न चाननुवादकत्वेऽपि बाध्यव्यावहारिकभेदपरा श्रुतिः, अप्रामाण्यापातात्
२३. भेदश्रुतेर्व्यावहारिकभेदपरत्वभङ्गः
न्यायामृतम्
न चाननुवादकत्वेऽपि बाध्यव्यावहारिकभेदपरा श्रुतिः, अप्रामाण्यापातात् । न चाभेदश्रुतिविरोधात्त दिष्टम् । तस्या लक्षणया अखण्डचिन्मात्रपरत्वेन भेदाविरोधित्वाद्, वैपरीत्यस्यापि सुवचत्वाच्च । यदि तु भेदश्रुतिः प्रत्यक्षप्राप्तार्थत्वाद् दुर्बला, तह्यैक्य-श्रुतिरपि तद्विरुद्धत्वात्तथा स्यात्, मानान्तरप्राप्तिवत् तद्विरोधस्यापि दौर्बल्यहेतुत्वात् । यदि चैक्यश्रुतिः प्रत्यक्षाविरुद्धैक्यपरा, तर्हि भेदश्रुतिरपि तदसिद्धत्रिकाला-बाध्यभेदपराऽस्तु । न च षड्विधतात्पर्यलिङ्गवत्त्वादैक्यश्रुतिः प्रबला, लिङ्गानां तात्पर्यमात्रज्ञापकत्वेनार्थतथात्वाज्ञापकत्वात् । स्वीकृतं च भेदश्रुतेरनुवादकत्वं त्यजता त्वयापि भेदपरत्वम् । अस्ति चात्रापि अत्ति, अनशन्न्, पूर्णः परो जीवसंघो ह्यपूर्ण इत्याद्युपपत्तिरूपं, सत्यं भिदा सत्यं भिदेत्यादावभ्यासरूपं च तात्पर्यलिङ्गम् । तद्बहुत्वं च त्वत्पक्षे प्रमाणसम्प्लववद् व्यर्थमित्युक्तम् । वक्ष्यते च भेदश्रुतेरपि षड्विध-लिङ्गवत्ता । निषेधवाक्यत्वाद् ऐक्यश्रुतिः प्रबलेति तु निरस्तम् । किं च भेद एवैक्य-निषेधरूपः ।
किञ्च भेदश्रुतिरेव प्रबला, अनुपसञ्जातविरोधित्वात्, प्रत्यक्षादिसंवादात्, निरव-काशत्वाच्च ।
उक्तं हि–
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।
सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टतः ।। इति ।
किञ्चायं भेदो न व्यावहारिकः । मुक्तावपि भेदस्य स्मृतेः श्रुतेश्च । न च सा मुक्तिरवान्तरा ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।।
इत्यादिस्मृतौ सर्गाद्यभावोक्तेः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राभरणाः सुपेशसः ।
इति स्मृतौ १मायानिषेधाच्च ।
यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता ।।
इत्यत्र शुद्धब्रह्मज्ञानफलत्वोक्तेश्च । त्वयापि शुद्धब्रह्मविषयत्वेन स्वीकृताया भूमविद्यायाः फलोक्त्यवसरे ‘तस्य सर्वेषु लोकेषु कामचारो भवति, ‘स एकधा भवति त्रिधा भवति पञ्चधा भवति सप्तधा’ इति भेदोक्तेश्च । ‘परं ज्योतिरुपसम्पद्य स्वेन रुपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादौ स्वरूपाभि-व्यक्त्युक्तेश्च । ‘तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इत्यत्र कर्मक्षयोक्तेश्च ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ।।
इत्यादौ भेदज्ञानान्मोक्षोक्तेश्च । त्वन्मतेऽपि भेदभोगादिपरेषु फलाध्यायान्त्य-पादस्थेषु ‘जगद्व्यापारवर्जं, ‘सङ्कल्पादेव च तत् श्रुतेः’ ‘भोगमात्रसाम्यलिङ्गाच्च’ इत्यादिसूत्रेषु प्रकान्तशुद्धब्रह्मविद्याफलस्यैव वक्तव्यत्वाच्च ।। इति भेदश्रुतेर्व्यावहारिक-भेदपरत्वभङ्गः ।। २३ ।।
अद्वैतसिद्धि:
अथवाऽनुवादकत्वाभावेऽपि व्यावहारिकभेदपरत्वेनैव श्रुत्युपपत्तिः । न चाप्रामाण्यापातः । अर्थवादवाक्यवदुपपत्तेः । प्रतीयमानार्थे चाभेदश्रुतिविरोधेनाप्रामाण्यस्येष्टत्वाच्च । न चाभेदश्रुतेर-खण्डचिन्मात्रपरत्वेन भेदाविरोधित्वम् । तद्द्वारीभूतार्थमादाय तद्विरोधात् । नापि वैपरीत्यम् । प्राप्ता-प्राप्तार्थत्वाभ्यां विशेषात् । न च ऐक्यश्रुतेरपि प्रत्यक्षविरुद्धत्वाद् अप्रामाण्यम् । मानान्तरप्राप्तिवत् तद्विरोधस्यापि दौर्बल्यहेतुत्वादिति वाच्यम् । विरोधे विरोधिनो मानत्ववद् अनुवादकत्वोपपादकस्य मानताया अनपेक्षितत्वात् । किञ्च षड्विधतात्पर्यलिङ्गवत्त्वाद् ऐक्यश्रुतेः प्राबल्यम् । न च– तात्पर्यमात्रज्ञापकत्वेन तेषामर्थतथात्वाज्ञापकत्वमिति वाच्यम् । श्रुतेस्तत्परत्वज्ञापनेन परम्परयोप-योगात्, एतद्विरुद्धश्रुतेः श्रूयमाणेऽर्थे तात्पर्याभावसम्पादनेनाधिकबलसम्पादकत्वाच्च । न च अत्रापि ‘स्वाद्वत्ति अनशन्नन्यः, पूर्णः परः जीवसङ्घो ह्यपूर्णः’ इत्याद्युपपत्तिरूपं ‘सत्यं भिदा सत्यं भिदा सत्यं भिदा’ इत्यभ्यासादिरूपं तात्पर्यलिङ्गम् अस्तीति भेदश्रुतिरपि तत्परेति वाच्यम् । अत्तीति अपूर्ण इति च जीवानुवादेन तस्य पूर्णब्रह्मरूपताविधानार्थत्वेन भेदोपपत्तित्वाभावात् । सत्यं भिदेति न भेदाभ्यासः । एतद्वाक्यस्याप्रामाणिकत्वात् । प्रामाणिकत्वे वा बाधायां सामानाधिकरण्येनाभेदे पर्यवसानात् ।
ननु– भेदश्रुतिरेव प्रबला, ‘असञ्जातविरोधित्वात् प्रत्यक्षादिसंवादान्निरवकाशत्वाच्चेति चेन्न, अभेदश्रुतिरूपविरोधिनो जातत्वात्, प्रत्यक्षादेरप्रमाणत्वेन तत्संवादस्य प्राबल्याप्रयोजकत्वात्, शतमप्यन्धानामिति न्यायाद्, व्यावहारिकभेदविषयत्वेन सावकाशत्वाच्च । ननु– नायं भेदो व्यावहारिकः, मुक्तावपि भेदस्य श्रुतिस्मृतिभ्यां सिद्धेरिति चेन्न, तस्या मुक्तेरवान्तरत्वात् । ननु–
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। इत्यादिस्मृतौ सर्गाद्यभावोक्तेः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।। इति स्मृतौ मायानिषेधाच्च ।
यो वेद निहितं गुहायां सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ इत्यत्र शुद्धब्रह्म-ज्ञानफलत्वोक्तेश्च । त्वयापि शुद्धब्रह्मविषयत्वेन स्वीकृतायाः भूमविद्यायाः फलोक्त्यवसरे ‘तस्य सर्वेषु लोकेषु कामचारो भवति पञ्चधा सप्तधा’ इत्यादिभेदोक्तेः ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि-निष्पद्यते’ ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादौ स्वरूपाभिव्यक्त्युक्तेश्च ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इत्यत्र कर्मक्षयोक्तेश्च । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ इत्यादौ भेदज्ञानान्मोक्षोक्तेश्च । त्वन्मतेऽपि भेदभोगादिफलेषु फलाध्यायान्त्यपादस्थेषु ‘जगद्व्यापारवर्जम्’ ‘सङ्कल्पादेव तु तच्छ्रुतेः’ ‘भोगमात्रसाम्यलिङ्गाच्च’ इति सूत्रेषु प्रक्रान्तशुद्धब्रह्मविद्याफलस्यैव वक्तव्यत्वाच्च परममुक्तित्वमेवेति चेन्न, सगुणोपासनया ब्रह्मलोकं गतस्यापि ‘न स पुनरावर्तते’ इत्यादिश्रुत्या दैनन्दिनसर्गाद्यसम्बन्धस्य प्रतिपादनेनावान्तरमुक्तावप्युपपत्तेः । ‘न तत्र माये ’त्यादिस्मृतौ च मायाशब्दस्य मात्सर्यादिपरत्वेन मूलमायाविरहाप्रतीतेः । अन्यथा श्यामावदातत्वादिति विरोधापत्तेः । ‘यो वेद निहितम्’ इत्यत्र शुद्धब्रह्मज्ञानफलभूता या सर्वकामावाप्तिः, सा न वैषयिकभोगरूपा, किन्तु सर्ववैषयिकसुखानाम् । ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुत्या ब्रह्मानन्देऽन्त-र्भावोक्तेस्तदभिप्रायेति न तद्वलान्नानाकामावाप्तेः शुद्धज्ञानफलत्वम् । भूमविद्याफलोक्त्यवसरे सर्वलोक-कामचारानेकधाभावादेः फलस्य भूमविद्यावाक्योपक्रमे प्राणविद्याफलत्वेनोक्तस्य ज्योतिष्टोमप्रकरणे श्रूयमाणाहीनद्वादशोपसत्तावत् निर्गुणविद्यास्तावकत्वेनाप्युपपत्तेः । स्वयंज्योतिरित्यादौ जक्षणप्रभृतीनां भेदगर्भत्वेन जक्षन्निव क्रीडन्निवेत्यादिबाधितत्वविवक्षया परममुक्तेस्तत्रोक्त्या त्वदभिमतभेदगर्भक्रीडादीनां परममुक्तित्वाभावात् । ‘पुण्यपापे विधूय’ इत्यत्र परमसाम्यस्यैक्यरूपतया कर्मक्षयस्य ऐक्यरूपमुक्ति-फलतया भेदगर्भमुक्तिफलत्वाभावात् । जुष्टमित्यत्रान्यपदस्य देहेन्द्रियादिविलक्षणात्मपरत्वेन जीवेश-परत्वाभावात् । तथा च भेदज्ञानस्य मोक्षहेतुत्वम् अतोऽवगम्यते मन्मते भेदभोगादिपरेषु ‘सङ्कल्पादेव तच्छुतेः’ इत्यारभ्याध्यायपरिसमाप्तिपर्यन्ताधिकरणेषु सगुणविद्याफलस्य उक्ततया शुद्धब्रह्मविद्या-फलाप्रतिपादकत्वात् । तस्मात् परममुक्तौ भेदस्याप्रसक्तेः व्यावहारिकत्वोपपत्त्या भेदश्रुतेर्व्यावहारिकपरत्वं स्थितम् । इत्यद्वैतसिद्धौ भेदश्रुतेर्व्यावहारिकभेदपरत्वोपपत्तिः ।। २३ ।।
न्यायामृततरङ्गिणी
।। सर्गाद्यभावोक्तेरिति ।। न चात्र दैनन्दिनसर्गाद्यसम्बन्धप्रतिपादनेनावान्तर-मुक्तावप्युपपत्तिः । सामान्यतः सर्गप्रलयमात्रनिषेधश्रवणात् ।। मायानिषेधाच्चेति ।। न च मायाशब्दो मात्सर्यादिपरः न मूलमायापरः । मुख्यार्थहानेः । किमुतापर इति कैमुत्येन सत्त्वादिराहित्योक्तेश्च ।। शुद्धब्रह्मज्ञानफलत्वोक्तेश्चेति ।। न चात्र सर्ववैषयिकसुखानां ब्रह्मानन्देऽन्तर्भावकथनपरत्वान्नैतद्बलेन नानाकामावाप्तिः शुद्धज्ञानफलम् । तस्यापदार्थत्वाद् अवाक्यार्थत्वाच्च ।। त्वयापीति ।। न च भूमविद्यावाक्योपक्रमोक्तप्राणविद्याफलमिदं न तु भूमविद्याया इति वाच्यम् । भूमविद्याफलोक्त्यवसरे उक्तत्वात् । न चेदं भूमविद्यास्तुतिमात्रं न तु फलोक्तिरिति वाच्यम् ।
न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ।।
इति, ‘स एकधा भवति’ इत्याद्युक्त्वा सर्वग्रन्थीनां विप्रमोक्ष इत्यादिनोक्तानां मृत्युराहित्यादीनामप्यफलत्वापत्तेः ।। परं ज्योतिरिति ।। न चात्र जक्षणप्रभृतीनामिव गर्भत्वेन त्वदभिमतभेदगर्भक्रीडादीनां परममुक्तिफलत्वाभाव इति वाच्यम् । इवशब्दाश्रवणात् । स उत्तमपुरुष इत्युत्तमत्वस्यापि तत्रोक्तस्यासिध्द्यापाताच्च ।। तदा विद्वानिति ।। साम्य-पदोदितभेदस्य कर्मक्षयरूपपरममुक्तिसमानकालीनत्वमुच्यते । न च परमसाम्यमैक्यमेव । अशब्दार्थत्वात् ।। जुष्टमिति ।। न च देहान्यत्वमेवान्यशब्दार्थः । सङ्कोचे मानाभावात् । अन्यशब्दस्यान्यत्रैव प्रसिद्धेश्च । तथा च भेदज्ञानस्य शोकापायरूपमोक्षहेतुत्वम् अवगम्यते ।। ।। भेदश्रुतेर्व्यावहारिकभेदपरत्वभङ्गः ।। २३ ।।
न्यायामृतकण्टकोद्धारः
ननूक्तश्रुतीनाम् अननुवादकत्वेऽपि नाभीष्टसिद्धिः । श्रुतिप्रतिपाद्यस्य भेदस्यातात्विकत्वे प्रमाणाभावात् । तात्विकत्वे चैक्यश्रुतिविरोधस्य सद्भावादित्याशङ्क्य निषेधति– न चेति । अत्र व्यावहारिकशब्देन व्यवहारनिर्वाहकत्वं विवक्षितं, ब्रह्मज्ञानबाध्यत्वं वा ? नाद्यः । इष्टापत्तेः । न द्वितीय इत्याह– अप्रामाण्येति । न च यथा अर्थवादानां प्रतीतार्थे प्रामाण्याभावेऽपि विध्यर्थे तात्पर्यान्नाप्रामाण्यं, तथा भेदश्रुतीनामपि भेदेऽप्रामाण्येऽपि औते तात्पर्यात् प्रामाण्यमिति वाच्यम् । अर्थवादानां स्वार्थेऽपि तात्पर्यप्रामाण्ययोरावश्यकत्वात् । अन्यथा ततो देवतादिसिद्धिर्न स्यात् । बाधकाभावेन प्रतीतार्थत्यागायोगात् । अन्यथाऽद्वैतमर्थो न स्यात् । नन्वैक्यश्रुतिरेव बाधिकेत्यत आह– न चेति । तस्या इति । न च लाक्षणिकार्थ-विरोधाभावेऽपि द्वारीभूतार्थविरोधाद् अप्रामाण्यं भेदश्रुतेरिति वाच्यम् । ऐक्यश्रुतेर्द्वारीभूतेऽर्थे तात्पर्याभावेन द्वैतश्रुतिविरुद्धत्वेनाप्रामाणिकत्वेन तद्विरोधेन भेदश्रुतेरप्रामाण्यायोगात् । तत्रापि तात्पर्येऽखण्डार्थत्वविरोधात् । ननु कथं वैपरीत्यम् ? भेदश्रुतेः प्राप्तार्थत्वेन दुर्बलत्वात् इत्यत आह– यदि त्विति । तद्विरोधस्यापीति । न च विरोधे विरोधिनो मानत्ववद् अनुवादेऽनु-वादकस्य मानत्वं नापेक्षितमिति वाच्यम् । प्रमाणस्यानुवादकत्वेऽनुवादकस्य मानत्वस्यावश्य-कत्वात् । प्रमाणाप्रमाणयोरेकविषयकत्वायोगादित्युक्तत्वात् ।। लिङ्गानामिति ।
ननु श्रुतितात्पर्यविषयत्वेनार्थतथात्वं, लिङ्गानि च तात्पर्यज्ञापकानीति परम्परया लिङ्गानामपि अर्थतथात्वज्ञापकत्वमिति चेन्न । कर्मकाण्डेऽपि उपक्रमादेरर्थतथात्वज्ञापकता-पत्तेः । न च तत्र तात्पर्यज्ञापकलिङ्गानि न सन्तीति वाच्यम् । तथात्वे पूर्वमीमांसानुपपत्तेः । अन्यथाऽत्राप्यर्थतथात्वज्ञापकतानुपपत्तेः ।
किञ्च श्रुतितात्पर्यविषयत्वेनार्थतथात्वे भेदस्यापि तथात्वं स्यादित्याह– स्वीकृतं चेति । अनुवादकत्वं त्यजता । ऐक्यश्रुतेः प्रत्यक्षविरोधपरिहारायेति शेषः । ननु नानुवादकत्वा-भावस्तात्पर्यज्ञापकः किन्तूपक्रमादय एवेत्यत आह– अस्ति चेति । ननु पूर्णब्रह्मरूपता-विधानार्थम् ‘अत्ती’त्यादि जीवानुवादः क्रियते । अतो नास्य लिङ्गपरत्वमिति चेन्न । सामानाधिकरण्यव्यपदेशाभावेन पूर्णब्रह्मरूपताकथनपरत्वस्यायुक्तत्वात् । विरुद्धधर्मकथनेन लिङ्गपरत्वस्यैवोचितत्वाच्च । अन्यथा ‘एकेन मृत्पिण्डेन’ इत्यादिकमपि मृत्पिण्डादेः सर्वस्य ब्रह्मरूपताविधानार्थम् अनुवादः स्यात् । ननु प्रकृते न लिङ्गबाहुल्यमित्यत आह– तद्बहुत्वं चेति । ननु प्रमाणसम्प्लवस्यानुवादकत्वापादकत्वेन वैयर्थ्यं, तात्पर्यलिङ्गानामनेकत्वेऽपि श्रुतेरनुवादकत्वाभावान्न वैयर्थ्यमित्यत आह– वक्ष्यते चेति । निरस्तमिति । ‘न हिस्यात्’ इत्यादेः, ‘अग्नीषोमीयं पशुमालभेत’ इत्यादितः प्राबल्यापत्तेरित्यादिनेति भावः । किञ्चेति । नन्वनुपसञ्जातविरोधित्वेन प्राबल्ये ‘इदं रजतम्’ इति ज्ञानस्य ‘नेदं रजतम्’ इति ज्ञानात् प्राबल्यं स्यात्, तस्यानुपसञ्जातविरोधित्वात् इति चेन्न । परीक्षितत्वविशिष्टस्य तत्त्वात् । भेदश्रुतिश्चापौरुषेयत्वात् परीक्षितैवेति । प्रत्यक्षादीति । न च संवादोऽनुपयुक्त इति वाच्यम् । तस्य दार्ढ्यहेतुत्वात् । अन्यथा लोकेऽपि तस्यानपेक्षा स्यात् । ननु भेदश्रुतिवदभेदश्रुतिरपि निरवकाशा । अतः कथं निरवकाशत्वेन प्राबल्यम् ? अत आह– उक्तं हीति । स्वातन्त्र्यादिकमादायैक्यप्रयोगाणां बहुलमुपलम्भादिति भावः ।
नन्वेवं भेदश्रुतिरपि व्यावहारिकभेदविषयत्वेन सावकाशा । तथा च कथं तस्या निरव-काशत्वेन प्राबल्यमुच्यत इत्यत आह– किञ्चेति । सर्गादीति । न च सगुणोपासनया ब्रह्मलोकं गतस्य दैनन्दिनसर्गाद्यभाव उच्यत इति नानेन परममुक्तत्वाध्यवसाय इति वाच्यम् । ‘इदं ज्ञानम्’ इति ज्ञानफलत्वेनोक्तस्य सर्गाद्यभावस्य दैनन्दिनत्वायोगात् । न च तत् सगुणज्ञानम्, अतस्तत्फलस्य दैनन्दिनसम्बन्धो युक्त एवेति वाच्यम् । एतदतिरिक्तस्य निर्गुणज्ञानस्याभावात् । न चाखण्डार्थवाक्यजन्यज्ञानं, निष्प्रकारकज्ञानं वा निर्गुणज्ञानमिति वाच्यम् । वाक्यस्याखण्डार्थताया निरासात् । शब्दस्य निष्प्रकारकज्ञानजनकत्वस्यात्य-प्रमाणकत्वात् । न यत्रेति । न च मायाशब्दो मात्सर्यवाचीति वाच्यम् । मात्सर्यार्थग्रहणे मानाभावात् । ‘न यत्र सत्वम्’ इति सत्वादिनिषेधेन तत्साहचर्येण मायाशब्दस्यापि तत्तुल्यार्थकत्वस्यैव न्याय्यत्वात् । अवान्तरमुक्तावपि मात्सर्याभावासम्भवाच्च । न च श्यामावदातत्वाद्यनुपपत्त्या न मायानिषेध इति वाच्यम् । तस्य चिन्मात्रत्वादित्वेन मायान-पेक्षणात् । यथा चैतत् तथा फलपरिच्छेदे वक्ष्यते ।। यो वेदेति । न चेयं श्रुतिर्ब्रह्मज्ञानफले सुखे सर्वसुखानाम् अन्तर्भावपरेति वाच्यम् । अपदार्थत्वात् अवाक्यार्थत्वाच्च ज्ञानफले सुखे सर्वसुखान्तर्भावस्याप्रामाणिकत्वाच्च । न च ‘एतस्यैवानन्दस्य’ इति श्रुतिः प्रमाणमिति वाच्यम् । तस्या ब्रह्मादिजीवानन्दानां ब्रह्मानन्दाधीनत्वपरत्वेनोक्तार्थपरत्वाभावात् । सहशब्द-प्रयोगेण स्पष्टप्रतीतजीवब्रह्मभेदपरत्वत्यागे कारणाभावाच्च । भूमेति ।
ननु सर्वलोककामचारत्वादिकं भूमविद्यायाः प्रथमायाः प्राणविद्यायाः फलमेव । भूमविद्यायां तु तत्कथनं भूमविद्यास्तावकत्वेन । यथा ज्योतिष्टोमप्रकरणे द्वादशोपसत्ताकथन-मिति चेन्न । तत्रोपसदस्त्रित्ववदत्र भूमविद्यायाः फलान्तरस्यानिर्णयेनोक्तफलत्वस्यैव न्याय्यत्वात् । न हि भूमविद्यानन्तरमेव ‘एवं विदित’ इत्यादिनोक्तस्य न फलत्वमपि तु अन्यत् फलमिति युक्तिमत् । प्राणविद्याया अपि ‘अत एव प्राणः’ इत्युक्तन्यायेन ब्रह्मविद्यात्वसम्भवेनाब्रह्मविद्यात्वासम्भवात् । तत्फलत्वे च तद्विद्योक्तित्यागे कारणाभावाच्च । परं ज्योतिरिति । सर्वत्र परममुक्तित्वं ज्ञायत इति शेषः । स्वरूपाभिव्यक्तेरन्यत्राभावादिति भावः । यद्यप्यवान्तरमुक्तावपि स्वरूपाभिव्यक्तिरस्ति तथापि सम्पूर्णाभिव्यक्तेरेव मुख्यत्वेन मुख्यग्रहणस्य न्याय्यत्वात् । न च जक्षणादीनामिव गर्भतेति वाच्यम् । बाधकान्तराभावात् । अन्यथा त्वदभिप्रेतमहावाक्येऽपि तदापत्तेः । तदेति ।
नन्वत्र परममुक्तिफलकर्मक्षयोक्तावपि नात्र भेदोक्तिः । परमसाम्यशब्देनैक्यस्यैवोक्त-त्वादिति चेन्न । परमसाम्यशब्दस्य वैलक्षण्यविशिष्ट बहुसादृश्य एव प्रयोगेण सर्वथैक्ये कदाप्यप्रयोगेण तेनैक्याप्राप्तेर्भेदगर्भसादृश्यस्यैव प्राप्तेश्च । त्वया सगुणज्ञानस्य परममुक्ति-साधनत्वानङ्गीकारेण यदेति पूर्वार्धे कर्तृत्वादिविशिष्टसगुणस्यैवोक्त्या तत्फलस्य परमसाम्यस्य भेदगर्भसाम्यस्यैव वक्तव्यत्वाच्च । अन्यथा ‘स एव भवति’ इत्युक्तिमपहाय गुरूक्तिर्न स्यात् । जुष्टमिति । अत्रायं प्रयोगः– ‘जीवब्रह्मभेदो न व्यावहारिकः, मोक्षसाधनज्ञानविषयत्वात्, ब्रह्मवत्’ इति । हेतुसिद्धिश्चोक्तश्रुतेरिति भावः । नन्वत्रान्यपृथक्शब्दाभ्यां न जीवप्रतियोगिको भेदोऽभिधीयते किन्तु जडप्रतियोगिक इति वाच्यम् । तथापि भेदसत्यत्वापरिहारात् । पश्यतीति कर्तृत्वेनोपस्थितस्य जीवस्यैवान्यमित्यत्र प्रतियोगित्वे पदि न्यायेन सम्भवति अनुपस्थितजडप्रतियोगित्वाकल्पनाच्च । ‘एवं पृथक्’ इत्यत्रापि ‘मत्वे’ति मननकर्तृत्वे-नोपस्थितस्य जीवस्यैव प्रतियोगित्वं द्रष्टव्यम् । त्वन्मतेऽपीति । न चेदं सगुणब्रह्मविद्या-फलमेवेति वाच्यम् । प्रकृतपरित्यागाप्रकृतकल्पना प्रसङ्गात् । अत एवाह– प्रक्रान्तेति ।। भेदश्रुतेर्व्यावहारिकभेदपरत्वभङ्गः ।। २३ ।।
न्यायामृतप्रकाशः
प्रत्यक्षाविरुद्धेति ।। चिन्मात्रैक्यपरेत्यर्थः । विरुद्धधर्मावुदाहरति– अत्ति अनश्नन्निति ।। ।। भेदश्रुतेर्व्यावहारिकभेदपरत्वभङ्गविवरणम् ।। २३ ।।
न्यायकल्पलता
।। सर्गाद्यभावोक्तेरिति ।। न चात्र दैनन्दिनसर्गाद्यसम्बन्धप्रतिपादनेनावान्तरमुक्तावप्युपपत्तिः । सामान्यतः सर्गप्रलयमात्रनिषेधश्रवणात् ।। माया(मात्र)निषेधाच्चेति ।। न च मायाशब्दो मात्सर्यादिपरः न मूलमायापरः इति युक्तम् । मुख्यार्थहानेः । सङ्कोचे कारणाभावाच्च । किमुतापर इति कैमुत्येन सत्त्वादिराहित्योक्तेश्च ।। शुद्धब्रह्मज्ञानफलत्वोक्तेश्चेति ।। न चात्र सर्ववैषयिकसुखानां ब्रह्मानन्देऽन्तर्भावकथनपरत्वान्नैतद्बलेन नानाकामावाप्तिः शुद्धज्ञानफलम् । तस्यापदार्थत्वाद् अवाक्यार्थत्वाच्च ।। त्वयापीति ।। न च भूमविद्यावाक्योपक्रमोक्तप्राणविद्याफलमिदं न भूमविद्याया इति देश्यम् । भूमविद्याफलोक्त्यवसरे उक्तत्वात् । न चेदं भूमविद्या स्तुतिमात्रं न तु फलोक्तिरिति वाच्यम् ।
न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ।।
इति, ‘स एकधा भवति’ इत्याद्युक्त्वा सर्वग्रन्थीनां (वि)प्रमोक्ष इत्यादिनोक्तानां मृत्युराहित्या-दीनामप्यफलत्वापत्तेः ।। परं ज्योतिरिति ।। न चात्र जक्षणप्रभृतीनामिव गर्भत्वेन त्वदभिमतभेदगर्भ-क्रीडादीनां परममुक्तिफलत्वाभाव इति वाच्यम् । इवशब्दाश्रवणात् । ‘स उत्तमपुरुषः’ इत्युत्तमत्वस्यापि तत्रोक्तस्यासिध्द्यापाताच्च ।। तदा विद्वानिति ।। साम्यपदोदितभेदस्य कर्मक्षयरूपपरममुक्ति-समानकालीनत्वमुच्यते । न च परमं साम्यमैक्यमेव । अशब्दार्थत्वात् । ‘रुक्मवर्णम्’ इति रूपोपन्यासाच्च ।। जुष्टमिति ।। न च देहाद्यन्यत्व मेवान्यशब्दार्थः । सङ्कोचे मानाभावात् । अन्यशब्दस्यान्यत्रैव प्रसिद्धेश्च । तथा च भेदज्ञानस्य शोकापायरूपमोक्षहेतुत्वम् अवगम्यते ।।
।। इति भेदश्रुतेर्व्यावहारिकभेदपरत्वभङ्गः ।। २३ ।।