रामाण्ये प्रत्यक्षस्यापि सावकाशत्वात् । तत्रैकप्रयोगे विरोधवदत्रापि तात्त्विकत्वांशे विरोधात् । अत एव सगुणसप्रपञ्चश्रुत्योर्निगुणनिष्प्रपञ्चश्रुतिभ्यामपच्छेदन्यायेन बाध इति सुष्ठूक्तम् । तदुक्तमानन्दबोधाचार्यैः – ‘तत्परत्वात्परत्वाच्च निर्दोषत्वाच्च वैदिकम् । पूर्वस्य बाधकं नायं सर्प इत्यादिवाक्यवत् ।।’ इति ।
न्यायामृततरङ्गिणी
अपच्छेदन्यायेनेति । षष्ठस्य पञ्चमे स्थितम् । ‘‘पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्’’ । बहिष्पवमानस्तुत्यर्थं प्रस्तोतृप्रतिहर्तारौ प्रतिहर्त्रुद्गातारौ च समन्वारब्धाः प्रसर्पन्ति । अध्वर्युं विनिष्क्रामन्तं प्रस्तोता सन्तनुयात् । तं प्रतिहर्ता तमुद्गाता तं ब्रह्मा तं यजमान इति वचनात् । तत्र विभागे प्रायश्चित्तं श्रुतं – यदि प्रस्तोताऽपच्छिद्येत ब्रह्मणे वरं दद्यात् । यदि प्रतिहर्ताऽपच्छिद्येत सर्ववेदसं दद्यात् । यद्युद्गाताऽपच्छिद्येतादक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्याद्यत्पूर्वस्मिन् दास्यन् स्यादिति । पूर्वाधिकरणे स्थितमपच्छेदस्य यौगपद्ये विकल्प इति । इदानीं पौर्वापर्ये किं विकल्प उत बाध इति चिंत्यते । तत्र पूर्वःपक्षः । न तावदत्र सामान्य-विशेषनित्यनैमित्तिकनित्यकाम्यक्रत्वर्थपुरुषार्थाल्पभूयस्त्वसावकाशनिरवकाशत्वां गप्रधानतद्धर्मत्व लक्षणः कश्चिदपि शास्त्रद्वयस्य मिथो बाधे हेतुरस्ति । नापि प्रमाणतदाभासवत् पौर्वापर्येण बाधः । शास्त्रावधारणवेलायां पौर्वापर्याभावात् । प्रयोगस्थं तु पौर्वापर्यं न शास्त्रार्थाव-धारणायालम् । न हि प्रयोगाधीनं शास्त्रार्थावधारणम् । तदवधारणोत्तरकालत्वात्तत्प्रयोगस्य ।
किञ्च यः पूर्वस्य परेण बाधमिच्छति तेन तावदुत्पन्नस्योत्पत्तिविरोधलक्षणबाधासम्भवा-न्मिथ्यात्वलक्षणबाधो वक्तव्यः । न च नामशास्त्रस्य मिथ्यात्वसम्भवः । सामान्यशास्त्रादेर्हि विशेषशास्त्रादिवशात्तद्व्यतिरिक्तविषयपरिकल्पनान्न मिथ्यात्वप्रसक्तिः । इह त्वस्मिन्नेव प्रयोगे शास्त्रेणोत्पन्ननैमित्तिकं विज्ञानमित्यविवादम् । न तद्विषयान्तरे व्याख्यातुं शक्यम् । तत्र तद्बाधे शास्त्रस्य प्रामाण्यबाधप्रसङ्गः । किं च मिथ्यात्वं विद्यमानमेव बाधकेन बोध्यते । न तु तद्वशेन मिथ्यात्वं जन्यते । न चात्र पूर्वविज्ञानस्य मिथ्यात्वमस्ति । अदुष्टकरणजन्यत्वात् । न चामिथ्याभूतस्य बाधसम्भवः । तस्मात्पौर्वापर्योत्पत्तावपि येन केनचित्कल्पेनैव क्रतावधि-क्रियेतैवैति । सिद्धान्तस्तु । यथा शक्त्यनुबन्धादाख्यातो विदधदेव स्वार्थं विरुद्धं धर्मान्तर-मबाधित्वा स्वार्थं बोधयितुमशक्नुवन् पूर्वविज्ञानं बाधते । आगन्तुकनिमित्तसम्बन्धेन क्रतो-र्विकारे विधीयमानेऽयमर्थोऽवगम्यते । प्रागन्यादृशोऽपि क्रतुः फलसाधनः सन्नस्मिन्निमित्ते सञ्जाते सत्यन्यादृशः फलं साधयतीति । ततश्च यथा द्वादशशतदक्षिणः, फलसाधकः स चोद्गात्रपच्छेदे सञ्जाते सत्यदक्षिणः पुनरावृत्तिधर्मकश्च फलसाधनं भवति । प्रतिहर्त्रपच्छेदे च सर्ववेदसदक्षिणः तथा द्वयोर्निमित्तयोरन्यतरेण पूर्वोत्पन्नस्यादाक्षिण्यस्य सर्ववेदसदाक्षिण्यस्य वा सतः पश्चात्तनेन निमित्तांतरेण सामर्थ्यान्तरमेव क्रतोर्जातमिति पूर्वस्य परेण बाधः । स चायं शास्त्रार्थावधारणवेलायामेव प्रायोगिकेण पौर्वापर्येण शास्त्रयोर्मिथो बाधोऽवगम्यत इति न प्रयोगोत्तरकालं शास्त्रार्थावधारणापत्तिः । न च शास्त्रस्याप्रामाण्यप्रसङ्गः । यत्र पाश्चात्यं निमित्तान्तरं बाधकं नास्ति तद्विषयत्वेन शास्त्रव्याख्यानात् । प्रकृतिवच्छब्दस्यैव लुप्तार्थप्रत्या-म्नातप्रतिषिद्धातिरिक्तविषयतया श्रुतिलिङ्गादिषु तु पूर्वपूर्वविरोधे परस्यानुत्पत्तिरेवेति पूर्वस्य प्राबल्यम् । इह तु पूर्वविज्ञानसमये परस्यानुत्पन्नत्वेनाविरुद्धत्वात् अबाध्यत्वम् । न ह्यसतो बाधः सम्भवति । उत्तरस्य पूर्वबाधनमन्तरेणावस्थितिर्न सम्भवतीति पूर्वं प्रति बाधकत्वम् । तदुक्तं वाचस्पत्ये
पूर्वं परमजातत्वादबाधित्वैव जायते ।
परस्य त्वन्यथोत्पादात्तदबाधे न सम्भवः ।।
इति । तस्मात्पूर्वस्य परेण बाध इति । तत्र विप्रतिषेधाद्विकल्पः स्यादिति । यौगपद्ये प्रायश्चित्तद्वयमापतति । तत्किं समुच्चीयते उत विकल्प्यत इति विचारः । तत्र पूर्वःपक्षः – उद्गात्रपच्छेदे पुनर्यज्ञादिविधानाददाक्षिण्यसर्ववेदसदानयोः प्रयोगद्वयेनानुग्रहसम्भवात्सत्यां गतावष्टदोषनिदानविकल्पासम्भवात्समुच्चय इति । सिद्धान्तस्तु यस्मिन्नेव प्रयोगे प्रतिहर्त्रप-च्छेदस्तस्मिन्नेव तन्निमित्तं प्रायश्चित्तं सर्वस्वदानं कर्तव्यमित्यवगमान्न प्रयोगान्तरेण तदनुग्रह-सम्भवः । किं च यत्पूर्वस्मिन् दातव्यं तदेव पुनः क्रतौ दास्यन् स्यात् । यदि पूर्वस्मिन्न सर्वस्वं ततस्तस्य पुनः क्रतावपि न दानसम्भवः । अथ दातव्यं ततस्तुल्यत्वान्नादाक्षिण्येन बाधसम्भवः । तस्माद्युगपदुभयनिपातात्परस्परविरुद्धं नैमित्तिकं विकल्पितुमर्हतीति ।
यद्युद्गाता जघन्यः स्यात्सर्ववेदसं दद्यादित्यधिकरण इति । एतच्च सूत्रमर्थतः पठितम् । न तु यथापाठम् । सूत्रपाठस्तु ‘‘यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्यात् यथेतरस्मिन्’’ इत्येवंरूपः । पौर्वापर्ये परेण पूर्वबाध इति स्थितम् । तत्र प्रतिहर्त्रपच्छेदानन्तरमुद्गात्रपच्छेदे सति कर्तव्ये पुनः प्रयोगे सति किं द्वादशशतं देयमुत सर्ववेदसद्वादशशतयोर्विकल्प उत सर्ववेदसमेवेति संशयः । तत्र पूर्वःपक्षः । यत्पूर्वस्मिन्दास्यन् स्यादिति यदेव क्रतौ स्वभावतो देयं तदेव पुनर्देयं प्रतीयत इत्येकः । प्रथमं द्वादशशतं दास्यन्नासीत् । प्रतिहर्तरि त्वपच्छिन्ने सर्ववेदसम् । अत उभयमपि पुनः प्रयोगे यत्पूर्वस्मिन्दास्यन् स्यादिति शक्यं वक्तुम् । तस्माद्विकल्प इति द्वितीयः । सिद्धान्तस्तु द्वादशशतस्य सर्ववेदसेन बाधितत्वात् न तद्दास्यन् भवति । यच्च पूर्वं दास्यन् भवति तत्पुनः क्रतौ देयम् । तस्मात्सर्ववेदसमेव देयम् । ननु तदप्यदाक्षिण्येन बाधितम् । मैवम् । बाधो हि परिमाणान्तरम् । यथा प्रतिहर्त्रपच्छेदे सर्ववेदसं दद्यादिति द्वादशशतविरुद्धपरिमाणान्तर-विधानाद्द्वादशशतस्य बाधः । न त्वेवमिह परिमाणान्तरमस्ति । यतोऽर्थात्सर्ववेदसं निवर्तेत । न चाहत्य सर्ववेदसं प्रतिषिध्यते । नन्वदक्षिणः संस्थाप्य इति दक्षिणाप्रतिषेधः श्रुत एव । मैवम् । नायं प्रतिषेधो यथा न गृह्णाति षोडशिनमिति । किं तर्ह्यदक्षिणस्य निवृत्तिः कथ्यमानादक्षिणा दाने सति न सम्भवतीत्यर्थाद्दक्षिणाया निवृत्तिः कल्प्यते । न तु शब्दात् । न दद्याद्दक्षिणामित्येवं शब्दाभावात् । नन्वर्थादपि सर्वस्वदक्षिणा निवर्तत एवेति चेन्नार्थात्सर्व-वेदसनिवृत्तिः । साभ्यासे क्रतावुभयसमावेशे सम्भवात् । ननु यस्मिन्नेव पूर्वप्रयोगे प्रतिहर्त्रप-च्छेदः तस्मिन्नेव सर्वस्वं दातव्यम् । न प्रयोगान्तरे तस्यानुग्रहस्सम्भवति । तस्मिंश्च प्रयोगेऽ-दक्षिणसंस्थापनविधानात् बाधितमेव सर्वस्वदानं तुल्यं द्वादशशतेनेति चेत्सत्यम् । पूर्वस्मिन्नेव प्रयोगे सर्वस्वं दातव्यम् । प्रयोगान्तरे च न तस्यानुग्रहः सम्भवति । वचनात्तु प्रयोगान्तरे निक्षिप्यते । इदं हि वचनं यत्पूर्वस्मिन्प्रयोगे दातव्यं प्राप्तं तत्तत आच्छिद्य प्रयोगान्तरे निक्षिपति न तु स्वरूपमेव बाधते । तस्मात्सर्वस्वदानेनैव पुनः क्रतावधिकार इति द्विविधोऽपि पूर्वपक्षो निरस्तो भवति ।
यद्युद्गाता जघन्यः स्यात् । जघनं पश्चाद्देशमर्हतीति जघन्यः अपच्छिद्येतेति यावत् । तदाऽऽरब्धं प्रयोगमदक्षिणं समाप्य पुनर्यज्ञे पुनः प्रयोगे सर्ववेदसं दद्यात् । यथेतरस्मिन्प्रतिहर्तृ-मात्रापच्छेदे यथा सर्वस्वं देयं तथा प्रतिहर्त्रपच्छेदोत्तरभाव्युद्गात्रपच्छेदनिमित्तकद्वितीयप्रयोगेऽपि सर्वस्वं देयमिति सूत्रार्थः । तस्य प्रयोगान्तरे निक्षेप इति । तस्य सर्वस्वदानस्य पूर्वस्मिन्प्रयोगे कर्तव्यत्वेन प्राप्तस्य वचनेन प्रयोगान्तरे निक्षेप एव क्रियते न तु स्वरूपमेव बाध्यत इत्यर्थः । पौर्वापर्यमिति । नियमादित्यप्रामाण्येन सम्बध्यते । नास्ति नापादयितुं शक्यत इत्यर्थः । तदयमर्थः । क्रमिकैकविषयकप्रवृत्तियुक्तविरुद्धपूर्वकालीनानापादनीयनियता-प्रामाण्यकमानजन्यविज्ञानं तदवधिकोत्तरकालप्रवृत्तमानजन्यविज्ञानेन बाध्यत इति । यथाश्रुते स्वमते प्रत्यक्षागमयोरपच्छेदन्यायापत्तेः । क्रमिकपाठावगतविकल्पस्थले अपच्छेदन्यायो मा भूदिति युक्तान्तम् । तच्च विरुद्धविशेषणं । क्रमिकानुष्ठानेष्वाग्नेयादिषु तत्प्रसङ्गवारणाय विरोध इत्युक्तम् । एको देव इत्यादिसगुणनिर्गुणवाक्ये तत्प्रसङ्गवारणाय तृतीयविशेषणम् । न च नियमोऽधिकः । तदनुक्तावुपक्रांतप्रयोगे प्रतिहर्त्रपच्छेदयुक्ते प्राप्तस्य सर्वस्वदाक्षिण्यविज्ञानस्य प्रतिहर्त्रपच्छेदोत्तरभाव्युद्गात्रपच्छेदेनैव बाधिततयाऽप्रमाणत्वेनापच्छेदन्यायोऽसम्भवदुक्तिक एव स्यात् । नियमादित्युक्तौ तु नासम्भवः । सर्वस्वदाक्षिण्यस्य प्रयोगान्तरेऽनुग्रहेण नियता-प्रामाण्यस्याभावात् । यदा तु बदरफलश्यामरक्तरूपविज्ञानवत्सर्वस्वदाक्षिण्यादाक्षिण्य विज्ञानस्य क्रतुविशेष्यकस्य कालभेदावगाहिनो नायथार्थत्वमिति पक्षस्तदा नियमादिति न वक्तव्यमेवेति सर्वमनवद्यम् ।
न्यायामृतकण्टकोद्धारः
।। अपच्छेदन्यायेनेति ।। षष्ठे पञ्चमपादे एकोनविंशाधिकरणे चिन्तितम् – पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् । अध्वर्युं प्रस्तोताऽन्वारभते । प्रस्तोतारमुद्गाता उद्गातारं प्रतिहर्ता इत्यादि-श्रुत्या विहितस्य बहिष्पवमानं प्रसर्पतां प्रस्तोत्रादीनामध्वर्य्वाद्यन्वारम्भणस्य विच्छेदे प्रायश्चित्त-विशेषाः श्रूयन्ते । यदि बहिष्पवमानं प्रसर्पतां प्रस्तोता अपच्छिद्यात् ब्रह्मणे वरं दद्यात् । यद्युद्गाता अपच्छिद्यात् अदक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्यात् यत् पूर्वस्मिन् दास्यन् स्यात् । यदि प्रतिहर्ता अपच्छिन्द्यात् सर्ववेदसं दद्यात् इति । अयमर्थः – प्रातःसवने बहिष्पवमानेन स्तोष्यमाणा ऋत्विजः शालाया बहिः प्रसर्पन्ति । तदानीमेकस्य पृष्ठतोऽन्य इत्येवं पिपीलिकापङ्क्त्याकारेण गन्तव्यम् । तत्र पुरतो गन्तुः कच्छं गृहीत्वैव पृष्ठतोऽन्यो गच्छेत् । एवं सति यदि प्रमादात् उद्गाता गृहीतं कच्छं मुञ्चेत् तदा दक्षिणामदत्त्वा प्रक्रान्तो यज्ञः समापनीयः । तं समाप्य पुनरपि स यज्ञः प्रयोक्तव्यः । तस्मिन् प्रयोगे पूर्वं यत् दित्सितं द्रव्यं तद् दद्यात् । यदि प्रतिहर्ता मुञ्चेत् तदा तस्मिन्नेव प्रयोगे सर्वस्वं दद्यादिति । तत्र संशयः – किमुद्गातृप्रतिहर्त्रोः क्रमेण अपच्छेदे पूर्वनिमित्तमदक्षिणं प्रायश्चित्तं कर्तव्यम् उत उत्तरनिमित्तं सर्वस्वदक्षिणप्रायश्चितम् इति । पूर्वपक्षस्तु – पूर्वनिमित्तमेव कर्तव्यम् । तस्य उपक्रमाधिकरण-न्यायेन श्रुतिलिङ्गाधिकरणन्यायेन च अनुपसञ्जातविरोधित्वेन शीघ्रोपस्थितत्वेन च प्रबलत्वात् । उत्तरस्य दुर्बलत्वादिति । सिद्धान्तस्तु – उत्तरनिमित्तमेव प्रायश्चित्तं कर्तव्यम् । तस्य पूर्वोपमर्देन उत्पन्नत्वेन प्रबलत्वात् । न च उपक्रमाधिकरणश्रुतिलिङ्गाधिकरणविरोध इति वाच्यम् । वैषम्यात् । उपक्रमाधिकरणे उपसंहारस्य प्रथमप्रवृत्तोपक्रमैकवाक्यतया आपाततस्तदाकाङ्क्षितार्थ-समर्पणनियमेन तद्विरुद्धार्थविषयतया लब्धात्मतैव नास्तीति युक्तं पूर्वप्राबल्यम् । तथा श्रुति-लिङ्गादौ उत्तरस्य पूर्वसापेक्षत्वात् पूर्वेण विरोधे सति उत्तरस्य उत्पत्तिरेव नास्तीति तत्रापि पूर्वप्राबल्यं युक्तम् । किञ्च श्रुतिलिङ्गादौ शीघ्रमन्थरगामित्वाभ्यां प्राबल्यदौर्बल्येऽपि भवत इति भवत्युत्पत्तिप्रतिबन्धः । इह तु ज्ञानद्वयमन्योन्यनिरपेक्षवाक्यद्वयादुत्पद्यते । वाक्यद्वयस्य च निरपेक्षत्वात्, प्रत्यक्षत्वाच्चेति नास्ति उत्पत्तिप्रतिबन्धः । उत्पद्यमानं चोत्तरज्ञानं स्वविरुद्धस्य पूर्वज्ञानस्य बाधेनैवोत्पद्यते । ननु निरपेक्षत्वस्य समानत्वात् पूर्वमेव उत्तरस्य बाधकमस्तु इति चेन्न । पूर्वोत्पत्तिदशायामविद्यमानस्य उत्तरज्ञानस्य बाध्यत्वायोगात् । उत्तरकाले तु स्वयं बाधितं पूर्वं ज्ञानं कथमुत्तरस्य बाधकं भवेत् । न चान्यत् किञ्चित् बाधकं पश्यामः । तस्मात् पौर्वापर्ये पूर्वदौर्बल्यम् । ततश्च यथा नित्यद्वादशशतज्ञानं पूर्वमुत्पन्नं पाश्चात्येन नैमित्तिकेन सर्ववेदस-दानादिज्ञानेन बाध्यते तथा नैमित्तिकमपि पूर्वनिविष्टमुत्तरेण बाध्यते । न हीति । ननु उपजीव्यत्वविशिष्टमपि पूर्वमुत्तरेण नेदं रजतमिति ज्ञानेन बाध्यं दृष्टमिति चेन्न । तत्र उपजीव्यत्वाभावस्योक्तत्वात् । किञ्च नोपजीव्यत्वमात्रेण प्रत्यक्षस्य बाधकता उक्ता । किन्तु परीक्षायुक्तत्वेनेत्युक्तत्वात् । न च अपच्छेदनये पूर्वं परीक्षितं नोत्तरमित्यस्ति । जगत्प्रत्यक्षे तु परीक्षायुक्तत्वमस्ति । अतो वैषम्यात् नापच्छेदनयः । अपच्छेदनये पूर्वप्रामाण्यस्य अस्त्यव-काशः । जगत्प्रत्यक्षप्रामाण्यस्य तु स नेत्याह– किञ्चेति ।
अत एवेति । तत्रैव पञ्चमपादे अष्टादशाधिकरणे चिन्तितम् । तत्र विप्रतिषेधाद्विकल्पः स्यात् इति सूत्रम् । अदक्षिणत्वं सर्वस्वदक्षिणत्वमिति यत् प्रायश्चित्तद्वयं निमित्तभेदेन यद्युद्गाते-त्यादिना श्रुतं तन्निमित्तयोर्यौगपद्ये किं समुच्चीयते अथ विकल्प्यते इति विचारः । पूर्वपक्षस्तु – समुच्चय एव युक्तः । निमित्तद्वये प्रायश्चित्तद्वयसमवायस्य न्याय्यत्वात् न विकल्पः । तस्य अष्टदोषदुष्टत्वात् । न च अदक्षिणत्वसर्वस्वदक्षिणत्वयोर्विरोधात् न समुच्चय इति वाच्यम् । प्रयोगभेदेन व्यवस्थाश्रयणात् । प्रथमप्रयोगे दक्षिणा न दातव्या । उत्तरप्रयोगे सर्वस्वं दातव्यम् । न च प्रयोगभेदेन अनुष्ठीयमानत्वात् कथं समुच्चय इति वाच्यम् । प्रयोगभेदेऽपि कर्मण एकत्वात् समुच्चय इति । सिद्धान्तस्तु – यत्र हि प्रयोगे निमित्तं तस्यैव नैमित्तिकं प्रायश्चित्तमङ्गम् । न ह्युत्तरप्रयोगेऽपच्छेदो विद्यते । न चासति निमित्ते प्रायश्चित्तं युक्तम् । न च निमित्तरहितप्रयोगे क्रियमाणेन प्रायश्चित्तेन निमित्तवतः प्रयोगस्य साद्गुण्यं भवति । तस्मात् प्रथमप्रयोगे एव निमित्तद्वयवशात् प्रायश्चित्तद्वयं प्राप्तम् । तच्च अन्योन्यविरुद्धत्वाद्विकल्प्यते । न च विकल्पो न्याय्योऽष्टदोषदुष्टत्वादिति वाच्यम् । गत्यन्तराभावे व्रीहियववदगत्या तदाश्रयणादिति विकल्पोऽप्युक्तः । अत एव सर्वथा पूर्वशास्त्राप्रामाण्यं नास्ति । अन्यथा विकल्पोक्त्ययोगात् । यत्र हि पाक्षिकं प्रामाण्यं तत्रैव विकल्पाश्रयणादिति भावः ।
किञ्चेति । षष्ठे पञ्चमपादे विंशाधिकरणे चिन्तितम् – यद्युद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्यात् यथेतरस्मिन् इति सूत्रम् । पौर्वापर्ये जघन्यनिमित्तं प्रायश्चित्तमिति स्थितम् । तद्यदा उद्गाता पश्चादपच्छिद्यते तदा तस्यापच्छेदस्य प्रबलत्वात्तन्निमित्तं प्रायश्चित्तमनुष्ठेयम् । तच्च ईदृशम् । प्रथमप्रयोगं दक्षिणारहितमनुष्ठाय द्वितीयप्रयोगे पूर्वं दित्सिता दक्षिणा दातव्या इति । पूर्वं च गवां द्वादशाधिकं शतं दित्सितम् । तस्य द्वादशशतं दक्षिणा इति ज्योतिष्टोमदक्षिणा-रूपेण विहितत्वात् । प्रतिहर्त्रपच्छेदेन च सर्वस्वं दित्सितम् । एवं सति संशयः – किं पुनर्यज्ञे द्वादशशतं देयमुत सर्ववेदसमिति । तत्र द्वादशशतमेव देयमित्येकः पूर्वपक्षः । कुतः? तत्र तद् दद्यात् यत् पूर्वस्मिन् दास्यन्स्यात् इति यदेव क्रतुस्वभावतो देयं तदेव प्रतीयते । तच्च द्वादश-शतम् । तस्मात् पुनर्यज्ञे तदेव देयमिति । अथवा यत् पूर्वस्मिन् दास्यन्स्यादिति सामान्या-कारेणोक्तत्वात् पूर्वकालत्वावच्छिन्नं दित्सितं देयं प्रतीयते । तथा च ज्योतिष्टोमरूपपूर्वप्रयोगे प्रथमं द्वादशशतं दास्यन्नासीत् । प्रतिहर्त्रा त्वपच्छिन्ने सर्ववेदसं दास्यन्नासीत् । अतः उभयोरपि पूर्वकालावच्छिन्नत्वात् पुनः प्रयोगे उभयमपि देयमित्यपि वक्तुं शक्यते । तस्माद्विकल्प इति पूर्व पक्षः । सिद्धान्तस्तु – भवति ज्योतिष्टोमरूपप्रथमप्रयोगे द्वादशशतं दास्यन् । ततश्च प्रतिहर्तुः प्रथममपच्छेदे सति तन्निमित्तकं सर्वस्वदानरूपं प्रायश्चित्तं प्रथमप्रयोगे प्राप्तम् । तेन च क्रतुस्वभावप्रयुक्तस्य द्वादशशतस्य बाधात् सर्वस्वं दित्सितम् । तस्मात् तदेव पुनः प्रयोगे स्यात् । न च तदपि अदाक्षिण्येन बाधितमिति वाच्यम् । बाधकस्य दक्षिणान्तरस्यानुक्तत्वात् । न ह्युद्गात्रपच्छेदेन पूर्वदक्षिणा बाध्यते । किं तर्हि पूर्वस्मिन् प्रयोगे दातव्या सती दक्षिणा तत उत्कृष्य उत्तरस्मिन् प्रयोगे निक्षिप्यते । अतः उत्तरकालीनोद्गात्रपच्छेदनिमित्तेऽपि पुनः पूर्वकालीनप्रतिहर्त्रपच्छेदप्रयुक्तं सर्वस्वमेव दातव्यम् ।
ननु स्यादेतन्न्यायवैषम्यं यदा पूर्वेण प्रतिहर्त्रपच्छेदनिमित्तेन सर्ववेदसदानेन परस्य उद्गात्रप-च्छेदनिमित्तस्य अदाक्षिण्यस्य अत्यन्तं न बाधः, किन्तु पाक्षिकाप्रामाण्यादिकमेवेति तदा । यदा च प्रतिहर्त्रपच्छेदनिमित्तं सर्ववेदसदानं तु पूर्वमुद्गात्रपच्छेदनिमित्तमदक्षिणमत्यन्तं बाधते एव । न हि तत्र पाक्षिकप्रामाण्यं वा, विकल्पो वा, प्रयोगान्तरनिक्षेपो वाऽस्ति, तदा परेणागमेन पूर्वस्य प्रत्यक्षस्यात्यन्तबाधेऽपच्छेदन्यायोदाहरणं युक्तमिति चेन्मैवम् । अस्य न हीत्यादिना मूले एव खण्डितत्वात् । अपि चेति । तथा च पश्चादुत्पन्नस्य रक्तत्वज्ञानस्य पूर्वोत्पन्नश्यामत्वज्ञानं बाधकं न भवति यथा तथाऽपच्छेदनयेऽपि पूर्वोत्पन्नज्ञानस्य पश्चादुत्पन्नज्ञानं न बाधकम् । न हि पूर्वनिमित्तप्रायश्चित्तज्ञानजनकं पश्चात्तननिमित्तवेलायां तत्कर्तव्यतां बोधयति । येन विरोधेन बाध्यबाधकभावः स्यादिति भावः । सङ्गृह्णाति – तस्मादिति ।। यत्र पौर्वापर्यं, विरोधः, पूर्वाप्रामाण्यं च नियमान्नास्ति तत्रैवासावपच्छेदनयो भवेदित्यर्थः । अत्र यत्र पौर्वापर्यं तत्राप-च्छेदनय इत्युक्ते प्रयाजादीनां प्रधानस्य च पौर्वापर्यसत्त्वात् अपच्छेदनयः स्यात् । अतो विरोध इति । तावत्युक्ते यत्रोद्गातृप्रतिहर्त्रपच्छेदौ युगपत् तत्रापि स स्यादत उक्तं पौर्वापर्यमिति । पौर्वापर्यं विरोधश्च यत्र तत्र स इत्युक्ते उपक्रमाधिकरणे अर्थवादविध्युद्देशयोस्तदुभयसत्त्वात्तदा-पत्तिर्मा भूदतो नियमात् पूर्वाप्रामाण्यं नास्तीति । नियमादिति च प्रकृतेऽसम्भववारणाय । कथञ्चित्पूर्वाप्रामाण्यस्य तत्र सत्वात् । न च नञ्द्वयेन पूर्वप्रामाण्ये सतीति विवक्षितमिति नासम्भव इति वाच्यम् । तथाप्युपक्रमाधिकरणे पूर्वप्रामाण्यस्य सत्त्वेनातिप्रसङ्गस्तत्र स्यात् । न च नियमादित्युक्तेऽपि अव्यावृत्तिः । तत्र नियमेनापि पूर्वप्रामाण्यस्य सत्त्वादिति वाच्यम् । नियमपदेन पूर्वप्रामाण्यस्य अर्थान्तरे सावकाशत्वे सतीत्यस्य विवक्षितत्वात् । उपक्रमाधिकरणे च पूर्वप्रामाण्यस्यार्थान्तरेऽवकाशाभावान्न तत्रापच्छेदनयप्रसङ्गः ।
नन्वेवं पूर्वप्रामाण्यस्यार्थान्तरे सावकाशत्वे सति यत्र विरोधः तत्रैव स इत्येवास्तु । युगपदपच्छेदस्थले पूर्वोत्तरभावाभावेन पूर्वविशेषणाभावादेव तद्व्यावृत्तेः सम्भवात् । न च पूर्वपदमेकार्थपरमिति वाच्यम् । तथा सति उपक्रमाधिकरणेऽतिप्रसङ्गपरिहारानापत्तेः । तत्रैक-प्रामाण्यस्यार्थान्तरे सावकाशत्वविरोधयोः सत्त्वादिति चेन्न । प्रकृते पूर्वप्रामाण्यस्यार्थान्तरे सावकाशत्वे सतीत्यस्यासम्भवशङ्कापरिहारार्थत्वेन एतद्विवरणार्थत्वेन तस्य वैयर्थ्याभावात् । वस्तुतस्तु उभयोर्यथाकथञ्चिन्मुख्यार्थे एव प्रामाण्यस्यावश्यकत्वे सतीत्यर्थः । तेन नोपक्रमाधि-करणेऽतिप्रसङ्गः । नापि पौर्वापर्यविशेषणवैयर्थ्यमिति द्रष्टव्यम् । यद्वा परस्परनिरपेक्षप्रामाण्यकत्वे सतीति तदर्थः । एवञ्च न कोऽपि दोषः, न वा विशेषणवैयर्थ्यमिति सर्वमवदातम् ।
न्यायामृतप्रकाशः
परेणेति ।। प्रत्यक्षसिद्धजीवादिधर्मिकत्वादित्यर्थः ।। अपच्छेदन्यायेनेति ।। षष्ठे चिन्तितम् । ‘‘पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्’’ । ‘‘अध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तार-मुद्गाता उद्गातारं ब्रह्मा तं यजमानः’’ इत्यादिश्रुत्या विहितस्य बहिष्पवमानं प्रसर्पतां प्रस्तोत्रादीनाम् अध्वर्य्वाद्यन्वारम्भस्य विच्छेदे सति प्रायश्चित्तविशेषाः श्रूयन्ते । बहिष्पवमानं प्रसर्पतां मध्ये ‘‘यदि प्रस्तोताऽपच्छिद्याद्ब्रह्मणे वरं दद्याद्यजमानः । यदि प्रतिहर्ताऽपच्छिद्यात्तर्हि सर्ववेदसं दद्यात् । यद्युद्गाताऽपच्छिद्याददक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात्’’ इति । तत्र क्रमेण प्रतिहर्त्रुद्गात्रोरपच्छेदे किं पूर्वनिमित्तकं सर्वस्वदक्षिणारूपं प्रायश्चित्तं कार्यं उतोत्तरनिमित्त-कोऽदक्षिणाको यागः कार्य इति संशयेऽसञ्जातविरोधित्वेन पूर्वस्य प्रबलत्वात् प्रतिहर्त्रपच्छेदनिमित्तकं सर्वस्वदक्षिणारूपं प्रायश्चित्तं कार्यमिति पूर्वपक्षे ‘‘नानुपमृद्य पूर्वं तद्विरोध्युत्तरमुत्पत्तुमर्हति’’ इति न्यायेन पूर्वोपमर्देन परप्राबल्यस्यैव न्याय्यत्वादुद्गात्रपच्छेदनिमित्तकोऽदक्षिणाको याग एव कार्य इति परेण पूर्वस्य बाध इति सिद्धान्तः ।। न चापच्छेद इति ।। प्रतिहर्त्रपच्छेद उद्गात्रपच्छेदस्योपजीव्यो नैव भवति । येन परेणोपजीवकेन पूर्वस्योपजीव्यस्यापच्छेदनये बाधदर्शनात्प्रकृतेऽपि तथा स्यादि-त्युच्येतेत्यर्थः ।। अत्यन्तबाध इति ।। विषयान्तरेऽप्यनवकाशेन सर्वथाऽप्रामाण्यरूप इत्यर्थः । कुतो नात्यन्तबाध इत्यत आह ।। प्रतिहर्त्रिति ।। प्रतिहर्तृमात्रापच्छेदे यदि प्रतिहर्ताऽपच्छिद्येत तदा सर्ववेदसं दद्यादिति शास्त्रप्रामाण्यसम्भवादित्यन्वयः ।। क्रमेणेति ।। प्रतिहर्त्रुद्गात्रोः क्रमेणापच्छेदेऽपि यदा प्रतिहर्त्रपच्छेदः पश्चात्तनो भवति तदा परेण पूर्वबाधाङ्गीकारात्सर्ववेदसं दद्यादिति शास्त्रस्य प्रामाण्यसम्भवादित्यर्थः । ननु प्रतिहर्त्रुद्गात्रोर्युगपदपच्छेदे कथं सर्ववेदसं दद्यादिति शास्त्रप्रामाण्य-सम्भव इत्यत आह ।। अत एव षष्ठ इति ।। यतो युगपदपच्छेदेऽपि सर्ववेदसं दद्यादिति शास्त्रप्रामाण्यसम्भवोऽत एवेत्यर्थः ।।
विकल्प उक्त इति ।। नात्यन्तबाधेनाप्रामाण्यमित्यर्थः । षष्ठेऽध्याये चिन्तितम् । तत्र विप्रतिषेधाद्विकल्पः स्यात् । प्रतिहर्त्रुद्गात्रोर्युगपदपच्छेदे तन्निमित्तकं सर्वस्वदानादक्षिण्यरूपं नैमित्तिकद्वयं समुच्चीयते उत विकल्प इति संशये पुनर्यजेतेति प्रयोगद्वयसद्भावेन पूर्वस्मिन्प्रयोगेऽ-दक्षिणत्वमुत्तरस्मिन्सर्वस्वदानमित्युभयस्यापि सम्भवात्समुच्चय इति पूर्वपक्षः । यस्मिन्प्रयोगे निमित्तं तस्यैवाङ्गं नैमित्तिकं न प्रयोगान्तरे तस्यावकाशसम्भव इति एकस्मिन्नेव प्रयोगे द्वयमापतितम् । तच्च विरुद्धमतो विकल्प्यत इति सिद्धान्तः । एवं प्रतिहर्त्रुद्गात्रोः क्रमेणापच्छेदे प्रतिहर्त्रपच्छेदनिमित्तस्य सर्वस्वदानस्य परेणोद्गात्रपच्छेदेन बाधेऽपि नात्यन्तबाधः । प्रकारत्रयेणापि तच्छास्त्रप्रामाण्योपपत्ते-रित्युपपाद्य इतोऽपि नात्यन्तबाधः । प्रयोगान्तरे निक्षेपोपपत्त्या तच्छास्त्रप्रामाण्योपपत्तेरित्याह – किञ्चेति ।। षष्ठे स्थितं ‘‘यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्यात्’’ । प्रतिहर्त्रुद्गात्रोः क्रमेणापच्छेदे यदोद्गात्रपच्छेदो जघन्यः परः पश्चात्तनो भवति तदा ‘‘यद्युद्गाताऽपच्छिद्याददक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यादि’’ति श्रूयते । तत्रोद्गात्रपच्छेदनिमित्तके प्रथमप्रयोगं दक्षिणाहीनं समाप्य कर्तव्ये ज्योतिष्टोमस्य पुनः प्रयोगे तद्दद्यादिति श्रुता दक्षिणा किं प्रस्तोत्रादिप्रसर्पणाधिकरणीभूतपूर्वक्रतुसङ्कल्पकाले या दित्सिता द्वादशशतरूपा सैव वा उत प्रतिहर्त्रपच्छेदे दित्सिता सर्वस्वरूपा वेति संशये पूर्वस्मिन्दास्यन् स्यादित्युक्तत्वेन या क्रतुस्वभावतः प्राप्ता द्वादशशतरूपा सैवेति प्राप्ते द्वादशशतं धनं दास्यन्नासीत् तत् परेण प्रतिहर्त्रपच्छेदनिमित्तेन सर्ववेदसेन बाधितमेवेति पुनर्यज्ञे सर्वस्वदक्षिणैव देया । न च सर्वस्वदक्षिणाऽपि प्रतिहर्त्रपच्छेदा-त्परेणोद्गात्रपच्छेदनिमित्तकाऽदक्षिण्येन बाधितेति वाच्यम् । प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणायाः प्रयोगान्तरे निक्षेपोपपत्तेरदक्षिण्येन न सर्वथा बाध इति सिद्धान्तितम् । प्रथमप्रयोगं बहिष्पवमान-प्रसर्पणाधिकरणीभूतम् ।।
न त्विति ।। येन सर्ववेदसं दद्यादिति शास्त्रस्य प्रयोगान्तरे निक्षेपाभावेनाप्रामाण्यं स्यादिति भावः । इति उद्गात्रपच्छेदनिमित्तकप्रयोगान्तरे सर्वस्वदाने द्वादशशतदक्षिणाया अपि प्राप्तत्वेन तदन्तर्भावादि ज्ञातव्यम् । यत्पूर्वस्मिन्नित्युक्तदक्षिणाया द्वादशशतरूपत्वे प्रतिहर्त्रपच्छेदनिमित्तक-प्रायश्चित्ताकरणेन प्रत्यवायप्राप्तेः । अयं च विचार उद्गात्रपच्छेदस्य प्रतिहर्त्रपच्छेदात्पाश्चात्यत्व एव सति नान्यथा । यदि च प्रतिहर्त्रपच्छेदाभावेऽपि उद्गातृमात्रापच्छेद एव जातस्तदा पुनर्यजेत, तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यादित्युक्ता दक्षिणा द्वादशशतरूपैव न सर्वस्वरूपा । तस्याः प्रतिहर्त्रप-च्छेदमात्रनिमित्तकत्वेन तदभावेऽयोगादिति ।। प्रयोगान्तर इति ।। उद्गात्रपच्छेदनिमित्तकप्रथमप्रयोगं दक्षिणाहीनं परिसमाप्य प्रतिहर्त्रपच्छेदनिमित्तेन कर्तव्ये ज्योतिष्टोमस्य द्वितीयप्रयोग इत्यर्थः । इतोऽपि न सर्वस्वदानशास्त्रस्य बाधः । तथा हि । यथा बदरफले श्यामरक्तरूपयोः क्रमेणोत्पत्त्य-नन्तरं यः पूर्वं श्यामः स एवेदानीं पाकेन रक्त इति ज्ञानयोर्यथाऽविरोधेन प्रामाण्यमेवास्ति एवमेव यो द्वादशशतदक्षिणाधिकरणक्रतुः प्रतिहर्त्रपच्छेदेन निमित्तेन सर्वस्वदानविशिष्टतया कर्तव्योऽभूत्स एवेदानीमुद्गात्रपच्छेदेन निमित्तेनादक्षिण्यविशिष्टतया कर्तव्यो जात इत्येवं तयोः सर्वस्वदानादक्षिण्य-प्रतिपादकशास्त्रजन्यज्ञानयोः प्रामाण्यात्तज्जनकशास्त्रयोरपि प्रामाण्यमित्याह ।। अपि चेत्यादिना ।। क्रमिकाभ्यां प्रतिहर्त्रुद्गात्रपच्छेदरूपाभ्याम् ।। तत्तन्नैमित्तिकेति ।। प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदा-नवत्तया कर्तव्यतायाः उद्गात्रपच्छेदनिमित्तकादक्षिण्यवत्तया कर्तव्यतायाश्च क्रमेणोत्पत्तेरित्यर्थः ।। अन्यथेति ।। द्वादशशतदक्षिणावत्त्वेनेत्यर्थः ।। निमित्ते सतीति ।। प्रतिहर्त्राद्यपच्छेदरूपे निमित्ते प्राप्ते सतीत्यर्थः ।। एवमिति ।। सर्वस्वदक्षिणावत्त्वादिना कर्तव्य इत्यर्थः । तथा च न सर्वथाऽ-प्रामाण्यमिति भावः ।। अप्रामाण्यमिति ।। तथा च पूर्वस्मिन्नेकस्मिन्नेव क्रतौ प्रकारद्वयेन करणयोग्यतयोरुत्पन्नत्वेन तदुभयज्ञानस्य प्रामाण्यात्तज्जनकं तस्मिन् क्रतौ सर्वस्वदानादक्षिण्याभ्यां करणयोग्यताप्रतिपादकतज्ज्ञानजनकमिति यावत्, शास्त्रद्वयं प्रमाणमेवेत्यर्थः । प्राक्तथाभूतस्य श्यामतया भूतस्य । पश्चादन्यथाभावात् रक्ततया भावात् । यथा श्यामरक्तरूपेण बदरफलरूपार्थस्यैव तादृशत्वात् श्यामरक्तरूपत्वात् तज्ज्ञानयोर्नाप्रामाण्यं यथास्थितार्थावगाहित्वात् एवं प्राक् तथाभूतस्य प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणावत्त्वेन करणयोग्यत्ववतः क्रतुरूपार्थस्यैव पश्चादन्यथाभावात् उद्गात्रपच्छेदनिमित्तकादक्षिण्येन करणयोग्यतावत्तया भावात् क्रतुरूपार्थस्यैव तादृशत्वात् सर्वस्व-
दक्षिणादक्षिण्यां करणयोग्यतावत्स्वरूपत्वात् नैकस्मिन् क्रतौ तदुभयज्ञानयोरप्रामाण्यं यथावस्थितार्थाव- गाहित्वात् । ततश्च न तज्जनकशास्त्रयोरप्यप्रामाण्यमिति भावः । ननु एकस्मिन्नेव क्रतौ प्रतिहर्त्रप-च्छेदनिमित्तकसर्वस्वदक्षिणावत्त्वेन कर्तव्यत्वज्ञानं अनन्तरभाविन्योद्गात्रपच्छेदनिमित्तकादक्षिण्यवत्तया कर्तव्यतावगत्या मिथ्या किं न स्यादित्यत आह ।। न हीति ।। विज्ञानं प्रागासीदिति विज्ञानम् ।
अपच्छेदन्यायवैषम्यं प्रकृते उपपाद्य तद्विषयं सङ्गृह्णाति ।। पौर्वापर्यमिति ।। केवलमिति शेषः ।। यत्रेति श्रवणात्तत्रेति ग्राह्यम् । तथा च केवलमुपजीव्योपजीवकभावरहितं पौर्वापर्यं यत्रास्ति तत्राप-च्छेदनयोऽपच्छेदन्यायो भवेत् । न हि प्रतिहर्त्रुद्गात्रोः क्रमेणापच्छेदे पूर्वमुपजीव्यमित्यर्थः । प्रकृते च प्रत्यक्षागमयोः पौर्वापर्ये सत्यपि उपजीव्योपजीवकभावाङ्गीकारात्ताभ्यां तन्न्यायवैषम्यमिति भावः । तथा विरोधश्च यत्रास्ति तत्प्रयुक्तं नियमात् अत्यन्तं विषयान्तरेऽनवकाशरूपं पूर्वाप्रामाण्यं च यत्र नास्ति तत्रापच्छेदनयो भवेत् । प्रतिहर्त्रुद्गात्रोः क्रमेणापच्छेदे तन्निमित्तकसर्वस्वदानादक्षिण्ययो-र्विरोधोऽस्ति तत्प्रयुक्तं पूर्वाप्रामाण्यं नियमान्नास्ति । सर्ववेदसं दद्यादिति शास्त्रस्य प्रतिहर्त्रृमात्राप-च्छेदादौ सति सावकाशत्वात् । प्रकृते च प्रत्यक्षागमयोर्विरोधोऽस्ति । तन्निमित्तकं पूर्वस्य प्रत्यक्षस्याप्रामाण्यं नियमान्नास्ति । विषयान्तरे सावकाशत्वसम्भवादिति वक्तव्यम् । न ह्येवं वक्तुं शक्यते । अनुमानविरोधेन सत्त्वग्राहिणः प्रत्यक्षस्य सत्त्वरूपार्थं विना विषयान्तरे प्रामाण्य-स्यावकाशाभावान्नापच्छेदन्यायावकाशः । न च प्रकृतेऽपि सत्त्वग्राहिणः प्रत्यक्षस्यापि व्यावहारिक-सत्त्वावगाहित्वेन सावकाशत्वमस्तीति वाच्यम् । सत्तात्रैविध्यस्योत्तरत्र दूष्यत्वादिति हृदयम् ।।
न्यायकल्पलता
ननु तथाप्यपच्छेदन्यायेनागमस्य परत्वेन प्राबल्यं भविष्यतीति परमतमनुवदति । यत्तूक्तमिति । अपच्छेदन्यायेनेति । षष्टेऽध्याये पञ्चमपादे सप्तदशाधिकरणे चिन्तितम् । पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् । बहिष्पवमानस्तुत्यर्थं प्रस्तोतृप्रतिहर्तारौ प्रतिहर्त्रुद्गातारौ च समन्वारब्धाः प्रसरन्ति । अध्वर्यंु निष्क्रामन्तं प्रस्तोता सन्तनुयात् । तं प्रतिहर्ता तमुद्गाता तं ब्रह्मा तं यजमान इति वचनात्् । अध्वर्र्यंु प्रस्तोताऽन्वारभते प्रस्तोतारमुद्गाता उद्गातारं प्रतिहर्तेत्यादिश्रुत्या विहितस्य बहिष्पवमानं प्रसरतां प्रस्तोत्रादीनामृत्विजामध्वर्याद्यन्वारम्भस्य विच्छेदे दोषतत्प्रायश्चित्तविशेषाः श्रूयन्ते । यदि प्रस्तोताऽपच्छिद्येत ब्रह्मणे वरं दद्यात् यदि प्रतिहर्ताऽपच्छिद्येत पशुभिर्यजमानो बाध्येत सर्ववेदसं दद्यात् यद्युद्गाताऽपच्छिद्येत यजमानो बाध्यते अदक्षिणो यागः समाप्येतेति अदक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्यात् यत्पूर्वस्मिन् दास्यन् स्यादिति । पूर्वाधिकरणे निमित्तद्वयसन्निपाते सत्युभयोरगृह्यमाण-विशेषत्वादुभयं निमित्तं विकल्पेन नैमित्तिकं प्रयोजयतीति स्थापितम् । अत्राधिकरणे पौर्वापर्येऽपि विकल्प उत बाध इति चिन्त्यते । तत्र पूर्वपक्षः । न तावदत्र सामान्यविशेषनित्यनैमित्तिक-नित्यकाम्यक्रत्वर्थाल्पभूयस्त्वसावकाशनिरवकाशत्वाङ्गगप्रधानतद्धर्मत्वलक्षणः कश्चिदपि शास्त्रद्वयस्य मिथो बाधे हेतुरस्ति । नापि प्रमाणतदाभासवत्पौर्वापर्येण बाधः । शास्त्रावधारणवेलायां पौर्वापर्याभावात् । प्रयोगस्थं तु पौर्वापर्यं न शास्त्रार्थावधारणायालम् । न हि प्रयोगाधीनं शास्त्रार्थावधारणम् । तदव-धारणोत्तरकालीनत्वात्प्रयोगस्य ।
किञ्च यः पूर्वस्य परेण बाधमिच्छति तेन तावदुत्पन्नस्योत्पत्तिनिरोधलक्षणबाधासम्भवान्मिथ्यात्व-लक्षणबाधो वक्तव्यः । न च नाम शास्त्रस्य मिथ्यात्वसम्भवः । सामान्यशास्त्रादेर्हि विशेषशास्त्रादिवशा-त्तद्व्यतिरिक्तनिश्चयपरिकल्पनान्न मिथ्यात्वप्रसक्तिः । इह त्वस्मिन्नेव प्रयोगे शास्त्रेणोत्पन्नं नैमित्तिक-विज्ञानमित्यविवादं न तद्विषयान्तरे व्याख्यातुं शक्यं तत्र तद्बाधे शास्त्रस्य प्रामाण्यबाधप्रसङ्गः । किं च मिथ्यात्वं विद्यमानमेव बाधकेन बोध्यते नतु तद्वशेन मिथ्यात्वं जन्यते । नचात्र पूर्वविज्ञानस्य मिथ्यात्वमस्ति । अदुष्टकरणजन्यत्वात् । नचामिथ्याभूतस्य बाधसम्भवः । तस्मात्पौर्वापर्योत्पत्तावपि येन केनचित्कल्पेन कृतावधिक्रियेतैवेति ।
सिद्धान्तस्तु यथाशक्त्यनुबन्धादाख्यातो विदधदेव स्वार्थं विरुद्धमर्थान्तरमबाधित्वा स्वार्थं बोधयितुं अशक्नुवन् पूर्वविज्ञानं बाधते । आगन्तुकनिमित्तसम्बन्धेन क्रतोर्विकारे विधीयमाने अयमर्थोऽवगम्यते । प्रागन्यादृशोऽपि क्रतुः फलसाधनः सन्नन्यस्मिन्निमित्ते संजाते सत्यन्यादृशः फलं साधयतीति । ततश्च यथा द्वादशशतदक्षिणः, फलसाधकः स च क्रतुरुद्गात्रपच्छेदे सञ्जाते सत्यदक्षिणः पुनरावृत्तिधर्मकश्च फलसाधनं भवति । प्रतिहर्तृपच्छेदे च सर्ववेदसदक्षिणः तथा द्वयोर्निमित्तयोरन्यतरेण पूर्वोत्पन्नस्या-दाक्षिणस्य सर्ववेदसदाक्षिण्यस्य वा सतः पाश्चात्येन निमित्तान्तरेण सामर्थ्यान्तरमेव क्रतोर्जातमिति पूर्वस्य परेण बाधः । स चायं शास्त्रार्थावधारणवेलायामेव प्रायोगिकेण पौर्वापर्येण शास्त्रयोर्मिथो बाधोऽवगम्यत इति न प्रयोगोत्तरकालं शास्त्रार्थवधारणापत्तिः । न च शास्त्रस्याप्रामाण्यप्रसङ्गः । यत्र पाश्चात्यं निमित्तान्तरं बाधकं नास्ति तद्विषयत्वेन शास्त्रव्याख्यानात् । प्रकृतिवच्छब्दस्यैव लुप्तार्थप्रत्याम्नात-प्रतिषिद्धातिरिक्तविषयतया श्रुतिलिङ्गादिषु तु पूर्वविरोधे परस्यानुत्पत्तिरेवेति पूर्वप्राबल्यम् । इह तु पूर्वविज्ञानसमये परस्यानुत्पन्नत्वेनाविरुद्धत्वादबाध्यत्वम् । न ह्यसतो बाधः सम्भवति । उत्तरस्य तु पूर्वबाधनमन्तरेणावस्थितिर्न सम्भवतीति पूर्वं प्रति बाधकत्वम् । तदुक्तं वाचस्पत्ये ।
पूर्वं परमजातत्वादबाधित्वैव जायते ।
परस्य त्वन्यथोत्पादात्तदबाधे न सम्भवः ।। इति ।
तस्मात्पूर्वस्य परेण बाध इति । पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवदिति जैमिनिसूत्राक्षरार्थः । प्रथम-भाविनोऽनुपसञ्जातविरोधित्वात्तद्विरोधेन चोत्तरस्योत्थानानुपपत्तेः पूर्वमेव निमित्तं नैमित्तिकं प्रयोजयतीति न मन्तव्यम् । यतः निमित्तयोः पौर्वापर्ये पूर्वदौर्बल्यं उत्तरस्य बलवत्वम् न्याय्यम् । उत्तरस्य दक्षिणा-भावशास्त्रस्य पूर्वनिरपेक्षतया जन्यविज्ञानस्य पूर्वज्ञानविषयापहारेणैव जायमानत्वात् । प्रथमबलवत्वस्य पूर्वसापेक्षोत्तरविषयत्वाद्युगपदपच्छेदे प्रतिहर्तृमात्रापच्छेदे पूर्वशास्त्रस्य सावकाशत्वात् निरवकाशेनोत्तरेण पूर्वं बाध्यते । तत्र प्रकृतिवदिति निदर्शनम् । यत्रोपदेशतो वाऽङ्गानां प्राप्तिः सा प्रकृतिः । यत्रातिदेशतः प्राप्तिः सा विकृतिः । तत्रेत्थं कुर्यादित्युपदेशः । तद्वत्कुर्यादित्यतिदेशः । यथा विकृतौ शरमयं बर्हिर्भवतीत्याम्नातेनोत्तरभाविना कुशानां प्रकृतानां आज्यभागयोश्च तौ न पशौ करोतीति प्रतिषेधेनोत्तरभाविना बाधस्तद्वदिति । तदुक्तं भट्टवार्तिके ।
पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम्् ।
अन्योन्यनिरपेक्षाणां यत्र जल्पधियां भवेत् ।। इति ।
एवमुपन्यस्तं मतमपवदति । तन्नेति । नात्रापच्छेदनीतिविषयताऽस्तीति दर्शयति । नह्यस्माभि-रित्यादिना । अत एव वार्तिके अन्योन्यनिरपेक्षाणामित्युक्तम् । उपजीव्योपजीवकभावरहितानामित्यर्थः । अपच्छेदन्यायवैषम्यमेवान्वाचिनोति । शास्त्रप्रामाण्यसम्भवादिति । द्वैतग्राहिप्रत्यक्षस्याप्रामाण्यासम्भवा-दित्यपि बोध्यम् । अत एवेति । परीक्षितप्रमाणभावयोर्विरुद्धयोः शास्त्रयोरप्रामाण्यासम्भवादेवेत्यर्थः । तत्र विप्रतिषेधाद्विकल्पः स्यादिति । उद्गातृप्रतिहर्त्रुभयोर्यौगपद्येनापच्छेदे प्रायश्चित्तद्वयमापतति । तत्किं समुच्चीयते उत विकल्प्यते इति संशये पूर्वपक्षः । उद्गात्राद्यपच्छेदे पुनर्यज्ञादिविधानाददाक्षिण्यसर्ववेदस-दानयोः प्रयोगद्वयेनानुग्रहसम्भवात्सत्यां गतावष्टदोषनिदानविकल्पानङ्गीकरणात्समुच्चय इति । सिद्धान्तस्तु । यस्मिन्नेव प्रयोगे प्रतिहर्त्रपच्छेदस्तस्मिन्नेव तन्निमित्तं प्रायश्चित्तं सर्वस्वदानं कर्तव्यमित्यवगमान्न प्रयोगान्तरेण तदनुग्रहसम्भवः । किञ्च यत्पूर्वस्मिन्दातव्यं तदेव पुनः क्रतौ दास्यन् स्याद्यदि पूर्वस्मिन्न सर्वस्वं ततस्तस्य पुनः क्रतावपि न दानसम्भवः । अथ दातव्यं ततस्तुल्यत्वान्नादाक्षिण्येन बाधसम्भवः । तस्माद्युगपदुभयनिपातात्परस्परविरुद्धं नैमित्तिकद्वयं विकल्पयितुमर्हतीति ।
प्रकारान्तरेण वैषम्यमेवोपपादयति । किञ्चेति । यद्युद्गाता जघन्यः स्यात्सर्ववेदसं दद्यादित्यधिकरण इति । एतच्च सूत्रैकदेशसङ्कीर्तनम् । समग्रं तु सूत्रम् ‘‘यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन् इत्येवंरूपम् । अदुष्टकरणजन्ययोर्विरुद्धार्थयोः पौर्वापर्ये परेण निरवकाशेन पूर्वबाध इति स्थितम् । तत्र प्रतिहर्त्रपच्छेदानन्तरमुद्गात्रपच्छेदे सति तन्निमित्तके पुनर्यज्ञे कर्तव्ये सति किं क्रतुसङ्कल्प-काले यद्दित्सितं द्वादशशतं तद्देयमुत प्रतिहर्त्रपच्छेदनिमित्तकसर्ववेदसद्वादशशतयोर्विकल्प अथवा सर्ववेदसमेवेति संशये पूर्वपक्षः । यत्पूर्वस्मिन् दास्यन् स्यादित्यनेन यन्नित्यवत्कृतौ स्वभावतो देयं तदेव पुनर्देयं प्रतीयते नत्वागन्तुकमिति द्वादशशतमेव तत्र देयमित्येकः । यत्प्रथमं द्वादशशतं दास्यन्नासीत्तत् प्रतिहर्तरि त्वपच्छिन्ने सर्ववेदसमतः उभयमपि पुनः प्रयोगे यत्पूर्वस्मिन् दास्यन् स्यादिति न वक्तुं शक्यम् । तस्माद्विकल्प इति द्वितीयः पूर्वःपक्षः ।
सिद्धान्तस्तु । द्वादशशतस्य परेण सर्ववेदसेन बाधितत्वान्न तद्दास्यन् भवति । यच्च पूर्वं दास्यन् भवति तत्पुनः क्रतौ देयम् । तस्मात्सर्ववेदसमेव देयम् । न च तदपि परेणादाक्षिण्येन बाधितमिति वाच्यम् । बाधो हि परिमाणान्तरम् । यथा प्रतिहर्त्रपच्छेदे सर्ववेदसं दद्यादिति द्वादशशतविरुद्ध-परिमाणान्तरविधानाद्द्वादशशतस्य बाधः । न त्वेवमिह परिमाणान्तरमस्ति यतोऽर्थात्सर्ववेदसं निवर्तेत । न चाहत्य सर्ववेदसं प्रतिषिध्यते ।
नन्वदक्षिणः संस्थाप्य इति दक्षिणाप्रतिषेधः श्रुत एव । मैवम् । नायं प्रतिषेधो यथा न गृह्णाति षोडशिनमिति । किन्तर्ह्यदक्षिणस्य क्रतोर्निर्वृत्तिरुच्यमाना दक्षिणा दाने सति न सम्भवतीत्यर्थाद्दक्षिणाया निवृत्तिः कल्प्यते । न तु शब्दात् । न दद्याद्दक्षिणामित्येवं शब्दाभावात् । न चार्थादपि सर्वस्वदक्षिणा निवर्तते एवेति वाच्यम् । अर्थादपि सर्ववेदसनिवृत्तेः । साभ्यासे क्रतौ उभयसमावेशसम्भवात् । तस्या-बाधेनैव प्रयोगान्तरे निक्षेपापत्तेः । ननु यस्मिन्नेव पूर्वप्रयोगे प्रतिहर्त्रपच्छेदस्तस्मिन्नेव सर्वस्वं दातव्यम् । न प्रयोगान्तरे तस्यानुग्रहः सम्भवति । तस्मिंश्च प्रयोगे दक्षिणाक्रतुसंस्थापनविधानाद्बाधितमेव सर्वस्वदानं तुल्यं द्वादशशतदानेनेति चेत् सत्यम् । पूर्वस्मिन्नेव प्रयोगे सर्वस्वं दातव्यं प्रयोगान्तरे च न तस्यानुग्रहः सम्भवति । वचनात्तु प्रयोगान्तरे निक्षिप्यते । इदं हि वचनं यत्पूर्वस्मिन् प्रयोगे दातव्यं प्राप्तं तत आच्छिद्य प्रयोगान्तरे निक्षिपति नतु स्वरूपमेव बाधते । तस्मात्सर्वस्वदानेनैव पुनः कृतावधिकार इति द्विविधोऽपि पूर्वपक्षो निरस्तो भवति । वस्तुतस्तु द्वादशशतस्यापि परेण सर्ववेदसेन न स्वरूपेण बाधः न तु तद्धानिरिति न्यायादिति बोध्यम् । यद्युद्गाता जघन्यः स्यात् । जघनं पश्चाद्देशमर्हतीति जघन्यः । अपच्छिद्येतेति यावत् । तदा आरब्धं प्रयोगमदक्षिणं समाप्य पुनर्यज्ञे पुनः प्रयोगे सर्ववेदसं दद्यात् । यथेतरस्मिन्प्रतिहर्त्रमात्रापच्छेदे यथा सर्वस्वं देयं तथा प्रतिहर्त्रपच्छेदोत्तरभाव्युद्गात्रपच्छेदनिमित्तक-द्वितीयप्रयोगेऽपि सर्वस्वं देयमिति सूत्रार्थः ।
तस्य प्रयोगान्तरे निक्षेप इति । तस्य सर्वस्वदानस्य पूर्वस्मिन्प्रयोगे कर्तव्यत्वेन प्राप्तस्य वचनेन प्रयोगान्तरे निक्षेप एव क्रियते न तु स्वरूपमेव बाध्यत इत्यर्थः । एतेन ऋत्विग्विच्छेदे सर्वस्वदान-कर्तव्यताबुद्धौ ऋत्विग्विच्छेदान्तरनिमित्तादक्षिणायागसमाप्तिविज्ञानबाधितायां सर्वस्वदानकर्तव्यताऽत्र प्रतिपन्नाऽन्यत्र सतीति कल्प्यते । तद्वदख्यातिनये अन्यथाख्यातिनये वा प्रतिपन्नोपाधौ निषिद्धस्य नान्यत्र सत्वमाश्रयणीयमिति विवरणोक्तमपहस्तितम् । प्रथमप्राप्तप्रतिहर्त्रपच्छेदपरिप्रापितसर्वस्वदान-कर्तव्यतायाश्चरमप्राप्तोद्गातृविच्छेदनिमित्तादक्षिणयागसमाप्तिविज्ञानेन तत्राप्राप्तावपि प्रयोगान्तरे तत्प्राप्तेः समाश्रयणात् । शुक्त्यध्यस्तनिषिद्धरजतस्य तु प्रमाणाभावेनान्यत्राप्राप्तिः । उक्तं स्वरूपाबाध्यत्वमेव निदर्शनेनोपपादयति । अपि चेति । नहीति । यथा बदरफले पूर्वश्यामत्वविज्ञानस्य पश्चात्तनरक्तत्वाव-गमेनाप्रामाण्यं तथा पूर्वस्याप्रामाण्यं परेेणेत्यर्थः । उक्तमर्थमुपसंहरन् संगृह्णाति । तस्मात्पौर्वापर्यमिति । यत्र नियमात्पौर्वापर्यं नैवास्ति विरोधश्च नैवास्ति पूर्वाप्रामाण्यं नैवास्ति तत्रापच्छेदनय इत्यर्थः ।
एतेनोद्गात्रपच्छेदनिमित्तादक्षिणायागेन परेण प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणायागस्य पूर्वसिद्ध-निमित्तकस्य यथा बाधस्तथाऽप्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः स्यादिति निरस्तम् । उपजीव्यप्रत्यक्ष-विरोधेनापच्छेदनयाविषयत्वस्य प्रागेवोक्तत्वात् । औतागमस्य मिथ्वात्वावगाहिनस्तद्विरोधेनानुत्थानात् । मन्मतेनाद्वैतागमस्य प्रपञ्चमिथ्यात्वानावेदकत्वेनाविरोधितया प्रत्यक्षप्रामाण्याविघातात् । अपच्छेदन्याय-साम्यापत्तावपि बदरफले क्रमिकनिमित्तवतोः श्मामरक्तरूपयोरिवायावद्रव्यभाविवियदादेः क्वाचित्कत्व-सम्भवात्तत्कारणस्य भूतसूक्ष्मादेर्नित्यत्वोपपत्तेश्च ।
यद्वा नियमादित्यप्रामाण्येन सम्बध्यते । नास्ति नापादयितुं शक्यते इत्यर्थः । तदयमर्थः । क्रमिकैकविषयकप्रवृत्तियुक्तविरुद्धपूर्वकालीनानापादनीयनियताप्रामाण्यकमानजन्यविज्ञानं तदवधिकोत्तर-कालप्रवृत्तमानजन्यविज्ञानेन बाध्यत इति । यथाश्रुते स्वमते प्रत्यक्षागमयोरपच्छेदन्यायोपपत्तेः । क्रमिकपाठावगतविकल्पस्थलेऽपच्छेदन्यायो मा भूदिति युक्तान्तम् । तच्च विरुद्धविशेषणम् । क्रमिकानुष्ठानेष्वाग्नेयादिषु तत्प्रसङ्गवारणाय विरुद्धेत्युक्तम् । एको देव इत्यादिसगुणनिर्गुणवाक्ये तत्प्रसङ्गवारणाय तृतीयं विशेषणम् । न च नियमोऽधिकः । तदनुक्तावुपक्रान्तप्रयोगे प्रतिहर्त्रपच्छेदयुक्ते प्राप्तस्य सर्वस्य दक्षिणाविज्ञानस्य प्रतिहर्त्रपच्छेदोत्तरभाव्युद्गात्रपच्छेदेन बाधिततया प्रमाणत्वेनापच्छेद-न्यायोऽसम्भवदुक्तिक एव स्यात् । नियमादित्युक्तौ तु नासम्भवः । सर्वस्व दक्षिणादानस्य प्रयोगान्तरेऽनुग्रहेण नियताप्रामाण्यस्याभावात् । यदा तु बदरफलश्यामरक्तरूपविज्ञानवत्स्वर्वस्व-दाक्षिण्यादाक्षिण्यविज्ञानस्य क्रतुविशेषकस्य कालभेदावगाहिनो नायथात्वमिति पक्षस्तदा नियमादिति न वक्तव्यमेवेति सर्वमनवद्यम् ।
न्यायामृतसौगन्ध्यम्
ननु अपच्छेदन्यायेनागमेन पूर्वस्याक्षस्य बाधः । तथा हि उद्गात्रपच्छेदनिमित्तादक्षिणयागेन परेण प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणयागस्य पूर्वस्य बाध इति चेन्न । वैषम्यात् । तथा हि । प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणयागः, प्रतिहर्तृमात्रापच्छेदे, युगपदपच्छेदे, क्रमेणापच्छेदेऽपि प्रतिहर्त्रपच्छेदस्य पश्चात्वे च सावकाश इति युक्तः पूर्वस्य परेण बाधः । अत एव द्वयोर्युगपदपच्छेदे विकल्प उक्तः । किञ्च यद्युद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन्नित्यधिकरणे उद्गात्रपच्छेदस्य प्रतिहर्त्रपच्छेदात्परत्वे उद्गात्रपच्छेदनिमित्तं पूर्वप्रयोगं दक्षिणाहीनं समाप्य कर्तव्य-ज्योतिष्टोमस्य द्वितीयप्रयोगे तद्दद्याद्यत्सर्वमस्मिन् दास्यन् स्यात् इति श्रुत्युक्ता या दक्षिणा सा पूर्वभाविप्रतिहर्त्रपच्छेदनिमित्तकपूर्वप्रयोगस्थसर्वस्वदित्साया अबाधेन सर्वस्वरूपैव न तु या ज्योतिष्टोमे नित्या द्वादशशतरूपा । तस्मान्न प्रतिहर्त्रपच्छेदकस्य सर्वथा बाधः । किन्तु प्रयोगान्तरे निक्षेप इत्युक्तम् । उक्तं हि टुप्टीकायां– तस्य प्रयोगान्तरे निक्षेप इति । अपि च क्रमिकनिमित्तद्वयेन क्रमेणादक्षिणसर्वस्वदक्षिणयोः प्रयोगयोः सम्भवेन विरोध एव नास्ति । यथा बदरफले क्रमिक-निमित्तवतोः श्यामरक्तरूपयोः । उक्तं हि अपच्छेदाधिकरणे नैमित्तकशास्त्रस्य ह्ययमर्थो यन्निमित्तो यज्जननात्प्रागन्यथा कर्तव्योऽपि क्रतुर्निमित्ते सत्येव कर्तव्य इति तस्मादपच्छेदन्यायः सावकाशविषयः । औतागमेन प्रत्यक्षबाधे तु न प्रत्यक्षप्रामाण्यस्यावकाशः । न च व्यावहारिकप्रामाण्ये प्रत्यक्ष-स्याप्यवकाशः । यथैकप्रयोगे तत्र विरोधस्तथा तात्विकप्रामाण्ये विरोध इति वाच्यम् । व्यावहारिक-प्रामाण्यमित्यप्रामाण्यस्यैव नामान्तरत्वात् । कालत्रयनिषिद्धार्थस्य कदापि वास्तवसत्वाभावेन तन्मात्रविषयकप्रत्यक्षस्य प्रामाण्यासम्भवात् । यत्तूक्तरीत्या प्रयोगान्तरे निक्षेपात् तदङ्गमेवेति पूर्वप्रयोगाङ्गत्वं तस्याः सर्वथा बाधितत्वमेवेति । तन्न अनवबोधात् । न हि प्रयोगे तस्या अबाधः केनाप्युक्तः । किन्तु प्रयोगान्तरपूर्वनिक्षेपेण तच्छास्त्रस्य प्रामाण्यं व्यवस्थाप्यते इत्येवोक्तम् । त्वन्मते तु सत्त्वग्राहकमानस्य सर्वथाऽप्रामाण्यमेवेति वैषम्यात् । तदुक्तं शास्त्रदीपिकायाम् ‘‘न ह्युद्गात्रपच्छेदेन पूर्वदक्षिणा बाध्यते । किं तर्हि पूर्वस्मिन्प्रयोगे दातव्या सती या दक्षिणा तत उत्कृष्य उत्तरस्मिन् प्रयोगे निक्षिप्यते’’ इति ।
यत्तु नानेन वाक्येनाविरोधः प्रतिपाद्यते किन्तु बाध्यबाधकभावः । पूर्वं परस्य बाध्यं न तु परं पूर्वस्येति सयुक्तिकमुपपाद्य, नैमित्तिकेन नित्यबाधं दृष्टान्तयितुं शास्त्रदीपिकादौ प्रकृतवाक्यस्योक्त-त्वात् । अत एव यथा नित्यमित्याद्यग्रिमग्रन्थो दृष्टान्तबोधकः । तथा च निमित्तं यत्र न जातं तत्रान्यथा कर्तव्योऽपि क्रतुः, यत्र तज्जातं तत्रान्यथा क्रियते इत्येकेनोक्तवाक्ये नित्यनैमित्तिक-शास्त्रयोर्व्यवस्थितविषयकत्वसम्भव एव बाध्यबाधकभावप्रदर्शनायोक्तो बदरफलदृष्टान्तस्तु विषमः । तत्र कालभेदावच्छेदेन श्यामरक्तत्वज्ञानयोरबाध्यबाधकत्वात् । प्रकृते चैकस्मिन्प्रयोगे एकदा सर्वदक्षिणात्वादक्षिणत्वज्ञानयोर्बाध्यबाधकत्वस्यावश्यकत्वात् । यदा दक्षिणा प्रसक्ता तदा निर्दक्षिणात्वस्य शास्त्रार्थत्वादिति । तन्न । निमित्ताभावविशिष्ट एव तस्य प्रामाण्यात् । निमित्तविशिष्टे प्रयोगे तत्प्रामाण्यभ्रमनिर्वतनस्यैव बाधपदार्थत्वात् । प्रत्यक्षस्य श्रुतिबाधितस्य तत्समसत्ताक-प्रामाण्याभावेन वैषम्यस्य निराबाधात् । बदरेत्यादिकं तु युक्तमेव । अत्रापि कालभेदेनोभयोः प्रामाण्यात् । यदा तु निमित्तान्तरं नास्ति तदा तस्य तस्मिन्नेव प्रयोगे प्रामाण्यम् । यदा तु तदस्ति तदा तत्र तस्य प्रामाण्यभ्रम एवेत्यतस्तन्निवृत्य प्रयोगान्तरे तस्य प्रामाण्यं हि व्यवस्थाप्यत इति ग्रन्थतात्पर्यात् ।
न्यायामृतमाधुरी
अपच्छेदन्यायेनेति । षष्ठस्य पञ्चमे पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवदित्यधिकरणे चिन्तितम् । अध्वर्र्यंु विनिष्क्रामन्तं प्रस्तोता सन्तनुयात्तं प्रतिहर्ता तमुद्गाता तं ब्रह्मा तं यजमान इत्यध्वर्यादिकच्छं धृत्वा प्रस्तोत्रादीनां गमनं बहिष्पवमानस्तोत्रार्थं ज्योतिष्टोमे उक्तम् । तत्र विभागे प्रायश्चित्तमुक्तम् । यदि प्रस्तोताऽपच्छिन्द्याद्ब्रह्मणे वरं दद्यात् । यदि प्रतिहर्ता अपच्छिद्येत सर्ववेदसं दद्यात् । यद्युद्गाता अदक्षिणं यज्ञमिष्ट्वातेन पुनर्यजेत । तत्र तद्दद्यात् यत्पूर्वस्मिन् दास्यन् स्यादिति । तत्र क्रमेण प्रतिहर्त्रुद्गात्रपच्छेदे किं पूर्वनिमित्तकं सर्वस्वदक्षिणारूपं प्रायश्चित्तमनुष्टेयमुतोत्तरनिमित्तको अदक्षिणो यागः कर्तव्य इति चिन्तायां पूर्वस्यासञ्जातविरोधित्वेन प्राबल्यात् प्रतिहर्त्रपच्छेदानिमित्तकं सर्वस्व-दक्षिणारूपं प्रायश्चित्तमनुष्ठेयमिति पूर्वपक्षे ‘‘नानुपमृद्य पूर्वं तद्विरोध्युत्तरमुत्पत्तुमर्हति’’ इति न्यायेन पूर्वोपमर्देन परप्राबल्यस्यैव न्याय्यत्वात् उद्गात्रपच्छेदनिमित्तकोऽदक्षिणो यागः कर्तव्य इति सिद्धान्तितम् । पौर्वापर्ये परनिरपेक्षापच्छेदनिमित्तकविरुद्धप्रायश्चित्तकर्तव्यताग्राहकप्रमाणयोः पूर्वापरीभूतत्वेनोत्पत्तौ पूर्वदौर्बल्यं पूर्वोत्पन्नप्रमाणस्य दौर्बल्यं पश्चादुत्पन्नप्रमाणेन बाध्यते । प्रकृति-वदिति श्येनयागादिरूपविकृतिप्रकरणपठितं शरमयं बर्हिरित्यादिवाक्यं ज्योतिष्टोमादिप्रकृतिगताङ्ग-कलापातिदेशरूपात्प्रकृतिवत् कुर्यादिति श्येनयागादिरूपवाक्यात् पश्चात् प्रवर्तते । तत्प्रापितबर्हिरादि-कार्यमुद्दिश्य शरादिविधायकत्वात् तेन यथा पूर्वप्रवृत्तं कुशादिप्रापकत्वांशे बोध्यते तथेति सूत्रार्थः ।
अपच्छेदे उद्गात्रपच्छेदे । पूर्वं प्रतिहर्त्रपच्छेदः । पश्चात्तनेनोपजीवकेन प्राक्तनस्योपजीव्यस्य बाधदर्शनात्प्रकृतेऽपि तथा स्यादिति शङ्कानुदय इत्यर्थः । अत्यन्तबाध इति । विषयान्तरानवकाशेन प्रामाण्यस्य दुरुपपादतया अप्रामाण्यरूप इत्यर्थः । विषयान्तरस्य त्रिधा सूपपादतया प्रामाण्यं सङ्गच्छत इत्याह– प्रति इत्यादिक सम्भवादित्यन्तेन । प्रथमद्वितीयतुरीयसप्तम्यन्तेनान्वीय्यन्ते । तृतीयसप्तम्यन्तु तृतीयविषयशेषभूतम् । क्रमेणेति । यद्यप्यनेन प्रतिहर्त्रपच्छेदानन्तर्येणोद्गात्रपच्छेद इति भाति । तथा सति प्रतिहर्त्रपच्छेदस्य पश्चात्तनत्वं दुरुपपादम् । तथापि पूर्वापरीभावमात्रस्य क्रमत्वा-शयेन तस्य पश्चात्तनोक्तिः । प्रतिहर्त्रुद्गात्रोर्युगपदपच्छेदेऽपि प्रामाण्यं घटयति । अत एवेति । ‘तत्र प्रतिषेधाद्विकल्पः स्यादि’ति षष्ठे अपच्छेदयोर्यौगपद्ये प्रायश्चित्तद्वयं समुच्चीयते उत विकल्प्यत इति चिन्तायां प्रयोगद्वये प्रायश्चित्तद्वयस्य व्यवस्थासङ्गमनसम्भवेन समुच्चय इति पूर्वपक्षे प्राप्ते यस्मिन्नेव प्रयोगे निमित्तं तत्रैव नैमित्तिकप्रायश्चित्तद्वयं कर्तव्यमित्यवगमेन प्रयोगान्तरे निवेशनानर्हतया विरोधेन यौगपद्यायोगाद्विकल्पः सिद्धान्तितम् । प्रयोगान्तरे निवेशनानर्हतया विरोधेन यौगपद्यायोगाद्विकल्प इति सिद्धान्तितम् । प्रयोगान्तरे निवेशेनापि तच्छास्त्रप्रामाण्यं सङ्गच्छत इत्याह ।। किञ्चेति । षष्ठे ‘‘यद्युद्गाता जघन्यः स्यात्पुुनर्यज्ञे सर्ववेदसं दद्यात्’’ इत्येव सूत्राक्षरानुपूर्वी । ग्रन्थकृतात्वर्थ-तोऽनूदितमिति ध्येयम् । तत्र प्रतिहर्त्रपच्छेदोत्तरकालीनोद्गात्रपच्छेदे सति पुनरनुष्ठेये किं द्वादशशत्येव देयोत सर्ववेदसद्वादशशत्योर्विकल्पः सर्ववेदसमेव वेति चिन्तायां प्रस्तोत्रादिप्रसर्पणाधिकरणी-भूतपूर्वक्रतुसङ्कल्पकाले या दित्सिता द्वादशशती सैव प्रथमे द्वादशशतीं दास्यान्नासीत्प्रति-हर्त्रर्यपच्छिन्ने सर्ववेदसमुत पुनर्यज्ञे देयेत्येकस्य उभयमपि पुनः प्रयोगे यत्पूर्वस्मिन् दास्यन्स्यादिति शक्यं वक्तुं तस्माद्विकल्प इति द्वितीयस्य च पूर्वपक्षस्य प्राप्तौ पूर्वक्रतुसंकल्पकाले दित्सिता द्वादशशती परेण प्रतिहर्त्रपच्छेदनिमित्तसर्ववेदसेन बाधितेति वाच्यम् । प्रतिहर्त्रपच्छेदनिमित्त-सर्वस्वदक्षिणायाः प्रयोगान्तरे निवेशनोपपत्तेरिति सिद्धान्तितम् । विभिन्नकालावच्छेदेन बदरफलादा-वुत्पद्यमानश्यामरक्तरूपद्वयावगाहिज्ञानद्वयस्यैवैकस्मिन् क्रतौ क्रमेणोत्पत्स्यमाननिमित्तद्वयापादित-नैमित्तिककर्तव्यताप्रमापकशास्त्रद्वयस्यापि प्रामाण्यं सङ्गच्छत इत्याशयेनाह अपि चेत्यादि ।